०५

पञ्चमः सर्गः ५

वाल्मीकिरुवाच ।

अथोनषोडशे वर्षे वर्तमाने रघूद्वहे ।
रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥ १ ॥

रामस्य काये कार्श्यादि निर्वेदादिह [दादीह] वर्ण्यते ।
राज्ञस्तद्धेतुजिज्ञासा [जिज्ञासोर्वसिष्ठोक्तेः] वसिष्ठोक्तेरुपक्रमः ॥

इत्थं श्रीरामस्य चित्तशुद्धापायानुष्ठानचर्यामुपवर्ण्य तत्फल
वैराग्यादिसाधनसम्पत्तिं विवक्षुरुपक्रमते - अथेति । ऊने चतुर्थांशेन
षोडशे वर्षे वर्तमाने रामः कार्श्य जगामेति चतुर्थेन सम्बन्धः ।
रघूद्वहे इति व्यवहितस्य राज्ञः सन्निहितस्य शत्रुघ्नस्य लक्ष्मणस्य वा
विशेषणं नतु रामपरामर्शि । रामः कार्श्यं जगामेत्यनेनानन्वया##-
भावान्तरालक्षकत्वे भावलक्षणसप्तम्यनुपपत्तेः ॥ १ ॥

भरते संस्थिते नित्यं मातामहगृहे सुखम् ।
पालयत्यवनिं राज्ञि यथावदखिलामिमाम् ॥ २ ॥

भरति इति । इत एव पूर्वरामायणानुक्तमपि विना शत्रुघ्नं भरतस्य
मातामहगृहगमनं विवाहात्प्रागागमनं च कल्प्यते । नित्यमित्यनेनापि
पूर्वमपि बहुवारं तत्र भरतगमनमवथानं चासीदिति गम्यते ॥ २ ॥

जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः ।
कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥ ३ ॥

जर्नी वधुं वहन्तीति जन्यास्तांश्रायते वस्त्रालङ्कारादिभिरिति जन्यत्रो
विवाहस्तदर्थम् ॥ ३ ॥

कृतायां तीर्थयात्रायां रामो निजगृहे स्थितः ।
जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥ ४ ॥

कार्श्यादीनि निर्वेदचिन्तादुःखलिङ्गानि वर्ण्यन्ते ॥ ४ ॥

कुमारस्य विशालाक्षं पाण्डुतां मुखमाददे ।
पापफूल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥ ५ ॥

विशालाक्षत्वविशिष्टस्योपमानाय सालिमालमिति ॥ ५ ॥

कपोलतलसंलीनपाणिः पद्मासनस्थितः ।
चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह ॥ ६ ॥

अव्यापारो निश्चेष्टः ॥ ६ ॥

कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः ।
नोवाच कस्यचित्किञ्चिल्लिपिकर्मार्पितोपमः ॥ ७ ॥

लिपिकर्मार्पितश्चित्रलिखित उपमा यस्य ॥ ७ ॥

खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः ।
चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥ ८ ॥

आह्निक। महन्यवश्यकर्तव्यम् ॥ ८ ॥

एवङ्गुणविशिष्टं तं रामं गुणगणाकरम् ।
आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् [तामेवावापतुः] ॥ ९ ॥

गुणगणाकरं तं रामदेवं पूर्वोक्तचिन्तादिभिर्गुणैर्विशेषनैर्विशिष्ट##-

तथा तेषु तनूजेषु खेदवत्सु कृशेषु च ।
सपत्नीको महीपालश्चिन्ताविवशतां ययौ ॥ १० ॥

का ते पुत्र घना चिन्तेत्येवं रामं पुनः पुनः ।
अपृच्छत्स्निग्धया वाचा नैवाकथयदस्य सः ॥ ११ ॥

नाकथयदेव । कथनप्रयोजनासिद्धिनिश्चयादिति भावः ॥ ११ ॥

न किञ्चित्तात मे दुःखमित्युक्त्वा पितुरङ्कगः ।
रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति ॥ १२ ॥

न [नेति क्वचिन्न लभ्यते] दुःखं त्वया परिहर्तुं शक्यमित्याशय इति
नानृतवादिता । तिष्ठति स्म तस्थौ । स्मयोगाल्लिड्विषये लट् ॥ १२ ॥

ततो दशरथो राजा रामः किं खेदवानिति ।
अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥ १३ ॥

किन्निमित्तमिति शेषः ॥ १३ ॥

इत्युक्तश्चिन्तयित्वा स वसिष्ठमुनिना नृपः ।
अस्त्यत्र कारणं श्रीमन्मा राजन्दुःखमस्तु ते ॥ १४ ॥

इति पृष्टेन वसिष्ठमुनिना स नृप इति एवं प्रकारेण उक्तः । तदेवाह -
अस्त्यत्रेत्यादिनार्धेनोत्तरश्लोकसहितेन । रामचिन्तायाः शुभोदर्कत्व##-

कोपं विषादकलनां विततं च हर्षं
नाल्पेन कारणवशेन वहन्ति सन्तः ।
सर्गेण संहृतिजवेन विना जगत्यां
भूतानि भूप न महान्ति विकारवन्ति ॥ १५ ॥

सन्तः अल्पेन कारणवशेन कोपं विषादकलनां च न वहन्ति । यथा महान्ति
भूतानि पृथिव्यादीनि सर्गेण सृष्टिफलवशेन संहारवेगेन च विना न
विकारवन्ति नोपचयापक्षयविकारं भजन्ते ॥ १५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
कार्श्यनिवेदनं नाम पञ्चमः सर्गः ॥ ५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
कार्श्यनिवेदनं नाम् पञ्चमः सर्गः ॥ ५ ॥