चतुर्थः सर्गः ४
श्रीवाल्मीकिरुवाच ।
रामः पुष्पाञ्जलिव्रातैर्विकीर्णः पुरवासिभिः ।
प्रविवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा ॥ १ ॥
तीर्थयात्रागतस्यात्र सुहृदानन्दनं गृहे ।
रामस्याखेटकचर्यादिव्यवहारश्च वर्ण्यते ॥
राम इति । व्रातैः समूहैर्मङ्गलाचारार्थं विकीर्णः । विष्टपं त्रिविष्टपम् ।
नामैकदेशे नामप्रहणात् ॥ १ ॥
प्रणनामाथ पितरं वसिष्ठं भ्रातृबान्धवान् ।
ब्राह्मणान्कुलवृद्धांश्च राघवः प्रथमागतः ॥ २ ॥
प्रथामगतः प्रथमप्रवासदागतः ॥ ५ ॥
सुहृद्भिर्भ्रातृभिश्चैव [र्मातृभिश्चैव] पित्रा द्विजगणेन
च ।
मुहुरालिङ्गिताचारो राघवो न ममौ मुदा ॥ ३ ॥
मुहुः आलिङ्गितस्य तेषु समुचितमभिवादप्रियाभिलापाद्याचरणं यस्य स
तथोक्तः । न ममौ स्वदेह इति शेषः । हर्षेणोत्फुल्ल इति भावः ॥ ३ ॥
तस्मिन्गृहे दाशरथेः प्रियप्रकथनैर्मिथः ।
जुघूर्णुर्मधुरैराशा मृदुवंशस्वनैरिव ॥ ४ ॥
तस्मिन् दशरथगृहे । दशरथेः रामस्य । प्रियकथनैः प्रियवाक्यैः ।
आनन्दिता जना इति शेषः । मिथोऽन्योन्यं दिशो जुघूर्णुर्बभ्रमुर्दिशिदिशि
भ्रान्तवन्तः । हर्षकृतव्यामोहाद्दिग्भ्रमं प्रापुरिति वार्थः ।
दृष्टान्तेऽप्येवम् । अथवा दिक्शब्देन तत्रस्था जना लक्ष्यन्ते । दाशरथेः
प्रियकथाभिरुपकषिता मिथः समवेता उत्सवविशेषे मृदुवंशस्वनैः
क्रीडन्त इव बभ्रमुरित्यर्थः ॥ ४ ॥
बभूवाथ दिनान्यष्टौ रामागमन उत्सवः ।
सुखं मत्तजनोन्मुक्तकलकोलाहलाकुलः ॥ ५ ॥
मत्तैर्हृष्टैर्जनैरुत्कृष्टतया मुक्तः कलो गम्भीरो यः कोलाहलस्तेन आकुलो
व्याप्तः ॥ ५ ॥
उवास स सुखं गेहे ततः प्रभृति राघवः ।
वर्णयन्विविधाकारान्देशाचारानितस्ततः ॥ ६ ॥
सुमुखवासेत्यन्वयः ॥ ६ ॥
प्रातरुत्थाय रामोऽसौ कृत्वा सन्ध्यां यथाविधि ।
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तथा ॥ ७ ॥
प्रातरित्यादि वीप्साभिप्रायम् । तथेति पूर्वश्लोकोक्तसमुच्चयार्थम् ॥ ७ ॥
कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह ।
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः ॥ ८ ॥
स रामो वसिष्ठादिभिः सह स्थित्वा अनुरूपाभिः कथाभिरादृतः सन्
दिनचतुर्भागम् । अत्यन्तसंयोगे द्वितीया । दिनस्य चतुर्थभागे इत्यर्थः ।
आखेटकेच्छया वनं जगामेत्युत्तरेणान्वयः ॥ ८ ॥
जगाम पित्रानुज्ञातो महत्या सेनया वृत्तः ।
वराजमहिषाकीर्णं वनमाखेतकेच्छया ॥ ९ ॥
आखेटकं मृगया ॥ ९ ॥
तत आगतुअ सदने कृत्वा स्नानादिकं क्रमम् ।
समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् ॥ १० ॥
एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः ।
आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे ॥ ११ ॥
मृगयादीनामनित्यत्वद्योतनाय प्रायेति । भ्रातृभ्यां
लक्ष्मणशत्रुघ्नाभ्याम् ॥ ११ ॥
नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकयानया ।
परिनिनाय दिनानि स चेष्टया स्तुतसुधारसपेशलयाऽनघ ॥ १२ ॥
हे अनघेति राज्ञो भरद्वाजस्य वा सम्बोधनम् । स रामो नृपतीनां राज्ञां
समुचितेन व्यवहारेण मनोज्ञया मनोहरया सुजनानां चेतसि
चन्द्रिकावदाह्लादिकया अतएव स्तुता प्रशस्ता सुधारसवत्पेशला चतुरा च या
तथाविधया । स्रुतेति स्रुतेति वा पाठे क्षरिता या सुधा तद्वद्रसेन माधुर्येण
पेशलयाऽनया पूर्वोक्तया चेष्टया दिनानि परिनिनायाति-वाहयामास ॥ १२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
दिवसव्यवहारनिरूपणं नाम चतुर्थः सर्गः ॥ ४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
दिवसव्यवहारनिरूपणं नाम् चतुर्थः सर्गः ॥ ४ ॥