तृतीय सर्गः ३
भरद्वाज उवाच ।
जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वा राघवमादितः ।
क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥ १ ॥
दृश्यसम्मार्जनोपायो वासनाभेदलक्षणम् ।
रामस्य तीर्थयात्रा च विस्तरेणात्र वर्ण्यते ॥
यथा रामादयो जीवन्मुक्ता व्यवहृतवन्तस्तथा त्वं व्यवहरेत्युक्तो
जीवन्मुक्तस्थितिप्राप्त्युपायं रामस्य तत्प्राप्तिक्रमोपवर्नश्रवणद्वारैव
जिज्ञासमानो भरद्वाजः पृच्छति - जीवन्मुक्तेति । राघवमादितः कृत्वा
वर्ण्यत्वेन प्रथानीकृत्य जीवन्मुक्तस्थितिं कथयेति सम्बन्धः । अथवा
राघवं क्रमाज्जीवन्मुक्तस्थितिं जीवन्मुक्तावस्थं कृत्वा कल्पयित्वा मे
आदितः कथय । यथा येन क्रमेणाहं नित्यं सुखी भविष्यामीति सम्बन्धः ।
अथवा राघवं संवादकथायामादितः प्रष्टृत्वेन वसिष्ठं च
वक्तृत्वेन कृत्वेत्यर्थः । तथाच जनकयाज्ञवल्क्यौ कल्पयित्वा यथा श्रुतिः
स्वयमेव संवादकथया तत्त्वं बोधयति तथा त्वमपि बोधयेत्यर्थः ।
तथाचात्र तत्वज्ञत्वेन कल्पितानां दरशथादीनां पूर्वरामायणे
मूढचर्यामुक्त्यभावर्दशने नित्यमुक्तस्य च रामस्य तस्य ह न देवश्च
नाभूत्या ईशते इत्यादिश्रुतिविरुद्धशापनिमित्ताज्ञत्वा-दिवर्णने च न
क्षतिः अनादेर्जीवस्य ब्रह्माभेदबोधनाय श्रुतौ ब्रह्मण एव
कार्योपाधिप्रवेशेनागन्तुकजीवभावकल्पनवदविरोधोपपत्तेः ॥ १ ॥
श्रीवाल्मीकिरुवाच ।
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्ये साधो विस्मरनं वरम् ॥ २ ॥
एवं वाल्मीकिः पृष्टो लक्षणस्वरूपसाधनफलैर्जीवन्मुक्तिस्थितिं विस्तरेण
विवक्षुः प्रथमं सुखप्रतिपत्तये सङ्क्षिप्य मुक्तिलक्षणस्वरूपे दर्शयति
- भ्रमस्येति । हे साधो आकाशे नैल्यवदत्यन्तासम्भावितस्य कल्पनया
जातस्य जागतस्य जगतः सम्बन्दिनोऽध्यासलक्षणस्य ब्रमस्य
तन्मूलाविद्यावास-नोच्चेदेनापुनःस्मरणं यथा भवति तथा
विस्मरणं यत्तदेव वरं सर्वोत्कृटं मुक्तिलक्षणं स्वरूपं च मन्ये ।
प्रमानानुभवाभ्यां निश्चितवानस्मीत्यर्थः । यद्यपि परोक्षज्ञानिनोऽपि
सुषुप्तौ निर्विकल्प-समाधौ च दृश्यविस्मरणमस्ति तथापि
तनापुनःस्मरणम् । अथवा पुनः स्मर्यते येनान्तःकरणेन तत्पुनःस्मरणं
न विद्यते यस्मिंस्तत्तथा विस्मरणं स्मरनाभावं ।
द्वैतप्रतिभासमात्राभावोपलक्षणमेतत् । अथवा विस्मरणमिव विस्मरणम् ।
यथा विस्मृतविषयस्य सत्येवानुभवितर्य-प्रतीतिस्तथा सत्येव चैतन्ये
दृश्याप्रतीतिरित्यर्थः । तर्हि किं परमार्थ-सत्यस्यैव दृश्यस्य
साङ्ख्याभिमतमुक्ताविवाप्रतीतिमात्रं तन्नेत्याह- भ्रमस्येति ।
अधस्तसेत्यर्थः । कथं तस्य भ्रमत्वं संस्काराजन्यत्वादि##-
पूर्वपूर्वजगद्व्यवहारजन्यसंस्कारपरि-निष्ठितस्येत्यर्थः । ननु तर्हि
दोषजत्वाभावान्निरधिष्ठानत्वाच्च न भ्रमत्वमित्याशङ्क्याह -
आकाशवर्णवज्जातस्येति । यथा दूरत्वाविमर्श##-
जगद्भ्रमैत्यर्थः । तथा चान्त्यन्तिकदृश्योच्छेदस्तल्लक्षणं
तदुपलक्षितचिन्मात्रावस्थ्तिः स्वरूपमित्यर्थः ॥ २ ॥
दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते ।
कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः ॥ ३ ॥
मन्ये इत्यनेन तयोः स्वानुभवसिद्धत्वं दर्शितम् । तर्ह्यस्माभिस्तत्कुतो
नानुभूयते तत्राह - दृश्येति । दृश्यस्यात्यन्ताभावबोधो बाधस्त्वं
विना । तत् उक्तं लक्षणं स्वरूपं च । अननुभवस्य कालतो देशतश्च
व्यापकत्व-प्रदर्शनाय कदाचित्केनचिदिति । दृश्यबाधस्तर्हि केन हेतुना
तमाह - स्वबोध इति ।
सर्वजगदधिष्टानप्रत्यगभिन्नात्मतत्त्वसाक्षात्कारादेव स इत्यतस्तत्सा##-
स चेह सम्भवत्येव तदर्थ मिदमाततम् ।
शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥ ४ ॥
तर्हि तस्य क उपायस्तत्राह - स चेति । इहास्मिनञ्चशास्त्रे अधिगते सतीति शेषः
। आकर्षनयसि चेत् । यावत्तत्त्वनिर्णयमिति शेषः ॥ ४ ॥
जगद्भ्रमोऽयं दृश्योऽपि नास्त्येवेत्यनुभूयते ।
वर्णो व्योम्न इवाखेदाद्विचारेणामुनाऽनघ ॥ ५ ॥
उक्तमर्थमेव स्फुटतरमाह - जगदिति द्वाभ्याम् । अमुना
एतद्ग्रन्थोपदर्शितेन ॥ ५ ॥
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
सम्पन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥ ६ ॥
अनुभूयत इत्युक्तोऽनुभवः किमात्मचैतनमेवोतान्यः । न तावदन्यः ।
चिद्व्यतिरिक्तस्य जडतया विषयतया चानुभवत्वायोगात् । आत्मैव चेत्स
पूर्वमेवास्तीति किं शास्त्रेणेत्याशङ्क्याह - दृश्यमिति ।
सत्यमात्मैवानु-भवस्तथाप्यसौ दृश्यसहकृतो न तदनुभवः
किन्तु मनसो वृत्तिरूपेणात्म##-
दृश्यं कालत्रयेऽपि नास्तीत्येवंरूपं सम्पन्नं चेन्नित्यसिद्धात्मरूपापि
परा निव्राणनिर्वृतिस्तस्मात्तत्त्वज्ञानादुत्पन्नेव भवतीति केवलस्तद्वारा
स्वरूप-भूतोऽप्यनुभवः शास्त्रफलमित्यर्थः ॥ ६ ॥
अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह ।
भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः ॥ ७ ॥
ननु शास्त्रान्तरोपदर्शितोपायैरेव मुक्तिः किं न स्यात्तत्राह - अन्यथेति ।
उक्तोपायापरिग्रहे अकृतिमा अजन्या अनादिरज्ञा अज्ञानं येषां अनात्म##-
पुनःपुनरिह संसारे भवतां जन्म गृह्णतां पुरुषापसदानामन्तैर्##-
ज्ञानातिरिक्त-साधनसहस्रैरप्यनिवृत्तेरिति भावः ॥ ७ ॥
अशेषेण परित्यागो वासनानां य उत्तमः ।
मोक्ष इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥ ८ ॥
ननु उपासनाद्युपायान्तरसाध्याः सालोक्यादयोऽन्येऽपि मोक्षाः प्रसिद्धा##-
जन्मबीजानाम-शेषेण यः परित्यागो मूलोच्छेदेनात्यन्तोछेदह् स मुख्यो
मोक्षः । मुचधातोर्बन्धनिवृत्तौ रूढत्वासनानामेव
मुख्यबन्धत्वात्सालोक्यादौ तदभावान्मोक्षशब्दो गौण इति स मुख्य एव
विमलैर्विगताविद्यादिमलैह् क्रम्यते नान्यैः । कर्मभिरुपासनैः
श्रवणादिभिश्च दिनेदिने चित्तवैमल्य-मेव सर्ववासनाक्षयान्तं
साधनक्रमो यस्य तथाविध इति वार्थः ॥ ८ ॥
क्षीणायां वासनायां तु चेतो गलति सत्वरम् ।
क्षीणायां शीतसन्तत्यां ब्रह्मन्हिमकणो यथा ॥ ९ ॥
ननु वासनापगमेऽपि तद्धेतोर्मनसः सत्त्वात्पुनर्वासना उत्पत्स्यन्ते ततो
बन्धोऽपि स्यादित्याशङ्क्याह - क्षीणायामिति । मनसो
वासनापुञ्जरूपत्वा-दित्यार्थः ॥ ९ ॥
अयं वासनया देहो ध्रियते भूतपञ्जरः ।
तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा ॥ १० ॥
मनसि नष्टेऽपि स्थूलदेह एव बन्धः स्थास्यतीत्याशङ्क्याह - अयमिति ।
भूतपञ्जरो भूतसमुदायारब्धः भूतानां प्राणिपक्षिणां
पञ्चरस्थानीयो वा । तथाच वासनाक्षये [सर्ववासनाक्षये] सोऽपि
निवर्तत इत्यर्थः ॥ १० ॥
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥ ११ ॥
एवमुपोद्धातेन परां मुक्तिमुपवर्ण्य प्रस्तुतां जीवन्मुक्तिं
विवक्षुस्तदर्थं वासनाद्वैविध्यमाह - वासनेति ॥ ११ ॥
अज्ञानसुघनाकारा घनाहङ्कारशालिनी ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ १२ ॥
तत्र मलिनां लक्षयति - अज्ञानेति । वसनाबीजानां प्ररोहे अज्ञानं
सुक्षेत्रं तस्मिन्सुघनाकारा विषयानुसन्धानाभ्यासोपचिताकारा वासना
बीजम् । रागद्वेषादिभुरुपचितत्वात् घनो निबिडोऽहङ्कार उपसेचकः क्षेत्रिकस्तेन
हि सा वर्थ्यमाना सन्तन्यमाना च शालते शोभते ॥ १२ ॥
पुनर्जन्माङ्कुरं त्यक्त्वास्थिता सम्भृस्टबीजवत् ।
देहार्थं ध्रियते [म्रियते] ज्ञातज्ञेया शुद्धेति चोच्यते ॥ १३ ॥
शुद्धां [शुद्धां तां लक्षयति] लक्षयति - पुनरिति । यथा
बीजान्तः सूक्ष्माअङ्कुराः सन्त एव कालजलादिसम्बन्धादाविर्भवन्ति तथा
वासनान्तर्भाविजन्मपरम्पराः सत्य एव
कामकर्मादिनिमित्तवशादाविर्भवन्ति । अत्यन्तासतो जन्मायोगात्तत्र
तत्त्वज्ञानेनाविद्याक्षेत्रदाहेनान्तर्गतजन्माङ्कुरनाशेऽपि स्वपरप्रा##-
शिष्यते सा शुद्धेत्यर्थः ॥ १३ ॥
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥ १४ ॥
उक्तमेवार्थं स्फुटयति - अनुपनरिति । देहिष्विति । देहधारणकार्येण
तेष्वपि वासनासद्भावोऽनुमीयत इति भावः ॥ १४ ॥
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ १५ ॥
फलेन सह प्रस्तुतां जीवन्मुक्तिमाश्रयेण लक्षयति - य इति । तथा च
तत्त्वज्ञानप्लुष्टजन्माङ्कुरशक्तिकवासनामात्रदृतशरीरत्वं
[शक्तिकत्वाद्वासना] जीवन्मुक्तलक्षणं फलितम् ॥ १५ ॥
जीवन्मुक्तिपदं [मुक्तिपद] प्राप्तो यथा रामो महामतिः ।
तत्तेऽहं शृणु वक्ष्यामि जरामरणशान्तये ॥ १६ ॥
तत्साधननिरूपणं प्रतिजानीते - जीवन्मुक्तीति । तथाविधं जीवन्मुक्तिपदं
रामो यथा येन साधनक्रमेण प्राप्तस्तद्वक्ष्यामि । जरामरणोपलक्षित##-
भरद्वाज महाबुद्धे रामक्रममिमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥ १७ ॥
उक्तार्थमेव स्फुटयन्फलान्तरमाह - भरद्वाजेति । एकविज्ञानेन
सर्वविज्ञनमपि तत्फलमित्यर्थः ॥ १७ ॥
विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसाननयद्गेहे लीलाभिरकुतोभयः ॥ १८ ॥
विद्यागृहाद्ब्रह्मचर्याश्रमोचितगुरुकुलवासाद्विनिष्क्रम्येत्यर्थात्सर्व##-
॥
अथ गच्छति काले तु पालयत्यवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ १९ ॥
विगतज्वरमिति सौराज्यात्प्रजानां ज्वरादिपीडापि नास्ति किं वाचमन्याः पीडा न
सन्तीति द्योतनार्थम् ॥ १९ ॥
तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः ।
रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥ २० ॥
रामस्य मनस्तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितमभूदिति सम्बन्धः
। पूर्वशोकस्थसप्तम्यन्तानामप्यत्रैवान्वयः ॥ २० ॥
राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः ।
हंसः पद्मानिव नवौ जग्राह नखकेसरौ ॥ २१ ॥
नन्वध्यात्मशास्त्रेऽस्मिंस्तीर्थयात्रोपवर्णनस्य वक्ष्यमाणमृगयोप##-
रामजन्मादेरप्यत्रैव वर्णनीयत्वापत्तेः पूर्वरामायणवैयर्थ्याच्चेति
चेदत्रोच्यते । कथोपायान्विचार्येत्यत्र स्वस्ववर्णोचितयज्ञादिकर्मजन्या
चित्तशुद्धिर्ब्रह्मविद्याधिकारे उपयुज्यत इत्युक्तम् । यस्तु वयोविद्याद्यस।पत्त्या
यज्ञाद्यनुष्ठातुमक्षमस्तस्य तीर्थयात्रादिनापि यज्ञादिफलचित्त##-
यज्ञास्तीर्थरूपेण निर्मिताः इति वचनादिति सूचनाय तीर्थयात्रोपवर्णनम् ।
अतएव हि न रामं वृद्धवयस्कं परिकल्प्यात्मजिज्ञासोपवर्णं
कृतमुक्तार्थसूचनाना-पत्तेः । मृगयोपवर्णं तु
दृष्टकौतुकदर्शनोत्कण्ठाया अप्यात्मजिज्ञासा-प्रतिबन्धकत्वात् यदि
तत्कुतुकानुभवमन्तरेण सोत्कण्ठा नापैति तर्हि तदनुभूयैव वा
तदसारतानिश्चयेन तदुत्कण्ढामपोह्य निष्प्रत्यहं श्रवणादिप्रतिष्ठो
भवेदिति विशेषबोधनार्थमिति सर्वं समञ्चसम् । राघव एवमुक्तमर्थं
चिन्तयित्वा पितुश्चरणौ जप्राह । जीवत्पितृकस्य पितृसन्निधौ
पित्राज्ञापूर्वमेव धर्माधिकारादिति भावः ॥ २१ ॥
श्रीरम उवाच ।
तीर्थानि देवसद्मानि वनान्यायतनानि च ।
द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥ २२ ॥
नाथेति स्वस्य पारतन्त्र्यसूचनार्थम् ॥ २२ ॥
तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि ।
न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः ॥ २३ ॥
पूर्वां प्राथमिकीम् । न मानितः अभिलषितार्थसम्पादनेन न सन्तोषितः ॥ २३ ॥
इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥ २४ ॥
अमुञ्चदेव न पुत्रविश्लेषदुःखान्नानुमेने ॥ २४ ॥
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ २५ ॥
वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः ।
स्निग्धैः कतिअयैरेव राजपुत्रवरैः सह ॥ २६ ॥
अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः ।
निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥ २७ ॥
निर्गतः स्वपुरात्पौरैस्तूर्यघोषेण वादितः ।
पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥ २८ ॥
भृङ्गौघ्भङ्गुरैर्भ्रमरसमूहवच्चञ्चलैः । अर्थात्कुसुमेष्विति गम्यते
॥ २८ ॥
ग्रामीणललनालोलहस्तपद्मापनोदितैः ।
जालवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥ २९ ॥
अपनोदितैः प्रेरितैः ॥ २९ ॥
आवर्जयन्विप्रगणान्परिशृण्वन्प्रजाशिषः ।
आलोकयन्दिगताम्श परिचक्राम जाङ्गलान् ॥ ३० ॥
आवर्जयन्दानमानादिना वशीकुर्वन् । जाङ्गलान्येव जाङ्गलान् जीर्णारण्यानि ॥
३० ॥
अथारभ्य स्वकात्तस्मात्क्रामात्कोशमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥ ३१ ॥
ददर्शेत्यस्य पावनानाश्रमाञ्छुभानित्यन्ते सर्वत्र सम्बन्धः ॥ ३१ ॥
नदीतीराणि पुण्यानि वनान्यायतनानि च ।
जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् ॥ ३२ ॥
आयतनानि देवमुन्यायतनानि । जनान्तेषु लक्षणया जनपदान्तेषु ॥ ३२ ॥
मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रूं च चन्द्रभागामिर्वावतीम् ॥ ३३ ॥
वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥ ३४ ॥
वेणीं केवलाम् । कृष्णवेणीं कृष्णया सम्भिन्नां ताम् ॥ ३४ ॥
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा ।
वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥ ३५ ॥
श्रीगिरिं श्रीशैलम् ॥ ३५ ॥
मानसं च क्रमसरस्तथैवोत्तरमानसम् ।
वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥ ३६ ॥
क्रमप्राप्तं सरं । वडवावदनं हयग्रीवतीर्थं ॥ ३६ ॥
अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा ।
सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥ ३७ ॥
महातीर्थमितीन्द्रद्युम्नसरोविशेषणम् ॥ ३७ ॥
स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथ ।
स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥ ३८ ॥
नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।
विन्ध्यमन्दरकुञ्चांश्च कुलशैलस्थलानि च ॥ ३९ ॥
कुञ्जाṁल्लतागृहान् । कुलशैला हिमवदादयः ॥ ३९ ॥
राजर्षिणां च महतां ब्रह्मर्षिणां तथैव च ।
देवानां ब्राह्मणानां च पावनानाश्रमाञ्छुभान् ॥ ४० ॥
चकारोऽनुक्ततत्तत्स्थानसमुच्चयार्थः ॥ ४० ॥
भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः ।
चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥ ४१ ॥
भूयोभूय इति पूर्वदृष्टानामपि परावृत्तौ सन्निहितानां
कौतुकान्महिमातिशयप्रकटनाय वा भूयो गमनम् ॥ ४१ ॥
अमरकिन्नरमानवमानितः समवलोक्य महीमखिलामिमाम् ।
उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकमिवेश्वरः ॥ ४२ ॥
तत्रतत्र सन्निहितैरमरादिभिर्मानितः पूजितो रथुनन्दनोऽखिलां
जम्बूद्वीपात्मिकां महीं सम्यगवलोक्य स्वगृहमयोध्यामुपययाविति
सम्बन्धः । ईश्वरः शिवः ॥ ४२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
तीर्थयात्राकरणं नाम तृतीयः सर्गः ॥ ३ ॥
इति श्रीवासिड्ठमारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे
तीर्थयात्राकरणं नाम तृतीयः सर्गः ॥ ३ ॥