द्वितीयः सर्गः २
दिवि भुमौ तथाकाशे बहिरन्तश्च मे विभुः ।
यो विभात्यवभासात्मा तस्मै सर्वात्मने नमः ॥ १ ॥
अथ प्रारिप्सितस्य महतः शास्त्रस्य निर्विघ्नपरिसमाप्तिप्रचयगमनादि##-
वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्ति इति महाभाष्योपदर्शित##-
दर्शयति - दिवीति । दिवि द्युलोके भूमौ भूलोके तथा आकाशे अन्तरिक्षलोके
बहिरधिभूतं [अन्तरमध्यात्म] अन्तराध्यात्मं चकारादधिदैवं
च मे मम यो विभुर्विभाति विविधरूपेण प्रथते स्वाविद्यया ।
परमार्थतस्त्ववभा-सात्मा निर्विकारचिन्मात्रस्वभावस्तस्मै
सर्वेषामात्मने नम इत्यर्थः । अथवा पृथिवी पूर्वरूपं द्यौरुत्तररूपम
इति श्रुत्वाविवात्रापि दिवि ब्रह्माण्डस्योर्ध्वकपाले स्वर्णमये
भूमावधःकपाले रजतमये आकाशे तयोः सन्धौ सूक्ष्माकाशे
ब्रह्माण्डाद्बहिरन्तश्च यो विशेषेण सूर्यश्चन्द्राग्निवागादिभ्योऽप्यतिशयेन
स्वप्रकाशाअपरिच्छिन्नस्वभा-वत्वाद्भाति । तत्कुतः यतोऽयमवभासात्मा
सूर्यादीनामप्यवभासक आत्मा च । येन सूर्यस्तपति तेजसेद्धः आत्मैवास्य
ज्योतिर्भवति ज्योतिषामपि तज्ज्योतिः इत्यादिश्रुतिस्मृतिभ्यः । तस्मै सर्वात्मने
सर्ववस्तूनां पारमार्थिकस्वरूपभूताय नम इत्यर्थः । अथवा दिवि
द्योतनैकरसे भूमानन्दाद्मके तुर्यस्वरूपे तथा
अवस्थाद्वयोत्पत्तिभूमावव्या-कृताकाशे बहिर्बहिःप्रज्ञभोग्ये
जागरेऽन्तः अन्तःप्रज्ञभोग्ये स्वप्ने चकारात्तत्सन्धौ
मरणमूर्छाद्यवस्थासु च यो विविधो भाति स्थूल##-
अवभासात्मेति । चिन्मात्रस्वभाव इत्यर्थः । तस्मै दृश्यस्य दृग्वव्यतिरे##-
इत्यर्थः । अथवा दिवि सार्वज्ञ्यादिसम्पन्नत्वाद्द्योतमाने कारणोपाधौ तथा
भूमौ कर्मबीजोद्भवबूमौ कार्योपाधौ तथाकाशे अन्तराले
आसमन्तात्काशते इति व्युत्पत्या स्वरूपप्रकाशबहुले वा जीवन्मुक्तिदशायां
बहिर्निरुपाधिस्वरूपेऽन्तः कार्यकारणोपाध्यन्तर्गतमायान्तःकरणवृत्ति##-
सर्वोपाधिनिष्कृष्टायात्-मने नम इत्यर्थः । अथवा दिवि द्योतनात्मके
तेजसि भूमौ पृथिव्यामाकाशे व्योम्नि अन्तः आन्तरालिकयोः
सलिलपवनयोर्बहिर्बहिर्भूते व्याकृते चकारान्नि##-
पूर्णानन्दस्वरूपाय मे मह्यं नम इत्यर्थः । अथवा दिवि देवलोके
बहिस्तटस्थतया पूज्यदेवतेश्वराद्यात्मना भूमौ भूलोके अन्तः
देहान्तर्वर्तितया पूजकात्मना आकाशे अन्तराले च क्रियाफलसाधना##-
य। स।प्रति तत्त्वदृष्ट्युदयात्स्पष्टमवभासमानात्मा
विभुस्त्रिविधपरिच्छेदशून्यो विस्पष्टं भाति तस्मै सर्वात्मने । सर्वशब्दः
पूर्णपरस्तस्मात्तत्सर्वमभवदिवत्पूर्णानन्दस्वरूपाय नम इत्यर्थः ।
अथवा दिवि उपरिष्टाद्भूमावधस्तादाकाशेऽन्तराले बहिः प्रागादिदिक्षु च अन्तः
शरीरान्तः चकारात्तत्पूर्वोत्तरकालयोर्यः अवबासात्मा चिदेकरसो विभाति
तत्त्वदृशो मम । आत्मैवाधस्तादात्मोपरिष्टात् इत्यादिश्रुतेः । तस्मै
सर्वात्मने आत्मैवेदं सर्वमिति सर्वप्रपञ्चबाधेन परिशेषिताय
परमात्मने नम इत्यर्थः एवमर्थान्तराण्यपि यथाबुद्धिवैभवमू##-
ज्ञानात्तद्भावस्थितिश्च परमनिव्राणरूपं प्रयोजनमिति सूचितम् ।
उत्तरत्राप्येतदेव स्पष्टं दर्शयिषते ।
अधिकारि कथोपायसम्बन्धो धातृशासनात् ।
निर्माणमस्य ग्रन्थस्य मुक्तचर्या च कीर्त्यते ॥ १ ॥
वाल्मीकिरुवाच ।
अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः ।
नात्यन्तमज्ञो [नो तज्ज्ञः] नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवान्
॥ २ ॥
अथास्मिन ग्रन्थेकोऽधिकारी किमज्ञ उत ज्ञः । नाद्यः । तस्य देहादावात्म##-
नच विषयदोषदर्शनाज्जन-नमरणादिःखदर्शनाच्च तस्यै
वैराग्योदयेच्छया मुमुक्षासम्पत्ताव-धिकार इति वाच्यम् ।
रागिणामुत्कटविषयरिरक्षिषा-दर्शनेन सत्स्वेव विषयेषु
तद्दोषनिर्हरणोपायोन्वेषितया [अन्वेषणतया] विशिष्टविषयान्वेषितया
चैहिकामुष्मिकत-दुपायेच्छुतया प्रवृत्तेः । नापि ज्ञः । तस्य
कृतकृततया ग्रन्थसाध्यप्रयो-जनालिप्सुतया ग्रन्थे
प्रवृत्त्यनुपपत्तेरित्याशङ्क्य विशिष्टाधिकारिणं दर्शयति - अहमिति ।
उतेत्यप्यर्थे । सत्यं नात्यन्तमज्ञो नापि ज्ञोऽस्मिञ्-शास्त्रेऽधिकारि । किन्तु
यस्याहं बद्धोस्मिन् संसारेऽनादिकालादारभ्य कारानिगडादिबद्ध इव
परिच्छेदपारवश्यजन्मजरामरणादिदुःखमनु-भवञ्शोचामि ।
आत्यन्तिकशोकतरणे चात्मज्ञानमेवोपायः । तरति शोकमात्मवित् इति श्रुतेः ।
तेनात्मज्ञानेनाहं विमुक्तः स्यामित्युत्कट-जिज्ञासासहितो निश्चयोऽस्ति स
विनयोपायनादिना गुरुमुपगतोऽस्मिञ्छास्त्रेऽ-धिकारवान् ।
शास्त्रश्रवणादिफलभागिअत्यर्थः । तथाचाज्ञस्यैव बहुतरसुकृतैः
क्षीणरागादिदोषस्य विवेकोदयाज्जिज्ञासोरधिकार इति भावः ॥ २ ॥
कथोपायान्विचार्यादौ मोक्षोपायानिमानथ ।
यो विचारयति प्राज्ञो न स भूयोऽभिजायते ॥ ३ ॥
ननु क्षीणरागादिदोषस्त्रैवर्णिकश्चेत्स सन्न्यासपूर्वकवेदान्तश्रवण
एवाधिकारी । पूर्वकाण्डार्थानुष्ठानस्य चित्तशुद्धिद्वारोत्तरकाण्डाधि##-
त्रैवर्णिकस्य त्रेताग्निसाध्ये कर्मण्यधिकारेऽप्यनाहिताग्निसाधारणः
स्मार्तकर्माधिकारोऽस्मन्नपि ग्रन्थेऽस्त्यधिकारः । अज्ञानावधिकश्च । अस्यापि
स्मृतिवद्वेदोपबृंहणत्वात् । तथाचोक्तम् - वेदवेद्ये परे पुषि जाते
दशरथात्मजे । वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना । इति । तत्र
पूर्वकाण्डस्य रामचरितकथाव्याजेनोपबृंहणं षट्काण्डम् सोत्तरं
पूर्वरामायणम् उत्तरकाण्डस्य षट्प्रकर्णमिदं सोत्तरमिति । यथाच
केषुचित्स्मार्तकर्मसु स्त्रीशुद्रसाधारणोऽधिकारस्तथास्यापि श्रवणे पुराणवात्
। श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः जनश्च शुद्रोऽपि
महत्त्वमीयात् इत्यादिवचनलिल्गात् । नावेदविन्मनुते तं बृहन्तं तं
त्वौपनिषदं पुरुषं पृच्छामि इत्यादिवचनं त्ववेदविदः
श्रौतज्ञानानधिकारपरमिति केचित् । अपरोक्षज्ञानापर्यवसानपरमित्यन्ये ।
वेदपूर्वकत्वप्राशस्त्यपरमित्यपरे । सर्वथाप्यस्त्येवान्येषामपि
पौराणिकसाधारणे ज्ञानेऽधिकारः स हि सर्वैर्विजिज्ञास्य आत्मा
वर्णैस्तथाश्ह्रमैः इत्यादिवचनेभ्यः । तत्र श्रौतज्ञाने पूर्वकाण्डोक्त##-
हेतुरिति पूर्वोत्तररामाअणयोर्हेतुहेतुमद्भावसङ्गतिं दर्शयन्सर्वानर्थ##-
धर्मतत्त्वज्ञा-नानुष्ठानेश्वरप्रपत्तिषु ज्ञानाधिकारप्रापकेषूपायो
यस्मिन् ग्रन्थे स पूर्वारामायणग्रन्थः कथोपायः । काण्डाभेदाभिप्रायं
बहुवचनम् । तानादौ विचार्य तदर्थानुष्ठानप्राप्ताधिकारः
सन्योऽधिकारीमान्व-क्ष्यमाणषट्प्रकरणरूपान्मोक्षोपायान्विचारयति
प्राज्ञः प्रज्ञाप्लुष्ट-कामकर्मवासनाऽज्ञानबीजः स भूयो नाभिजायते
जन्मादिदुःखभाङ् न भवति । विमुच्यत इत्यर्थः ॥ ३ ॥
अस्मिन्रामायणे रामकधोपायान्महाबलान् ।
एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥ ४ ॥
अस्मिन्साम्प्रतिके षट्पञ्चाशत्सहस्रसम्मिते रामायणे अनादिकालाभ्यस्त##-
शिष्यायास्मि [शिष्यायास्मै] विनीताय भरद्वाजाय धीमते ।
एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने ॥ ५ ॥
शिष्यविशेषणान्यधिकारसम्पत्तिद्योतकानि । एक एवाग्रो [एवाग्रम्]
ग्रहणधारणप्रचारपटुः प्रधानशिष्यो यस्य स तथा । अनुग्रहप्रेम##-
तत एते कथोपाया भरद्वाजेन धीमता ।
कस्मिंश्चिन्मेरुगहने ब्रह्मणोऽग्र उदाहृताः ॥ ६ ॥
एते मत्तः प्राप्ताः पूर्वरामायणरूपाः । उदाहृताः कीर्तिताः ॥ ६ ॥
अथास्य तुष्टो भगवान्ब्रह्मा लोकपितामहः ।
वरं पुत्र गृहाणेति तमुवाच महाशयः ॥ ७ ॥
वरव्याजेन जगदुद्धारसाधनं मोक्षशास्त्रं करणीयमिति
महानाशयोऽभिप्रायोयस्य स तथा ॥ ७ ॥
भरद्वाज उवाच ।
भगवन्भूतभव्येश वरोऽयं मेऽद्य रोचते ।
येनेयं जनता दुःखान्मुच्यते तदुदाहर ॥ ८ ॥
भूतं पूर्वमुत्पन्नम । भवमुत्पत्स्यमानम् । अद्य पूर्वरामाणार्थानु##-
श्रीब्रह्मोवाच ।
गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः ।
तेनेदं यत्समारब्धं रामायणमनिन्दितम् ॥ ९ ॥
अत्रास्मिन् पृष्टेऽर्थे । यद्यस्मात्समारब्धं नतु कृत्स्नं क्र्तम् ॥ ९ ॥
तस्मिञ्छ्रुते नरो मोहात्समग्रात्सन्तरिष्यति ।
सेतुनेवाम्बुधेः पारमपारगुणशालिना ॥ १० ॥
श्रुते अर्थात्कृत्स्नसिद्ध्यनन्तरमिति गम्यते । सेतुं दृष्ट्वा समुद्रस्य
ब्रह्महत्यां व्यपोहति इत्यादिस्मृतिप्रसिद्धानन्तगुणशालिना ॥ १० ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा स भरद्वाजं परमेष्ठी मदाश्रमम् ।
अभ्यागच्छत्समं तेन भरद्वाजेन भूतकृत् ॥ ११ ॥
तूर्णं सम्पूजितो देवः सोऽर्घ्यपाद्यादिना मया ।
अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥ १२ ॥
यद्यपि सृष्टौ रजः प्रधानस्तथापि जगदुद्धारोद्भूतकरुणत्वान्महा##-
रामस्वभावकथनादस्माद्वरमुने त्वया ।
नोद्वेगात्स परित्याज्य आसमाप्तेरनिन्दितात् ॥ १३ ॥
ल्यब्लोपे पञ्चमी । रामस्वभावकथनं प्रस्तुत्येत्यर्थः । उद्वेगाद्विस्तृत##-
समग्रो निर्मातव्य इति यावत् ॥ १३ ॥
ग्रन्थेनानेन लोकोऽयमस्मात्संसारसङ्कटात् ।
समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् ॥ १४ ॥
संसारसङ्कटादित्यपादानपञ्चम्या समुत्तीर्णस्यात्यन्तिकं संसार##-
प्रथमा । अन्यथा आशुपदेन पुनरुक्त्यापत्तेः । क्षिप्रपोतेन इति पाठश्चेन्न
कापि चिन्ता । आशु ज्ञानोदयसमकालमेव । ननु पोतेन सागरसमुत्तरणमे##-
पोतेनोद्धरणमेवात्र समुत्तरणं विवक्षितं आशुपदस्वारस्यात् ।
अतएवापादानपञ्चम्यमेव कृतेति ॥ १४ ॥
वक्तुं तदेवमेवार्थमहमागतवानयम् ।
कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥ १५ ॥
तत्तस्माद्धेतोर्भरद्वाजद्वारा आज्ञासन्देशसम्भवेऽप्येवमर्थं
वक्तुमयं जगन्मान्योऽहमेवागतवानिति सम्बन्दः ॥ १५ ॥
मम पुण्याश्रमात्तस्मात्क्षणादन्तर्द्धिमागत्ः ।
मुहूर्तभ्युत्थितः प्रोच्चैस्तरङ्ग इव वारिणः ॥ १६ ॥
ब्रह्मपादस्पर्शेन पुण्यतमवमाश्रमस्य ॥ १६ ॥
तस्मिन्प्रयाते भगवत्यहं विस्मयमागतः ।
पुनस्तत्र भरद्वाजमपृच्छं स्वस्थया धिया ॥ १७ ॥
स्वस्थया धियेत्युक्तेः पुर्वं प्रब्मागमनहर्षविष्मयव्यत्रचित्तत्वाद्ब्र##-
किमेतद्ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे ।
इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन तेन मे ॥ १८ ॥
भरद्वाज उवाच ।
एतदुक्तं भगवता यथा रामायणं कुरु ।
सर्वलोकहितार्थाय संसार्णवतारकम् ॥ १९ ॥
यथा पूर्वं कथोपायरामायणं कृतं तथा मोक्षोपायरामायणमिति
शेषः ॥ १९ ॥
मह्यं च भगवन्ब्रूहि कथं संसारसङ्कटे ।
रामो व्यवहृतो ह्यस्मिन्भरतश्च महामनाः ॥ २० ॥
राम कथं व्यवहृतो व्यवहृतवान् किमज्ञः शोचन्नितरवदुत
जीवन्मुक्तवत् ॥ २० ॥
शत्रुघ्नो लक्षमणश्चापि सीता चापि यशस्विनी ।
रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः ॥ २१ ॥
चकाराद्दशरथपरिग्रहः । चकारोऽपिशब्दद्वयं च तत्परिवारसमुच्च##-
[निर्दुःखतां यथैते तु] निर्दुःखितां यथैते नु
प्राप्तास्तद्ब्रूहि मे स्फुटम् ।
तथैवाहं भविष्यामि ततो जनतया सह ॥ २२ ॥
स्फुटं मद्बोधपर्यवसितम् । जनतया त्वदुपदेशश्रवणकृतार्थजन##-
भरद्वाजेन राजेन्द्र वदेत्युक्तोऽस्मि सादरम् ।
तदा कर्तुं विभोराज्ञामहं वक्तुं प्रवृत्तवान् ॥ २३ ॥
सादरमुपायनाहरणोपगमनप्रणतिप्राथनाद्यादरसहितम् ॥ २३ ॥
शृणु वत्स भरद्वाज यथापृष्टं वदामि ते ।
श्रुतेन येन सम्मोहमलं दूरे करिष्यसि ॥ २४ ॥
सम्मोह आत्मतत्त्वापरिज्ञानं तद्रूपं मलं पङ्कम् । अलमिति वा छेदः ॥
२४ ॥
तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी ।
सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ २५ ॥
असंसक्तया मिथ्येति निश्चयादनभिनिविष्टया ॥ २५ ॥
लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः ।
कौसल्या च सुमित्रा च सीता दशरथस्तथा ॥ २६ ॥
महामना अपरिच्छिन्नावस्तुनिवेशातथाविधचित्तः । चकाराः पूर्ववत् ॥ २६ ॥
कृतास्त्रश्चाऽविरोधश्च बोधपारमुपागताः ।
वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ २७ ॥
कृतास्त्राविरोधौ रामसखायौ । बोधपारं चरमं बोधं यदुत्तरं
बोद्धव्यान्तरापरिशेषः ॥ २७ ॥
धृष्टिर्जयन्तो भासश्च सत्यो विजय एव च ।
विभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥ २८ ॥
सत्यो यथार्थवक्ता । इन्द्रजिदयमन्य एव सुग्रीवामात्य ॥ २८ ॥
एतेऽष्टौ मन्त्रिणः प्रोक्ताः समनीरागचेतसः ।
जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥ २९ ॥
अन्तः समनीरागचेतसो बहिस्तु यथाप्रारब्धं राप्तमनुवर्तमानाः ॥ २९ ॥
एतैर्यथा हुतं दत्तं हृहीतमुषितं स्मृतम् ।
तथा चेद्वर्तसे पुत्र मुक्त एवासि सङ्कटात् ॥ ३० ॥
हुतं दत्तमिति श्रौतस्मार्तकर्मोपलक्षणम् । स्मृतमित्युभयगोचरपूर्वा##-
अपारसंसारसमुद्रपाती [समुद्रमध्ये] लब्ध्वा परां
युक्तिमुदारसत्त्वः ।
न शोकमायाति न दैन्यमेति गतज्वरस्तिष्ठति नित्यतृप्तः ॥ ३१ ॥
युक्तिं तत्त्वनिश्चयादन्तः समरसत्वम् । उदारसत्त्वो दृढिकृतोत्कृष्त
ज्ञानबलः । इष्टवियोगजं दुःखं शोकः दीनः कृपणस्तद्भावो दैन्यम्
तयोर्मूलमभिमानज्वरः स गतो यस्य । निरतिशयानन्दात्मना स्थितः
सानित्यतृपतः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे
सूत्रपातनको नाम द्वितीयः सर्गः ॥ २ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे सुत्रपातनको
नाम द्वीतियः सर्गः ॥ २ ॥