०१

प्रथमः सर्गः १

श्रीमहागणपतिचरणारविन्दाभ्यां नमः ।

ॐ नमो ब्रह्मणे ब्रह्मविद्भ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो
वसिष्ठविश्वामित्रव्यासवाल्मीकिशुकादिभ्यः श्रीरामभद्राय च ।
अजमजरमनाद्यनन्तमन्तर्निजसुखबोधसदद्वितीयपूर्णम् ।
शिवमखिलहृदि स्फुरत्स्वमायाविकसितविश्वविलासमानताः स्मः ॥ १ ॥

स्मृतिफलितसमस्ताभीष्टमुद्यद्दिनेश##-
कमपि शिवभवान्योरङ्कसौभाग्यमन्तः
सुरमणिमवलम्बे चारु लम्बोदराख्यम् ॥ २ ॥

मुग्धस्मिताञ्चितमनोज्ञमुखेन्दुबिम्बं
स्निग्धामृतप्रतिमचारुकृपाकटाक्षम् ।
अग्रेसरैरनुसृतं मुनिभिर्मुनीनां
न्यग्रोधमूलवसतिं गुरुमाश्रयामः ॥ ३ ॥

त्रिभुवनावनकृत्यकृतोदयः सदभयामलबोधसुखाद्वयः
[सुखोदयः] ।
सुजनहृद्गिरिगह्वरकेसरी शरणमस्तु सदा नरकेसरी ॥ ४ ॥

दक्षे वराक्षवलयावभयं च वामे
या पुस्तकं च दधती विधिनेत्रपेया ।
सा शारदाब्जनयना शरदिन्दुशोभा
भासा स्वया हरतु मे हृदयान्धकारम् ॥ ५ ॥

ये नेत्राणि हरस्य यैर्जगदिदं प्रद्योतितं चेष्टते
यत्रैवायतते [वापतते] श्रुतिस्मृतिनुतो धर्मः सशर्मोदयः ।
येकालं कलयन्ति ये च परमस्वज्योतिरात्मोपमा-
स्तेसूर्येन्द्वनला भवन्तु हृदि मे बोधाब्जिनीभानवः ॥ ६ ॥

वक्रेन्दुभिर्दिक्षु तमो हरद्भिर्वेदार्थसारामृतमुद्गिरन्तम् ।
वाणीभुजाशिष्टमभीष्टसिद्ध्यै तं ब्रह्मविद्यादिगुरुं प्रपद्ये ॥ ७ ॥

यद्वाक्यामृतपायिनां प्रतिपदं सत्यं सुधा नीरसा
यद्वाक्यार्थविचारणादभिमतः स्वर्गोऽपि कारागृहम् ।
यद्वाणीविशदात्मपूर्णमनसां तुच्छं जगत्तूलव-
त्तस्मै श्रीगुरवे वसिष्ठमुनये नित्यं नमस्कूर्महे ॥ ८ ॥

[यस्यार्षप्रथिता; यशार्धप्रथिता] यस्यार्षं प्रथिता जगत्त्रयहिता
सा वेदमाता परा
यश्चक्रे तपसा वशे सुरगणानन्य [नन्यान्सिसृक्षुः] त्सिसृक्षुर्जगत्

तं बोधाम्बुनिधिं तपस्विमुकुटालङ्कारचिन्तामणिं
विश्वामित्रमुनिं शरण्यमनघं भूयो [नमस्यामहे]
नमस्याम्यहम् ॥ ९ ॥

श्रुत्या ब्रह्मैव रामः प्रकटितमहिमा येन तस्मै वसिष्ठो
यः सीतां ब्रह्मविधामिव सदसि पुनः सत्यशुद्धां किलादात् ।
यद्वाणी मोहमूलं शमयति जगदानन्दसन्दोहदोग्ध्री
तस्मै वाल्मीकये श्रीगुरुतमगुरवे भूरिभावैर्नताः स्मः ॥ १० ॥

पूर्णानन्दस्वभावः स्वजनहितकृते माययोपात्तकायः
कारुण्यादुद्दिधीर्षुर्जनमनवरतं मोहपङ्के निमग्नम् ।
आविश्यान्तर्वसिष्ठं बहिरपि कलयञ्शिष्यभावं वितेने
यः संवादेन शास्त्रामृतजलधिमनुं रामचन्द्रं प्रपद्ये ॥ ११ ॥

विद्याभिः सह विश्रुता श्रितवती येषां मुखं भारती
सत्त्वोत्कर्षसमाधिभिः स्थिरमहो तद्ब्रह्म येषां हृदि ।
पादाम्भोरुहमाश्रिताश्च सततं तीर्थैः समं सम्पदः
श्रीसर्वज्ञसरस्वतीति विदिताञ्श्रीमद्गुरूंस्तान्भजे ॥ १२ ॥

श्रीः संश्रितैव चरणौ हृदयं च राम-
श्चन्द्रो मुखं गुणभरेण सरस्वती च ।
येषामतस्तदभिधाङ्कितनामधेयान्
श्रीमद्गुरून्गुरुतरान्प्रणतोऽस्मि नित्यम् ॥ १३ ॥

तापध्वस्तिव्यापृतकारुण्यकटाक्षान्
व्याख्यावाणीनिर्वृतसर्वाङ्घ्रिशरण्यान् ।
श्रीमद्रामाननदमुनीनद्भुतचर्या-
नार्यान्नित्यं देशिकवर्यान्प्रणतोऽस्मि ॥ १४ ॥

विश्वेशोऽपि हरिः शरण्यचरणो यान्मानयन्सौहृदा-
च्छान्तान्नित्यमनुव्रजामि रजसा पूयेय चेत्यब्रवीत् ।
यत्पूजां विदधे श्रुतिर्मतिमतां सर्वेष्टसिद्ध्यै सदा
जीवन्मुक्तसुखात्मपूर्णमनसस्तान्ब्रह्मनिष्ठान्भजे ॥ १५ ॥

कृतिभिरसुकराः क्व नु प्रबन्धाः क्व च बत बालिशबुद्धिरेष जन्तुः ।
तदपि विरचनेऽत्र सद्गुरुणां सदयनीक्षणमेव मेऽवलम्बः ॥ १६ ॥

अशेषविद्याम्बुधिपारगाणामपास्तरागादिमनोमलानाम् ।
कृपानिधीनां कृतिनां ममास्मिन्सतां पदाब्जस्मरणं सहायः ॥ १७ ॥

यत्कृपालेशमात्रेण तीर्णोऽस्मि भवसागरम् ।
श्रीमद्गङ्गाधरेन्द्राख्यान्श्रीगुरूंस्तान्सदा भजे ॥ १८ ॥

आनन्दबोद्ययतिना श्रीमद्गुरुवचोमृतैः ।
वासिष्ठार्थप्रकाशोऽयं यथामति वितन्यते ॥ १९ ॥

प्रशंसन्तु स्वैरं मतिभिरथ निन्दन्तु सुधियः
प्रवृत्तिर्मे यस्मान्न भवति जनाराधनकृते ।
अनेन व्याजेनामृतरसवसिष्ठोक्तिभरिते
विहर्तुं वाञ्छामि प्रतिदिवसमाननन्दजलधौ ॥ २० ॥

यथामति बुभुत्सुभ्यः साहाय्यं सङ्कटेष्विव ।
दुरूहश्लोकभावेषु दर्शयिष्ये परिश्रमम् ॥ २१ ॥

स्थितमेकरसे युक्त्या नानारसविजृम्भणम् ।
वासिष्ठं रोचयत्वेतत्सुभोज्यं लवणं यथा ॥ २२ ॥

अप्यल्पमतिदुर्बोधं स्फुटं व्याख्यास्यते पदम् ।
द्विस्त्रिर्व्याख्यातपूर्वं तु दुरूहमपि मोक्ष्यते ॥ २३ ॥

अनन्यपूर्वव्याख्यातं ग्रन्थं मे व्याचिकीर्षतः ।
सन्तः श्रमज्ञाः कृपया क्षमध्वं स्खलितं क्वचित् ॥ २४ ॥

श्रीः । यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च ।
यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ॥ १ ॥

अथ जगदिदमनादिमहामोहनिशासुप्तमनवरतदुःस्वप्नभ्रमपरम्परा##-
ग्रहातिग्रहव्याघ्रभीषणे तापत्रितयदावानलज्वालमालाकुले
[ज्वालामाला] षडूर्भिजालेऽरिषड्वषव्याध [बाध्यमान्]
बध्यमानप्राणिनिकाये संसार महारण्ये मोमुह्यमानं विवेकान्धं
प्रबोधोपायदौर्लभ्या-द्विषीदत्समुद्दिक्ष्य शास्त्रभानुदयेन
तत्प्रबोधनाय भगवतः पद्मजन्मनह् शासनात्स्वतश्च प्रवर्तमानः
परमकारुणिको भगवान्वालिमीकिः प्रारिप्सितस्य महतः शास्त्रस्य
निर्विघ्नपरिसमाप्ति-प्रचयगमनादिसिद्धये
वक्ष्यमाणाश्रुतिस्मृतिसदाचारप्रापितं सर्व-विघ्नमूलोच्छेदक्षमं
सच्चिदानन्दाद्वयप्रत्यगात्मपरब्रह्मप्रणति-लक्षणं
मङ्गलमाचरन्नर्थाच्छास्त्रस्य विषयप्रयोजने तटस्थस्वरूप##-
जाअयन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व ।
तद्ब्रह्मेति इति श्रुत्युक्ततटस्थलक्षणसिद्धसदद्वयस्वभावं तत्पदार्थं
नमस्यति - यत इति । यतो यस्मात्परमार्थसदद्वितीयात्मवस्तुनः
प्रकृतिभूतात्सर्वाण्याकाशादीनि महाभूतानि भौतिकानि च सर्गादिकाले
यत्सत्तयैव सत्तां प्रतिलभ्य भान्ति प्रथन्ते आविर्भवन्तीत्यर्थः । तथा
स्थितिकाले च यत्सत्तयैव स्थितानि तथा प्रलयकालेऽपि यत्रैव
यत्सत्तामात्रपरिशेषेणोपशमं तिरोभावं यान्ति तस्मै सत्यात्मने
स्वाध्यारोपितसर्वभावानां पारमार्थिकस्वरूपभूताय सर्वप्राणिनां
वास्तवात्मभूताय च परब्रह्मणे नमः । तन्नमस्कारे च यत्र देवाः सर्व
एकं [एकीभवन्ति] भवन्ति इति श्रेतेरनमस्मृतस्य
देवतान्तरस्यापरिशेषात्सर्वनमस्कारसिद्ध्यास्य मङ्गलस्य
सर्वोत्कर्षात्सर्वविघ्नोच्छेदादिफलसिद्धिः ॥ अत्र यतोभूतानीति पदाभ्यां यतो
वा इमानि भूतानि जायन्ते जन्माद्यस्य यतः इति
तद्घटितश्रुतिसूत्रोक्तलक्षणप्रत्यभिज्ञानादस्य तन्मूलकत्वमिति न
साङ्ख्यादिकल्पितमहदादिकारणेषु यास्कोपदर्शितावान्तरकारणेषु
चातिव्याप्तिः । अत्र प्रकृतिपञ्चम्यैवोपादानत्वलाभास्त्रितयोअपादानं
लक्षणत्रयप्रदर्शनायेति केचित् । निमित्तेऽपि
पञ्चमीदर्शनाल्लयाधारत्वोक्तिरूपादानत्वलाभाय । स्थितिहेतुत्वोक्तिस्तु
चेतनानामेव पालक्स्त्वदर्शनाच्चेतनत्वालाभेन कर्त्रन्तरनिरासायेति
त्रितयलब्धमभिन्ननिमित्तोपादानत्वमेकमेव लक्षणमितन्ये । वस्तुतस्तु सत्यं
ज्ञानमनन्तं ब्रह्म सदेव सोम्येदमग्र आसीत् इति श्रुतौ
ज्ञेयत्वेनोपक्रान्ताद्वितीयसन्मात्रवस्तुपरिचयाय तस्माद्वा एतस्मादात्मन
आकाशः सम्भूतः तत्तेजोऽसृजत इत्यादिना तटस्थलक्षणावतारात् सर्वं
खल्विदं ब्रम तज्जलानिति शान्त उपासीत इति
श्रुत्युपदर्शितदिशोत्पत्त्यादिकालत्रयेऽपि सदव्यभिचारात्कार्यस्य
कारणव्यतिरिक्तसत्त्वानुपलम्भाच्च कारणतत्त्वमेव ब्रह्म
वस्तुसत्यमित्यध्यारोपापवादाभ्याम्
निष्प्रपञ्चविषयप्रयोजनसिद्धिप्रतिपादनाय त्रितयघटितलक्षणोपादानम् ।
नह्येकैकोपादाने कार्यस्य विवर्तत्वसिद्धिरिति । अतएव हि श्रुतौ जायन्ते -
अभिसंविशन्तीति पदे प्रतिभानाप्रतिभानलक्षणाविर्भावतिरोभावपरे न
विकारपरे इति सूचनाय प्रतिभान्त्युपशमं यान्तीत्युक्तम् ।
वृद्धिविपरिणामयोराविर्भा-वेऽपैषयस्य च तिरोभावेऽन्तर्भावात्
स्थितेश्चाधिष्ठानसत्तानुवेधमात्ररूपत्वान्नाध्यारोपातिरिक्तविकार##-
॥ १ ॥

ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः ।
कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञप्त्यात्मने नमः ॥ २ ॥

प्रतिभान्तीति सामान्यतः सूचितं तस्य चिदेकरसत्वं
सर्वानुभवसिद्धत्वेनोपपादयंस्त्वम्पदार्थतत्त्वभूतं तमेव
पुनर्नमस्यति - ज्ञातेति । अनेन जीवेनात्मनानुप्रविश्य नामरूपे
व्याकरवाणि इति श्रुतेर्यस्माद्बिम्बभूतात्कूटस्थचिदेकरसात्सतः स्वयमेव
प्रतिमिम्बभावेन समस्टिव्यष्टिविज्ञानमनोमयकोशद्वयात्मकान्तःकर##-
तज्जाड्यमभिभूय तदभिज्वलयन् ज्ञाता । विस्फुलिङ्गानिव
तद्वृत्तीरभिज्वलयन् ज्ञानम् । वृत्तौ विषयाकारापन्नायां स्वयमपि
दद्द्वारा तदाकारस्तद्भावमिवापन्नो ज्ञेयम् । परोक्षसाधार।येनोक्त##-
ज्ञानेन्द्रियाण्यु-पादाय दृष्टा । तत्सम्प्रयोगजन्यवृत्तीरुपादाय
दर्शनम् । तत्फलात्मना विषयान्व्याप्य ताद्रूप्यानुरञ्जनात्स्वयमपि दृश्य
एव भवतीति दृश्यभुः । तथा स एव कर्मेन्द्रियप्राणशरीराण्युपादाय कर्ता
। फलभोक्तृभावेन क्रियोत्पादननिमित्तत्वाद्धेदुः ।
क्रियासाकल्यवैकल्ययोरहमेव सकलो विकल इति क्रियाभिमानाच्च क्रिया । एष हि
द्रष्टा श्रोता मन्ता कर्ता बोद्धा विज्ञानात्मा पुरुषः प्राणन्नेन प्राणो
नाम भवति वदन्वाक्पश्यंश्चक्षुः इत्यादि श्रुतेः । एवं सर्वव्यवहारेषु
प्रतिचः स्वपरस्फूर्तिनिर्वाहकत्वाच्चिद्रूपतया सर्वानुभवसिद्धोऽपि
विचित्रोपाध्य-नुरञ्जनव्यामोहाच्चित्रपटे प्रभाशौक्ल्यमिव न
विविच्यानुभूयत इति पृथक्करणाय यस्मादिति निमित्तपञ्चम्या निर्देशः ।
यत्सन्निधान-निमित्तकमेव कर्तादिस्फुरनं नतु यत्स्वभावभूतं
व्यभिचारित्वाद्दृशो दृश्यस्वभावत्वानुपपत्तेश्चेति भावः । अतस्तस्मै
ज्ञात्रादिसाक्षिणे परमार्थतो ज्ञप्त्यात्मने ज्ञप्तिमात्रत्वेन परिशिष्टाय
प्रत्यगात्मने नम इत्यर्थः ॥ २ ॥

स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ ।
सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥ ३ ॥

एवं पदार्थौ परिशोध्य तटस्थलक्षणपर्यवसानस्थानं आनन्दोब्रह्मेति
व्यजानात् इति श्रुतिदर्शितनिरतिशयानन्दरूपं परमपुरुषार्थभूतम##-
ब्रह्मलोकान्ते स्वर्गे देवेष्विति यावत् । तथा अवनौ भूमौ मनुष्यादिस्तम्ब##-
[वैषम्य]
शद्यतारतम्येनावरणाभिभवतारतम्यात्सरोमुकुरमण्यादिषु गिरिप्रतिबिम्बा
इवौपाधिकभेदतारतम्येन विभाव्यमानत्वादानन्दस्य सीकराः कणा इव
सीकराः स्फुरन्ति । सर्वैर्भ्रान्त्या अनात्मत्वेनात्म-शेषत्वेन
परिच्छेदभेदवैचित्र्यदुःखसम्भेदक्षयिष्णुत्वादिभिश्चानु-भूयन्त इति
यावत् । परमार्थतस्तु न तथा किन्तु तदेव निष्।कृष्तोपाधिभेदं सर्वेषां
ब्रह्मादिस्तम्बपर्यन्तानां जीव्यते अनेनेति जीवन। म्सारभूत-मात्मतत्त्वम्
। न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति
यस्मिन्नेतावुपाश्रितौ इतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति को
ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् इति श्रुतेः । अतएव
भेदकाभावात्स्वरूपलक्षणैक्याच्च स एव यतो वाचो निर्वर्तन्ते अप्राप्य मनसा
सह आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इति श्रुति
प्रसिद्धापरिच्छिन्नब्रह्मानन्द आत्मा च । नान्य आत्मा नाम कश्चिदस्ति
नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति विज्ञाता इत्यादिश्रुतेः । तस्मै ब्रह्मानन्दाद्मने
परमपुरुषार्थरूपाय नम इत्यर्थः । इह मङ्गलाचरणं
शास्त्रनिर्माणारम्भार्थमुत्तरसर्गे तु
शिष्येभ्यस्तदुपदेशस्यारम्भार्थमिति न पौनरुक्त्यम् ॥ ३ ॥

सूतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः ।
अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥ ४ ॥

अत्रार्षदैवसंवादः सम्प्रदायविशुद्धये ।
रामाज्ञाननिमित्तं चाप्युपोद्धाताय वर्ण्यते ॥

इत्थं मङ्गलविषयादिप्रदर्शनमुखेन शास्त्रार्थं सुप्रबोधाय
सङ्क्षेपतः प्रदर्श्य सहसाधनोपपत्त्यादिभिर्विस्तरेण तमेवार्थं
व्युत्पादयितुं शास्त्रमारभमाणस्तस्मिन् श्रोतॄणां विश्वासदार्ढ्याय
बहुतरब्रह्मविन्मूर्धन्यमहर्षिजुष्टब्रह्मादिसम्प्रदायप्राप्त##-
इत्यादिना । सुतीक्ष्णः तपःकर्मोपासनाशोधितत्वाच्छोभना दुरूहार्थ##-
ब्राह्मणग्रहणं ब्राह्मणानामेव ब्रह्मविद्यायां मुखाधिकार इति
द्योतनार्थम् । संशयेन जिज्ञासायै आकृष्टं मानसं यस्येति
जिज्ञासुरित्यर्थः । सादरं विध्युक्तसमित्पाणित्वप्रणिपातप्रपत्त्याद्या##-

सुतीक्ष्ण उवाच ।

भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित ।
संशयोऽस्ति महानेकस्त्वमेतं कृपया वद ॥ ५ ॥

धर्म तत्त्वं च जानासीति धर्मतत्त्वज्ञ । सर्वेषु शास्त्रेषु विशिष्टं निश्चितं
निश्चयो यस्य स तथा । परस्परविरुद्धार्थानेकश्रुतिस्मृतिवादि##-

मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥ ६ ॥

कारणमुत्पादकम् । साधनं व्यञ्जकम् । अत्र मोक्षो हि परमपुरुषार्थ##-
दुःखेन सं भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं
सःपदास्पदम् ॥ इति श्रुत्या स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात् इति
जैमिनिवचनाच्च तस्य तथात्वसिद्धेः । नच जन्यत्वेन नाशानुमानम् ।
श्रुतिविरुद्धेऽर्थे अनुमानानुदयात् तस्याजन्यत्वे साधनोपदेशानर्थक्य##-
कल्पः । न कर्मणा न प्रजया प्लवा ह्येते अदृढा यज्ञरूपाः इत्यादि##-
पन्था विमुक्तये इत्यादिश्रुत्या मुक्तौ ज्ञानातिरिक्तसाधननिषेधाज्ज्ञानस्य च
प्रमाणजन्यस्य वस्त्वभिव्यक्त्यतिरिक्तफलाप्रसिद्धेरित्यौपनिषदमतमव##-
जिजीविषयेच्छतṁ समाः इति यावज्जीवानुष्ठेयत्वेन कर्म असुर्या नाम ते लोका
अन्धेन तमसा वृताः इत्यादिना अविद्वन्निन्दापूर्वक। म्ब्रह्मविद्यां च
प्रस्तुत्य तयोरेकैकस्य मोक्षसाधनताम् अन्धं तमः प्रविशन्ति
येऽविद्यामुपासते [अविद्यामग्निहोत्रादिलक्षनं कर्मेति महीधरः] ।
ततो भूय इव ते तमो य उ विद्यायाṁ रताः इति निन्दित्वा विद्यां चाविद्यां च
यस्तद्वेदोभयṁ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते इति
समुच्चितयोरात्यन्तिकानर्थनिवृत्तिनिरतिशयानन्दावाप्तिलक्षणमोक्षहेतु##-
निर्णयकारणं कथयेत्यर्थः ॥ ६ ॥

अगस्तिरुवाच ।

उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥ ७ ॥

यन्न दुःखेन इति श्रुतेर्बहुतरश्रुत्यादिविरोधेनापेक्षिकनित्यत्वपरत्वात्तेषु
प्रथमकल्पस्यासम्भवं द्वितीयतृतीयकल्पयोः कर्मणां चित्तशुद्धि##-
प्रतिवचनमुवाच - उमाभ्यामित्यादिना । यथा खे आकाशे पक्षिणामु##-
तद्विष्णोः परमं पदम् इति श्रुतिप्रसिद्धं संसाराध्वनः पारं कैवल्य##-
पूर्वभावस्तु प्रवृत्तिनिवृत्त्योर्युगपदसम्भवाद्विरुद्धाधिकारिविशेष##-
प्रतिबिम्बोदये मार्जनालोकौ द्वाप्यावश्यकौ तद्वत्कर्मकृतचित्तशुद्धिः
प्रमाणजन्यवृत्तिश्चाविद्यानिवृत्तावावश्यके अशुद्धचित्तैः शतशः
श्रुतेऽपि ज्ञानफलादर्शनादिति भावः ॥ ७ ॥

केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते ।
किन्तुभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥ ८ ॥

तदेव द्रढयन्पुनराह - केवलादिति । साधनं व्यञ्जकं विदुः ।
ब्रह्मविद इति शेषः । तथाच विदुषामनुभवसिद्धे नत्र विप्रतिपत्तव्व्यमिति
भावः । विद्यां चाविद्यां च इति श्रुतिस्तूपासनकर्मसमुच्चयपरा न
ब्रह्मविद्यायाः कर्मसमुच्चयपरा । तदङ्गत्वेनोपक्रमे तेन त्यक्तेन
भुञ्जीथाः इति सन्न्यासविधिविरोधादिति प्रपञ्चितं भाष्यकृभिरिति न
कश्चिद्विरोधः । नत्वत्र यथाश्रुतमापाततो गृहीत्वा
ज्ञानकर्मसमुच्चय-पक्ष एवैतद्ग्रन्धाभिमत इति भ्रमितव्यम् ।
अलब्धज्ञानदृष्टीनां क्रियामात्रं [क्रियामुत्र] परायणम् । यस्य
नास्त्यम्बरं पट्टं कम्बलं किं त्यजत्यसौ ॥ इत्यादिना मणिकाचोपाख्यानेन
चोत्तरत्र केवलज्ञानेनैव मुक्तिरिति व्यवस्थापनेन पूर्वोत्तरविरोधापत्तेः ॥ ८ ॥

अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते ।
कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ॥ ९ ॥

अग्निवेश्यस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः ।
गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥ १० ॥

तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा ।
अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥ ११ ॥

अग्निवेश्य उवाच ।

किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥ १२ ॥

प्राह एतदित्यसन्धिः संहिताया अनित्यत्वात् । निन्द्यमविधिना
कर्मपरित्यागान्निन्दार्हं पुत्रम् ॥ १२ ॥

अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद ।
कर्मणोऽस्मान्निवृत्तेः किं कारणं तन्निवेद्यताम् ॥ १३ ॥

सिद्धिं प्रत्यवायपहिराहं स्वर्गं मोक्षं वा ॥ १३ ॥

कारुण्य उवाच ।

यावज्जिवमग्निहोत्रं नित्यं सन्ध्यामुपासयेत् ।
प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः ॥ १४ ॥

अग्निहोत्रं जुहोति इति वाक्यशेषः । चोदितो विहितः ॥ १४ ॥

न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा ।
त्यागमात्रेण किन्त्वेके यतयोऽश्नन्ति चामृतम् ॥ १५ ॥

एके मुख्याः । चकारोऽनर्थनिवृत्तिसमुच्चयार्थः ॥ १५ ॥

इति श्रुत्योर्द्वयोर्मध्ये किं कर्तव्यं मया गुरो ।
इति सन्दिग्धतां गत्वा तूष्णीम्भूतोऽस्मि कर्मणि ॥ १६ ॥

द्वयोर्विरुद्धार्थेयोरिति यावत् । सन्दिग्धतां सन्दिहानताम् । अकर्मकत्वात्
गत्यर्थाकर्मक इति कर्तरि क्तः ॥ १६ ॥

अगस्तिरुवाच ।

इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।
तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥ १७ ॥

अग्निवेश्य उवाच ।

शृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् ।
मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥ १८ ॥

एकां सर्वसन्देहमूलाज्ञानोच्छेदित्वान्मुख्यां कथां वक्ष्यमाण##-

ज्ञानं न त्वात्मनो धर्मो न गुणो वा कथञ्चन ।
ज्ञान-स्वरूप एवात्मा नित्यः सर्वगतः शिवः ॥
अहमात्मा समस्तानां भूतानां परमेश्वरः ।
एक एव पदार्थाश्च कल्पिता मयि षण्मुख ॥
विज्ञानमेतदखिलं विश्वाकारमबुद्धयः ।
पश्यन्तिज्ञानिनस्त्वेकमात्मरूपमिदं जगत् ॥
दुर्विज्ञेयं वसिष्ठेन रामाय कथितं पुरा ॥

इति षण्मुखं प्रति शिवेनाविद्यास्वरूपं ब्रह्मतत्त्वं च विस्तरेणोपदिश्य
स्ववाक्ये विश्वासदार्ढ्याय विश्वसनीयतमत्वेन प्रसिद्धस्य ब्रह्मविद्या##-
सम्बोधनं कथार्थलक्षणपितृधनग्रहणयोग्यत्वद्योतनार्थम् ॥ १८ ॥

सुरुचिर्नाम काचित्स्त्री अप्सरोगणौत्तमा ।
उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥ १९ ॥

उत्तमा ब्रह्मविद्याधिकारिविशेषणसम्पन्नत्वाच्छ्रेष्ठा ॥ १९ ॥

रमन्ते कामसन्तप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योधेन संसृष्टे महाघौघविनाशिना ॥ २० ॥

दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा ।
तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥ २१ ॥

ज्ञानोपदेशफलभागिनीत्वान्महाभागा । चकारो न केवलं नाम्नैव किन्तु
शोभनायां ब्रह्मविद्यायां रुचिः सञ्जाता अस्या इत्यर्थगोऽपि सुरुचिरिति
समुच्चयार्थः । दिव्यदृशा दूतब्रह्मवित्त्वपरिज्ञानसमर्थ##-

सुरुचिरुवाच ।

देवदूत महाभाग कुत आगम्यते त्वया ।
अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥ २२ ॥

सुरुचिरुवाचेति । अर्थाद्योग्यतयाभ्युत्थानाभिवादनयोपायनाहरणपूजनो##-
द्योतनाय महाभागेति सम्बोधनम् । प्रकृतोपयोगयोग्योऽन्योऽपि क्वैष
तदाभूत्कुत एतदागादितो मुच्यमानः क्व गमिष्यसि इति श्रौतप्रश्नसा##-
कस्मिन्स्वरूपे गन्तासि त्वमिति सर्वाधिष्ठानब्रह्मतत्त्वविषय एव
पर्श्नोऽभिप्रेत इति गम्यते । तत्सर्वं पूर्णं वदेति पदस्वारस्यादप्ययमेव
प्रश्नार्थ इति गम्यते ॥ २२ ॥

देवदूत उवाच ।

साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते ।
अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ॥ २३ ॥

गूढाभिसन्धिर्महान्प्रश्नार्थो भ्रूविलासेन सुचितः स्वेन परिज्ञात इति
स्वाभिप्रायं सूचयंस्तथैव सम्बोधयति - सुभ्र्विति । यथावत्
यथावृत्तं यथार्थमात्मतत्त्वं च ॥ २३ ॥

वीतरागह् स धर्मात्मा निर्ययौ तपसे वनम् ।
तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥ २४ ॥

कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना ।
गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् ॥ २५ ॥

कार्यमवश्यसम्पाद्यमात्मज्ञानेन कृतार्थत्वं तस्य स्वस्य च कृत्वा
सम्पाद्य । वृत्तः सम्पन्नः अन्तः संसारसीमा यस्य तं तथाभूतं
राजानमिति चार्थः ॥ २५ ॥

अप्सरा उवाच ।

वृत्तान्तः कोऽभवत्तत्र कथयस्व मम प्रभो ।
प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥ २६ ॥

देवदूत उवाच ।

अतएव हि तत्तथाविधं जिज्ञासमाना सोवाच । वृत्तन्तः प्राप्तसंसारान्तः स
राजा कोऽभवत् कीदृक्स्वरूपेण स्थित इति निगूढः प्रश्नः । बह्वत्र वक्तव्यं
नाल्पेन तदसम्भावनादिदोषशान्तिरित्यनुद्वेगप्रार्थना । देवानां
परोक्षप्रियत्वाच्च स्फुटोक्त्या प्रश्नोत्तरयोः स्वायत्तयोरपि निगूढोक्त्यात्र
उच्यते ॥ २६ ॥

शृणु भद्रे यथावृत्तं विस्तरेण वदामि ते ।
तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् ॥ २७ ॥

इत्यहं देवराजेन सुभ्रूराज्ञापितस्तदा ।
दूतं त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥ २८ ॥

इति वक्ष्यमाणप्रकारेण । तत्र गन्धमादने । विरक्तश्चेत्तत्तद्दृष्ट्याल्पं
कुत्सितं चेत्युपेक्षार्हमिति सूचनाय विमानकमिति [कन्प्रत्ययः]
कन्प्रयुक्तः ॥ २८ ॥

अप्सरोगणसंयुक्तं नानावादित्रशोभितम् ।
गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ॥ २९ ॥

शोभितान्तानि विमानविशेषणानि ॥ २९ ॥

तालवेणुमृदङ्गादि पर्वते गन्धमादने ।
नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे ॥ ३० ॥

विमानाद्बहिरपि सैनिकैस्तालवेणुमृदङ्गादि गृहीत्वेत्यनुषङ्गः ॥ ३० ॥

अरिष्टनेमि राजानं दूतारोप्य विमानके ।
आनय स्वर्गभोगाय नगरीममरावतीम् ॥ ३१ ॥

दूत उवाच ।

इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्विमानकम् ।
सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥ ३२ ॥

उपस्कराणि गुणवत्तयोपकल्पितानि भोगसाधनानि । उपात्प्रतियत्न - इति सुट् ।
सम्प्रति स्वस्य तत्त्वज्ञत्वादज्ञदृशाभिमते देहादिद्वारके स्वगमने
उन्मादादिकृत इव पारोक्ष्यारोपान्मत्तोऽहं किल विललापेतिवद्ययाविति लिट् ॥ ३२ ॥

आगत्य पर्वते तस्मिन्राज्ञो गत्वाश्ह्रमं मया ।
निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ॥ ३३ ॥

इति मद्वचन। म् श्रुत्वा संशयानोऽवदच्छुभे ।

राजोवाच ।

प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥ ३४ ॥

गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः ।
ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि ॥ ३५ ॥

स्थितिं गुणदोषन्यूनाधिक्यव्यवस्थितिम् । तत्रत्यां स्वर्गस्थाम् ॥ ३५ ॥

दूत उवाच ।

स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् ।
उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥ ३६ ॥

सामग्र्या समग्रतया । क्षुद्रपुण्यानामपि प्राचुर्येणेत्यर्थः । परम##-
सुखं लभ्यमित्याह - उत्तमेनेति ॥ ३६ ॥

मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा ।
कनिष्ठेन तु पुण्येन स्वर्गो भवति तादृशः ॥ ३७ ॥

एवं मध्यमकनिष्ठत्वे अपि प्राचुर्योत्कृष्टत्वाभ्यां बोध्ये ॥ ३७ ॥

परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः ।
कनिष्ठेषु च सन्तोषो यावत्पुण्यक्षयो भवेत् ॥ ३८ ॥

अनुत्तमपुण्यफलेषु दोषान्तराण्याह - परेति । तैरुत्क्ष्टैः
स्पर्धमानैश्च सहेति शेषः । तथाच तत्प्रयुक्तं दुःखं दुःसहमिति
भावः । यावदिति सर्वसाधारणमिदम् ॥ ३८ ॥

क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः ।
इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥ ३९ ॥

मानवाश्च भवन्ति रमणीयकर्मावशेषे । तच्च दुर्लभमिति सूचनाय चकारः
॥ ३९ ॥

इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत ।

राजोवाच ।

नेच्छामि देवदुताहं स्वर्गमीदृग्विधं फलम् ॥ ४० ॥

स्वर्ग फलमित्यभेदान्वयः ॥ ४० ॥

तत्ः परं [महोग्रं तु] महोग्रं च तपः कृत्वा कलेवरम् ।
त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥ ४१ ॥

पापानां तपसा निःशेषं क्षपणात् सुकृतानामसति रागे जन्मा##-

देवदूतं विमानेदं गृहीत्वा त्वं यथागतः ।
तथा गच्छ महेन्द्रस्य सन्निधौ त्वं नमोऽस्तु ते ॥ ४२ ॥

विमानं च तदिदं चेति कर्मधारयः । अथवा स्वागमनप्रताख्यानेन विगतो
मानोऽयस्येति देवदूतविशेषणम् । विमानेति पृथक्पदम् । अत एव
तत्क्षमापनाय नमोऽस्तु ते इत्युक्तिः ॥ ४२ ॥

देवदूत उवाच ।

इत्युक्तो गतो भद्रे शक्रस्याग्रे निवेदितुम् ।
यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥ ४३ ॥

महतां शक्रसभागतानामाश्चर्यतां विस्मयहेतुताम् ॥ ४३ ॥

पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा ।

इन्द्र उवाच ।

दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् ॥ ४४ ॥

अविषयनियोगदुःखितदूताश्वासनाय मधुरया । आश्रमं
वाल्मीकेरित्युत्तरेणान्वयः ॥ ४४ ॥

वाल्मीकेर्ज्ञाततत्त्वस्य स्वबोधार्थं विरागिणम् ।
सन्देशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥ ४५ ॥

स्वबोधार्थमात्मतत्त्वज्ञानाय । स्वपदे श्लेषात्तवापि स्वात्मबोधो भावीति
ध्वनितम् । सन्देशं वाचिकम् ॥ ४५ ॥

अहर्षे त्वं विनीताय राज्ञेऽस्मै वीतरागिणे ।
नस्वर्गमिच्च्यते तत्त्वं प्रबोधय महामुने ॥ ४६ ॥

[रागिणो राग] वीतरागिणे । रागमूलाः काम्यप्रवृत्तयो
रागापगमादेव वीता गता यस्येथर्थः । स्वर्गं नेच्छयते ॥ ४६ ॥

तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् ।
इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके ॥ ४७ ॥

तेन तत्त्वबोधनेन । [उपदेशक्रमा] क्रमादुपदिष्टार्थस्य चित्ते
सङ्क्रमात् मनोनाशान्तमननादिक्रमाद्वा ॥ ४७ ॥

मयागत्य पुनस्तत्र राजा वल्मीकजन्मने ।
निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् ॥ ४८ ॥

मया महेन्द्रस्य सन्देशेन सह राजा निवेदितः । राज्ञा स्वमोक्षस्य साधनं
स्वाभिलषितं निवेदितमिति विपरिणामेन सम्बन्धः ॥ ४८ ॥

ततो वल्मीकजन्मासौ राजानं समपृच्छत ।
अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥ ४९ ॥

देशकोशपुत्रतपः प्रभृतीनां कुशलप्रश्नवार्तयैवार्थादनामयं
समपृच्छतेत्यर्थः ॥ ४९ ॥

राजोवाच ।

भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर ।
कृतार्थोऽहं भवद्दृष्ट्या तदेव कुशलं मम ॥ ५० ॥

आद्येन विशेषणेन कर्मकाण्डरहस्यज्ञता द्वितीयेन ब्रह्मतत्त्वज्ञता
तृतीयेन लोकतत्त्वज्ञता च दर्शिता । भवद्दृष्ट्या भवतो दर्शनेन
भवदीयकृपादृष्ट्या च । तत् भवद्दृष्टिप्रयुक्तं [कार्तार्थ्यं
कृतकृत्यत्वम्] कार्तार्थ्यमेव ॥ ५० ॥

भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद ।
संसारबन्धदुःखार्तेः कथं मुञ्चामि तद्वद ॥ ५१ ॥

प्रष्टुमिछामीति दूतसन्देशादेव प्रश्नविषयपरिज्ञानेऽपि नाऽपृष्टः
कस्यचिद्ब्रूयात् इति प्रसक्तोपेक्ष्यतावारणाय । तत् तत्र श्रेओरूपे । श्रेयांसि
बहुविघ्नानि इतिप्रवादप्रसक्तां विघ्नसम्भावनां निवारयति -
अविघ्नेनेति । तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः इति श्रुतेः ।
देवानां प्रातिकुल्ये हि विघ्नसम्भावना स्यान्नतु तदस्ति देवराजाज्ञयैवाहं
यतः पृच्छामीति भावः । संसारबन्धप्रौक्तदुःखैरार्तिः
पुनःपुनर्नाशस्त-स्मान्मुञ्चामि मुक्तो भवामि । आद्यो मोक्षस्वरूपस्य
प्रश्नो द्वितीयो मोक्षसाधनस्य ॥ ५१ ॥

वाल्मीकिरुवाच ।

शृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् ।
श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥ ५२ ॥

कैकेयीवरापदेशात्स्वस्थानप्रच्युतस्य रामस्य राक्षसान्विजित्य पुनः
स्वस्थानायनाभ्युदयप्राप्तिवच्छापापदेशात्स्वरूपात्प्रच्युतस्य तस्य
वसिष्ठोपदेशादज्ञानादिराक्षसान्निहत्य पुनः स्वस्वरूपावाप्त्यभ्यु##-
प्रमाणासम्भावनां मननेन त्ववधार्य प्रमेया-सम्भावणां
यत्नेन निदिध्यासनेन विपरीतभावनां च निरस्य । साक्षात्कारेणेति शेषः ॥ ५२ ॥

वसिष्ठरामसंवादं मोक्षोपायकथां शुभाम् ।
ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥ ५३ ॥

वसिष्ठरामयोः संवादरूपेण प्रवृत्तं मोक्षोपायानां कथम् । न
नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः इति श्रुतेर्नातत्त्व##-
ज्ञातस्वभाव इति ॥ ५३ ॥

राजोवाच ।

को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा ।
एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥ ५४ ॥

वसिष्ठरामसंवादमित्यत्र द्वन्द्वेऽल्पाचोऽपि परनिपाताद्रामस्य शिष्यता
सूचिता सा त्वज्ञस्यैव सम्भवति नेश्वरस्य । रामस्तु भगवदवतारत्वात्##-
कश्चिद्राम-नामा उत प्रसिद्धो नित्यमुक्तो विष्णुरित्यर्थः । ज्ञायतेऽनेनेति
ज्ञानं निश्चयकारणमितर्थः ॥ ५४ ॥

वाल्मीकिरुवाच ।

शापव्याजवशादेव राजवेषधरो हरिः ।
आहृताज्ञानसम्पन्नः किञ्चिज्ज्ञोऽसौ भवत्प्रभुः ॥ ५५ ॥

तदेवाह - शापेति । व्याजोऽपदेशः । आहृतेन
स्वभक्तवाक्यसत्यतासम्पा-दनायेच्छया स्वीकृतेनाज्ञानेनाज्ञप्रायः
सम्पन्नः भवत् अभवत् । अडभावश्छान्दसः ॥ ५५ ॥

राजोवाच ।

चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे ।
शापस्य कारणं ब्रूहि कः [कः शशापेति] शप्ता चेति मे वद ॥
५६ ॥

महर्षिभिरपराधिनो हि शप्यन्ते अपराधो ह्यपूर्णकामस्याज्ञस्य स्यात्
नचानावृतचिदानन्द स्वरूपत्वादथाभूतस्य रामस्य तत्सम्भवः
शापादेव तदुक्तौ त्वनोन्याश्रय इत्यभिप्रेत्याह - चिदानन्देति ।
परमार्थ-तश्चिदभिन्नानन्दस्वरूपे [श्चिदानन्दस्वरूपे] ।
व्यवहारेऽपि चैतन्यमेव भक्तानुकम्पया विग्रहात्मना परिणतं यस तस्मिन् ।
५६ ॥

वाल्मीकिरुवाच ।

सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि ।
वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥ ५७ ॥

निष्काम अवसदिति च्छान्दसं यत्वम् । निर्गताः कामा रागादयो यत्रेति निष्कामे
[निष्कामे] ब्रह्मसद्मनीति वा ॥ ५७ ॥

ब्रह्मणा पूजितस्तत्र सत्यलोकनिवासिभिः ।
विना कुमारं तं दृष्ट्वा ह्युवाच प्रभुरीश्वरः ॥ ५८ ॥

कुमारं सनत्कुमारं विनान्यैः सत्यलोकनिवासिभिः पूजित इत्यनुषङ्गः ॥ ५८ ॥

सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया ।
अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ ५९ ॥

कामेन ऋतो व्याप्तः । ऋते च तृतीयासमासे इति वृद्धिः ॥ ५९ ॥

तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् ।
किञ्चित्कालं हि त्यक्त्वा त्वमज्ञानी भविष्यसि ॥ ६० ॥

किञ्चित्कालमिति कर्मधारयः । कालाध्वनोरत्यन्तसंयोगे इति द्वितीया ॥ ६० ॥

भृगुर्भार्यां हतां दृष्ट्वा ह्युवाच क्रोधमूर्च्छितः ।
विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥ ६१ ॥

क्रोधेन मूर्छितो मोहितः समुच्छ्रितश्च ॥ ६१ ॥

वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् ।
अतस्त्वं स्त्रीवियोगं ति वचनान्मम यास्यस्य् ॥ ६२ ॥

वृन्दया जलन्धर भार्यया । छलनं पतिवेषेण मोहयित्वा
पातिवृत्यभङ्ग-रूपं वञ्चनम् । शापितः शप्तः । अध्यारोपित##-

भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता ।
नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥ ६३ ॥

वेषधृग्विष्णुमिति कर्मधारयः ॥ ६३ ॥

तेन शप्तो हि हृहरिर्दुःखार्तः स्त्रीवियोगतः ।
तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥ ६४ ॥

दुःखैर्दुःखसाध्यैः सुकृतैः ऋतः साक्षात्कृतोऽपि नृहरिस्तेन शप्तः ॥
६४ ॥

भृगुणैवं कुमारेण शापितो देवशर्मणा ।
वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥ ६५ ॥

आद्यशापेन साक्षादितरैराक्षेपादज्ञानप्राप्तिः । अतएव हि रामस्य त्रिः
सीतावियोगो रावणापहारेण मिध्यापवादेन भूतलप्रवेशेन् चेति । न चिरं त्वयि
वत्स्यतीति ताराया वचनं त्वधिक्षेपमात्रं न शापः । तस्या जीवत्यपि वालिनि
सुग्रीवेणोपमुक्तत्वस्य धर्मतो मातरं यस्तु स्वीकरोति जुहुप्सितः
इत्यङ्गदवाक्येन प्रसिद्धत्वात्पातिवृत्यभङ्गेन निकृष्टयोइतया
चोत्कृस्ताय रामाय शापपरदाने असामर्थ्यात् मानुष्यतां मनुष्य एव
मानुष्यस्तद्-भावम् ॥ ६५ ॥

एतत्ते कथितं सर्वं शापव्याजस्य कारणम् ।
इदानीं वच्मि तत्सर्वं सावधानमतिः शृणु ॥ ६६ ॥

तत् पूर्वपृष्टं मोक्षसाधनम् । सर्वं सानुबन्धनम् । तत् महारा##-

इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये
द्वात्रिंशत्साहस्त्र्यां सम्हितायां वैराग्यप्रकरणे सूत्रपातनको नाम
प्रथमः सर्गः ॥ १ ॥

इति वासिष्ठमाहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरेणे प्रथमः
सगरः ॥ १ ॥