चाक्षुषोपनिषत् नेत्रोपनिषत् च
अथातश्चाक्षुषीं पठितसिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामो
यया चक्षूरोगाः सर्वतो नश्यन्ति चक्षुषो दीप्तिर्भवति ।
अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः । var अस्याचाक्षुषविद्याया
गायत्री छन्दः । सूर्योदेवता । var सवितादेवता
चक्षूरोगनिवृत्तये विनियोगः ।
ॐ चक्षुश्चक्षुश्चक्षुश्तेजस्थिरोभव । मां पाहि पाहि ।
त्वरितम् चक्षूरोगान् शमय शमय । त्वरितं ममाजातरूपं तेजो
दर्शय दर्शय । यथाहमन्धोनस्यां तथा कल्पय कल्पय ।
कल्याण कुरु कुरु । यानि यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक
दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय । var दिव्याय भास्कराय
ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय । var करुणाकराय
ॐ नमो भगवते सूर्याय अक्षितेजसे नमः ।
खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः ।
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः ।
हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं
विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति ।
न तस्य कुले अन्धो भवति । न तस्य कुलेऽन्धो भवति ।
अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।
ॐ विश्वरूपं घृणिनं जातवेदसं
हिरण्मयं पुरुषं ज्योतीरूपं तपन्तं
(विश्वस्य योनिं प्रतपन्तमुग्रं)
सहस्ररश्मिभिः शतधावर्तमानः
पुरः प्रजानामुदयत्येष सूर्यः ।
ॐ नमो भगवते आदित्याय अवाग्वादिने स्वाहा ।
ॐ
पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः । कमलेक्षणाय नमः । विश्वरूपाय नमः । महाविष्णवे नमः ॥
इति चाक्षुषोपनिषत् संपूर्णा
[अस्या उपनिषदः “चक्षुरुपनिषत्, चक्षुरोगोपनिषत्, नेत्रोपनिषत् " इति नामान्तराणि वर्तन्ते । ]
विस्तारः (द्रष्टुं नोद्यम्)
This upaniShat ma.ntra is to be recited daily twelve times as there are said to be twelve Suns or Aditya. While reciting the ma.ntra, a copper or silver glass/vessel with little amount of water inside should be held in front to purify the water inside. At the end, the water should be applied to eyes by fingers and then should be drunk.
Another ma.ntra from Rigveda (10-158) can also be recited.
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
चक्षुर्धाता दधातु नः । चक्षुर्नो धेहि चक्षुषे
चक्षुर्विख्ये तनूच्यः । सञ्चेदं विच पश्येम ।
सुसन्दृशन्त्वा वयं प्रति पश्येम सूर्य । विपश्येम नृचक्षसः ॥
ऋग्वेद १०-१५८
Let the motivator of the universe, Sun, along with mountains and minerals,
make our eyes bright and safe. Oh, Sun, please provide our eyes lustre and
our bodies with observational and universe grasping power.
Oh Sun, the giver of stength to eyes, please grant us the power of realizing the truth behind the perceptible objects.
The power of sight is due to the presence of Sun, and hence Sun is given primary importance for the betterment of the eye-sight.
(purUShasUkta in Rigveda also mentions चक्षोः सूर्यो अजायत.)
For improving eye-sight, the daily recitation of chakShuShopaniShat and worship of sun or recitation of saurasUkta, sUryamaNDalastotra are recommended.
From dharmashAstrIya nirNaya written by late प. धुण्डिराजशास्त्री दाते and श्रीबृहत्कवचसङ्ग्रहः