आचमनोपनिषत्
ॐ आचमनविधिं व्याख्यास्यामः ।
जङ्घे पाणिपादौ प्रक्षाल्य
प्राङ्मुख उदङ्मुखो वा
बद्धशिखो यज्ञोपवीती ।
ब्राह्मणस्य दक्षिणे हस्ते
पञ्च तीर्थानि भवन्ति -
अङ्गुल्यग्रे देवतीर्थं
कनिष्ठिकामूले आर्षिकं तीर्थं
[अङ्गुष्ठतर्जन्योर्मध्ये] पैतृकं तीर्थं
अङ्गुष्ठमूले ब्रह्मतीर्थं
मध्ये अग्नितीर्थम् ।
न तिष्ठन्न हसन्
न बुद्बुदैर्, न च लोमैः,
गोकर्णाकृतिवत् कृत्वा
माषमग्नजलं पिबेत् ।
तेन त्रिराचामेत् ।
प्रथमं यः पिबेद् - ऋग्वेदः प्रीणातु ।
द्वितीयं यः पिबेद् - यजुर्वेदः प्रीणातु ।
तृतीयं यः पिबेत् - सामवेदः प्रीणातु ।
लोमाधरोष्ठम् अथर्ववेदः प्रीणातु ।
मुखम् अग्नितृप्तं सर्वं प्रोक्षति ।
यः पादौ प्रोक्षति
यश् चक्षुषी यश् चन्द्रमादित्यौ
यन्नाभिं तेन पृथिवी
यस् ततस् तेन विष्णुः ।
यच् छिरस् तेन रुद्रः ।
मूर्ध्नि शतकुबेरः ।
सर्वदेवत्यास् ते प्रीणन्तु ।
य एवं वेद ।
इत्युपनिषत् ॥
इत्याचमनोपनिषत् समाप्ता ।