व्याख्या-विस्तारो न मूल-प्रतिकूलता-लिङ्गम्
विवरणाभावो व्याख्यातॄणाम् अलसताम् परिप्रष्टॄणाम् प्रतिभाभावं वा द्योतयेत्, न वस्तुगत-सारल्यम्।
(वादिना ततः श्लोकव्याख्याने प्रतिपादिते।)
दृष्टान्तानि स्वानुकूलानि दर्शयत्व् इत्य् उक्तौ तत्त्वबोधकश्लोकौ (श्रीधर-वीरराघव-व्याख्यासहितौ) दर्शयति भवान्। भवतु - तदेव पश्येम।
भागवते -
सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।
वस्तु अद्वितीयं तन्निष्ठं
कैवल्यैकप्रयोजनम् ॥ १२ ॥ 12.13.12
इत्यस्य व्याख्याने श्रीधरो “तन्निष्ठम्” इत्य् एकम् एव शब्दं विवृणोति।
वीरराघवार्यः प्रत्येकम् अपि शब्दं विवृणोति।
पुनर् अग्रे दर्शिते 12.5.12 इत्यस्य व्याख्याने स्वसिद्धान्तम् अखिलम् इवाविष्करोति वीरराघवः, श्रीधर आधानशब्दम् अपि न परामृशति।
एकस्मिन् हस्ते पाणिनीयस्य वररुचिवार्त्तिकानि गृहीत्वा, अपरस्मिन् हस्ते महाभाष्यं गृहीत्वा
कीदृशी नाम मतिः
“पतञ्जलेर् मतं मूलप्रतिकूलम् इति ग्रन्थविस्तरेण ज्ञायते”
इति कथयेत्? सङ्क्षेप-विस्तार-विवेकं विना वर्णगणनया ऽऽनुकूल्यकल्पनम् एवं हासाय कल्पते।
अशाङ्कराद्वैतिनः
“अस्मदुक्तैक्यम् एवैक्यं, अन्योक्तैक्यैक्यं नैक्यम्, इदं सर्वविदितम्” इति निष्प्रमाणम् उद्घेषणम् एव।
प्रामाणिकानां विचारशीलानां तु गोष्ठौ परिपूर्णविचारस् सहजः - यथा मत्प्रस्तुतोदाहरणे “किम् अभिनवगुप्तोक्तम् ऐक्यं नैक्यम्? किं भास्करोक्तम्? किं यादवप्रकाशोक्तम्? " इत्यादि विचारो वर्तेत।
only Advaita is abheda vaada and not any other doctrine. This is what is well known. … अभेदवादिनः, ऐक्यवादिनः इत्यादिप्रयोगेण शांकराद्वैतमेव विवक्षितः अन्यैरपि । अत्र कानिचन उदाहरणानि …
- v-सुब्रह्मण्यार्यः
पुनः पुनर् एव चपेटिकाभिर् इव “मायावादिन” इति विशेष्य खलु शाङ्करान् निर्दिशति युष्मद्-उदाहरणेष्व् मध्वः :-D ।
पुनर् यत्र शाङ्करान् उद्दिश्य ग्रन्थः प्रवर्तितः,
तत्र त एवान्यसाधारण-विशेषणैर् अपि सम्बोधिता इति किं नाम वैशिष्ठ्यम् ?
पशुर् नाम गर्दभोऽपि महिषोऽपि।
महिषम् उद्दिश्य रचितं ग्रन्थं दृष्ट्वा - “यत्र कुत्रचिद् अपि पशुर् नाम वयं महिषा एव, नेतरय्” इति को नाम वदेत्?
पुनर् यत्र वादविशेषम् उल्लिख्य
तत् प्रत्याख्यायते -
तत्र ये केऽपि तादृशवादिनस्, ते प्रत्युक्ता भवन्ति, न कश्चन तेष्व् एक एव।
पुनः, इदम् अपि भवतः प्रमाणालोचनदौर्बल्यं हि दर्शयति।
यतः प्रामाणिकः कश्चिच् छब्दार्थसम्बन्धजिज्ञासुर् अखिलम् अपि वाङ्मयम् आलोचयेत् - न हि प्रयोगैकदेशं दर्शयित्वा “हरिर् नाम मण्डूक एव, न सिंहो नारायणो वे"ति कथयेत्।
तथापि
वयम् एवाभेदवादिन नेतरय्
इत्य् अन्याभिप्रायोऽपीति खलु
भवताम् एवावगतिवैकल्यं दर्शयति।
युष्मत्कोटाव् अन्येऽपि वर्तन्त इति गृहीतुम् प्रामाणिकतरम्।
घटभेद-दृष्टान्तानुकूल्यम्
Other schools have to contend with this analogy since aikyam/abheda is not their doctrine.
- सुब्रह्मण्यो वैद्यः।
इति विशिष्टाद्वैते तु न घटते (न च यादवप्रकाश-भास्करादिषु च)। अमुकविशेषविशिष्टम् ब्रह्म विशेषान्तरविशिष्ट-ब्रह्मणो ऽभिन्नम् इति तत्र सरलम्।
“घटे भिन्ने घटाकाशो महाकाशेन संसृज्यते।” इत्येतावता घटाकाश-महाकाशयोः प्रदेश-गत-भेदोऽपि स्वाभाविको नावतिष्ठतीति हि वादो श्रमसाध्यविवरणसापेक्षः।
घटे भिन्ने ऽभिन्ने वाप्य् आकाशभेदो नास्ति स्वरूपतः, औपाधिकम् एव तद् इति भास्करः।
एवं विशिष्टाद्वैती सर्वं ब्रह्मेत्येव वदति, विशेषमात्रे/ शरीरमात्रे भेदोऽस्तीति।