- अहम्-भावानुसरणं ह्य् आत्मप्रापकम् - पश्वन्वेषणे पद्धतिर् यथा पशुप्रापकम्।
- प्रायेण श्रवण-मनन-निदिध्यासनान्य् एव मुख्या उपायाः - त्र्यङ्गो योग इत्य् उच्यते।
- चित्त-शुद्धिं यावद् दर्शनान्तर-प्रक्रिया उपादेया इति केवलद्वैतिनः।
- किञ्च “mystification” इति वारणीयं स्यात्। Ref - “Compromises in Advaita” - kuppusvAmi shAstrI.
- शाङ्कराद्वैते दर्शनय् उपासनापद्धतय इति न विकसिताः। औपनिषद उपासनापद्धतय ईषद् उपबृंहिताः - किञ्च ते ऽपि न तावत् सङ्गच्छन्तीति त्यक्तप्रायाः।
- श्रीविद्याद्य्-उपासना-पारम्यं त्व् अप्पय-दीक्षिताद् अर्वाचीन-प्रायम् एवेति वाच्यम्।
अनुभव-पारम्यम्
- अनुभवम् एवावलम्ब्य तत्त्वज्ञानम् प्रक्रियाविशेषेण +अनुमातुं शक्यम् इत्य् अस्य दर्शनस्य वैशिष्ट्यम्।
- तेन हि ब्रह्मसूत्रभाष्यप्रवेशे श्रुतिम् अनवलम्ब्यैवाध्यासभाष्यं रचितम्। तस्यां ५-पृष्ठात्मक-लघु-भूमिकायां सर्वम् प्रस्तुतं वस्तुततः।
- ज्ञानम् एतद् वस्तु-तन्त्रम् एव, न पुरुष-तन्त्रम्।
अनुमान-प्रक्रिया
- अध्यारोपापवाद-तन्त्रं मुख्यं ब्रह्म-विवरणय् उपनिषद्भिः शङ्करेण च प्रयुक्तम्। विचारित-गुणान् ब्रह्मण्य् अध्यारोप्य, अविचारित-गुणारोपाणां निष्कासनम् इति तत्। एतद् विहाय नान्यत् किञ्चन तन्त्रं प्रयुक्तम् इति प्रदर्श्यते।
- अन्ये तु प्राचीना बहुष्व् अन्यतमम् इति मेनिरे, यथा - कार्यकारण-प्रक्रिया, पञ्चकोश-प्रक्रिया, अवस्था-त्रय-प्रक्रिया। एते सर्वे वस्तुतो ऽध्यारोपापवद-प्रक्रियाप्रकाराः।
- अध्यारोपापवाद-प्रक्रियोदाहरणानि -
- यथा “ब्रह्मणस् तेजो ऽजायत, तत आपः …” इत्यादिषु कार्य-कारण-शृङ्खलासु विवक्षितम् ब्रह्म-मूलत्वम् एव - न सृष्टि-प्रक्रिया काचित्। ब्रह्मणि कारणत्वाध्यारोपेण पारमार्थिकस्तरे नानाविधप्रपञ्चस्यापवादः चिकीर्षितः।
- यथा ऽन्नमय-कोशो नात्मेति वक्तुम् प्राणमयकोशस्यात्मन्य् अध्यारोपः। ततः प्राणमयकोशस्याध्यारोपं वारयितुम् मनोमयकोशस्याध्यारोपः। एवम् विज्ञानमयस्याध्यारोपः। तत आनन्दमयस्याध्यारोपः। अरुन्धतीवसिष्ठन्याय इव।
- यथा ऽवस्थात्रयप्रक्रियायाम् अवस्थात्रितयम् आत्मन्य् आरोप्यते, पश्चाद् अपवाद इति निरस्यते।
समाधिः
- न हि तावद् वर्तन्ते ऽत्र सम्प्रज्ञाताऽसम्प्रज्ञातादि-समाधि-भेधा योग-शास्त्र-गताः। यद्य् अपि समन्वय-कर्तारो ऽर्वाचीनास् तत्र मतिम् प्रासारयन् (योगवासिष्ठम्, योगसुधाकरः …)। ब्रह्म-साक्षात्कारार्थे निर्विकल्पसमाध्य्-अधिकम् आनीतं कैश्चित् -तद् अयुक्तम् - भ्रमोत्पादनात्।
- शास्त्रान्तरोक्त-स्थितीनां समाध्यादीनाम् आकलनेन केचिद् अद्वैतिनोऽपि सिद्धि-मुग्धा भवन्तीव (“mystification”) ।