जीवः
शाङ्करमते मुक्तिर् वर्तते, बन्धोऽपि (यद्यपि सा मिथ्येत्यादि प्रयोगा भ्रामयेयुः श्रोतॄन्)।
अन्तःकरण-विशेषो ऽहङ्कार एव जीव-स्थानियस् तेषु।
फलम्
- स्वस्य दैनन्दिनजीवन-गतानुभवे स्पष्टतैव भवति - न कश्चनानुभव-विशेषः, सिद्धिर् वा (इति शुद्धाद्वैतिनः)।
- फलम् अन्तिमम् - ब्रह्मसाक्षात्कारः। स एव जीवन्-मुक्तिः।
- शुद्धाद्वैतिनस् तु - न कर्म किञ्चिद् भुज्यते ब्रह्मज्ञानात् परम् इति। दग्ध-पट-न्याये यथा पटमिव दृश्यामानो भस्म-सञ्चयो ऽनुवर्तते - तथा शरीरादिकं वर्तते।
- अप्रारब्ध-कर्म भोक्ष्यत इति केचिद् आहुः - कुलाल-चक्र-भ्रमण-न्यायेन।
पूर्णा मुक्तिः
मुक्तौ वेदा अवेदा इत्यत्र
मुक्तिर् नाम सुषुप्तिवद् इति वचनं
पूर्वोक्त पाषाण-कल्पता-मुक्ति-कल्पनं स्मारयति,
यद्-विषय उक्तम् -
तथा च कुम्भ-कर्ण एव विजयेत - (निद्रैवत्वम् इति) शाप एव तस्यानुग्रहः स्यात् ।
जीवन्-मुक्तिः
ब्रह्मैकसत्यत्वानुचिन्तनेन जीव आमरणम् अल्पक्लेशैः पीड्यमानो ऽपि मुक्तवद् भवति।
क्रम-मुक्तिः
देव-भक्त्या सगुण-ब्रह्मणो लोकम् प्राप्य,
तत्र तेनोपदिष्टाः कल्पान्ते पूर्णमुक्तिम् आप्नुयुः।