उपायाः

क्रमः पूर्ण-मोक्षाय

The sequence is mentioned in Gita Bhashya 5.12 -

karma-yoga/ sannyAsa (for v1) → sattva-shuddhi → jnana-prapti → sarva-karma-sanyasa → jnana-nishtha → Moksha.

सत्त्वशुद्धि- ज्ञानप्राप्ति- सर्वकर्मसंन्यास- ज्ञाननिष्ठा- क्रमेणेति वाक्यशेषः …
The sequence of 5.12 is inviolable. However, it spans across several births.
Source: TW

चित्त-शुद्धिः

  • चित्त-शुद्धिं यावद् दर्शनान्तर-प्रक्रिया उपादेया इति केवलद्वैतिनः।
    • किञ्च “mystification” इति वारणीयं स्यात्। Ref - “Compromises in Advaita” - kuppusvAmi shAstrI.

sattva-shuddhi which is stated to be for everyone through the route of karma-yoga (18.45) and for brahmana either through karma-sanyasa or karma-yoga.
Source: TW

उपासनाः

  • शाङ्कराद्वैते दर्शनय् उपासनापद्धतय इति न विकसिताः। औपनिषद उपासनापद्धतय ईषद् उपबृंहिताः - किञ्च ते ऽपि न तावत् सङ्गच्छन्तीति त्यक्तप्रायाः।
    • श्रीविद्याद्य्-उपासना-पारम्यं त्व् अप्पय-दीक्षिताद् अर्वाचीन-प्रायम् एवेति वाच्यम्।

समाधिः

  • न हि तावद् वर्तन्ते ऽत्र सम्प्रज्ञाताऽसम्प्रज्ञातादि-समाधि-भेधा योग-शास्त्र-गताः। यद्य् अपि समन्वय-कर्तारो ऽर्वाचीनास् तत्र मतिम् प्रासारयन् (योगवासिष्ठम्, योगसुधाकरः …)। ब्रह्म-साक्षात्कारार्थे निर्विकल्पसमाध्य्-अधिकम् आनीतं कैश्चित् -तद् अयुक्तम् - भ्रमोत्पादनात्।
  • शास्त्रान्तरोक्त-स्थितीनां समाध्यादीनाम् आकलनेन केचिद् अद्वैतिनोऽपि सिद्धि-मुग्धा भवन्तीव (“mystification”) ।

क्रम-मुक्त्य्-उपायः - भक्तिः

bhakti only leads to sAyujya with saguNa-brahma (vAsudeva) as per S, not full mukti.

So, for shAnkaras, bhaja-govinda-stotra says:

adore govinda, oh fool (who cannot get “mAyAvada-jnAna”)

Viveka chudamani, with the below,
is just redefining bhakti to be something entirely different from what’s commonly understood by that term (ie. the sense it is used in bhaja-govinda).
So, it’s not giving actual bhakti primacy.

मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी ।
स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥

Even among bhakta-s, S admits the usual gradation:

प्रियो हि यस्मात् अहम् आत्मा ज्ञानिनः अतः तस्य अहम् अत्यर्थं प्रियः प्रसिद्धं हि लोके आत्मा प्रियो भवति इति। तस्मात् ज्ञानिनः आत्मत्वात् वासुदेवः प्रियो भवतीत्यर्थः।
7.17 Gita shankar bhashya

ज्ञान-प्राप्तिः

  • अत्र सर्वे ऽधिकारिणः।
  • प्रायेण श्रवण-मनन-निदिध्यासनान्य् एव मुख्या उपायाः - त्र्यङ्गो योग इत्य् उच्यते।

अहम्-भावानुसरणम्

  • अहम्-भावानुसरणं ह्य् आत्मप्रापकम् - पश्वन्वेषणे पद्धतिर् यथा पशुप्रापकम्।

अनुभव-पारम्यम्

  • अनुभवम् एवावलम्ब्य तत्त्वज्ञानम् प्रक्रियाविशेषेण +अनुमातुं शक्यम् इत्य् अस्य दर्शनस्य वैशिष्ट्यम्।
    • तेन हि ब्रह्मसूत्रभाष्यप्रवेशे श्रुतिम् अनवलम्ब्यैवाध्यासभाष्यं रचितम्। तस्यां ५-पृष्ठात्मक-लघु-भूमिकायां सर्वम् प्रस्तुतं वस्तुततः।
  • ज्ञानम् - एतद् वस्तु-तन्त्रम् एव, न पुरुष-तन्त्रम्।

अनुमान-प्रक्रिया

  • अध्यारोपापवाद-तन्त्रं मुख्यं ब्रह्म-विवरणय् उपनिषद्भिः शङ्करेण च प्रयुक्तम्। विचारित-गुणान् ब्रह्मण्य् अध्यारोप्य, अविचारित-गुणारोपाणां निष्कासनम् इति तत्। एतद् विहाय नान्यत् किञ्चन तन्त्रं प्रयुक्तम् इति प्रदर्श्यते।
    • अन्ये तु प्राचीना बहुष्व् अन्यतमम् इति मेनिरे, यथा - कार्यकारण-प्रक्रिया, पञ्चकोश-प्रक्रिया, अवस्था-त्रय-प्रक्रिया। एते सर्वे वस्तुतो ऽध्यारोपापवद-प्रक्रियाप्रकाराः।
  • अध्यारोपापवाद-प्रक्रियोदाहरणानि -
    • यथा “ब्रह्मणस् तेजो ऽजायत, तत आपः …” इत्यादिषु कार्य-कारण-शृङ्खलासु विवक्षितम् ब्रह्म-मूलत्वम् एव - न सृष्टि-प्रक्रिया काचित्। ब्रह्मणि कारणत्वाध्यारोपेण पारमार्थिकस्तरे नानाविधप्रपञ्चस्यापवादः चिकीर्षितः।
    • यथा ऽन्नमय-कोशो नात्मेति वक्तुम् प्राणमयकोशस्यात्मन्य् अध्यारोपः। ततः प्राणमयकोशस्याध्यारोपं वारयितुम् मनोमयकोशस्याध्यारोपः। एवम् विज्ञानमयस्याध्यारोपः। तत आनन्दमयस्याध्यारोपः। अरुन्धतीवसिष्ठन्याय इव।
    • यथा ऽवस्थात्रयप्रक्रियायाम् अवस्थात्रितयम् आत्मन्य् आरोप्यते, पश्चाद् अपवाद इति निरस्यते।

सन्न्यासापेक्षा

Chhandogya 2.23.1
//न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति । ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः । तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितधर्मवताम् , सोऽमृतत्वमेतीति ॥// – This is the purvapaksha.
स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते ; स च परिव्राडेव, अन्यस्यासम्भवात्। तस्मात् स्वस्वामित्वाभावात् *भिक्षुरेक एव परिव्राट् , न गृहस्थादिः। तस्मात् सिद्धं निवृत्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति। कस्मात् ? परिव्राजकस्यैव निवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थतासम्भवात्। तस्मात् वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम्।
Source: TW

… Bhashyakara says in Gita Bhashya, “मुमुक्षोः सर्वकर्मसंन्यासविधानात्”

किञ्चेदं पूर्वजन्मन्य् अपि स्यात्! This means that a non-sannyAsi can attain mukti - if he had done sannyAsa in a previous v1 male birth.

देवानाम् पात्रम्

उपाय-मात्रता

  • “व्यावहारिक-सत्तायां देवानाम् अवकाशो ऽस्ती"ति केचित्। अद्वैतय् उपास्यब्रह्म तथा ज्ञेयब्रह्म इति द्वेधा व्यवहारस् तेषाम्।
  • तत्रापि नेत्य् अन्य अधुनिकाः - परिमेय-प्रत्यक्ष-प्रमाणाभावात्। नानेन ब्रह्मवादे काचित् क्षतिः। Gods are at best “useful fiction” for this section of advaitins.

अनुपपत्तिः

आवरण (packet) मेँ कुछ, अन्दर कुछ और।
सगुणब्रह्म-दर्शनादिभिर् आकृष्टा निर्गुणब्रह्म-विक्रेतृभिः।

आकर्षणप्रक्रियैवं कथ्यते -

शृङ्गेरि का शाखा मठ मेरे घर के काफ़ी समीप था। बचपन से देवी के प्रति प्रेम रहा है। वहाँ शारदाम्बा के विग्रह से मन आकर्षित हुआ था । वहाँ आचार्य का भी मंदिर था। तो उस विग्रह से भी मन आकर्षित हुआ था। प्रायः यही कारण रहा होगा ।