मुक्तिः

फलम्

  • स्वस्य दैनन्दिनजीवन-गतानुभवे स्पष्टतैव भवति - न कश्चनानुभव-विशेषः, सिद्धिर् वा (इति शुद्धाद्वैतिनः)।

अधिकारः

अधिकार-विचारो ऽन्यत्र

पूर्णा मुक्तिः

निर्गुण-ब्रह्मणा सहैकीभाव इति छद्मना जीव-नाश एवोक्तो ऽन्ततः।

मुक्तौ वेदा अवेदा इत्यत्र
मुक्तिर् नाम सुषुप्तिवद् इति वचनं
पाषाण-कल्पता-मुक्ति-कल्पनं स्मारयति,
यद्-विषय उक्तम् -

तथा च कुम्भ-कर्ण एव विजयेत - (निद्रैवत्वम् इति) शाप एव तस्यानुग्रहः स्यात् ।

जीवन्-मुक्तिः

जीवता ब्रह्मैकसत्यत्वानुचिन्तनेन ब्रह्म-साक्षात्कारः एव जीवन्-मुक्तिः। भगवद्गीताभाष्ये शङ्कर आह -

॥6.27॥ प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम् उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमित्यर्थः ब्रह्मभूतं जीवन्मुक्तम् “ब्रह्मैव सर्वम्” इत्येवं निश्चयवन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम्॥

जीव आमरणम् अल्प-क्लेशैः पीड्यमानो ऽपि मुक्तवद् भवति।
इयं सैव निष्ठा यैवोपायक्रमय् उच्यते -

सर्व-कर्म-सन्न्यासात् परं ज्ञान-निष्ठा, ततः परम् मोक्ष

इति।

तत्र कर्म-भोगः -

  • शुद्धाद्वैतिनस् तु - न कर्म किञ्चिद् भुज्यते ब्रह्मज्ञानात् परम् इति। दग्ध-पट-न्याये यथा पटमिव दृश्यामानो भस्म-सञ्चयो ऽनुवर्तते - तथा शरीरादिकं वर्तते।
  • अप्रारब्ध-कर्म भोक्ष्यत इति केचिद् आहुः - कुलाल-चक्र-भ्रमण-न्यायेन।

क्रम-मुक्तिः

देव-भक्त्या हिरण्य-गर्भस्य लोकम् प्राप्य,
तत्र तेनोपदिष्टाः कल्पान्ते पूर्णमुक्तिम् आप्नुयुः, परमम् पदं वा गच्छेयुः।

अथवा सगुण-ब्रह्मणो लोकम् (“विष्णोः परमम् पदम्” इति कठोपनिषदि यद् उक्तम्) वा प्राप्नुयुः।
ततः पूर्ण-मुक्तिम् प्राप्नुयुः - स्वतो वा मायाया अन्तिमेन नाशेन सगुण-ब्रह्मणा सह वा।