कस् सगुणम् ब्रह्म

English

Direct quotes from shankara (and not mischievous “out of context” ones).
The maTha shAnkara-s are, actually, heretics misled by attribution of hundreds of later works to shankara.

यद्य् अपि शङ्करमतय् एकम् एवात्मा मायया बहुधा प्रतिभाति,
तादृशम् प्रतीयमानेष्व् एकतमम् एव
अकर्मवश्यं सगुणम् ब्रह्म।
सगुण-ब्रह्मणः परिचयो ऽन्यत्र दत्तः
तत्रैव तद्-अभिधानान्य् उक्तानि।

विषयः

शङ्कराभिप्राये “सगुणम् ब्रह्म कतमो देव” इति विचारो ऽत्र।

प्रमाणम्

प्रस्थानत्रयभाष्य-प्रामाण्यम्

एवञ्च +उभयवादिप्रतिपन्नप्रमाणम् आधारीकृत्यैव वादः प्रवर्तेत।
प्रस्थानत्रयभाष्यकर्तृत्वं शङ्करकृतम् इति निर्विवादम्।
तथा सति, सगुणब्रह्मण एव ब्रह्मरुरादयो देवा रूपाणीति यति शङ्कराभिप्रायः, स तत्र विस्तीर्णे प्रस्थानत्रयभाष्ये स्फुटं स्याद् इति समञ्जसैवापेक्षा।

विवादास्पदानाम् अप्रामाण्यम्

शङ्करकर्तृत्वे प्रामाण्यम् अन्यत्र चर्चितम्।

श्वेताश्वतरोपनिषद्भाष्ये “गिरिशन्त हस्ते बिभर्ष्यस्तवे” इति मन्त्रवर्णस्य व्याख्यानावसरे “गिरित्र गिरिं त्रायत” “गिरौ स्थित्वा शं सुखं तनोति” इत्यनेन शिवपरत्वं प्रदर्श्य ‘साकारं ब्रह्म प्रदर्शयेत्यभिप्रेतमर्थं प्रार्थितवान्’ इति लिखितवान्।

इति सुब्रह्मण्यार्यः।

किञ्च, श्वेताश्वतरोपनिषद्-भाष्यं शङ्करकृतम् इत्यत्र विश्वासो नास्ति।

स्तोत्राणि च सुतरां न प्रमाणानि -
शङ्करकर्तृत्वे सन्देहात्,
तत्रार्थवादस्याधिकम् एवावकाशात्।

विष्णु-परत्वम्

शङ्करः सर्वदा सगुणम् ब्रह्म वासुदेवम् अभिदधाति।

गीताभाष्ये

यथा गीताभाष्ये -

॥6.47॥ योगिनामपि सर्वेषां रुद्रादित्यादि-ध्यान-पराणां मध्ये
मद्-गतेन मयि वासुदेवे समाहितेन
अन्तरात्मना अन्तःकरणेन
श्रद्धावान् श्रद्दधानः सन्
भजते सेवते
यो माम्, स मे मम
युक्ततमः अतिशयेन युक्तः
मतः अभिप्रेतः इति॥

अन्यत्र -

अहमेव भगवान् वासुदेवः, न अन्योऽस्मि इत्य् एवं युक्तात्मा समाहितचित्तः सन्
मामेव परं ब्रह्म गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः॥ …
ज्ञानवान् प्राप्त-परिपाक-ज्ञानः मां वासुदेवं प्रत्यग्-आत्मानं प्रत्यक्षतः प्रपद्यते

कथम्? वासुदेवः सर्वम् इति।
यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते
सः महात्मा न तत्समः अन्यः अस्ति अधिको वा।

॥7.20॥ कामैः तैस् तैः पुत्र-पशु-स्वर्गादि-विषयैः
हृतज्ञानाः अपहृत-विवेक-विज्ञानाः प्रपद्यन्ते
अन्यदेवताः
प्राप्नुवन्ति वासुदेवात् आत्मनः अन्याः देवताः …

देवतान्तर-व्यावर्तनेन विशिष्ट-शक्तिमत् सगुण-ब्रह्मैव सर्वात्मा वासुदेवाख्ययोक्तम्
इति स्फुटम्।

प्रारम्भे च तथा -

परमार्थ-तत्त्वं च वासुदेवाख्यं परं ब्रह्माभिधेयभूतं
विशेषतः अभिव्यञ्जयत्
विशिष्ट-प्रयोजन-सम्बन्धाभिधेयवद् गीता-शास्त्रम् ।

वेङ्कटनाथार्यस् तात्पर्य-चन्द्रिकायां शाङ्करा विष्णुपारम्यम् अङ्गीकुर्वन्तीति वदति।

विस्तारः (द्रष्टुं नोद्यम्)

पिशाच-रन्तिदेव-गुप्त-शङ्कर-यादवप्रकाश-भास्कर-नारायणार्य-यज्ञस्वामि-प्रभृतिभिः
स्वं स्वं मतम् आस्थितैः परश्-शतैर् भाष्यकृद्भिः
अस्मत्सिद्धान्त-तीर्थकरैश् च भगवद्-यामुनाचार्य-भाष्यकारादिभिर्
अविगीत-परिगृहीतोऽयम् अत्र सारार्थः –

भगवान् एव परं तत्त्वम्;
अनन्य-शरणैर् यथाधिकारं तद्-एकाश्रयणं परम-धर्मः

इति।

Madhusudhana Sarasvati says “श्रीवैकुण्ठस्थं सर्वयोगिध्येयं” in his tika for gIta 7.24-25. They don’t go into descriptions as it is trivial (vyAvahArika) for them.

एवं वैकुण्ठम् अप्य् उल्लिखत्य् एव -

॥18.62॥ –,तमेव ईश्वरं शरणम् आश्रयं संसारार्तिहरणार्थं गच्छ आश्रय सर्वभावेन सर्वात्मना हे भारत। ततः तत्प्रसादात् ईश्वरानुग्रहात् परां प्रकृष्टां शान्तिम् उपरतिं स्थानं च मम विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम्॥

ब्रह्म-सूत्र-भाष्ये

तत्र +++(पाञ्चरात्रे)+++ यत् तावद् उच्यते —
योऽसौ नारायणः
परो ऽव्यक्तात् प्रसिद्धः
परमात्मा सर्वात्मा,
स आत्मना ऽऽत्मानम् अनेकधा व्यूह्यावस्थित इति —
तन् न निराक्रियते …
यद् अपि तस्य भगवतो ऽभिगमनादि-लक्षणम् आराधनम्
अजस्रम् अनन्य-चित्ततया ऽभिप्रेयते,
तद् अपि न प्रतिषिध्यते

Concerning this system we remark that we do not intend to controvert the doctrine that Nārāyaṇa, who is higher than the Undeveloped, who is the highest Self, and the Self of all, reveals himself by dividing himself in multiple ways; for various scriptural passages, such as ‘He is onefold, he is threefold’ (Cḥ. Up. VII, 26, 2)’, teach us that the highest Self appears in manifold forms. …
Nor do we mean to object to the inculcation of unceasing concentration of mind on the highest Being which appears in the Bhāgavata doctrine under the forms of reverential approach

अत्र पाञ्चरात्रोक्त-नारायणाङ्गीकारस् स्पष्ट एव।
“परो ऽव्यक्तात्, प्रसिद्धः” इत्य् उक्तम्,
पुनः “अभिगमनादि-लक्षणम् आराधनम्” अप्य् उक्तम्।
अतो सगुणम् ब्रह्मैवोक्तम्।

न चैवम् पाशुपतनिराकरणे ऽकथयत् - “परमात्मानं शिवं, शिवाराधनं चाङ्गीकुर्मः”।

अयम् अङ्गीकारः कैश्चिद् इतो ऽप्य् अग्रे नीतः।
शाङ्करः भामत्य्-उपव्याख्याता +अमलानन्द-सरस्वती -

सिद्धान्तस्तु –

बुद्धिपूर्वकृतिः पञ्च-
रात्रं निःश्वसितं श्रुतिः ।
तेन जीव-जनिस् तत्र
सिद्धा गौणी नियम्यते ॥

यावद् ध्य् एकदेशे वेदाऽविरोधाद्
ईश्वर-बुद्धेर् वेद-मूलत्वं
वेदाद् वा सर्व-विषयत्वं प्रमीयते ,
तावद् एव स्वतः-प्रमाण-वेदाज् जीवानुत्पत्ति-प्रमितौ
तादृग्-बुद्धि-पूर्वकेश्वर-वचनान्
न जीवोत्पत्तिर् अवगन्तुं शक्यते ।
अतः प्रमाणापहृत-विषये
गौणं तद्-वचनं,
न तु भ्रान्तम्, पूर्व-पक्ष-युक्तेर् इति।

So, not rejecting shankara’s characterization of pAncharAtra; and but taking it’s supposed jIvotpatti as a pUrva-paxa; while implying that S subscribed to the view that pAncharAtra is of divine origin, but subsidiary to vedA; and should be interpreted as such.
(So, to that limited extant, subverting the subversion of pAncharAtra authoritativeness by S.)

उपनिषत्सु

बृहदारण्यकोपनिषदि, यत्र मूले नारायण-शब्दो नास्ति, तत्राह -

तदाह — यस्य पृथिवी शरीरमिति।
देवताकार्यकरणस्य ईश्वरसाक्षिमात्रसान्निध्येन हि नियमेन प्रवृत्तिनिवृत्ती स्याताम् ;
य ईदृगीश्वरो नारायणाख्यः,
पृथिवीं पृथिवीदेवताम् ,
यमयति नियमयति स्वव्यापारे, अन्तरः अभ्यन्तरस्तिष्ठन् , एष त आत्मा, ते तव, मम च
सर्वभूतानां च इत्युपलक्षणार्थमेतत् , अन्तर्यामी यस्त्वया पृष्टः,
अमृतः सर्वसंसारधर्मवर्जित इत्येतत् ॥

कठोपनिषद्-भाष्ये च -

तद् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानम् ,
सतत्त्वम् इत्येतत् ,
यद् असाव् आप्नोति विद्वान् ॥

अत्र वासुदेवशब्देन परम् ब्रह्मोक्तं निर्गुणम् इत्य् आधुनिकाः केचित्।
विष्णोर् व्यापनशीलस्येत्य् अनुवादे कृते सति,
मूले ऽवर्तमाना वासुदेवाख्या कुत उक्तेति तु तर्हि विचारणीयम्।

पुनः, वैकुण्ठम् अप्य् उल्लिखत्य् एवात्र - “स्थानम्” इति स्पष्टात् प्रयोगात्।

“विष्णोः परमं पदम्” इत्यत्र शङ्करस् तत्रैव -

विष्णोः परमं पदं यस्मात् परं नास्ति तद्वै एतत् अधिगतम् इत्यर्थः ॥

मुण्डकोपनिषदि च मूलेऽवर्तमानं विष्णु-शब्दं गृह्णाति -

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥

… यस्य च पद्भ्यां जाता पृथिवी,
एष देवो विष्णुर् अनन्तः प्रथम-शरीरी त्रैलोक्य-देहोपाधिः सर्वेषां भूतानाम् अन्तरात्मा ।

अपह्नवे प्रयासः

Modern shAnkaras make risible attempts to turn SB into NB so that you can disassociate vAsudeva from shankara.

प्रत्याख्यान-पराः

Many vaiShNavas say that he was an overt (not covert) vaiShNava, who called saguNabrahma as vAsudeva. Even while doing so, they don’t appropriate him (ie call him their AchArya). So, they can’t be said to be “(mis)appropriating” shankara.

Notable shAnkaras who correctly observed viShNu-paratva of shankara.

The hari-harAbheda-vAdin rAma-subba-shAstrI wrote “mahA-shaiva-mata-mardanam” in vitaNDA style to that effect.
kRShNapremi, a shAnkara descendent of periya-vAchchAn-piLLai, describes shankara in vaiShNavasaMhitA-

प्रसन्नवदनं बालं
तप्तस्वर्णाभविग्रहम् ।
ऊर्ध्वपुण्डलसत्फालं
बद्धपूर्वशिखं तथा ॥ १३ ॥
तेजस्विनं महाशान्तं
सरसीरुहलोचनम् ।
पलाशदण्ड-पाणिञ्च
मौञ्जीकौपीनधारिणम् ॥ १४ ॥

देवतान्तर-व्यावर्तनम्

अन्य-देवताभ्यः

“नाम-भेद एव देवेषु, न व्यक्ति-भेद

इति वादो निरस्तश् शङ्कर-वचनैः।

पूर्वोक्त-गीता-भाष्य-वचनैः स्पष्टम् एव वासुदेवो ऽन्यदेवताभ्यो व्यावृत्तः।
अतः, नाम-मात्र-भेदो न, प्रसक्त-गुण-क्रियादि-भेदोऽपि विवक्षितः।
नामरूपे ऽन्तरा गुणान्तराण्य् अपि भवन्ति ।

न देवता-साधारणम्, न सूर्यः

अन्तर्-अधिकरणे स्पष्टम् एवोक्तम् -

अमृतत्वादयोऽपि न सम्भवन्ति, उत्पत्तिप्रलयश्रवणात्।
अमरत्वमपि देवानां चिरकालावस्थानापेक्षम्।
ऐश्वर्यमपि परमेश्वरायत्तम् , न स्वाभाविकम्;

‘भीषास्माद्वातः पवते।
भीषोदेति सूर्यः।
भीषास्माद् अग्निश् चेन्द्रश्च।
मृत्युर्धावति पञ्चमः’
(तै. उ. २। ८। १)

इति मन्त्रवर्णात्।

एवं तस्मिन्न् एव प्रकरणे
विशिष्य सूर्यस्य +परमेश्वरत्वं निराकृतम्।
गतस् तर्हि षण्-मत-स्थापकत्वं शङ्करस्य।

न रुद्रादित्यादयः

॥6.47॥ योगिनामपि सर्वेषां रुद्रादित्यादि-ध्यान-पराणां मध्ये
मद्-गतेन मयि वासुदेवे समाहितेन
अन्तरात्मना अन्तःकरणेन
श्रद्धावान् श्रद्दधानः सन्
भजते सेवते
यो माम्, स मे मम
युक्ततमः अतिशयेन युक्तः
मतः अभिप्रेतः इति॥

इति शाङ्कर-गीता-भाष्य-वचनं वासुदेवं रुद्रादिभ्यो व्यावर्तयत्य् एव।
(तत्राधुनिकशाङ्करा रुद्रेषु शिवं नान्तर्भाव्य इति परिहरन्ति। )
पुनर् अन्यत्र केनोपनिषद्-भाष्ये हैमवत्या अपि, इन्द्राद् अपि भिन्नम् उक्तं सगुणम् ब्रह्म।

न सप्त मातृकाः

यजन्ते पूजयन्ति सात्त्विकाः सत्त्वनिष्ठाः देवान्; यक्षरक्षांसि राजसाः; प्रेतान् भूतगणांश्च सप्तमातृकादींश्च अन्ये यजन्ते तामसाः जनाः॥”

इति शङ्करो गीताभाष्ये।

नोमा शङ्करो वा

तत्र केनोपनिषत्पदभाष्ये ‘उमा हैमवती’ इति मन्त्रगतस्य व्याख्यानावसरे एवमुक्तम् -

अथवा उमैव हिमवतो दुहिता हैमवती
नित्यम् एव सर्वज्ञेनेश्वरेण सह वर्तत
इति ज्ञातुं समर्थेति कृत्वा
ताम् उपजगाम ।

इति।
एतावता शङ्कराभिप्राये +उमा हैमवती सगुणब्रह्मणो भिन्नेति ज्ञायते।

नात्र सर्वज्ञशब्दः पार्वती-पत्युः स-गुण-ब्रह्मत्वं निश्चेतुम् अलम्
सर्व-ज्ञं शिवम् ईश्वर-शब्द-वाच्यं वैष्णवा अपि मन्यन्ते।
सगुणब्रह्मणो भिन्नेन ब्रह्मज्ञानिसहवासेन ब्रह्मज्ञानम् आप्नुयाद् देवीति किम् आश्चर्यम्?
ब्रह्मज्ञसाहचारिणो ब्रह्मज्ञानसम्भावनाधिकेति यावत् तु सुलभम्।

किम् बहुना स्वयम् पार्वत्या अपि “सर्वं जानाती"ति व्यवहारो दृश्यते रङ्गरामानुजेन। नैतावता ऽऽभ्यां शब्दाभ्यां सगुणब्रह्मनिर्देशो निश्चेतुं शक्य इत्य् आशयः। अत्र तेन शब्देन सगुणम् ब्रह्मैवोक्तम् इति कथम्?

न चेश्वरशब्दोऽपि पार्वतीपत्युः सगुणब्रह्मत्वं निश्चेतुम् अलम्।
भाष्यय् अग्रे ह्य् उक्तम् -

इन्द्रः परमेश्वरो मघवा
बलवत्त्वात् तथेति तद् अभ्यद्रवत्।

एवम् अन्यत्र बहुत्र भाष्ये प्रयोगा वर्तन्ते।
अतः शङ्करो ब्रह्मार्थे हीश्वरशब्दं न प्रयुङ्क्ते ।

उमा कं ब्रह्मेति बोधयति?
येन सह तस्यनित्यवासः,
यत्कारणात् तस्याः ब्रह्मविषयकं ज्ञानं (भाष्ये उक्तं) ,
तमेव ब्रह्मेति बोधयति।

इति कथम् अनुमीयते?
येन सह नित्यवासः,
यच् च ब्रह्म, भिन्नाव् एव स्यातम्।
पुनः, सगुणब्रह्म खल्व् अन्तर्यामित्वेन सर्व-सहवासी?
शाङ्करदर्शने, यः कश्चित् सर्वज्ञो ज्ञानी “अहम् ब्रह्मे"ति मन्येत, न तु “अहं सगुणब्रह्मे"ति।
अतः “ब्रह्मज्ञः सगुणब्रह्मैवे"त्य् अपि मन्दम्।

अपि च भाष्यस्य तात्पर्यं भवद्भिर्यदुक्तं तथैवास्तीति, यन्मयोक्तं तथैव नास्तीति केन प्रमाणेन भवान् उच्यते ?

अस्मद्-उक्तम् एव तात्पर्यम् न युष्मद्-उक्तम् इति नाग्रहः। सगुणब्रह्मविषये शङ्कराभिप्रायो ऽर्वाचीन-शाङ्करानुसार्य् एवेत्य् एतावतो निराकरणम् इष्टम्।

न स्कन्दः

ब्रह्मसूत्रभाष्ये स्कन्दस्य जीवत्वम् उक्तम् -

सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्रः
स्वयं रुद्राय वरप्रदानात्
स्कन्दत्वेन प्रादुर्बभूव।

Sanatkumāra also, who likewise was a son of Brahman’s mind, was, in consequence of a boon being granted to Rudra, born again as Skanda.

ब्रह्म-ज्ञ-मात्राद् भेदः

मुण्डकोपनिषद्-भाष्ये शङ्करः कथयति -

तम् अप्य् एवं-विधम् आत्मज्ञं पुरुषं
ये हि अकामाः विभूतितृष्णा-वर्जिता मुमुक्षवः सन्तः उपासते इव देवम्**,

येन, उपास्योऽपि ब्रह्मवित् सगुणब्रह्मणो व्यावृत्त्यते।

विस्तारः (द्रष्टुं नोद्यम्)

अनेन अनुमीयते सा येन सह नित्यवासः तं ब्रह्म इति बोधयति इति |

आधुनिक-मतम्

लक्षण-साम्येन वस्तु-साम्यम् इति नियमम् आश्रित्य,
कानिचन पुराण-वचनान्य् अवलम्ब्य च
आधुनिक-शाङ्करा सर्वे मुख्या देवा सगुण-ब्रह्मैवेति निश्चिन्वन्ति।

मन्ये मायावादो नालम् मोहयति जनान् इति निश्चित्य
सर्व-देवताऽभेद-वादं निवेश्य
शङ्करार्योक्तीर् अप्य् अतिक्रम्य
तत्-सिद्धान्तस्य विस्तारो विहित ईदृशैः।

अयं वादः पराशरभट्टाद् अपि प्राचीने शाङ्कर-विष्णु-सहस्र-नाम-भाष्यय् इङ्गितः।

मधुसूदनसरस्वत्य् अपि शिव-महिम्न-स्तुति-व्याख्यायाम् -

हरि-शङ्करयोर् अभेद-बोधो
भवतु क्षुद्रधियाम् अपीति यत्नात् ।
उभयार्थतया मयेदम् उक्तं
सुधियः साधुतयैव शोधयन्तु ॥ १ ॥

भूतिभूषित-देहाय,
द्विजराजेन राजते।
एकात्मने नमो नित्यं
हरये च हराय च ।।६।।

विशिष्य १९-तम-शताब्दस्यान्तिम-काल-घट्टे
कैश्चनाद्वैत-मठैः “षण्-मत-प्रतिष्ठा शङ्करेण कृते"ति प्रचार आरब्धः।
तत्-प्रतिक्रियायाम् बहुभिः श्रीवैष्णवैर् उत्तमूरु-वीरराघवाण्णङ्गराचार्य-निभैः प्रबन्धाः प्रकाशिताः,
स्मार्तैर् अपि ते गृहीताः कैश्चित्।

  • शृङ्गगिरी-गुरुः
  • जगन्नाथ-पीठाधिपतिस् तथा वक्ति -
    अत्र ब्रह्मणो ऽपेक्षया विष्णोर् नारायणस्य परत्वं ब्रूते निश्चलानन्दसरस्वती यतिः।
    किञ्चान्यत्र (YT) स्पष्टीकरोति - पुराणानुसारेण त्रिमूर्तिषु तारतम्यं नास्ति।

नामापराध-कथा

सन्निन्दा ऽसति नाम-वैभव-कथा श्री-शेशयोर् भेदधीर्
अ-श्रद्धा श्रुति-शास्त्र-देशिक-गिरां नाम्न्य् अर्थ-वाद-भ्रमः।
नामास्तीति निषिद्ध-वृत्ति–विहित-त्यागौ च धर्मान्तरैः
साम्यं नामनि शङ्करस्य च हरेर् नामापराधा दश॥

इति श्लोकः कैश्चिच् छाङ्करैर् उच्यते (यथा २०२५ इति वर्षे विधुशेखरभारत्या)।

अनेनाज्ञातमूलकेन श्लोकेन पुराणानि स्वयं नामापराधभाजः :-)
यतो वदन्ति -

“परो नारायणो देवस्
तस्माज् जातश् चतुर्मुखः ।
तस्माद् रुद्रोऽभवद् देवि” (वराह-पुराणम् 90-3.)

“ब्रह्माद्यास् सकला देवा
मनुष्याः पशवस् तथा ।
विष्णु-माया-महावर्त-
गर्तान्ध-तमसा वृताः” (विष्णु-पुराणम् 5-30-47)

एवं शैवागमा अपि शिवपारम्यवादिनो भवन्ति नामापराधकृतः।

अतो नैतादृशानि वचनानि बहु-मन्यन्ते शाङ्करेतराः।

परस्-परोत्पत्तिः, उदर-पीडादि-कथा

एवं कल्पेषु कल्पेषु
ब्रह्मविष्णुमहेश्वराः ।
परस्परस्माज् जायन्ते
परस्-पर-जयैषिणः

तत्-तत्-कल्पान्त-वृत्तान्तम्
अधिकृत्य महर्षिभिः ।
प्रभावः कथ्यते तेषां
परस्पर-समुद्भवात् ।
क्वचिद् ब्रह्मा क्वचिद् रुद्रः
क्वचिद् विष्णुः प्रशस्यते

यो ब्रह्म-विष्णु-रुद्राणां
भेदम् उत्तम-भावतः ।
साधयेद् उदर-व्याधि-
युक्तो भवति मानवः । +++(4)+++

यतश् चायं श्लोक उदाहृतः,
स आधुनिकशाङ्कराणाम् अप्य् अपसिद्धान्तः -
परस्पर-स्पर्धायाम् अपि त्रिमूर्ति-साम्यम् उक्तं तत्र, न परस्पराभेदः।

रङ्गरामानुजेन च प्रत्याख्यातम् -

तामस–पुराणेषु
अपचरद्-अवस्थतया प्रक्षेप-शङ्कास्पदेषु एवं श्रवणे ऽप्य्
अतादृशेषु तथा श्रवणाभावात्।

(अत्रोक्त उदरव्याधिविपाकस् तु ब्रह्मरुद्राव् अय् उदरपीडाभाजौ कुरुते,
यतस् ताभ्याम् अपि तत्र तत्र विष्णुपारम्यम् उक्तम् इतिहासे।
पुनः, “महर्षिभिः … क्वचिद् विष्णुः प्रशस्यते” इति यद् उक्तम्,
तेषां खलु मानुषत्वाद् उदरव्याधिर् भवेद् एव?)

ब्रह्म-लोकः

अपि च सृष्ट्य्-आदि-कृद् विष्णुरेव शिव एव इति न आग्रहः ।
अत एव निर्दिष्टदेवतालोक इति नाङ्गीक्रियते।
सत्यलोकाख्यलोक ब्रह्मलोक इत्येक एव अङीकृतः।
सर्वेऽपि सगुणोपास्काः ये मुक्त्यर्थं इह लोके न प्रयतन्ते
तेषां समानं एकं गम्यस्थानं स ब्रह्मलोकः।
विष्णुलोकः शिवलोक इत्यादिलोकाः नाङ्गीकृताः।

इत्य् आधुनिको विचारः।