Beguilement theory origins

शङ्कर-रक्षा-यत्नाः

अस्मिन् विषये नानाशास्त्रमर्माभिज्ञैः वयोवृद्धैः, तपोवद्धैः, ज्ञानवृद्धैः,परकालमठाधीश्वरैः
तदा तदा कश्चनाभिप्रायः श्रीशङ्कराचार्यविषये इत्थं प्रकटितः -

श्रीशङ्कराचार्याः महति सङ्कटे पतिता इति भाति ।
तदीयानां सर्वेषां ग्रन्थानाम् अध्ययनेन इदं ज्ञायते ।
एकपार्श्वे वैदिकानाम्, अपरपार्श्वे बौद्धानां समाधानार्थं
किञ्चिद् वाक्यं वक्तव्यम् आसीत् ।
वैदिकाः यदि पृच्छन्ति,
तदा तेभ्यः

“वेदो नित्यमधीयतां तद्-उदितं कर्म स्वनुष्ठीयताम्” इत्युक्तमेव खलु ।
प्रत्युत " भज गोविन्दं भज गोविन्दम्" इत्यपि मयैव गीतम् ।
अतः भवतां सम्मतस्य वैदिकस्य भक्तिमार्गस्य प्रशंसा मया क्रियते एव ।
भवद्भिः तत्र स्थीयताम्

इति वक्तव्यम् अभूत्।

[[33]]

बौद्धानां समीपं यदा गच्छति तदा

वैदिकाः एते कृपणाः मन्दाधिकारिणः।
ते तथैव तिष्ठन्तु, नास्माकं हानिः ।
वयं तु उत्तमाधिकारिणः, ज्ञानमार्गस्थाः ।
तैः एतत् स्मर्तुम् अपि न शक्यते ।
अतः वयम् एतन्-मार्गे तिष्ठामः

इति बौद्धेभ्योऽपि श्रीशङ्कराचार्यैः वक्तव्यम् अभूत्,
अतः श्रीशङ्कराचार्याणां द्विमुखत्वम् अनिवार्यम् अभूद्
इत्य् एतज् ज्ञायते

इति ।

सर्वं जानन्तोऽपि श्रीशङ्कराचार्याः
केवलं बौद्धानां सन्तृप्त्य्-अर्थम् एव
बहून् विषयान् आच्छादयन्तीति ज्ञायते ।

इति दिवङ्गतस्य वरदाचार्यस्य मन्त्र इव
शाङ्करखण्डनानन्तरं मुख-शुद्ध्यै। 😀

श्रीशङ्कराचार्यस्य जगन्मिथ्यात्व-वादो न सम्मतः

इति गत-शतकादि-भागे स्थितो महामहोपाध्यायः श्रीराम-सुब्रह्मण्य-शास्त्रि-नामकः
“अनुभाष्यगाम्भीर्यम्” इति नामके स्वीयग्रन्थे
श्रीशङ्कराचार्योऽपि न निर्विशेषवादीति सप्रमाणं न्यरूपयत् ।

रक्षा-दोषाः

The tenkalais eg. shrI rAmasharma of yadugiri, claim vaDakalais haven’t understood deshika properly, and that he was basically a thenkalai. 😂 This is no different in its absurdity.

Some absurd desperate “evidences” are presented (eb. by shrI KSV) like

  • “see he uses ‘bhagavat’ which buddhus and jains also like”
  • “Shankara was poisoned. Baba rAmdev announced it on AsthA TV on this date.”

रक्षा-कारणानि

Was varadAchArya serious with his “excuses for shankara”? It seems as if it’s a facetious cover (plausible deniability) while he thoroughly shreds shankarisms! 😂

However, talking to his disciples, it seems he was serious.

Whence might such a conspiracy theory arise (beyond the proverbially thin line between genius and madness)?
This bias seems to arise from

  • soft corner towards shankara because he was a vaiShNava, going by his works; (unlike what his tradition later became); respect of scholarship and positions revealed in other works misattributed to shankara.
  • a fanciful misunderstanding of the historical situation during shankara’s time.