४,३.१.१
अर्चिरादिना तत्प्रथितेः । ब्रह्मसूत्र ४,३.१ ।
भिन्नप्रकरणस्थत्वाद्भिन्नोपासनयोगतः ।
अनपेक्षा मिथो मार्गस्त्वरातोऽवधृतेरपि ॥
गन्तव्यमेकं नगरं प्रति वक्रेणाध्वना गतिमपेक्ष्य ऋजुनाध्वना गतिस्त्वरावती कल्प्यते ।
एकमार्गत्वे तु कमपरमपेक्ष्य त्वरा स्यात् ।
अथ तैरेव रश्मिभिरित्यवधारणं नोपपद्यते पथ्यन्तरस्य निवर्तनीयस्याभावात्तस्मात्परानपेक्षा एवैते पन्थान एकब्रह्मलोकप्राप्त्युपाया
व्रीहियवाविव विकल्पेरन्निति प्राप्ते प्रत्युच्यतेएकत्वेऽपि पथोऽनेकपर्वसङ्गमसम्भवात् ।
गौरवान्नैव नानात्वं प्रत्यभिज्ञानलिङ्गतः ॥
सपर्वा हि पन्था नगरादिकमेकं गन्तव्यं प्रापयति नाभागः ।
तत्र किमेते रश्म्यहर्वायुसूर्यादयोऽध्वनः पर्वाणः सन्तोऽध्वनैकेन युज्यन्ते, आहो यथायथमध्वानमपि भिन्दन्तीति सन्देहेऽभेदेऽप्यध्वनो
भागभेदोपपत्तेर्न भागिभेदकल्पनोचिता, गौरवप्रसङ्गात् ।
एकदेशप्रत्यभिज्ञानाच्च विशेषणविशेष्यभावोपपत्तेर्नानेकाध्वकल्पना ।
अथैतैरेव रश्मिभिरित्यवधारणं न तावदर्थान्तरनिवृत्त्यर्थं तत्प्रापकैरेव वाक्यान्तरैर्विरोधात्, तस्मादन्यानपेक्षामस्यावधारयतीति वक्तव्यम् ।
न चैकं वाक्यमप्राप्तमध्वानं प्रापयति तस्य चानपेक्षतां प्रतिपादयतीत्यर्थद्वयाय पर्याप्तं,
तस्माद्विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीति युक्तम् ।
त्वरावचनं चेति ।
न खल्वेकस्मिन्नेव गन्तव्ये पथिभेदमपेक्ष्य त्वरावकल्प्यते किन्तु गन्तव्यभेदादपि तदुपपत्तिः ।
यथा कश्मीरेभ्यो मथुरां क्षिप्रं याति चैत्र इति तथेहाप्यन्यतः कुतश्चिद्गन्तव्यादनेनोपायेन ब्रह्मलोकं क्षिप्रं प्रयातीति ।
भूयांस्यर्चिरादिश्रुतौ मार्गपर्वाणीति ।
अयमर्थःेकत्वात्प्राप्तव्यस्य ब्रह्मलोकस्याल्पपर्वणा मार्गेण तत्प्राप्तौ सम्भवन्त्यां बहुमार्गोपदेशो व्यर्थः प्रसज्यते ।
तत्र चेतनस्याप्रवृत्तेः ।
तस्माद्भूयसां पर्वणामविरोधेनाल्पानां तदनुप्रवेश एव युक्त इति ॥१॥
४,३.२.२
वायुमब्दादविशेषविशेषाभ्याम् । ब्रह्मसूत्र ४,३.२ ।
ऽश्रुत्याद्यभावे पाठस्य क्रमं प्रति नियन्तृता ।
ऊर्ध्वाक्रमणमात्रे च श्रुता वायोर्निमित्तता ॥
ऽऽस वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमतेऽइति हि वायुनिमित्तमूर्ध्वाक्रमणं श्रुतं न तु
वायुनिमित्तमादित्यगमनंऽस आदित्यं गच्छतिऽइत्यादित्यगमनमात्रप्रतीतेः ।
नच तेनेत्यनन्तरश्रुतोर्ध्वीक्रमणक्रियासम्बन्धि निराकाङ्क्षमादित्यगमनक्रिययापि सम्बन्द्धुमर्हति ।
न चादित्यागमनस्य तेनेति विना काचिदनुपपत्तिर्येनान्यसम्बद्धमप्यनुषज्यते ।
तत्राग्निलोकमागच्छति स वायुलोकमित्यादिसन्दर्भगतस्य पाठस्य क्वचिन्नियामकत्वेन कॢप्तसामर्थ्यादग्निवायुवरुणक्रमनियामकश्रुत्याद्यभावादिति
प्राप्ते प्रत्युच्यतेऊर्ध्वशब्दो न लोकस्य कस्यचित्प्रतिपादकः ।
तद्भेदापेक्षया युक्तमादित्येन विशेषणम् ॥
भवेदेतदेवं यद्यूर्ध्वशब्दात्कश्चिल्लोकभेदः प्रतीयेत स तूपरिदेशमात्रवाची लोकभेदाद्विनापर्यवस्यंल्लोकभेदवाचिनादित्यपदेनादित्ये
व्यवस्थाप्यते ।
तथा चादित्यलोकगमनमेव वायुनिमित्तमिति श्रौतक्रमनियमे, पाठः पदार्थमात्रप्रदर्शनार्थो न तु क्रमाय प्रभवति श्रुतिविरोधादिति सिद्धम् ।
वाजसनेयिनां संवत्सरलोको न पठ्यते छान्दोग्यानां देवलोको न पठ्यते तत्रोभयानुरोधादुभयपाठे माससम्बन्धात्संवत्सरः पूर्वः पश्चिमो
देवलोकः ।
नहि मासो देवलोकेन सम्बध्यते किन्तु संवत्सरेण ।
तस्मात्तयोः परस्परसम्बन्धान्मासारभ्यत्वाच्च संवत्सरस्य मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवति ।
तत्रादित्यानन्तर्याय वायोः संवत्सरादित्यस्य स्थाने देवलोकाद्वायुमिति पठितव्यम् ।
वायुमब्दादिति तु सूत्रमत्रापि वाचकमेव ।
तथापि संवत्सरात्पराञ्चमादित्यादर्वाञ्चं वायुमभिसम्भवन्तीति छान्दोग्यपाठमात्रापेक्षयोक्तं, तदिदमाहवायुमब्दादिति त्विति ॥२॥
४,३.३.३
तडितोऽधि वरुणः सम्बन्धात् । ब्रह्मसूत्र ४,३.३ ।
तडिदन्तेऽर्चिराद्येऽध्वन्यप्पतिस्तडितः परः ।
तत्सम्बन्धात्तथेन्द्रादिरप्पतेः पर ईष्यते ॥
आगन्तूनां निवेशोऽन्ते स्थानाभावात्प्रसाधितः ।
तथा चेन्द्रादिरागन्तुः पठ्यते चाप्पतेः परः ॥३॥
४,३.४.४
आतिवाहिकास्तल्लिङ्गात् । ब्रह्मसूत्र ४,३.४ ।
मार्गचिह्नसरूपत्वाच्चिह्नान्येवार्चिरादयः ।
भर्तृभोगभुवो वा स्युर्लोकत्वान्नातिवाहिकाः ॥
अर्चिरादिशब्दा हि ज्वलनादावचेतनेषु निरूढवृत्तयो लोके ।
न चैषां त्वावधिकानामिव नियमवती संवहनस्वरूपा स्वतनन्त्रक्रिया बुद्धिपूर्वा सम्भवत्यचेतनानाम् ।
तस्माल्लोकशब्दवाच्यत्वाद्भर्तुर्जीवात्मनो भोगभूमय एवेति मन्यामहे ।
अपि चार्चिष इत्यस्मादपादानां प्रतीयते ।
न हेतुर्नागुणे हेतौ पञ्चमी दृश्यते क्वचित् ॥
जाड्याद्बद्ध इत्यादिषु गुणवचनेषु जाड्यादिषु हेतुपञ्चमी दृष्टा ।
न चार्चिरादिशब्दा गुणवाचिनो येन पञ्चम्या तेषां वहनं प्रति हेतुत्वमुच्यते ।
अपादानत्वं चाचेतनेष्वप्यस्तीति नातिवाहिकाः ।
न चामानवस्य पुरुषस्य विद्युदादिषु वोढृत्वदर्शनादर्चिरादीनामपि वोढृत्वमुन्नेयम् ।
यावद्वचनं हि वाचनिकं न तदवाच्ये सञ्चारयितुमुचितम् ।
अपि चार्चिरादीनां वोढृत्वे विद्युदादीनामपि वोढृत्वान्नामानवः पुरुषो वोढा श्रूयेत ।
यतः श्रूयते ततोऽवगच्छामो विद्युदादिवन्नार्चिरादीनां वोढृत्वमिति ।
तस्माद्भोगभूमय एवार्चिरादयो नातिवाहिका इति प्राप्ते प्रत्युच्यतेसम्पिण्डकरणानां हि सूक्ष्मदेहवतां गतौ ।
न स्वातन्त्र्यं न चाग्न्याद्या नेतारोऽचेतनास्तु ते ॥
ईदृशी हि नियमवती गतिः स्वयं वा प्रेक्षावतोऽप्रेक्षावतो वा प्रेक्षावत्प्रयुक्तस्य ।
न तावद्विगलितस्थूलकलेवराः सूक्ष्मदेहवन्तः सम्पिण्डितकरणग्रामा उत्क्रान्तिमन्तो जीवात्मानो मत्तमूर्च्छिचवत्स्वयं प्रेक्षावन्तो यदेवं
स्वातन्त्र्येण गच्छेयुस्तद्यद्यर्चिरादयोऽपि मार्गचिह्नानि वा शमीकारस्करादिवद्भोगभूमयो वा सुमेरुशैलेलावृत्तादिवदुभयथाप्यचेतनतया न नयनं
प्रत्येषामस्ति स्वातन्त्र्यम् ।
न चैतेभ्योऽन्यस्य चेतनस्य नेतुः कल्पना सति श्रुतानां चैतन्यसम्भवे ।
नच परमेश्वर एवास्तु नेतेति युक्तम् ।
तस्यात्यन्तसाधारणतया लोकपालग्रहादीनामकिञ्चित्करत्वात् ।
तस्माद्व्यवस्थित एव परमेश्वरस्य सर्वाध्यक्षत्वे यथा यथात्वं लोकपालादीनां स्वातन्त्र्यमेवमिहाप्यर्चिरादीनामातिवाहिकत्वमेव
दर्शनानुसाराच्छब्दार्थ इति युक्तम् ।
इममेवार्थममानवपुरुषातिवाहनलक्षणं लिङ्गमुपोद्वलयतीत्युक्तम् ।
अनवस्थितत्वादर्चिरादीनामिति ।
अवस्थितं हि मार्गचिह्नं भवत्यव्यभिचारान्नानवस्थितं व्यभिचारादिति ।
अर्चिष इति च हेतौ पञ्चमी नापादाने ।
गुणत्वं चाश्रिततया ।
नच वैशेषिकपरिभाषया नियम आस्थेयो लोकविरोधात् ।
अपिच तेऽर्चिरभिसम्भवन्तीति सम्बन्धमात्रमुक्तमिति ।
सामान्यवचने शब्दे विशेषाकाङ्क्षिणि स्फुटम् ।
यद्विशेषपदं तेन तत्सामान्यं नियम्यते ॥
यथा ब्राह्मणमानय भोजयितव्य इति तद्विशेषापेक्षायां यदा तत्सन्निधावुपनिपतति पदं कण्ठादि(?) तदा तेनैतन्नियम्यते एवमिहापीति ॥४ ॥
४,३.४.५
उभयव्यामोहात्तत्सिद्धेः । ब्रह्मसूत्र ४,३.५ ।
४,३.४.६
वैद्युतेनैव ततस्तच्छ्रुतेः । ब्रह्मसूत्र ४,३.६ ।
विद्युल्लोकमागतोऽमानवः पुरुषो वैद्युतस्तेनैव न तु वरुणादिना स्वयमुह्यते ।
तच्छ्रुतेस्तस्यैव स्वयं वोढृत्वश्रुतेः ।
वरुणादयस्तु तत्साहायके वर्तमाना वोढारो भवन्तीति च वैषम्यं न वोढृत्वे इति सर्वमवदातम् ॥६॥
पाठक्रमादर्थक्रमो बलवानितियथार्थक्रमं पठ्यन्ते सूत्राणिपरं जैमिनिर्मुख्यत्वात् ।
स एतान् ब्रह्म गमयतीति विचिकित्स्यते ।
किं परं ब्रह्म गमयत्याहोस्विदपरं कार्यं ब्रह्मेति ।
मुख्यत्वादमृतप्राप्तेः परप्रकरणादपि ।
गन्तव्यं जैमिनिर्मेने परमेवार्चिरादिना ॥
ब्रह्म गमयतीत्यत्र हि नपुंसकं ब्रह्मपदं परस्मिन्नेव ब्रह्मणि निरूढत्वादनपेक्षतया मुख्यमिति सति सम्भवे न कार्ये ब्रह्मणि गुणकल्पनया
व्याख्यातुमुचितम् ।
अपि चामृतत्वफलावर्तिर्न कार्यब्रह्मप्राप्तौ युज्यते ।
तस्य कार्यत्वेन मरणधर्मवत्त्वात् ।
किञ्च तत्र तत्र परमेव ब्रह्म प्रकृत्य प्रजापतिसद्मप्रतिपत्त्यादय उच्यमाना नापरब्रह्मविषया भवितुमर्हन्ति प्रकरणविरोधात् ।
न च परस्मिन्त्सर्वगते गतिर्नोपपद्यते प्राप्तत्वादिति युक्तम् ।
प्राप्तेपि हि प्राप्तिफला गतिर्दृश्यते ।
यथैकस्मिन्न्यग्रोधपादपे मूलादग्रमग्राच्च मूलं गच्छतः शाखामृगस्यैकेनैव न्यग्रोधपादपेन निरन्तरं संयोगविभागा भवन्ति ।
न चैते तदवयवविषयी न तु न्यग्रोधविषया इति साम्प्रतं तथा सति न शाखामृगो न्यग्रोधेन युज्यते ।
न्यग्रोधावयवस्य तदवयवयोगात् ।
एवं दृश्यमानानामपि तदवयवानां न योगस्तदवयवयोगात्तदन्तेन क्रमेण तदवयवेषु परमाणुषु व्यवतिष्ठते ।
ते चातीन्द्रिया इति कस्मिन्नु नामायमनुभवपद्धतिमध्यास्तां संयोगतपस्वी ।
तस्मादकामेनाप्यनुभवानुरोधेन प्राप्त एव प्राप्तिफलत्वावगतिरेषितव्या ।
तद्ब्रह्म प्राप्तमपि प्राप्तिफलायावगतेगोचरो भविष्यति ।
ब्रह्मलोकेष्विति च बहुवचनमेकस्मिन्नपि प्रयोगसाधुतामात्रेण गमयितव्यम् ।
लोकशब्दश्चालोकने प्रकाशे वर्तयितव्यो न तु सन्निवेशवति देशविशेषे ।
तस्मात्परब्रह्मप्राप्त्यर्थं गत्युपदेशसामर्थ्यादयमर्थो भवति ।
यथा विद्याकर्मवशादर्चिरादिना गतस्य सत्यलोकमतिक्रम्य परं जगत्कारणं ब्रह्म लोकमालोकं स्वयं प्रकाशकमिति यावत् ।
प्राप्तस्य तत्रैव लिङ्गं प्रलीयते न तु गतिमेवम्भूतां विना लिङ्गप्रविलय इति ।
अत एव श्रुतिः पुरुषमाणाः पुरुषं प्राप्यास्तं गच्छन्ति ।
तदनेनाभिसन्धिना परं ब्रह्म गमयत्यमानव इति मेने जैमिनिराचार्यः ।
४,३.५.७
कार्यं बादरिरस्य गत्युपपत्तेः । ब्रह्मसूत्र ४,३.७ ।
तत्त्वदर्शीं बादरिर्ददर्श कार्यमप्राप्तपूर्वत्वादप्राप्तप्रापणी गतिः ।
प्रापयेद्ब्रह्म न परं प्राप्तत्वाज्जगदात्मकम् ॥
तत्त्वमसिवाक्यार्थसाक्षात्कारात्प्राक्किल जीवात्माविद्याकर्मवासनाद्युपाध्यवच्छेदाद्वस्तुतोऽनवच्छिन्नोऽवच्छिन्नमिवाभिन्नोऽपि लोकेभ्यो
भिन्नमिवात्मानमभिमन्यमानः स्वरूपादन्यानप्राप्तानर्चिरादींल्लोकान्गत्याप्नोतीति युज्यते ।
अद्वैतब्रह्मतत्त्वसाक्षात्कारवतस्तु विगलितनिखिलप्रपञ्चावभासविभ्रमस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन सङ्गतम् ।
तस्मादनिदर्शनं न्यग्रोधसंयोगविभागा न्ययग्रोधवानरतद्गतितत्संयोगविभागानां मिथो भेदात् ।
नच तत्रापि प्राप्तप्राप्तिः कर्मजेन हि विभागेन निरुद्धायां पूर्वप्राप्तावप्राप्तस्यैवोत्तरप्राप्तेरुत्पत्तेः ।
एतदपि वस्तुतो विचारसहतया सर्वमनिर्वचनीयं विजृम्भितमविद्यायाः समुत्पन्नाद्वैततत्त्वसाक्षात्कारो न विद्वानभिमन्यते ।
विदुषोऽपि देहपातात्पूर्वं स्थितप्रज्ञस्य यथाभासमात्रेण सांसारिकधर्मानुवृत्तिरभ्युपेयते एवमालिङ्गशरीरपाताद्विदुषस्तद्धर्मानुवृत्तिः ।
तथाचाप्राप्तप्राप्तेर्गत्युपपत्तिस्तद्देशप्राप्तौ च लिङ्गदेहनिवृत्तेर्मुक्तिः श्रुतिप्रामाण्यादिति चेत् ।
न ।
परविद्यावत उत्क्रान्तिप्रतिषेधात्ऽब्रह्मैव सन्ब्रह्माप्येति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्तेऽइति ।
यथा विद्याब्रह्मप्राप्त्योः समानकालता श्रूयतेऽब्रह्म वेद ब्रह्मैव भवतिऽऽआनन्दं ब्रह्मणो विद्वान्न बिभेतिऽऽतदात्मानमेव वेदाहं ब्रह्मास्मीति
तत्सर्वमभवत्ऽऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽइति पौर्वापर्याश्रवणात्परविद्यावतो मुक्तिं प्रति नोपायान्तरापेक्षेति लक्ष्यतेऽभिसन्धिः
श्रुतेः ।
उपपन्नं चैतत् ।
न खलु ब्रह्मैवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्मभावसाक्षात्कारेणोन्मूलितायामनवयवेनाविद्यायामस्ति गन्तव्यगन्तृविभागो
विदुषस्तदभावे कथमयमर्चिरादिमार्गे प्रवर्तेत ।
नच छायामात्रेणापि सांसारिकधर्मानुवृत्तिस्तत्र प्रवृत्त्यङ्गं यादृच्छिकप्रवृत्तेः ।
श्रद्धाविहीनस्य दृष्टार्थानि कर्माणि फलन्ति न फलन्ति च ।
अदृष्टार्थानां तु फले का कथेत्युक्तं प्रथमसूत्रे ।
न चार्चिरादिमार्गभावनायाः परब्रह्मप्राप्त्यर्थमविदुषः प्रत्युपदेशस्तथा च कर्मान्तरेष्विव नित्यादिषु तत्रापि स्यात्तस्य प्रवृत्तिरपि साम्प्रतम् ।
विकल्पासहत्वात् ।
किमियं परविद्यानपेक्षा परब्रह्मप्राप्तिसाधनं तदपेक्षा वा ।
न तावदनपेक्षाऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनायऽइति परब्रह्मविज्ञानादन्यस्याध्वनः साक्षात्प्रतिषेधात् ।
परविद्यापेक्षत्वे तु मार्गभावनायाः किमियं विद्याकार्ये मार्गभावना साहायकमाचरत्यथ विद्योत्पादे ।
न तावद्विद्याकार्ये तया सह तस्या द्वैताद्वैतगोचरतया मिथो विरोधेन सहासम्भवात् ।
नापि यज्ञादिवद्विद्योत्पादे साक्षात्ब्रह्मप्राप्त्युपायत्वश्रवणादेतान्ब्रह्म गमयतीति ।
यज्ञादेस्तु विविदिषासंयोगेन श्रवणाद्विद्योत्पादाङ्गत्वम् ।
तस्मादुपन्यस्तबहुश्रुत्यनुरोधादुपपत्तेश्च ब्रह्मशब्दोऽसम्भवन्मुख्यवृत्तिर्ब्रह्मसामीप्यादपरब्रह्मणि लक्षणया नेतव्यः ।
तथाच लोकेष्विति बहुवचनोपपत्तेः कार्यब्रह्मलोकस्य ।
परस्य त्वनवयवतया तद्द्वारेणाप्यनुपपत्तेः ।
लोकत्वं चेलावृत्तादिवत्सन्निवेशविशेषवति भोगभूमौ निरूढं न कथञ्चिद्योगेन प्रकाशे व्याख्यातं भवति ।
तस्मात्साधुदर्शी स भगवान्बादरिरसाधुदर्शी जैमिनिरिति सिद्धम् ।
अप्रामाणिकानां बहुप्रलापाः सर्वगतस्य द्रव्यस्य गुणाः सर्वगता एव चैतन्यानन्दादयश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुणा इत्यादयो
दूषणायानुभाष्यमाणा अप्यप्रामाणिकत्वमावहन्त्यस्माकमित्युपेक्षिताः ।
ग्रन्थयोजना तुप्रत्यगात्मत्वाच्च गन्तॄणां प्रतिप्रति अञ्चति गच्छतीति प्रत्यक्प्रतिभाववृत्ति ब्रह्म तदात्मत्वाद्गन्तॄणां जीवात्मनामिति ।
गौणी त्वन्यत्रेति ।
यौगिक्यपि हि योगगुणापेक्षया गौण्येव ।
विशुद्धोपाधिसम्बन्धमिति ।
मनोमयत्वादयः कल्पनाः कार्याः ।
कार्यत्वादविशुद्धा अपि श्रेयोहेतुत्वाद्विशुद्धाः ।
प्रतिसञ्चरो महाप्रलयः प्रतिपत्त्यभिसन्धिः प्रतिपत्तिर्गतिः पदेर्गत्यर्थत्वात् ।
अभिसन्धिस्तात्पर्यम् ।
यस्य ब्रह्मणो नामाभिधानं यश इति ।
पूर्ववाक्यविच्छेदेनेति ।
श्रुतिवाक्ये बलीयसी प्रकरणात् ।
सगुणेऽपि च ब्रह्मणीति ।
प्रशंसार्थमित्यर्थः ।
चोदयतिननु गतस्यापि पारमार्थिकी गन्तव्यता देशान्तरविशिष्टस्येति ।
न्यग्रोधवानरदृष्टान्त उपपादितः ।
परिहरतिन ।
प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मण इति ।
अयमभिसन्धिःयथातथा न्यग्रोधावयवी परिणामवानुपजनापायधर्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा
निरस्तनिखिलभेदप्रपञ्चः कूटस्थनित्यो न न्यग्रोधवत्संयोगविभागभाग्भवितुमर्हति ।
काल्पनिकसंयोगविभागस्तु काल्पनिकस्यैव कार्यब्रह्मलोकस्योपपद्यते न परस्य ।
शङ्कतेजगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरिति ।
नह्युत्पत्त्यादिहेतुभावोऽपरिणामिनः सम्भवति तस्मात्परिणामीति ।
तथा च भाविकमस्योपपद्यते गन्तव्यत्वमित्यर्थः ।
निराकरोतिन ।
विशेषनिराकरणश्रुतिनामिति ।
विशेषनिराकरणं समस्तशोकादिदुःखशमनतया पुरुषार्थफलवत् ।
अफलं तूत्पत्त्यादिविधानम् ।
तस्मात्फलवतः सन्निधावाम्नायमानं तदर्थमेवोच्यत इत्युपपत्तिः ।
तद्विजिज्ञासस्वेति च श्रुतिः ।
तस्माच्छ्रुत्युपपत्तिभ्यां निरस्तसमस्तविशेषब्रह्मप्रतिपादनपरोऽयमाम्नायो न तूत्पत्त्यादिप्रतिपादनपरः ।
तस्मान्न गतिस्तात्त्विकी ।
अपि चेयं गतिर्न विचारं सहत इत्याहगतिकल्पनायां चेति ।
अन्यानन्यत्वीश्रयाववयवविकारपक्षौ ।
अन्यो वात्यन्तम् ।
अथ कस्मादात्यन्तिकमनन्यत्वं न कल्प्यत इत्यत आहअत्यन्ततादात्म्य इति ।
मृदात्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः, तदभावे न भवन्ति शिंशपेव वृक्षत्वाभाव इति ।
विकारावयवपक्षयोश्च तद्वतः सह विकारावयवैःस्थिरत्वादचलत्वाद्ब्रह्मणः संसारलक्षणं गमनं विकारावयवयेरनुपपन्नम् ।
नहि स्थिरात्मकमस्थिरं भवति ।
अन्यानन्यत्वे अपि चैकस्य विरोधादसम्भवन्ती इति भावः ।
अथान्य एव जीवो ब्रह्मणः ।
तथाच ब्रह्मण्यसंसरत्यपि जीवस्य संसारः कल्प्यत इति ।
एतद्विकल्प्य दूषयतिसोऽणुरिति ।
मध्यमपरिमाणत्व इति ।
मध्यमपरिमाणानां घटादीनामनित्यत्वदर्शनात् ।
न ।
मुख्यैकत्वेति ।
भेदाभेदयोर्विरोधिनोरेकत्रासम्भवाद्बुद्धिव्यपदेशभेदादर्थभेदः ।
अयुतसिद्धतयोपचारेणाभिन्नमुच्यत इत्यमुख्यमस्यैकत्वमित्यर्थः ।
अपिच जीवानां ब्रह्मावयवत्वपरिणामात्यन्तभेदपक्षेषु तात्त्विकी संसारितेति मुक्तौ स्वभावहानाज्जीवानां विनाशप्रसङ्गः ।
ब्रह्मविवर्तत्वे तु ब्रह्मैवैषां स्वभावः प्रतिबिम्बानामिव बिम्बं तच्चाविनाशीति न जीवविनाश इत्याहसर्वेष्वेतेष्विति ।
मतान्तरमुपन्यस्यति दूषयितुम्यत्तु कैश्चिज्जल्प्यते विनैव ब्रह्मज्ञानन्नित्यनैमित्तिकानीति ।
यथा हि कफनिमित्तो ज्वर उपात्तस्य कफस्य विशेषणादिभिः प्रक्षये कफान्तरोत्पत्तिनिमित्तदध्यादिवर्जने प्रशान्तोऽपि न पुनर्भवति ।
एवं कर्मनिमित्तो बन्ध उपात्तानां कर्मणामुपभोगात्प्रक्षये प्रशाम्यति ।
कर्मान्तरामणां च बन्धहेतूनामननुष्ठानात्कारणाभावे कार्यानुपपत्तेर्बन्धाभावात्स्वभावसिद्धो मोक्ष आरोग्यमिव ।
उपात्तदुरितनिबर्हणाय च नित्यनैमित्तिककर्मानुष्ठानाद्दुरितनिमित्तप्रत्यवायो न भवति ।
प्रत्यवायानुत्पत्तौ च स्वस्थस्वान्तो न निषिद्धान्याचरेदिति ।
तदेतद्दूषयतितदसत् ।
प्रमाणाभावादिति ।
शास्त्रं खल्वस्मिन्प्रमाणं तच्च मोक्षमाणस्यात्मज्ञानमेवोपदिशति नतूक्तमाचारम् ।
न चात्रोपपत्तिः प्रभवति संसारस्यानादितया कर्माशयस्याप्यसङ्ख्येयस्यानियतविपाककालस्य भोगेनोच्छेत्तुमशक्यत्वादित्याहन
चैतत्तर्कयितुमपीति ।
चोदयतिस्यादेतदिति ।
नित्येति ।
परिहरतितन्न विरोधाभावादिति ।
यदि हि नित्यनैमित्तिकानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशा दत्तजलाञ्जलयः प्रसज्येरन् ।
नह्यस्ति कश्चिच्चातुर्वर्ण्ये चातुराश्रम्ये वा यो न नित्यनैमित्तिकानि कर्माणि करोति ।
तस्मान्नैषां सुकृतविरोधितेति ।
अभ्युच्चयमात्रमाहनच नित्यनैमित्तिकानुष्ठानादिति ।
न चासति सम्यग्दर्शने इति ।
सम्यग्दर्शी हि विरक्तः काम्यनिषिद्धे वर्जयन्नपि प्रमादादुपनिपतिते तेनैवसम्यग्दर्शनेन क्षपयति ।
ज्ञानपरिपाके च न करोत्येव अज्ञस्तु निपुणोऽपि प्रमादात्करोति ।
कृते च न क्षपयितुं क्षमत इति विशेषः ।
न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्व इति ।
कर्तृत्वभोक्तृत्वे समाक्षिप्तक्रियाभोगे ते चेदात्मनः स्वभावावधारिते न त्वारोपिते ततो न शक्यावपनेतुम् ।
नहि स्वभावाद्भावोऽवरोपयितुं शक्यो भावस्य विनाशप्रसङ्गात् ।
न च भोगोऽपि सत्स्वभावः शक्योऽसत्कर्तुं, नो खलु नीलमनीलं शक्यं शक्रेणापि कर्तुं तदिदमुक्तंस्वभावस्यापरिहार्यत्वादिति ।
समारोपितस्य त्वनिर्वचनीयस्य तत्स्वभावस्य शक्यस्तत्त्वज्ञानेनावरोपः कर्तुं सर्पस्येव रज्जुतत्त्वज्ञानेनेति भावः ।
भावमिममविद्वान्परिचोदयतिस्यादेतत् ।
कर्तृत्वभोक्तृत्वकार्यमिति ।
अप्रकाशितभावो यथोक्तमेव समाधत्तेतच्च नेति ।
कर्तृत्वभोक्तृत्वयोर्निमित्तसम्बन्धस्य च शक्तिद्वारेण नित्यत्वाद्भविष्यति कदाचिदेषां समुदाचारो यतः सुखदुःखे भोज्येते इति सम्भावनातः कुतः
कैवल्यनिश्चय इत्यर्थः ।
भूयोनिरस्तमपि मतिद्रढिम्ने पुनरुपन्यस्य दूषयतिपरस्मादनन्यत्वेऽपीति ।
शेषमतिरोहितार्थम् ॥७ ॥
४,३.५.८१४
विशेषितत्वाच्च । ब्रह्मसूत्र ४,३.८ ।
सामीप्यात्तु तद्व्यपदेशः । ब्रह्मसूत्र ४,३.९ ।
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । ब्रह्मसूत्र ४,३.१० ।
स्मृतेश्च । ब्रह्मसूत्र ४,३.११ ।
परं जैमिनिर्मुख्यत्वात् । ब्रह्मसूत्र ४,३.१२ ।
दर्शनाच्च । ब्रह्मसूत्र ४,३.१३ ।
न च कार्ये प्रतिपत्त्यभिसन्धिः । ब्रह्मसूत्र ४,३.१४ ।
४,३.६.१५
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च । ब्रह्मसूत्र ४,३.१५ ।
अब्रह्मक्रतवो यान्ति यथा पञ्चाग्निविद्यया ।
ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा ॥
सन्ति हि मनो ब्रह्मेत्युपासीतेत्याद्याः प्रतीकविषया विद्याः ।
तद्वन्तोऽप्यर्चिरादिमार्गेण कार्यब्रह्मोपासका इव गन्तुमर्हन्तिऽअनियमः सर्वासाम्ऽइत्यविशेषेण विद्यान्तरेष्वपि गतेरवधारणात् ।
न चैषां परब्रह्मविदामिव गत्यसम्भव इति ।
नच ब्रह्मक्रतव एव ब्रह्मलोकभाजो नातत्क्रतव इत्यप्येकान्तः ।
अतत्क्रतूनामपि पञ्चाग्निविदां तत्प्राप्तेः ।
न चैते न ब्रह्मक्रतवो मनो ब्रह्मेत्युपासीतेत्यादौ सर्वत्र ब्रह्मानुगमेन तत्क्रतुत्वस्यापि सम्भवात् ।
फलविशेषस्य ब्रह्मलोकप्राप्तावप्युपपत्तेः, तस्य सावयवतयोत्कर्षनिकर्षसम्भवादिति प्राप्ते प्रत्युच्यते उत्तरोत्तरभूयस्त्वादब्रह्मक्रतुभावतः ।
प्रतीकोपासकान् ब्रह्मलोकं नामानवो नयेत् ॥
भवतु पञ्चाग्निविद्यायामब्रह्मक्रतूनामपि ब्रह्मलोकनयनं, वचनात् ।
किमिव हि वचनं न कुर्यात्नास्ति वचनस्यातिभार इह तु तदभावात् ।
ऽतं यथायथोपासते तदेव भवतिऽइति श्रुतेरौत्सर्गिक्यान्नासति विशेषवचनेऽपवादो युज्यते ।
नच प्रतीकोपासको ब्रह्मोपास्ते सत्यपि ब्रह्मेत्यनुगमे ।
किन्तु नामादिविशेषं ब्रह्मरूपतया ।
तथा खल्वयं नामादितन्त्रो न ब्रह्मतन्त्रः ।
आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीक इति हि वृद्धाः ।
ब्रह्माश्रयश्च प्रत्ययो नामादिषु प्रक्षिप्त इति नामतन्त्रः ।
तस्मान्न तदुपासको ब्रह्मक्रतुः किन्तुनामादिक्रतुः ।
न च ब्रह्मक्रतुत्वे नामाद्युपासकानामविशेषादुत्तरोत्तरोत्कर्षः सम्भवी ।
नच ब्रह्मक्रतुस्तदवयवक्रतुर्येन तदवयवापेक्षयोत्कर्षो वर्ण्येत ।
तस्मात्प्रतीकालम्बनान्विदुषो वर्जयित्वा सर्वानन्यान्विकारालम्बनान्नयत्यमानवो ब्रह्मलोकम् ।
न ह्येवमुभयथाभाव उभयथार्थत्वे कांश्चित्प्रतीकालम्बनान्न नयति विकारलम्बनान्विदुषस्तु नयतीत्यभ्युपगमे कश्चिद्दोषोऽस्तिऽअनियमः
सर्वासाम्ऽइत्यस्य न्यायस्येति सर्वमवदातम् ॥१५॥
४,३.६.१६
विशेषं च दर्शयति । ब्रह्मसूत्र ४,३.१६ ।
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य तृतीयः पादः ॥३॥
चतुर्थेऽध्याये चतुर्थः पादः ।