४,२.१.१
वाङ्मनसि दर्शनाच्छब्दाच्च । ब्रह्मसूत्र ४,२.१ ।
अथास्मिन् फलविचारलक्षणे वाङ्मनसि सम्पद्यत इत्यादिविचारोऽसङ्गत इत्यत आह
अथापरासु विद्यासु फलप्राप्तय इति ।
अपरविद्याफलप्राप्त्यर्थदेवयानमार्गार्थत्वादुत्क्रान्तेस्तद्गतो विचारः पारम्पर्येण भवति फलविचार इति नासङ्गत इत्यर्थः ।
नन्वयमुत्क्रान्तिक्रमो विदुषो नोपपद्यतेऽन तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽइति श्रवणात्तत्कथमस्य विद्याधिकार इत्यत आह
समाना हि विद्वदविदुषोरिति ।
विषयमाह
अस्तीति ।
विमृशति
किमिहेति ।
विशयः संशयः ।
पूर्वपक्षमाह
तत्र वागेवेति ।
श्रतिलक्षणाविशये संशये ।
सिद्धान्तसूत्रं पूरयित्वा पठति
वाग्वृत्तिर्मनसि सम्पद्यते इति ।
वृत्त्यध्याहारप्रयोजनं प्रश्नपूर्वकमाह कथमिति ।
उत्तराधिकरणपर्यालोचनेनैवं पूरितमित्यर्थः ।
तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायां त्विह सर्वत्रैव परत्रेह चाविभागसाम्यात्किं परत्रैव विशिंष्यादविभाग इति न त्वत्रापि ।
तस्मादिहाविभागेनाविंशिषतोऽत्र वृत्त्युपसंहारमात्रविवक्षा सूत्रकारस्येति गम्यते ।
सिद्धान्तहेतुं प्रश्नपूर्वकमाह
कस्मादिति ।
सत्यामेव मनोवृत्तौ वाग्वृत्तेरुपसंहारदर्शनात् ।
वाचस्तूपसंहारमदृष्टं नागमोऽपि गमयितुमर्हति ।
आगमप्रभवयुक्तिविरोधाश्च ।
आगमो हि दृष्टानुसारतः प्रकृतौ विकाराणां लयमाह ।
न च वाचः प्रकृतिर्मनो येनास्मिन्नियं लीयेत ।
तस्मात्वृत्तिवृत्तिमतोरभेदविवक्षया वाक्पदं तद्वृत्तौ व्याख्येयम् ।
सम्भवति च वाग्वृत्तेर्वागप्रकृतावपि मनसि लयः ।
तथा तत्र तत्र दर्शनादित्याह
वृत्त्युद्भवाभिभवाविति ॥१॥
४,२.१.२
अत एव च सर्वाण्यनु । ब्रह्मसूत्र ४,२.२ ।
यत एव प्रकृतिविकारभावाभावन्मनसि न स्वरूपलयो वाचोऽपि तु वृत्तिलयः, अत एव च सर्वेषां चक्षुरादीनामिद्रियाणां सत्येव सवृत्तिके मनसि
वृत्तेरनुगतिर्लयो न स्वरूपलयः ।
वाचस्तु पृथक्ग्रहणं पूर्वसूत्रे उदाहरणापेक्षं न तु तदेवेह विवक्षितमित्यर्थः ॥२॥
४,२.२.३
तन्मनः प्राण उत्तरात् । ब्रह्मसूत्र ४,२.३ ।
यदि स्वप्रकृतौ विकारस्य लयस्ततो मनः प्राणे सम्पद्यते इत्यत्र मनःस्वरूपस्यैव प्राणे सम्पत्त्या भवितव्यम् ।
तथा हि मनः इति नोपचारतो व्याख्यानं भविष्यति ।
सम्भवति हि प्रकृतिविकारभावः प्राणमनसोः ।
अन्नमयं हि सोम्य मन इत्यन्नात्मतामाह मनसः श्रुतिरापोमयः प्राण इति च प्राणस्याबात्मताम् ।
प्रकृतिविकारयोस्तादात्म्यात् ।
तथा च प्राणो मनसः प्रकृतिरिति मनसो वृत्तिमतः प्राणे लय इति प्राप्तेऽभिधीयतेसत्यम्, आपोऽन्नमसृजन्त इति श्रुतेरबन्नयोः
प्रकृतिविकारभावोऽवगम्यते ।
न तु तद्विकारयोः प्राणमनसोः ।
स्वयोनिप्राणाडिकया तु मिथो विकारयोः प्रकृतिविकारभावाभ्युपगमे सङ्करादतिप्रसङ्गः स्यात् ।
तस्माद्यो यस्य साक्षाद्विकारस्तस्य तत्र लय इत्यन्नस्याप्सु लयो न त्वब्विकारे प्राणेऽन्नविकारस्य मनसः ।
तथा चात्रापि मनोवृत्तेर्वृत्तिमति प्राणे लयो न तु वृत्तिमतो मनस इति सिद्धम् ॥३॥
४,२.३.४
सोऽध्यक्षे तदुपगमादिभ्यः । ब्रह्मसूत्र ४,२.४ ।
प्राणस्तेजसीति तेजःशब्दस्य भूतविशेषवचनत्वाद्विज्ञानात्मनि चाप्रसिद्धेः प्राणस्य जीवात्मन्युपगमानुगमावस्थानश्रुतीनां च
तेजोद्धारेणाप्युपपत्तेः ।
तेजसि समापन्नवृत्तिः खलु प्राणः ।
तेजस्तु जीवात्मनि समापन्नवृत्ति ।
तद्वारा जीवात्मसमापन्नवृत्तिः प्राण इत्युपपद्यते ।
तस्मात्तेजस्येव प्राणवृत्तिप्रविलय इति प्राप्तेऽभिधीयतेस प्रकृतःप्राणोऽध्यक्षे विज्ञानात्मन्यवतिष्ठते तत्तन्त्रवृत्तिर्भवति ।
कुतःुपगमानुगमावस्थानेभ्यो हेतुभ्यः ।
तत्रोपगमश्रुतिमाह
एवमेवेममात्मानमिति ।
अनुगमनश्रुतिमाह
तमुत्क्रामन्तमिति ।
अवस्थानश्रुतिमाह
सविज्ञानो भवतीति चेति ।
विज्ञायतेऽनेनेति विज्ञानं पञ्चवृत्तिप्राणसहित इन्द्रियग्रामस्तेन सहावतिष्ठत इति सविज्ञानः ।
चोदयति
ननु प्रामस्तेजसीति श्रूयत इति ।
अधिकावापोऽशब्दार्थव्याख्यानम् ।
परिहरति
नैष दोष इति ।
यद्यपि प्राणस्तेजसीत्यतस्तेजसि प्राणवृत्तिलयः प्रतीयते, तथापि सर्वशाखाप्रत्ययत्वेन विद्यानां श्रुत्यन्तरालोचनया विज्ञानात्मनि लयोऽवगम्यते ।
न च तेजसस्तत्रापि लय इति साम्प्रतम् ।
तस्यानिलाकाशक्रमेण परमात्मनि तत्त्वलयावगमात् ।
तस्मात्तेजोग्रहणेनोपलक्ष्यते तेजः सहचरितदेहबीजभूतपञ्चभूतसूक्ष्मपरिचाराध्यक्षो जीवात्मा तस्मिन् प्राणवृत्तिरप्येतीति ।
चोदयति
ननु चेयं श्रुतिरिति ।
तेजःसहचरितानि भूतान्युपलक्ष्यन्तां तेजःशब्देनाध्यक्षे तु किमायातं तस्य तदसाहचर्यादित्यर्थः ।
परिहरति
सोऽध्यक्ष इत्यध्यक्षस्यापीति ।
यदा ह्ययं प्राणोऽन्तरालेऽध्यक्षं प्राप्याध्यक्षसम्पर्कवशादेव तेजःप्रभृतीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसीति ।
अत्रैव दृष्टान्तमाह
योऽपि स्रुघ्नादिति ॥४ ॥
४,२.३.५
भूतेषु तच्छ्रुतेः । ब्रह्मसूत्र ४,२.५ ।
४,२.३.६
सूत्रान्तरमवतारयितुं पृच्छति
कथं तेजःसहचरितेष्विति ।
नैकस्मिन् दर्शयतो हि । ब्रह्मसूत्र ४,२.६ ।
अत्र भाष्यकारोऽनुमानदर्शनमाह
कार्यस्य शरीरस्येति ।
स्थूलशरीरानुरूपमनुमेयं सूक्ष्ममपि शरीरं पञ्चात्मकमित्यर्थः ।
दर्शयत इति सूत्रावयवं व्याचष्टे
दर्शयतश्चैतमर्थमिति ।
प्रश्नप्रतिवचनाभिप्रायं द्विवचनं श्रुतिस्मृत्यभिप्रायं वा ।
अण्व्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामिति ।
श्रुत्यन्तरविरोधं चोदयति
ननु चोपसंहृतेषु वागादिष्विति ।
कर्माश्रयतेति प्रतीयते न भूताश्रयतेत्यर्थः ।
परिहरति
अत्रोच्यत इति ।
ग्रहा इन्द्रियाणि अतिग्रहास्तद्विषयाः ।
कर्मणां प्रयोजकत्वेनाश्रयत्वं भूतानां तूपादानत्वेनेत्यविरोधः ।
प्रशंसाशब्दोऽपि
कर्मणां प्रयोजकतया प्रकृष्टमाश्रयत्वं ब्रूते सति निकृष्ट आश्रयान्तरे तदुपपत्तेरित्याह
प्रशंसाशब्दादपि तत्रेति ॥६॥
४,२.४.७
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य । ब्रह्मसूत्र ४,२.७ ।
अत्रामृतत्वप्राप्तिश्रुतेः परविद्यावन्तं प्रत्येतदिति मन्वानस्य पूर्वः पक्षः ।
विशयानानांसन्दिहानानां पुंसाम् ।
चोदयति
ननु विद्याप्रकरण इति ।
परिहरति
न स्वापादिवदिति ।
परविद्ययैवामृतत्वप्राप्त्यवस्थामाख्यातुं तत्सधर्माश्च तद्विधर्माश्चान्या अप्यवस्थास्तदनुगुणतयाख्यायन्ते ।
साधर्म्यवैधर्म्याभ्यां हि स्फुटतरः प्रतिपिपादयिषिते वस्तुनि प्रत्ययो भवतीति ।
न तु विदुषः सकाशाद्विशेषवन्तोऽविद्वांसो विधीयन्ते येन विद्याप्रकरणव्याख्यातो भवेदपि तु विद्यां प्रतिपादयितुं लोकसिद्धानां तदनुगुणतया
तेषामनुवाद इति ।
एवं प्राप्तेऽभिधीयते
समाना चैषोत्क्रान्तिर्वाङ्मनसीत्याद्या विद्वदविदुषोः ।
कुतः
आसृत्युपकृमात् ।
सृतिः सरणं देवयानेन पथा कार्यब्रह्मलोकप्राप्तिरासृतेराकार्यब्रह्मलोकप्राप्तेः ।
अयं विद्योपक्रम आरम्भः प्रयत्न इति यावत् ।
तस्मादेतदुक्तं भवतिनेयं परा विद्या यतो नाडीद्वारमाश्रयते ।
अपि त्वपरविद्येयम् ।
न चास्यामात्यन्तिकः क्लेशप्रदाहो यतो न तत्रोत्क्रान्तिर्भवेत् ।
तस्मादपरविद्यासामर्थ्यादापेक्षिकभाभूतसम्प्लवस्थानममृतत्वं प्रेप्सते पुरुषार्थाय सम्भवत्येष उत्क्रान्तिभेदवान् सृत्युपक्रमोपदेशः ।
उपपूर्वादुष दाह इत्यस्मादुपोष्येति प्रयोगः ॥७॥
४,२.५.८
तदापीतेः संसारव्यपदेशात् । ब्रह्मसूत्र ४,२.८ ।
सिद्धां कृत्वा बीजभावावशेषं परमात्मसम्पत्तिं विद्वदविदुषोरुत्क्रान्तिः समर्थिता ।
सैव सम्प्रति चिन्त्यते ।
किमात्मनि तेजःप्रभृतीनां भूतसूक्ष्माणां तत्वप्रविलय एव सम्पत्तिराहोस्विद्बीजभावावशेषेति ।
यदि पूर्वः पक्षः, नोत्क्रान्तिः ।
अथोत्तरः ततः सेति ।
तत्राप्रकृतौ न विकारतत्त्वप्रविलयो यथा मनसि न वागादीनाम् ।
सर्वस्य च जनिमतः प्रकृतिः परा देवतेति तत्त्वप्रलय एवात्यन्तिकः स्यात्तेजःप्रभृतीनामिति प्राप्तेऽभिधीयतेऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय
देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥
ऽइत्यविद्यावतः संसारमुपदिशति श्रुतिः सेयमात्यन्तिके तत्त्वलये नोपपद्यते ।
न च प्रायणस्यैवैष महिमा विद्वासमविद्वांसं वा प्रतीति साम्प्रतमित्याह
अन्यथा हि सर्वः प्रायणसमय एवेति ।
विधिशास्त्रं ज्योतिष्टोमादिविषयमनर्थकं प्रायणादेवात्यन्तिकप्रलये पुनर्भवाभावात् ।
मोक्षशास्त्रं चाप्रयत्नलभ्यात्प्रायणादेव जन्तुमात्रस्य मोक्षप्राप्तेः ।
न केवलं शास्त्रानर्थक्यमयुक्तश्च प्रायणमात्रान्मोक्ष इत्याह
मिथ्याज्ञानेति ।
नासति निदानप्रशमे प्रशमस्तद्वतो युज्यत इत्यर्थः ॥८॥
४,२.५.९
अथेतरभूतसहितं तेजो जीवस्याश्रयभूतमुत्क्रमद्देहाद्देहान्तरं वा सञ्चरत्कस्मादस्माभिर्न निरीक्ष्यते ।
तद्धि महत्त्वाद्वानेकद्रव्यत्वाद्वा रूपवदुपलब्दव्यम् ।
कस्मान्न मूर्तान्तरैः प्रतिबध्यत इति शङ्कामपाकर्तुमिदं सूत्रम्
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः । ब्रह्मसूत्र ४,२.९ ।
चकारो भिन्नक्रमः ।
न केवलमापीतेस्तदवतिष्ठते ।
तच्च सूक्ष्मं स्वरूपतः परिमाणतश्च स्वरूपमेव हि तस्य तादृशमदृश्यम् ।
यथा चाक्षुषस्य तेजसो महतोऽपि अदृष्टवशादनुद्भूतरूपस्पर्शं हि तत् ।
परिमाणतः सौक्ष्म्यं यतो नोपलभ्यते यथा त्रसरेणवो जालसूर्यमरीचिभ्योऽन्यत्र प्रमाणतस्तथोपलब्धिरिति व्याचष्टे
तथाहि नाडीनिष्क्रमण इति ।
आदिग्रहणेन चक्षुष्टो वा मूर्धो वा अन्येभ्यो वा शरीरदेशेभ्य इति सङ्गृहीतम् ।
अप्रतिघाते हेतुमाह
स्वच्छत्वाच्चेति ।
एतदपि हि सूक्ष्मत्वेनैव सङ्गृहीतम् ।
यथा हि काचाभ्रपटलं स्वच्छस्वभावस्य न तेजसः प्रतिधातम् ।
एवं सर्वमेव वस्तुजातमस्येति ॥९॥
४,२.५.१०
नोपमर्देनातः । ब्रह्मसूत्र ४,२.१० ।
अत एव च स्वच्छतालक्षणात्सौक्ष्म्यादसक्तत्वापरनाम्नः ॥१०॥
४,२.५.११
अस्यैव चोपपत्तेरेष ऊष्मा । ब्रह्मसूत्र ४,२.११ ।
उपपत्तिः प्राप्तिः ।
एतदुक्तं भवतिदृष्टश्रुताभ्यामूष्मणोऽन्वयव्यतिरेकाभ्यामस्ति स्थूलाद्देहादतिरिक्तं किञ्चिच्चदामात्सूक्ष्मं शरीरमिति ॥११॥
४,२.६.१२
प्रतिषेधादिति चेन्न शारीरात् । ब्रह्मसूत्र ४,२.१२ ।
अधिकरणतात्पर्यमाह
अमृतत्वं चानुपोष्येत्यतो विशेषणादिति ।
विषयमाह
अथाकामयमान इति ।
सिद्धान्तिमतमाशङ्क्य तन्निराकरणेन पूर्वपक्षी स्वमतमवस्थापयति
अतः परविद्याविषयात्प्रतिषेधादिति ।
यदि हि प्राणोपलक्षितस्य सूक्ष्मशरीरस्य जीवात्मनः स्थूलशरीरादुत्क्रान्तिं प्रतिषेधच्छ्रुतिः तत एतदुपपद्यते ।
न त्वेतदस्ति ।
न तस्मात्प्राण उत्क्रामन्तीति हि तदा सर्वनाम्ना प्रधानावमर्शिनाभ्युदयनिःश्रेयसाधिकृतो देहि प्रधानं परामृश्यते ।
तथा च तस्माद्देहिनो न प्राणः सूक्ष्मं शरीरमुत्क्रामन्त्यपि तु तत्सहितः क्षेत्रज्ञ एवोत्क्रामतीति गम्यते ।
स पुनरतिक्रम्य ब्रह्मनाड्य संसारमण्डलं हिरण्यगर्भपर्यन्तं सलिङ्गो जीवः परस्मिन्ब्रह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्क्रान्तिरत एव
मार्गश्रुतयः, स्मृतिश्च मुमुक्षोः शुकस्यादित्यमण्डलप्रस्थानं दर्शयतीति प्राप्तम् ॥१२॥
४,२.६.१३
एवं प्राप्ते प्रत्युच्यते
स्पष्टो ह्येकेषाम् । ब्रह्मसूत्र ४,२.१३ ।
नायं देह्यपादानस्य प्रतिषेधः ।
अपि तु देहापादानस्य ।
तथा हिआर्तभागप्रश्नोत्तरे ह्येकस्मिन्पक्षे संसारिण एव जीवात्मनोऽनुत्क्रान्तिं परिगृह्य न तर्ह्येष भृतः प्राणानामनुत्क्रान्तेरिति स्वयमाशङ्क्य
प्राणानां प्रविलयं प्रतिज्ञाय तत्सिद्ध्यर्थमुत्क्रान्त्यवधेरुच्छ्वयनाध्माने ब्रुवन्यस्योच्छ्वयनाध्माने तस्य तदवधित्वमाह ।
शरीरस्य च ते इतिशरीरमेव तदपादानं गम्यते ।
नन्वेवमप्यस्त्वविदुषः संसारिणो विदुषस्तु किमायातमित्यत आह
तत्सामान्यादिति ।
ननु तदा सर्वनाम्ना प्रधानतया देहि परामृष्टः तत्कथमत्र देहावगतिरित्यत आह
अभेदोपचारेण ।
देहदेहिनोर्देहिपरामर्शिना सर्वनाम्ना देह एव परामृष्ट इति पञ्चमीपाठे व्याख्येयम् ।
षष्ठीपाठे तु नोपचार इत्याह
येषां तु षष्ठीति ।
अपि च प्राप्तिपूर्वः प्रतिषेधो भवति नाप्राप्ते ।
अविदुषो हि देहादुत्क्रामणं दृष्टमिति विदुषोऽपि तत्सामान्याद्देहादुत्क्रमणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणानां जीवावधिकं क्वचिदुत्क्रमणं दृष्टं
येन तन्निषिध्यते ।
अपिचाद्वैतपरिभावनाभुवा प्रसङ्ख्यानेन निर्मृष्टनिखिलप्रपञ्चावभासजातस्य गन्तव्याभावादेव नास्ति गतिरित्याह
नच ब्रह्मविद इति ।
अपदस्य हि ब्रह्मविदो मार्गे पदैषिणोऽपि देवा इति योजना ।
चोदयति
ननु गतिरपीति ।
परिहरति
सशरीरस्यैवायं योगबलेन ।
अपरविद्याबलेनेति ॥१३॥
४,२.६.१४
स्मर्यते च । ब्रह्मसूत्र ४,२.१४ ।
४,२.७.१५
तानि परे तथा ह्याह । ब्रह्मसूत्र ४,२.१५ ।
प्रतिष्ठाविलयनश्रुत्योर्विप्रतिपत्तेर्विमर्शस्तमपनेतुमयमारम्भः ।
तानि पुनः प्राणशब्दोदितानीन्द्रियाण्येकादश सूक्ष्माणि च भूतानि पञ्च ।
ब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनीति ।
आरम्भबीजं विमर्शमाह
ननु गताःकला इति ।
घ्राणमनसोरेकप्रकृतित्वं विवक्षित्वा पञ्चदशत्वमुक्तम् ।
अत्र श्रुत्योर्विषयव्यवस्थया विप्रतिपत्त्यभावमाह
सा खल्विति ।
व्यवहारो लौकिकः सांव्यवहारिकप्रमाणापेक्षेयं श्रुतिः ।
न तात्त्विकप्रमाणापेक्षा ।
इतरा तु एवमेवास्य परिदृष्टुः इत्यादिका विद्वत्प्रतिपत्त्यपेक्षा तात्त्विकप्रमाणापेक्षा ।
तस्माद्विषयभेदादविप्रतिपत्तिः श्रुत्योरिति ॥१५॥
४,२.८.१६
अविभागो वचनात् । ब्रह्मसूत्र ४,२.१६ ।
निमित्तापाये नैमित्तिकस्यात्यन्तिकापायः ।
अविद्यानिमित्तश्च विभागो नाविद्यायां विद्यया समूलघातमपहतायां सावशेषो भवितुमर्हति ।
तथापि प्रविलयसामान्यात्सावशेषताशङ्कामतिमन्दामपनेतुमिदं सूत्रम् ॥१६॥
४,२.९.१७
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीताः शताधिकया । ब्रह्मसूत्र ४,२.१७ ।
अपरविद्याविदोऽविदुषश्चोत्क्रान्तिरुक्ता ।
तत्र किं विद्वानविद्वांश्चाविशेषेण मूर्धादिभ्य उत्क्रामत्याहो विद्वान्मूर्धस्थानादेव, अपरे तु स्थानान्तरेभ्य इति ।
अत्र विद्यासामर्थ्यमपश्यतः पूर्वपक्षः ।
तस्योपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मना ओक आयतनं हृदयं तस्याग्रं तस्य ज्वलनं यत्तत्प्रकाशितद्वारो विनिष्क्रमद्वारो
विद्वान्मूर्धस्थानादेव निष्क्रामति नान्येभ्यश्चक्षुरादिस्थानेभ्यः ।
कुतःविद्यासामर्थाथार्दविद्यासामर्थ्यात् ।
उत्कृष्टस्थानप्रतिलम्भाय हि हार्दविद्योपदेशः ।
मूर्धस्थानादनिष्क्रमणे च नोत्कृष्टदेशप्राप्तिः ।
अथ स्थानान्तरेभ्योऽप्युत्क्रामन्कस्माल्लोकमुत्कृष्टं न प्राप्नोतीत्यत आह
तच्छेषगत्यनुस्मृतियोगाच्च ।
हार्दविद्याशेषभूता हि मूर्धन्या नाडी गत्यै उपदिष्टा ।
तदनुशीलनेन खल्वयं जीवो हार्देन सूपासितेन ब्रह्मणानुगृहीतस्तस्यानुस्मरंस्तद्भावमापन्नो मूर्धन्ययैव शताधिकया नाड्या निष्क्रामति ।
हृदयादुद्गता हि ब्रह्मनाडी भास्वरा तालुमूलं भित्त्वा मूर्धानमेत्य रश्मिभिरेकीभूता आदित्यमण्डलमनुप्रविष्टा तामनुशीलयतस्तयैवान्तकाले
निर्गमनं भवतीति ॥१७॥
४,२.१०.१८
रश्म्यनुसारी । ब्रह्मसूत्र ४,२.१८ ।
रात्रावहनि चाविशेषेण रश्म्यनुसारी सन्नादित्यमण्डलं प्राप्नोतीति सिद्धान्तपक्षप्रतिज्ञा ॥१८॥
४,२.१०.१९
पूर्वपक्षमाशङ्कते सूत्रावयवेन
निशि नेति चेन् । ब्रह्मसूत्र ४,२.१९ ।
सूत्रावयवान्तरेण निराकरोति
न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च । ब्रह्मसूत्र ४,२.१९ ।
यावद्देहभावि हि शिराकिरणसम्पर्कः प्रमाणान्तरात्प्रतीयते ।
दर्शयति चैतमर्थं श्रुतिरप्यशेषेण ।
अमुष्मादादित्यात्प्रतायन्ते रश्मयस्त आसु नाडीषु सृप्ता भवन्ति य आभ्यो नाडीभ्यः प्रतायन्ते अविस्तार्यन्ते ते रश्मयोऽमुष्मिन्नादित्ये सृप्ताः ।
प्रतापादिकार्यदर्शनादिति ।
आदिग्रहणेन चन्द्रापः सङ्गृह्यन्ते ।
चन्द्रमसा खल्वम्मयेन सम्बध्यमानानां सूरीणां भासां चन्द्रिकात्वम् ।
तस्मादप्यस्ति निशि सौर्यरश्मिप्रचार इति ।
ये त्याहुःस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छेदिति निरपेक्षश्रवणाद्रात्रौ प्रेते नास्ति रश्म्यपेक्षेति ।
तान्प्रत्याह
यदि च रात्रौ प्रेत इति ।
नह्येतद्विशिष्याधीयतेऽध्येतारः ।
ये तु मन्यन्ते विद्वानपि रात्रिप्रायणापराधेन नोर्ध्वमाक्रमत इति तान्प्रत्याह
अथ तु विद्वानपीति ।
नित्यवत्फलसम्बन्धेन विहिता विद्या न पाक्षिकफला युक्तेति ।
ये तु रात्रौ प्रेतस्य विदुषोऽहरपेक्षां सूर्यमण्डलप्राप्तिराचक्षते तन्मतमाशङ्क्याह
अथापि रात्राविति ।
यावत्तावदुपबन्धेनानपेक्षा गतिः श्रुता ।
न चापेक्षा शक्यावगमा उपबन्धविरोधादिति ॥१९॥
४,२.११.२०
अतश्चायनेऽपि दक्षिणे । ब्रह्मसूत्र ४,२.२० ।
अत एवेत्युक्तहेतुपरामर्श इत्याह
अत एव चोदीक्षानुपपत्तेरिति ।
पूर्वपक्षबीजमाह
उत्तरायणमरणप्राशस्त्य इति ।
अपनोदमाह
प्राशस्त्यप्रसिद्धिरिति ।
अतःपदपरामृष्टहेतुबलादविदुषो मरणं प्रशस्तमुत्तरायणे विदुषस्तूभयत्राप्यविशेषो विद्यासामर्थ्यादिति ।
विदुषोऽपि च भीष्मस्योत्तरायणप्रतीक्षणमविदुष आचारं ग्राहयतिऽयद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनःऽइति न्यायात् ।
आपूर्यमाणपक्षादित्याद्या च श्रुतिर्न कालविशेषप्रतिपत्त्यर्था, अपि त्वातिवाहिकीर्देवताः प्रतिपादयतीति वक्ष्यति ।
तस्मादविरोधः ॥२०॥
४,२.११.२१
सूत्रान्तरावतरणाय चोदयति
ननु च यत्र काले त्विति ।
काल एवात्र प्राधान्येनोच्यते न त्वातिवाहिकी देवतेत्यर्थः ।
योगिनः प्रति च स्मर्येते स्मार्ते चैते । ब्रह्मसूत्र ४,२.२१ ।
स्मार्तीमुपासनां प्रत्ययं स्मार्तः कालभेदविनियोगः प्रत्यासत्तेः न तु श्रौतीं प्रतीत्यर्थः ।
अत्र यदि स्मृतौ कालभेदविधिः श्रुतौ चाग्निज्योतिरादिविधिस्तत्राग्न्यादीनामातिवाहिकतया विषयव्यवस्थया विरोधाभाव उक्तः ।
अथ तु प्रत्यभिज्ञानं तथापि यत्र काल इत्यत्रापि कालाभिधानद्वारेणातिवाहिक्य एव देवता उक्ता इत्यविरोध एवेति ॥२१॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य द्वितीयः पादः ॥२ ॥ ॥
चतुर्थेऽध्याये तृतीयः पादः