४,१.१.१
आवृत्तिरसकृदुपदेशात् । ब्रह्मसूत्र ४,१.१ ।
साधनानुष्ठानपूर्वकत्वात्फलसिद्धेर्विषयक्रमेण विषयिणोरपि तद्विचारयोः क्रममाहतृतीयेऽध्याय इति ।
मुक्तिलक्षणस्य फलस्यात्यन्तपरोक्षत्वात्तदर्थानि दर्शनश्रवणमनननिदिध्यासनानि चोद्यमानान्यदृष्टार्थानीति यावद्विधानमनुष्ठेयानि न तु
ततोऽधिकमावर्तनीयानि प्रमाणाभावात् ।
यत्र पुनः सकृदुपदेश उपासीतेत्यादिषु तत्र सकृदेव प्रयोगः प्रयाजादिवदिति प्राप्त उच्यते ।
यद्यपि मुक्तिरदृष्टचरी तथापि सवासनाविद्योच्छेदेनात्मनः स्वरूपावस्थानलक्षणायास्तस्याः श्रुतिसिद्धत्वादविद्यायाश्च विद्योत्पादविरोधितया
विद्योत्पादेन समुच्छेदस्याहिविभ्रमस्येव रज्जुतत्वसाक्षात्कारेण समुच्छेदस्योपपत्तिसिद्धत्वादन्वयव्यतिरेकाभ्यां च
श्रवणमनननिदिध्यासनाभ्यासस्यैव स्वगोचरसाक्षात्कारफलत्वेन
लोकसिद्धत्वासकलदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्यपरोक्षरूपानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानुमानात्तदर्थानि श्रवणादीनि
दृष्टार्थानि भवन्ति ।
न च दृष्टार्थत्वे सत्यदृष्टार्थत्वं युक्तम् ।
न चैतान्यनावृत्तानि सत्कारदीर्घकालनैरन्तर्येण साक्षात्कारवते तादृशानुभवाय कल्पन्ते ।
न चात्रासाक्षात्कारवद्विज्ञानं साक्षात्कारवतीमविद्यामुच्छेत्तुमर्हति ।
न खलु पित्तोपहृतेन्द्रियस्य गुडे तिक्ततासाक्षात्कारोऽन्तरेणमाधुर्यसाक्षात्कारं सहस्रेणाप्युपपत्तिभिर्निवर्तितुमर्हति ।
अतद्वतो नरान्तरवचांसिवोपपत्तिसहस्राणि वा परामृशतोऽपि थूत्कृत्य गुडत्यागात् ।
तदेवं दृष्टार्थत्वद्ध्यानोपासनयोश्चान्तनीर्तावृत्तिकत्वेन लोकतः प्रतीतेरावृत्तिरेवेति सिद्धम् ॥१॥
४,१.१.२
लिङ्गाच्च । ब्रह्मसूत्र ४,१.२ ।
अधिकरणार्थमुक्त्वा निरुपाधिब्रह्मविषयत्वमस्याक्षिपतिअत्राह भवतु नामेति ।
साध्ये ह्यनुभवे प्रत्ययावृत्तिरर्थवती नासाध्ये ।
नहि ब्रह्मानुभवो ब्रह्मसाक्षात्कारो नित्यशुद्धस्वभावाद्ब्रह्मणोऽतिरिच्यते ।
तथाच नित्यस्य ब्रह्मणः स्वभावो नित्य एवेति कृतमत्र प्रत्ययावृत्या ।
तदिदमुक्तमात्मभूतमिति ।
आक्षेप्तारं प्रतिशङ्कते सकृच्छ्रुताविति ।
अयमभिसन्धिःन च ब्रह्मात्मभूतस्तत्साक्षात्कारोऽविद्यामुच्छिनन्ति तया सहानुवृत्तेरविरोधात् ।
विरोधे वा तस्य नित्यत्वान्नाविद्योदीयेत कुत एव तु तेन सहानुवर्तेत ।
तस्मात्तन्निवृत्तये आगन्तुकस्तत्साक्षात्कार एषितव्यः ।
तथाच प्रत्ययानुवृत्तिरर्थवती ।
आक्षेप्ता सर्वपूर्वोक्ताक्षेपेण प्रत्यवतिष्ठते न आवृत्तावपीति ।
न खलु ज्योतिष्टोमवाक्यार्थप्रत्ययः शतशोऽप्यावर्तमानः साक्षात्कारप्रमाणं स्वविषये जनयति ।
उत्पन्नस्यापि तादृशो दृष्टव्यभिचारत्वेन प्रातिभत्वात् ।
ब्रह्मात्मत्वप्रतीतिम्ब्रह्मत्मसाक्षात्कारम् ।
पुनः शङ्कतेन केवलं वाक्यमिति ।
आक्षेप्तादूषयतितथाप्यावृत्यानर्थक्यमिति ।
वाक्यं चेद्युक्त्यपेक्षं साक्षात्काराय प्रभवति तथा सति कृतमावृत्या ।
सकृत्प्रवृत्तस्यैव तस्य सोपपत्तिकस्य यावत्कर्तव्यकरणादिति ।
पुनः शङ्कते अथापि स्यादिति ।
न युक्तिवाक्ये साक्षात्कारफले प्रत्यक्षस्यैव प्रमाणस्य तत्फलत्वात् ।
ते तु परोक्षार्थावगाहिनी सामान्यमात्रमभिनिविशते नतु विशेषं साक्षात्कुरुत इति तद्विशेषसाक्षात्कारायावृत्तिरुपास्यते ।
सा हि सत्कारदीर्घकालनैरन्तर्यसेविता सती दृढभूमिर्विशेषसाक्षात्काराय प्रभवति कामिनीभावनेव स्त्रैणस्य पुंस इति ।
आक्षेप्ताहन ।
असकृदपीति ।
स खल्वयं साक्षात्कारः शास्त्र युक्तियोनिर्वा स्याद्भावनामात्रयोनिर्वा ।
न तावत्परोक्षाभासविज्ञानफले शास्त्रयुक्ती साक्षात्कारलक्षणं प्रत्यक्षप्रमाणफलं प्रसोतुमर्हतः ।
न खलु कुटजबीजाद्वटाङ्कुरो जायते ।
नच भावनाप्रकर्षपर्यन्तजमपरोक्षावभासमपि ज्ञानं प्रमाणं व्यभिचारादित्युक्तम् ।
आक्षेप्ता स्वपक्षमुपसंहरतितस्माद्यदीति ।
आक्षेप्ताक्षेपान्तरमाहनच सकृत्प्रवृत्ते इति ।
कश्चित्खलु शुद्धसत्वोगर्भस्थ इव वामदेवः श्रुत्वा च मत्वा च क्षणमवधाय जीवात्मनो ब्रह्मात्मतमनुभवति ।
ततोऽप्यावृत्तिरनर्थिकेति ।
अतश्चावृत्तिरनर्थिका यन्निरंशस्य ग्रहणमद्ग्रहणं वा न तु व्यक्ताव्यक्तत्वे सामान्यवशेषवत्पद्मरागादिवदित्यत आहअपि चानेकांशेति ।
समाधत्तेअत्रोच्यतेभवेदावृत्यानर्थक्यमिति ।
अयमभिसन्धिःसत्यं न ब्रह्मसाक्षात्कारः साक्षादागमयुक्तिफलमपि तु युक्त्यागमार्थज्ञानाहितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कारवर्तीं
बुद्धिवृत्तिं समाधत्ते ।
सा च नानुमानितवह्निसाक्षात्कारवत्प्रातिभत्वेनाप्रमाणं तदानीं वह्निस्वलक्षणस्यपरोक्षत्वात्सदातनं तु ब्रह्मस्वरूपस्योपाधिरूपितस्य
जीवस्यापरोक्षत्वम् ।
नहि शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते ।
जीव एव तु तत्तदुपाधिरहितः शुद्धादिस्वभावो ब्रह्मेति गम्यते ।
नच तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते ।
तस्माद्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारः सचिवेन श्रोत्रेण षड्जादिस्वरग्राममूर्च्छनामेदमध्यक्षेणेक्षते एवं
वेदान्तार्थज्ञानाहितसंस्कारो जीवस्य ब्रह्मस्वभावमन्तःकरणेनेति ।
यस्तत्त्वमसीति सकृदुक्तमेवेति ।
श्रुत्वा मत्वा क्षणमवधाय प्राग्भवीयाभ्यासजातसंस्कारादित्यर्थः ।
यस्तु न शक्नोतीति ।
प्राग्भवीयब्रह्माभ्यासरहित इत्यर्थः ।
नहि दृष्टोऽनुपपन्नं नामेति ।
यत्र परोक्षप्रतिभासिनि वाक्यार्थेऽपि व्यक्ताव्यक्तत्वतारतम्यं तत्र मननोत्तरकालमाध्यासनाभ्यासनिकर्षप्रकर्षक्रमजन्मनि प्रत्ययप्रवाहे
साक्षात्कारावधौ व्यक्तितारतम्यं प्रति कैव कथेति भावः ।
तदेवं वाक्यमात्रस्यार्थेऽपि न द्रागित्येव प्रत्यय इत्युक्तम् ।
तत्त्वमसीति तु वाक्यमत्यन्तदुर्ग्रहपदार्थं न पदार्थज्ञानपूर्वके स्वार्थे ज्ञाने द्रागित्येव प्रवर्तते ।
किन्तु विलम्बिततमपदार्थज्ञानमतिविलम्बेनेत्याहअपिच तत्वमसीत्येतद्वाक्यं त्वम्पदार्थस्येति ।
स्यादेतत्पदार्थसंसर्गात्मा वाक्यार्थः पदार्थज्ञानक्रमेण तदधीननिरूपणीयतया क्रमवत्प्रतीतिर्युज्यते ।
ब्रह्म तु निरंशत्वेनाससृष्टनानात्वपदार्थकमिति कस्यानुक्रमेम क्रमवती प्रतीतिरिति सकृदेव तद्गृह्येत न वा गृह्यतेत्युक्तमित्यत आहयद्यपि च
प्रतिपत्तव्य आत्मा निरंश इति ।
निरंशोऽप्यहमपरोक्षोऽप्यात्मा तत्तद्देहाद्यारोपव्युदासाभ्यामंशवानिवात्यन्तपरोक्ष इव ।
ततश्च वाक्यार्थतया क्रमवत्प्रत्यय उपपद्यते ।
तत्किम्मियमेव वाक्यजनिता प्रतीतिरात्मनि तथाच न साक्षात्प्रतीतिरात्मन्यनागतफलत्वादस्य इत्यत आहतत्तु पूर्वरूपमेवात्मप्रतिपत्तेः
साक्षात्कारवत्याः ।
एतदुक्तं भवतिवाक्यार्थश्रवणमननोत्तरकाला विशेषणत्रयवती भावना ब्रह्म साक्षात्काराय कल्पत इति वाक्यार्थप्रतीतिः साक्षात्कारस्य
पूर्वरूपमिति ।
शङ्कते सत्यमेवमिति ।
समारोप हि तत्वप्रत्ययेनापोद्यते न तत्वप्रत्ययः ।
दुःखित्वादिप्रत्ययश्चात्मनि सर्वेषां सर्वदोत्पद्यत इत्यबाधितत्वात्समीचीन इति बलवान्न शक्योऽपनेतुमित्यर्थः ।
निराकरोतिन ।
देहाद्यभिमानवदिति ।
नहि सर्वेषां सर्वदोत्पद्यत इत्येतावता तात्विकत्वम् ।
देहात्माभिमानस्यापि सत्यत्वप्रसङ्गात्सोऽपि सर्वेषां सर्वदोत्पद्यते ।
उक्तं चास्य तत्र तत्रोपपत्या बाधनमेवं दुःखित्वाद्यभिमानोऽपि तथा ।
नहि नित्यशुद्धबुद्धस्वभावस्यात्मना उपजनापायधर्माणो दुःखशोकादय आत्मानो भवितुमर्हन्ति ।
नापि धर्माः तेषां ततोऽत्यन्तभिन्नानां तद्धर्मत्वानुपपत्तेः, नहि गौरश्वस्य धर्मः सम्बन्धस्यापि व्यतिरेकाव्यतिरेकाभ्यां सम्बन्धासम्बन्धाभ्यां च
विचारासहत्वात् ।
भेदाभेदयोश्च परस्परविरोदेनैकत्रासम्भवत्वात् ।
इति सर्वमेतदुपपादितं द्वितीयाध्याये ।
तदिदमुक्तन्देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वादिति ।
इतश्च दुःखित्वादीनां न तादात्म्यमित्याहसुषुप्तादिषु चेति ।
स्यादेतत् ।
कस्मादनुभवार्थ एवावृत्यभ्युपगमो यावता द्रष्टव्यः श्रोतव्य इत्यादिभिस्तत्वमसिवाक्यविषयादन्यविषयैवावृत्तिर्विधास्यत इत्यत आहतत्रापि न
तत्वमसिवाक्यार्थादिति ।
आत्मा वा अरे द्रष्टव्य इत्याद्यात्मविषयं दर्शनं विधीयते ।
न च तत्त्वमसीवाक्यविषयादन्यदात्मदर्शनमाम्नातं येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः ।
सदेव सोम्येदमिति चोपक्रम्य तत्त्वमसीत्युपसंहृत इति स एव वाक्यार्थः ।
तदितः प्राच्याव्यावृत्तिमन्यत्र विदधानः प्रधानमङ्गेन विहन्ति ।
वरो हि कर्मणाभिप्रेयमाणत्वात्सम्प्रदानं प्रधानम् ।
तमुद्वाहेन कर्मणाङ्गेन न विघ्नन्तीति ।
ननु विधिप्रधानत्वाद्वाक्यस्य न भूतार्थप्रधानत्वं भूतस्त्वर्थस्तदङ्गतया प्रत्याय्यते ।
यथाहुःऽचोदना हि भूतं भवन्तम्ऽइत्यादि शाबरं वाक्यं व्याचक्षाणाःऽकार्यमर्थमवगमयन्ती चोदना तच्छेषतया
भूतादिकमवगमयतिऽइत्याशङ्क्याहनियुक्तस्य चास्मिन्नधिकृतोऽहमिति ।
यथा तावद्भूतार्थपर्यवसिता वेदान्ता न कार्यविधिनिष्टास्तथोपपादितंऽतत्तु समन्वयात्ऽ
इत्यत्र ।
प्रत्युत विधिनिष्ठत्वे मुक्तिविरुद्धप्रत्योत्पादान्मुक्तिविहन्तृत्वमेवास्येत्यभ्युच्चयमात्रमत्रोक्तमिति ॥२॥
४,१.२.३
आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ब्रह्मसूत्र ४,१.३ ।
यद्यपि तत्वमसीत्याद्याः श्रुतयः संसारिणः परमात्मभावं प्रतिपादयन्ति तथापि
तयोरपहतपाप्मत्वानपहतपाप्मत्वादिलक्षणविरुद्धधर्मसंसग्रेण नानत्वस्य विनिश्चयाच्छ्रुतेश्च तत्वमसीत्यद्यायाऽमनो ब्रह्म,ऽआदित्यो
ब्रह्म,ऽइत्यादिवत्प्रतीकोपदेशपरतयाप्युपपत्तेः प्रतीकोपदेश एवायम् ।
नच यथा समारोपितं सर्पत्वमनूद्य रज्जुत्वं पुरोवर्तिनो द्रव्यस्यविधीयत एवं प्रकाशात्मनो जीवभावमनूद्य परमात्मत्वं विधीयत इति युक्तम् ।
युक्तं हि पुरोवर्तिनि द्रव्ये द्राघीयसि सामान्यरूपेणालोचिते विशेषरूपेणागृहीते विशेषान्तरसमारोपणम् ।
इह तु प्रकाशात्मनो निर्विशेषसामान्यस्यापराधीनप्रकाशस्य नागृहीतमस्ति किञ्चिद्रुपमिति कस्य विशेषस्याग्रहे किं विशेषान्तरं समारोप्यताम् ।
तस्माद्ब्रह्मणो जीवभावारोपासम्भवाज्जीवो जीवो ब्रह्म च ह्रह्मेति तत्त्वमसीति प्रतीकोपदेश एवेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेश्वेतकेतोरात्मैव परमेश्वरःप्रतिपत्तव्यो न तु श्वेतकेतोर्व्यतिरिक्तः परमेश्वरः ।
भेदे हि गौणत्वापत्तिर्न च मुख्यसम्भवे गौणत्वं युक्तम् ।
अपिच प्रतीकोपदेशे सकृद्वचनं तु प्रतीयते भेददर्शननिन्दा च(?) ।
अभ्यासे हि भूयस्त्वमर्थस्य भवति, नाल्पत्वमतिदवीय एवोपचरितत्वम् ।
तस्मात्पौर्वापर्यलोचनया श्रुतेस्तावज्जीवस्य परमात्मता वास्तवीत्येतत्परता लक्ष्यते ।
नच मानान्तरवीरोधादत्राप्रामाण्यं श्रुतेः ।
नच मानान्तरविरोध इत्यादि तु सर्वमुपादितं प्रथमाध्याये ।
निरंशस्यापि चानाद्यनिर्वाच्याविद्यातद्वासनासमारोपितविविधप्रपञ्चात्मनः सांशस्येव कस्यचिदंशस्याग्रहणाद्विभ्रम इव परमार्थस्तु न विभ्रमो
नाम कश्चिन्न च संसारो नाम ।
किन्तु सर्वमेतत्सर्वानुपपत्तिभाजनत्वेनानिर्वचनीयमिति युक्तमुत्पश्यामः ।
तदनेनाभिसन्धिनोक्तम्यद्येवं प्रतिबद्धोऽसि नास्ति कस्यचिदप्रतिबोध इति ।
अन्येऽप्याहुःऽयद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वदाऽइति ।
अतिरेहितार्थमन्यदिति ॥३॥
४,१.३.४
न प्रतीके न हि सः । ब्रह्मसूत्र ४,१.४ ।
यथा हि शास्त्रोक्तं शुद्धमुक्तस्वभावं ब्रह्मात्मत्वेनैव जीवेनोपास्यतेऽहं ब्रह्मास्मि तत्त्वमसि श्वेतकेतो इत्यादिषु त्कस्य हेतोर्जीवात्मनो ब्रह्मरूपेण
तात्विकत्वादद्वितीयमिति श्रुतेश्च ।
जीवात्मानश्चाविद्यादर्पणा यथा ब्रह्मप्रतिबिम्बकास्तथा यत्र यत्र मनो ब्रह्मादित्यो ब्रह्मेत्यादिषु ब्रह्मदृष्टेरुपदेशस्तत्र सर्वत्राहं मन इत्यादि द्रष्टव्यं
ब्रह्मणो मुख्यमात्मत्वमिति ।
उपपन्नं च मनःप्रभृतीनां ब्रह्मविकारत्वेन तादात्म्यम् ।
घटशरावोदञ्चनादीनामिव मृद्विकाराणां मृदात्मकत्वम् ।
तथाच तादृशानां प्रतीकोपदेशानां क्वचित्कस्यचिद्विकारस्य प्रविलयावगमाद्भेदप्रपञ्चप्रविलयपरत्वमेवेति प्राप्त उच्यतेन तावदहं
ब्रह्मेत्यादिभिर्यथाहङ्कारास्पदस्य ब्रह्मात्मत्वमुपदिश्यते एवं मनो ब्रह्मेत्यादिभिरहङ्कारास्पदत्वं मनःप्रभृतीनां, किन्त्वेषां ब्रह्मत्वेनोपास्यत्वम् ।
अहङ्कारास्पदस्य ब्रह्मतया ब्रह्मत्वेनोपासनीयेषु मनःप्रभृतिष्वप्यहङ्कारास्पदत्वेनोपासनमिति चेत् ।
न ।
एवमादिष्वहमित्यश्रवणात् ।
ब्रह्मात्मतया त्वहङ्कारास्पदत्वकल्पने तत्प्रतिबिम्बस्येव तद्विकारान्तरस्याप्याकाशादेर्मनःप्रभृतिषूपासनप्रसङ्गः ।
तस्माद्यस्य यन्मात्रात्मतयोपासनं विहितं तस्य तन्मात्रात्मतयैव प्रतिपत्तव्यंऽयावद्वचनं वाचनिकम्ऽइति न्यायात् ।
नाधिकमध्याहर्तव्यमतिप्रसङ्गात् ।
नच सर्वस्य वाक्यजातस्य प्रपञ्चस्य विलयः प्रयोजनम् ।
तदर्थत्वे हि मन इति प्रतीकग्रहणमनर्थकं विश्वमिति वाच्यं यथा सर्वं खल्विदं ब्रह्मेति ।
नच सर्वोपलक्षणार्थं मनोग्रहणं युक्तम् ।
मुख्यार्थसम्भवे लक्षणया अयोगात् ।
आदित्यो ब्रह्मेत्यादीनां चानर्थक्यापत्तेः ।
नह्युपासकः प्रतीकानीति ।
अनुभवाद्वा प्रतीकानां मनःप्रभृतीनामात्मत्वेनाकलनं श्रुतेर्वा, न त्वेतदुभयमस्तीत्यर्थः ।
प्रतीकाभावप्रसङ्गादिति ।
ननु यथावच्छिन्नस्याहङ्करास्पदस्यानवच्छिन्नब्रह्मात्मतया भवत्यभाव एवं प्रतीकानामपि भविष्यतीत्यत आहस्वरूपोपमर्दे च नामादीनामिति ।
इह हि प्रतीकान्यहङ्कारास्पदत्वेनोपास्यतया प्रधानत्वेन विधित्सितानि ।
नतु तत्वमसीत्यादावहङ्कारास्पदमुपास्यमवगम्यते ।
किन्तु सर्पत्वानुवादेन रज्जुतत्वश्ज्ञापन इवाहङ्कारास्पदस्यावच्छिन्नस्य प्रविलयोऽवगम्यते ।
किमतो यद्येवम् ।
एतदतो भवतिप्रधानीभूतानां न प्रतीकानामुच्छेदो युक्तो नच तदुच्छेदे विधेयस्याप्युपपत्तिरिति ।
अपिचनच ब्रह्मण आत्मत्वादिति ।
नह्युपासनविधानानि जीवात्मनो ब्रह्मस्वभावप्रतिपादनपरैस्तत्वमस्यादिसन्दर्भैरेकवाक्यभावमापद्यन्ते येन तदेकवाक्यतया
ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्पेत भिन्नप्रकरणत्वात् ।
तथाच तत्र यथालोकप्रतीतिव्यवस्थितो जीवः कर्ता भोक्ता च संसारी न ब्रह्मेति कथं तस्य
ब्रह्मात्मतयाब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिरुपदिश्यतेत्यर्थः ।
अतश्चोपासकस्य प्रतीकैः समत्वादिति ।
यद्यप्युपासको जीवात्मा न ब्रह्मविकारः, प्रतीकानि तु मनःप्रभृतीनिब्रह्मविकारस्तथाप्यवच्छिन्नतया जीवात्मनः प्रतीकैः साम्यं दृष्टव्यम् ॥४॥
४,१.४.५
ब्रह्मदृष्टिरुत्कर्षात् । ब्रह्मसूत्र ४,१.५ ।
यद्यपि सामानाधिकरण्मुभयथापि घटते तथापि ब्रह्मणः सर्वाध्यक्षतया फलप्रसवसामर्थ्येन फलवत्वात्प्राधान्येन तदेवादित्यादिदृष्टिभिः
संस्कर्तव्यमित्यादित्यादिदृष्टयो ब्रह्मण्येव कर्तव्या न तु ब्रह्मदृष्टिरादित्यादिषु ।
न चैवंविधेऽवधृते शास्त्रार्थे निकृष्टदृष्टिनोर्कृष्ट इति लौकिको न्यायोऽपवादाय प्रभवत्यागमविरोधेन तस्यैवापोदितत्वादिति पूर्वपक्षसङ्क्षेपः ।
सत्यं सर्वाध्यक्षतया फलदातृत्वेन ब्रह्मण एव सर्वत्र वास्तवं प्राधान्यं तथापि शब्दगत्यनुरोधेन क्वचित्कर्मण एव प्राधान्यमवसीयते ।
यथाऽदर्शपूर्णमासाभ्यां यजेत स्वर्गकामःऽ,ऽचित्रया यजेत पशुकामःऽइत्यादौ ।
अत्र हि सर्वत्र यागाद्याराधिता देवतैव फलं प्रयच्छतीति स्थापितं तथापि शब्दतः कर्मणः करणत्वावगमने फलवत्वप्रतीतेः प्राधान्यम् ।
क्वचिद्रव्यस्य यथा व्रीहीन्प्रोक्षतीत्यादौ ।
तदुक्तंऽयैस्तु द्रव्यं सञ्चिकीर्ष्यते गुणस्तत्र प्रतीयतेऽइति ।
तदिह यद्यपि सर्वाध्यक्षतया वस्तुतो ब्रह्मैव फलं प्रयच्छति तथापि शास्त्रं ब्रह्मबुद्ध्याऽदित्यादौ प्रतीक उपास्यमाने ब्रह्म फलाय कल्पते
इत्यभिवदति किंवादित्यादिबुद्ध्या ब्रह्मैव विषयीकृतं फलायेत्युभयथापि ब्रह्मणः सर्वाध्यक्षस्य फलदानोपपत्तेः शास्त्रार्थसन्देहे लोकानुसारतो
निश्चीयते ।
तदिदमुक्तम्निर्धारिते शास्त्रार्थ एतदेवं स्यादिति ।
न केवलं लौकिको न्यायो निश्चये हेतुरपि तु आदित्यादिशब्दानां प्राथम्येन मुख्यार्थत्वमपीत्याहप्राथम्याच्चेति ।
इति परत्वमपि ब्रह्मशब्दस्यामुमेव न्यायमवगमयति ।
तथाहिस्वरप्रवृत्या आदित्यादिशब्दा यथा स्वार्थे वर्तन्ते तथा ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति यदि स्वार्थोऽस्य विपक्षितःस्यात् ।
तथाचेतिपरत्वमनर्थकं तस्मादितीना स्वार्थात्प्रच्याव्य ब्रह्मपदं ज्ञानपरं स्वरूपपरं वा कर्तव्यम् ।
नच ब्रह्मपदमादित्यादिपदार्थ इति, प्रतीतिपर एवायमितिपरःशब्दो यथा गौरिति मे गवयोऽभवदिति ।
तथाच आदित्यादयो ब्रह्मेति प्रतिपत्तव्या इत्यर्थो भवतीत्याहैतिपरत्वादपि ब्रह्मशब्दस्येति ।
शेषमतिरोहितार्थम् ॥५॥
४,१.५.६
आदित्यादिमतयश्चाङ्ग उपपत्तेः । ब्रह्मसूत्र ४,१.६ ।
अथवा नियमेनोद्गीथादिमतय आदित्यादिष्वध्यस्येरन्निति ।
सत्स्वपि आदित्यादिषु फलानुत्पादादुत्पत्तिमतः कर्मण एव फलदर्शनात्कर्मैव फलवत् ।
तथा चादित्यादिमतिभिर्यद्युद्गीथादिकर्माणि विषयीक्रियेरंस्तत आदित्यादिदृष्टिभिः कर्मरूपाण्यभिभूयेरन् ॥
एवञ्च कर्मरूपेष्वसत्कल्पेषु कुतः फलमुत्पद्येत ।
आदित्यादिषु पुनरुद्गीथादिदृष्टावुद्गीथादिबुद्योपास्यमाना आदित्यादयः कर्मात्मकःसन्तः फलाय कल्पिष्यन्त इति ।
अत एव च पृथ्व्यग्न्योरृक्सामशब्दप्रयोग उपपन्नो यतः पृथ्व्यामृग्दृष्टिरध्यस्ताग्नौ च सामदृष्टिः ।
साम्नि पुनरग्निदृष्टौ ऋचि च पृथ्वीदृष्टौ विपरीतं भवेत् ।
तस्मादप्येतदेव युक्तमित्याहतथाचेयमेवेति ।
उपपत्त्यन्तरमाहअपिच लोकेष्विति ।
एवं खल्वधिकरणनिर्देशो विषयत्वप्रतिपादनपर उपपद्यते यदि लोकेषु सामदृष्टिरध्यस्येत नान्यथेति ।
पूर्वाधिकरणराद्धान्तोपपत्तिमत्रैवार्थे ब्रूतेप्रथमनिर्दिष्टेषु चेति ।
सिद्धान्तमत्र प्रक्रमतेआदित्यादिमतय एवेति ।
यद्युद्गीथादिमतय आदित्यादिषुक्षिप्येरंस्तत आदित्यादीनांस्वयमकार्यत्वादुद्गीथादिमतेस्तत्र वैयर्थ्यं प्रसज्येत ।
नह्यादित्यादिभिः किञ्चित्क्रियते यद्विद्यया वीर्यवत्तरं भवेदादित्यादिमत्या विद्ययोद्गीथादिकर्मसु कार्येषु यदेव विद्यय करोति तदेव वीर्यवत्तरं
भवतीत्यादित्यमतीनामुपपद्यते उद्गीथादिषु संस्कारकत्वेनोपयोगः ।
चोदयतिभवतु कर्मसमृद्धिफलेष्वेवमिति ।
यत्र हि कर्मणः फलं तत्रैवं भवतु यत्र तु गुणातफलं तत्र गुणस्य सिद्धत्वेनाकार्यत्वात्करोतीत्येव नास्तीत्यत्र विद्यायाः क्व उपयोग इत्यर्थः ।
परिहरतितेष्वपीति ।
न तावद्गुणः सिद्धस्वभावः कार्याय फलाय पर्याप्तः, मा भूत्प्रकृतकर्मानिवेशिनो यत्किञ्चित्फलोत्पादः, तस्मात्प्रकृतापूर्वसन्निवेशिनः
फलोत्पाद इति तस्य क्रियमाणत्वेन विद्यया वीर्यवत्तरत्वोपपत्तिरिति ।
फलात्मकत्वाच्चादित्यादीनामिति ।
यद्यपि ब्रह्मविकारत्वेनादित्योद्गीथयोरविशेषस्तथापि फलात्मकत्वेनादित्यादीनामस्त्युद्गीथादिभ्यो विशेष इत्यर्थः ।
द्वितीयनिर्देशादप्युद्गीथादीनां प्राधान्यमित्याहअपि चोमितीति ।
स्वयमेवोपासनस्य कर्मत्वात्फलवत्वोपपत्तेः ।
ननूक्तं सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यभूतत्वमभिभूतङ्कर्मणामित्यत आहआदित्यादिभावेनापि च दृश्यमानानामिति ।
भवेदेतवं यद्यद्यासेन क्रमरूपमभिभूयेत ।
अपि तु माणवक इवाग्निदृष्टिः केनचित्तीव्रत्वादिना गुणेन गौण्यनभिभूतमाणवकत्वात्तथेहापि ।
नहीयं शुक्तिकायां रजतधीरिव वह्निधीर्येन माणवकत्त्वमभिभवेत् ।
किन्तु गौणी ।
तथेयमप्युद्गीथादावादित्यदृष्टिर्गौणीति भावः ।
तदेतस्यामृच्यध्यूढंसामेति त्विति ।
अन्यथापि लक्षणोपपत्तौ न ऋक्सामेत्यध्यासकल्पना पृथ्व्यग्नयोरित्यर्थः ।
अक्षरन्यासालोचनया तु विपरीतमेवेत्याहैयमेवर्गिति ।
ऽलोकेषुपञ्चविधं सामोपासीतऽइति द्वितीयानिर्देशात्साम्नामुपास्यत्वमवगम्यते ।
तत्र यदि सामधीरध्यस्येत ततो न सामान्युपास्येरनपि तु लोकाः पृथिव्यादयः ।
तथा च द्वितीयार्थं परित्यज्य तृतीयार्थः परिकल्पयेत साम्नेति ।
लोकेष्विति सप्तमी द्वितीयार्थे कथञ्चिन्नीयते ।
अकारे गावो वास्यन्तां प्रावारे कुसुमानीतिवत् तेनोक्तन्यायानुरोधेन सप्तम्याश्चोभयथाप्यवश्यं कल्पनीयार्थत्वाद्वरं यथाश्रुतद्वितीयार्थानुरोधाय
तृतीयार्थे सप्तमी व्याख्यातव्या ।
लोकपृथिव्यादिबुद्ध्या पञ्चविधं हिङ्कारप्रस्तावोङ्कारोद्गीथप्रतिहारोपद्रवनिधनप्रकारं सामोपासीतेति, तत्र को विनिगमनायां हेतुरित्यत
आहतत्रापीति ।
तत्रापि समस्तस्य सप्तविधस्य साम्न उपासनमिति साम्न उपास्यत्वश्रुतेः साध्विति पञ्चविधस्य ।
साधुत्वं चास्य धर्मत्वम् ।
तथाच श्रुतिःऽसाधुकारी साधुर्भवतिऽइति ।
हिङ्कारानुवादेन पृथिवीदृष्टिविधाने हिङ्कारः पृथिवीति प्राप्ते विपरीतनिर्देशः पृथिवी हिङ्कारः ॥६॥
४,१.६.७
आसीनः सम्भवात् । ब्रह्मसूत्र ४,१.७ ।
कर्माङ्गसम्मन्धिषु यत्र हि तिष्ठतः कर्म चोदितं तत्र तत्सम्बद्धोपासानापि तिष्ठतैव कर्तव्या ।
यत्र त्वासीनस्य तत्रपासनाप्यासीनेनैवेति ।
नापि सम्यग्दर्शने वस्तुतन्त्रत्वात्प्रमाणतन्त्रत्वात्र्च्च ।
प्रमाणतन्त्रा च वस्तुव्यवस्था प्रमाणं च …..नापेक्षत इति तत्राप्यनियमः(?) ।
यन्महता प्रयत्नेन विनोपासितुमशक्यं यथा प्रतीकादि, यथा वा सम्यग्दर्शनमपि तत्वमस्यादि, तत्रैषा चिन्ता ।
तत्र चोदकशास्त्राभावादनियमे प्राप्ते यथा शक्यत इत्युपभन्धादासीनस्यैव सिद्धम् ।
ननु यस्यामवस्थायां ध्यायतिरुपचर्यते प्रयुज्यते किमसौ तदा तिष्ठतो न भवति न भवतीत्याह ।
आसीनश्चाविद्यमानायासो भवतीति ।
अतिरोहितार्थमितरत् ॥७॥
४,१.६.८१०
ध्यानाच्च । ब्रह्मसूत्र ४,१.८ ।
अचलत्वं चापेक्ष्य । ब्रह्मसूत्र ४,१.९ ।
स्मरन्ति च । ब्रह्मसूत्र ४,१.१० ।
४,१.७.११
यत्रैकाग्रता तत्राविशेषात् । ब्रह्मसूत्र ४,१.११ ।
समे शुचौ शर्करावह्निवालुकाविवर्जित इत्यादिवचनान्नियमे सिद्धे दिग्देशादिनियममवाचनिकमपि प्राचीनप्रवणे वैश्वदेवेन
यजेतेतिवद्वैदिकारम्भसामान्यात्क्वचित्कश्चितदाशङ्कते ।
तमनुग्रहीतुमाचार्यः सुहृद्भावेनैव तदाह स्म ।
यत्रैकाग्रता मनस्तत्रैव भावनं प्रयोजयत् ।
ओविशेषात् ।
नह्यत्रास्ति वैश्वदेवादिवद्वचनं विशेषेकं तस्मादिति ॥११॥
४,१.८.१२
आ प्रयाणात्तत्रापि हि दृष्टम् । ब्रह्मसूत्र ४,१.१२ ।
अधिकरणविषयं विवेचयतितत्र यानि तावदिति ।
अविद्यमाननियोज्या या ब्रह्मात्मप्रतिपत्तिस्तस्याः ।
शास्त्रं हि नियोज्यस्य कार्यरूपनियोगसम्बन्धमवबोधयति तस्यैव कर्मण्यैश्वर्यलक्षणमधिकारं तच्चैतदुभयमतीन्द्रियत्वाद्भवति शास्त्रलक्षणं
प्रमाणान्तराप्राप्ये शास्त्रस्यार्थवत्त्वाद्ब्रह्मात्वप्रतीतेस्तु जीवन्मुक्तेन दृष्टत्वान्नास्तीह तिरोहितमिव किञ्चनेति किमत्र शास्त्रं करिष्यति ।
नन्वेवमप्यभ्युदयफलान्युपासनानि तत्र नियोज्यनियोगलक्षणस्य च कर्मणि स्वामितालक्षणस्य च सम्बन्धस्यातीन्द्रियत्वात्तत्र सकृत्कारणादेव
शास्त्रार्थसमाप्तौप्राप्तायामुपासनपदवेदनीयावृत्तिमात्रमेव कृतवत उपरमः प्राप्तस्तावतैव कृतशास्त्रार्थत्वादिति प्राप्तेऽभिधीयतेसविज्ञानो
भवतीत्यादिश्रुतेर्यत्र स्वर्गादिफलानामपि कर्मणां प्रायणकाले स्वर्गादिविज्ञानापेक्षकत्वं तत्र कैव कथातीन्द्रियफलानामुपासनानाम् ।
तानि खलु आप्रायणं तत्तदुपास्यगोचरबुद्धिप्रवाहवाहितया दृष्टेनैव रूपेण प्रायणसमये तद्बुद्दिं भावयिष्यन्ति ।
किमत्र फलवत्प्रायणसमये बुद्ध्याक्षेपेण नहि दृष्टे सम्भवत्यदृष्टकल्पना युक्ता ।
तस्मादाप्रायणं प्रवृत्ता वृत्तिरिति ।
तदिदमुक्तम्प्रत्ययास्त्वेत इति ।
तथा च श्रुतिः सर्वादीन्द्रियविषयऽस यथाक्रतुरस्माल्लोकात्प्रैति तात्क्रतुर्हामुं लोकं प्रेत्यभिसम्भवतिऽइति ।
क्रतुः सङ्कल्पविशेषः ।
स्मृतयश्चोदाहृता इति ॥१२॥
४,१.९.१३
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् । ब्रह्मसूत्र ४,१.१३ ।
गतस्तृतीयशेषः साधनगोचरो विचारः ।
इदानीमेतदध्यायगतफलविषया चिन्ता प्रतन्यते ।
तत्र तावत्प्रथममिदं विचार्यते किं ब्रह्माधिगमे ब्रह्मज्ञाने सति ब्रह्मज्ञानफलान्मोक्षाद्विपरीतफलं दुरितं बन्धनफलं क्षीयते न क्षीयत इति संशयः ।
किं तावत्प्राप्तं, शास्त्रेण हि फलाय यद्विहितं प्रतिषिद्धं चानर्थपरिहारायाश्वमेधादि ब्रह्महत्यादि चापूर्वान्तरव्यापारं किं तदपूर्वमुपरतेऽपि
कर्मण्यत्र सुखदुःखोपभोगात्प्राङ्गाविरन्तुमर्हति ।
स हि तस्य विनाशहेतुस्तदभावे कथं विनश्येदिति ।
तस्याकस्मिकत्वप्रसङ्गात्शास्त्रव्याकोपाच्चेति ।
अदत्तफलं चेत्कर्मापूर्वं विनश्यति कर्मण एव फलप्रसवसामर्थ्यबोधकशास्त्रमप्रमाणं भवेत् ।
नच प्रायश्चित्तमिव ब्रह्मज्ञानमदत्तफलान्यपि कर्मपूर्वाणि क्षिणोतीति साम्प्रतम् ।
प्रायश्चित्तानामपि तदप्रक्षयहेतुत्वात्तद्विधानस्य चैनस्विनराधिकारिप्राप्तिमात्रेणोपपत्तावुपात्तदुरितनिर्बहणफलाक्षेपकत्वायोगात् ।
अत एव स्मरन्ति नाभुक्तं क्षीयते कर्मेति ।
यदि पुनरपेक्षितोपायतात्मा प्रायश्चित्तविधिर्न नियोज्यविशेषप्रतिलम्भमात्रेण निर्वृणोतीत्यपेक्षिताकाङ्क्षायां दोषसंयोगेन श्रवणात्तन्निबर्हणफलः
कल्पेत ।
तथापि ब्रह्मज्ञानस्य तत्संयोगेनाश्रवणान्नदुरितनिबर्हणसामर्थ्ये प्रमाणमस्ति मोक्षवात् ।
तस्यापि स्वर्गादिफलवद्देशकालनिमित्तापेक्षयोपपत्तेः ।
शास्त्रप्रामाण्यात्सम्भविष्यत्यसाववस्था यस्यामुपभोगेन समस्तकर्मक्षये ब्रह्मज्ञानं मोक्षं प्रसोष्यति ।
योगाध्द्यैर्व वा दिवि भुव्यन्तरीक्षे बहूनि शरीरेन्द्रियाणि निर्माय फलान्युपभुज्यर्द्धेन योगसामर्थ्येन योगी कर्माणि क्षपयित्वा मोक्षी सम्पत्स्यते ।
स्थिते चैतस्मिन्नर्थे न्यायबलाद्यथा पुष्करपलाश इत्यादिव्यपदेशो ब्रह्मविद्यास्तुतिमात्रपरतया व्याख्येय इति प्राप्त उच्यतेव्याख्यायेतैवं
व्यपदेशो यदि कर्मविधिविरोधः स्यान्न त्वयमस्ति ।
शास्त्रं हि फलोत्पादनसामर्थ्यमात्रं कर्मणामवगमयति न तु कुतश्चिदागन्तुकान्निमित्ततः प्रायश्चित्तादेस्तदप्रतिबन्धमपि ।
तस्य तत्रौदासीन्यात् ।
यदि शास्त्रबोधितफलप्रसवसामर्थ्यमप्रतिबद्धमागन्तुकेन केनचित्कर्मणा ततस्तत्फलं प्रसूत एवेति न शास्त्रव्याघातः ।
नाभुक्तं कर्म क्षीयतैति च स्मरणप्रतिबद्धसामर्थ्यकर्माभिप्रायम् ।
दोषक्षयोद्धेशेन चापरविद्यानामस्ति प्रायश्चित्तवद्विधानमैश्वर्यभलानामप्युभयसंयोगाविशेषात् ।
यत्रापि निर्गुणायां परविद्यायां दोषोद्धेशो नास्ति तत्रापि तत्स्वभावालोचनादेव तत्प्रक्षयप्रसवसामर्थ्यमवसीयते ।
नहि तत्त्वमसिवाक्यार्थपरिभावनाभुवा प्रसङ्ख्यानेन निर्मृष्टनिखिलकर्तृभोक्तृत्वादिविभ्रमो जीवः फलोपभोगोन युज्यते ।
नहि रज्जवां भुजङ्कसमारोपनिबन्धना भयकम्पादयः सति रज्जुतत्वसाक्षात्कारे प्रभवन्ति, किन्तु संस्कारशेषात्किञ्चित्कालमनुवृत्ता अपि
निवर्तन्त एव ।
अमुमेवार्थमनुवदन्तो यथा पुष्करपलाश इत्यादयो व्यपदेशाः समवेतार्थाः सन्तो न स्तुतिमात्रतया कथञ्चिद्व्याख्यानमर्हन्ति ।
ननूक्तं सम्भविष्यन्ति सावस्था जीवात्मनो यस्यां पर्यायेणोपभोगाद्वा योगर्द्धेः प्रभावतो युगपन्नैकविधकायनिर्माणेनापर्यायेणोपभोगाद्वा जन्तुः
कर्माणि क्षपयित्वा मोक्षी सम्पत्स्यत इत्यत आहएवमेव च मोक्ष उपपद्यत इति ।
अनादिकालप्रवृत्ता हि कर्माशया अनियतकालविपाकाः क्रमवता तावद्भोगेन क्षेतुमशक्याः ।
भुञ्जानः खल्वयमपरानपि सञ्चिनोति कर्माशयानिति ।
नाप्यपर्यायमुपभोगेनासक्तः कर्मान्तराण्यसञ्चिन्वानः क्षेष्यतीति साम्प्रतम् ।
कल्पशतानि क्रमकालभोग्यानां सम्प्रति भोक्तुमसामर्थ्यात् ।
दीर्घकालफलानि च कर्माणि कथमेकपदे क्षेष्यन्ति ।
तस्मान्नान्यथा मोक्षसम्भवः ।
ननु सत्स्वपि कर्माशयान्तरेषु सुखदुःखफलेषु मोक्षफलात्कर्मणः समुदाचरतो ब्रह्मभावमनुभूयाथ लब्धविपाकानां कर्मान्तराणां फलानि
भोक्ष्यन्त इत्याहनच देशकालनिमित्तापेक्षा इति ।
नहि कार्यः सन्मोक्षो मोक्षो भवितुमर्हति ब्रह्मभावो हि सः ।
नच ब्रह्म क्रियते नित्यत्वादित्यर्थः ।
परोक्षत्वानुपत्तेश्च ज्ञानफलस्य ।
ज्ञानफलं खलु मोक्षोऽभ्युपेयते ।
ज्ञानस्य चानन्तरभाविनीज्ञेयाभिव्यक्तिः फलं, सैवाविद्योच्छेदमादधती ब्रह्मस्वभावस्वरूपावस्थानलक्षणाय मोक्षाय कल्पते ।
एवं हि दृष्टार्थता ज्ञानस्य स्यात् ।
अपूर्वाधानपरम्परया ज्ञानस्य मोक्षफले कल्प्यमाने ज्ञानस्य परोक्षफलत्वमदृष्टार्थत्वं भवेत् ।
नच दृष्टे सम्भवत्यदृष्टकल्पना युक्तेत्यर्थः ।
तस्माद्ब्रह्माधिगमे ब्रह्मज्ञानेसत्यद्वैतसिद्धौ दुरितक्षय इति सिद्धम् ॥१३॥
४,१.१०.१४
इतरस्याप्येवमसंश्लेषः पाते तु । ब्रह्मसूत्र ४,१.१४ ।
अधर्मस्य स्वाभाविकत्वेन रागादिनिबन्धनत्वेन शास्त्रीयेण ब्रह्मज्ञानेन प्रतिबन्धो युक्तः ।
धर्मज्ञानयोस्तु शास्त्रीयत्वेन, ज्योतिष्टोमदर्शपौर्णमासविरोधान्नोच्छेद्योच्छेत्तृभावो युज्यते ।
पाप्नमनश्च विशेषतो ब्रह्मज्ञानोच्छेद्यत्वश्रुतेर्धर्मस्यन तदुच्छेद्यत्वम् ।
विशेषविधानस्य शेषप्रतिषेधनान्तरीयकत्वेन लोकतः सिद्धेः ।
यथा देवदत्तो दक्षिणेनाक्ष्णा पश्यतीत्युक्ते न वामेन पश्यतीति गम्यते ।
उभे ह्येवैष एते तरतीति च यथासम्भवं, ब्रह्मज्ञानेन दुष्कृतं भोगेन सुकृतमिति ।
ऽक्षीयन्ते चास्य कर्माणिऽइति च सामान्यवचनंऽसर्वे पाप्मानःऽइति विशेषश्रवणात्पापकर्माणीति विशेषे उपसंहरणीयम् ।
तस्माद्ब्रह्मज्ञानाद्दुष्कृतस्यैव क्षयो न सुकृतस्येति प्राप्ते पूर्वाधिकरणराद्धान्तेऽतिदिश्यते ।
नो खलु ब्रह्मविद्या केनचिददृष्टेन द्वारेण दुष्कृतमपनयत्यपि तु दृष्टेनैव भोक्तृभोक्तव्यभोगादिप्रविलयद्वारेण तच्चैतत्तुल्यं सुकृतेपीति
कथमेतदपि नोच्छिन्द्यात् ।
एवं च सति न शास्त्रीयत्वसाम्यमात्रमविरोधहेतुर्नहि प्रत्यक्षत्वसामान्यमात्रादविरोधो जलानलादीनाम् ।
नच सुकृतशास्त्रमनर्थकमब्रह्मविदं प्रति तद्विधेरर्थवत्वात् ।
एवमवस्थिते च पाप्मश्रुत्या पुण्यमपि ग्रहीतव्यम् ।
ब्रह्मज्ञानमपेक्ष्य पुण्यस्य निकृष्टफलत्वात्तत्फलं हि क्षयातिशयवत् ।
नह्येवं मोक्षो निरतिशयत्वान्नित्यत्वाच्च ।
दृष्टप्रयोगश्चायं पाप्मशब्दो वेदे पुण्यपापयोः ।
तद्यथा पुण्यपापे अनुक्रम्य सर्वे पाप्मानोऽतो निवर्तन्त इत्यत्र ।
तस्मादविशेषेण पुण्यपापयोरश्लेषविनाशाविति सिद्धम् ॥१४॥
४,१.११.१५
अनारब्धकार्य एव तु पूर्वे तदवधेः । ब्रह्मसूत्र ४,१.१५ ।
यद्यद्वैतज्ञानस्वभावालोचनयोत्तरपूर्वसुकृतदुष्कृतयोरश्लेषविनाशौ हन्त आरब्धानारब्धकार्ययोश्चाविशेषेणैव विनाशः स्यात् ।
कर्तृकर्मादिप्रविलयस्योभयत्राविशेषात् ।
तन्निबन्धनत्वाच्च विनाशस्य ।
नच संस्कारशेषात्कुलालचक्रभ्रमणवदनुवृत्तिः ।
वस्तुनः खल्वनुवृत्तिः ।
मायावादिनश्च पुण्यपापयोश्चमायामात्रविनिर्मितत्वेन मायानिवृत्तौ न पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः ।
नच रज्जौ सर्पादिविभ्रमजनिता भयकम्पादयो निवृत्तेऽपि विभ्रमे यथानुवर्तन्ते तथेहापीति युक्तम् ।
तत्रापि सर्पासत्त्वेऽपि तज्ज्ञानस्य सत्त्वे तज्जनितभयकम्पादीनां तत्संस्काराणां च वस्तुसत्त्वेन निवृत्तेऽपि विभ्रमेऽनिवृत्तेः ।
अत्र तु न माया न तज्जः संस्कारो न तद्गोचर इति तुच्छत्वात्किमनुवर्तेत ।
न संस्कारशेषो न कर्मेत्यविशेषेणारब्धकार्याणामनारब्धकार्याणां च निवृत्तिः ।
नच तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति श्रुतेर्देहपातप्रतीक्षारब्धकार्याणां युक्ता ।
नह्येषा श्रुतिरवधिभेदविधायिन्यपि तु क्षिप्रतापरा ।
यथा लोक एतावन्मे चिरं यत्स्नातो भुञ्जानश्चेति ।
नहि तत्र स्नानभोजने अवधित्वेन विधीयते कितु क्षपीयस्ता प्रतिपाद्यते उभयविधाने हि वाक्यं भिद्येतावधिभेदः चिरताचेति
प्राप्तेऽभिधीयतेयद्यप्यद्वैतब्रह्मतत्त्वसाक्षात्कारोऽनाद्यविद्यपदर्शितप्रुञ्चमात्रविरोधितया तन्मध्यपतितसकलकर्मविरेधी ।
तथाप्यनारब्धविपाकं कर्मजातं द्रागित्येव समुच्छिनत्ति न त्वारब्धविपाकं सम्पादितजात्यायुर्विततपूर्वापरीभूतसुखदुःखोपभोगप्रवाहं कर्मजातम् ।
तद्धि समुदाचारद्वृत्तितयेतरेभ्यःप्रसुप्तवृत्तिभ्यो बलवत् ।
अन्यथा देवर्षीणां हिरण्यगर्भमनूद्दालकप्रभृतीनांविगलितनिखिलक्लेशजालावरणतया परितः प्रद्योतमानबुद्धिसत्वानां न ज्योग्जीविता भवेत् ।
श्रूयते चैषां श्रुतिस्मृतीतिहासपुराणेषु तत्त्वज्ञता च महाकल्पकल्पमन्वन्तरादिजीविता च ।
न चैते महाधियो न ब्रह्मविदो ब्रह्मचिदश्चाल्पपुण्यमेधसो मनुष्या इति श्रद्धेयम् ।
तस्मादागमानुसारतोऽस्ति प्रारब्धविभागानां कर्मणां प्रक्षयाय तदीयसमस्तफलोपभोगप्रतीक्षा सत्यपि तत्त्वसाक्षात्कारे ।
तावदेव चिरमिति न चिरता विधीयते ।
अपि तु श्रुत्यन्तरसिद्धां चिरतामनूद्य देहपातावधिमात्रविधानं तदेतदभिसन्धायौचित्यमात्रतयाह स्म भगवान् भाष्याकारःन
तावदनाश्रित्यारब्धकार्यं कर्माशयमिति ।
न चेदं न जातु दृष्टं यद्विरोधिसमवाये विरोद्ध्यन्तरमनुवर्तत इत्याहअकर्त्रात्मबोधोऽपीति ।
यदा लोकेऽपि विरोधिनोः किञ्चित्कालं सहानुवृत्तिरुपलब्धा तदेहगमबलाद्दीर्घकालमपि भवतीति न शक्या निवारयितुम् ।
प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेः ।
तदेवं मध्यस्थान्प्रतिपाद्य ये भाष्यकारमाप्तं मन्यन्ते तान् प्रत्याहअपिच नैवात्र विवदितव्यमिति ।
स्थितप्रज्ञश्च न साधकस्तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्ययानवस्थितत्वात् ।
निरतिशयस्तु स्थितप्रज्ञः ।
स च सिद्ध एव ।
नच ज्ञानकार्या भयकम्पादयः, ज्ञानमात्रादनुत्पादात् ।
सर्पावच्छेदोहि तस्य भयकम्पादिहेतुः ।
स चासन्न निर्वचनीय इति कुतो वस्तुसतः कर्योत्पादः ।
नच कार्यमपि भयकम्पादि वस्तुसत् ।
तस्यापि विचारासहत्वेनानिर्वाच्यत्वात् ।
अनिर्वाच्याच्चानिर्वाच्योत्पत्तौ नानुपपत्तिः ।
यादृशो हि यक्षस्तादृशो बलिरिति सर्वमवदातम् ॥१५॥
४,१.१२.१६
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । ब्रह्मसूत्र ४,१.१६ ।
यदि पुण्यस्याप्यश्लेषविनाशौ हन्त नित्यमप्यग्निहोत्रादि न कर्तव्यं योगमारूरुक्षुणा ।
तस्यापीतरपुण्यवद्विद्यया विनाशात् ।
ऽप्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरऽमिति न्यायात् ।
नच विविदिषन्ति यज्ञेन दानेति मोक्षलक्षणैककार्यतया विद्याकर्मणोरविरोधः ।
सहासम्भवेनैककार्यत्वासम्भवात् ।
नह्येतमात्मानं विदुषो विगलिताखिलकर्तृभोक्तृत्वादिप्रपञ्चविभ्रमस्य पूर्वोत्तरे नित्ये क्रियाजन्ये पुण्ये सम्भवतः ।
तस्माद्विविदिषन्ति यज्ञेनेति वर्तमानापदेशो ब्रह्मज्ञानस्य यज्ञादीनां वा स्तुतिमात्रं न तु मोक्षमाणस्य मुक्तिसाधनं यज्ञादिविधिरिति प्राप्त उच्यते ।
सत्यं न विद्ययैककार्यत्वं कर्मणां परस्परविरोधेन सहासम्भवात् ।
विद्योत्पादकतया तु कर्मणामारादुपकारकाणामस्तु मोक्षोपयोगः ।
नच कर्मणां विद्यया विरुध्यमानानां न विद्याकारणत्वं, स्वकारणविरोधिनां कार्याणां बहुलमुपलब्धेः ।
तथाच विद्यालक्षणकार्योपायतया कार्यविनाश्यानामपि कर्मणामुपादानमर्थवत् ।
तदभावे तत्कार्यस्यानुत्पादेन मोक्षस्यासम्भवात् ।
एवञ्च विविदिषन्ति यज्ञेनेति यज्ञसाधनत्वं विद्याय अपूर्वमर्थं प्रापयतः पञ्चमलकारस्य नात्यन्तपरोक्षवृत्तितया ज्ञानस्तुत्यर्थतया कथञ्चिद्व्याख्यानं
भविष्यति ।
तदनेनाभिसमधिनोक्तञ्ज्ञानस्येव हि प्रापकं सत्कर्म प्रणड्या मोक्षकारणमित्युपचर्यते ।
यत एव न विद्योदयसमये कर्मास्ति नापि परस्तादपि तु प्रागेव विद्यायाः, अत एव चातिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् ।
एतदेव स्फोरयतिनहि ब्रह्मविद इति ॥१६॥
४,१.१२.१७
सूत्रान्तरमवतारयितुं पृच्छतिकिंविषयं पुनरिदमिति ।
अस्योत्तरं सूत्रम्
अतोऽन्यापि ह्येकेषामुभयोः । ब्रह्मसूत्र ४,१.१७ ।
काम्यकर्मविषयमश्लेषविनाशवचनं शाखान्तरीयवचनं च तस्य पुत्रा दायमुपयन्तीति ॥१७॥
४,१.१३.१८
यदेव विद्ययेति हि । ब्रह्मसूत्र ४,१.१८ ।
अस्ति विद्यासंयुक्तं यज्ञादि य एवं विद्वान्यजेतेत्यादिकम् ।
अस्ति च केवलम् ।
तत्र यथा ब्राह्मणाय हिरण्यं दद्यादियुक्ते विदुषे ब्राह्मणाय दद्यान्न ब्राह्मणब्रुवाय मूर्खायेति विशेषप्रतिलम्भः तत्कस्य हेतोस्तस्यातिशयवत्वात् ।
एवं विद्यारहिताद्यज्ञादेर्विद्यासहितमतिशयवदिति तस्यैव परविद्यासाधनत्वमुपात्तदुरितक्षयद्वारा नेतरस्य ।
तस्माद्विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासहिते यज्ञादावुपसंहर्तव्यमिति प्राप्तेऽभिधीयतेयदेव विद्यया करोति तदेवास्य वीर्यवत्तरमिति
तरबर्थश्रुतेर्विद्यारहितस्य वीर्यवत्तामात्रमवगम्यते ।
नच सर्वथाकिञ्चित्करस्य तदुपपद्यते ।
तस्मादस्त्यस्यापि कयापि मात्रया परविद्योत्पादोपयोग इति विद्यारहितमपि यज्ञादि परविद्यार्थिनानुष्ठेयमिति सिद्धम् ॥१८॥
४,१.१४.१९
भोगेन त्वितरे क्षपयित्वाथ सम्पद्यते । ब्रह्मसूत्र ४,१.१९ ।
अनारब्धकार्य इत्यस्य नञः फलं भोगेन निवृत्तिं दर्शयत्यनेन सूत्रेण ।
अस्य तूपपादनं पुरस्तादपकृष्य कृतमिति नेह क्रियते पुनरुक्तिभयात् ॥१९॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ॥
चतुर्थेऽध्याये द्वितीयः पादः ।