३,४.१.१
पुरुषार्थोऽतः शब्दादिति बादरायणः । ब्रह्मसूत्र ३,४.१ ।
स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् ।
सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे ।
यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते
कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् ।
इतोऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् ।
यथा शुद्धत्वादि ।
यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशङ्काबीजानां
निराकरणे तदेव स्थूणानिखननन्यायेन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् ।
तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम्, यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसम्बन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु
दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसम्बन्धजुहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा
कर्तामुष्मिकस्वर्गादिफलभोगभागीदेहाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः ।
तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रोपपत्तेः ।
आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासम्भवात्तत्सम्बन्ध एवायमौपनिषदः कर्तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव
तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः ।
तदुक्तम्ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता
पारलौकिकफलोपभोगयोग्योऽस्मीति विद्यावाच्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति ।
प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् ।
न तु तत्परत्वमुपनिषदाम् ।
तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति ।
एतदुपोद्बलनार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः ।
न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् ।
तृतीयाश्रुतेश्च ।
न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामावधारणाभ्यां व्याप्तेरधिगमत् ।
यथा य एव धूमवान्देशः स वह्निमानिति ।
समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति ।
तच्च यद्यप्याप्नेयादियागषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् ।
वेदार्थज्ञानवतः कर्मविधानादुपनिषदोऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति ॥१॥
३,४.१.२
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः । ब्रह्मसूत्र ३,४.२ ।
॥ २ ॥
३,४.१.३
आचारदर्शनात् । ब्रह्मसूत्र ३,४.३ ।
॥ ३ ॥
३,४.१.४
तच्छ्रुतेः । ब्रह्मसूत्र ३,४.४ ।
॥ ४ ॥
३,४.१.५
समन्वारम्भणात् । ब्रह्मसूत्र ३,४.५ ।
॥ ५ ॥
३,४.१.६
तद्वतो विधानात् । ब्रह्मसूत्र ३,४.६ ।
॥ ६ ॥
३,४.१.७
नियमाच्च । ब्रह्मसूत्र ३,४.७ ।
सुगमम् ॥७॥
३,४.१.८
सिद्धान्तयति
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् । ब्रह्मसूत्र ३,४.८ ।
यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मत्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति ।
तास्त्वेवम्भूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् ।
अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन ।
तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसम्बन्ध एव नास्ति ।
किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता ।
तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव ।
अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनोऽधिकोपदिदीक्षायां परमात्मनात्यन्ताभेद उपदिश्यते ।
यथा समारोपितस्य भुजगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते योऽयं सर्पः सा रज्जुरिति ।
यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवकर्माङ्गत्वे दर्शनमुक्तम् ।
तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः ॥८॥
३,४.१.९
तुल्यं तु दर्शनम् । ब्रह्मसूत्र ३,४.९ ।
॥ ९ ॥
३,४.१.१०
असार्वत्रिकी । ब्रह्मसूत्र ३,४.१० ।
व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया ।
यथ सर्वे ब्राह्मणा भोज्यन्तामिति निमन्त्रितापेक्षया तेषामेव प्रकृतत्वात् ॥१०॥
३,४.१.११
विभागः शतवत् । ब्रह्मसूत्र ३,४.११ ।
सुगमम् ।
अविभागेऽपि न दोष इत्याहन चेदं समन्वारम्भवचनमिति ।
संसारिविषया विद्याविहितायथोद्गीथविद्या ।
प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा ॥११॥
३,४.१.१२
अध्ययनमात्रवतः । ब्रह्मसूत्र ३,४.१२ ।
अध्ययनमात्रवत एव कर्मविधिर्नतूपनिषदध्ययनवतः ।
एतदुक्तं भवतियदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः
तदध्ययनस्य कर्मस्वनुपयोगादिति ।
अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयतिनन्वेवं सतीति ।
स्वाभिप्रायमुद्घाटयन्समाधत्तेन वयमिति ।
उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः ॥१२॥
३,४.१.१३
नाविशेषात् । ब्रह्मसूत्र ३,४.१३ ।
कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः ॥१३॥
३,४.१.१४
विद्यावद्विषयत्वेऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह
स्तुतयेऽनुमतिर्वा । ब्रह्मसूत्र ३,४.१४ ।
॥१४॥
३,४.१.१५
कामकारेण चैके । ब्रह्मसूत्र ३,४.१५ ।
अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याहकामकारेण चैके ।
कामकार इच्छा ॥१५॥
३,४.१.१६
उपमर्दं च । ब्रह्मसूत्र ३,४.१६ ।
अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः ।
इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति ॥१६॥
३,४.१.१७
ऊर्ध्वरेतःसु च शब्दे हि । ब्रह्मसूत्र ३,४.१७ ।
सुबोधम् ॥१७॥
३,४.२.१८
परामर्शं जैमिनिरचोदना चापवदति हि । ब्रह्मसूत्र ३,४.१८ ।
सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् ।
आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति ।
विध्यभावात् ।
स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् ।
निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरंऽवीरहा वा एष देवानाम्ऽइत्यादिका ।
प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तंऽविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽइति ।
तदेतत्सर्वमाहत्रयो धर्मस्कन्धा इत्यादिना ।
अनधिकृतविषया वेति ।
अन्धपङ्ग्वादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति ।
अपिचापवदिति हि ।
न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः ।
स्यादेतत् ।
भवत्वेष परामर्शोऽन्यार्थः ।
ये चेमेऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेतस्यतीत्यत आहये चेमेऽरण्य इति ।
अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः ।
न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यत इत्याहसन्दिग्धं चेति ।
नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति ।
नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आहतथैतमेवेति ।
एतदपि लोकसंस्तनवनपरमिति ।
अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्तेननु ब्रह्मचर्यादेवेति ॥१८॥
३,४.२.१९
अनुष्ठेयं बादरायणः साम्यश्रुतेः । ब्रह्मसूत्र ३,४.१९ ।
भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति ।
एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् ।
प्रतीयमानानि वा श्रुत्या बाध्येरन् ।
न तावन्न प्रतीयन्ते ।
तथाहित्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् ।
तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत ।
एकैकाश्रमोपसङ्गृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः ।
तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च
पारिशेष्यात्परिव्राडिति वक्ष्यति ।
तस्मादन्यपरादपि परामर्शादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्तेऽपाकर्तुम् ।
नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः ।
एवञ्च अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्येऽउपव्ययते देवलक्ष्ममेव
तत्कुरुतेऽइत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति ॥१९॥
३,४.२.२०
विधिर्वा धारणवत् । ब्रह्मसूत्र ३,४.२० ।
यद्यपि ब्रह्मसंस्थत्वस्तुतिपरतयास्य सन्दर्भस्यैकवाक्यता गम्यते ।
सम्भवान्त्यां चैकवाक्यतायां वाक्यभेदोऽन्याय्यः ।
तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसम्भवेन किम्परतया एकवाक्यतास्त्विती तां भङ्क्त्वा
धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु ।
यथाऽअधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽइत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् ।
तथोक्तम्ऽविधिस्तु धारणेऽपूर्वत्वात्ऽइति ।
तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते ।
सम्प्रति परामर्शेऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या ।
न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याहयदापीति ।
अत्रावान्तरविचारमारभतेसा च किं चतुर्ष्विति ।
विचारप्रयोजनमाहयदि चेति ।
ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आहअनाश्रयमित्वेति ।
तत्र पूर्वपक्षमाहतत्र तपःशब्देनेति ।
अयमभिसन्धिः ।
यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमितावयवार्थं परिव्राजकेऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया
ब्रह्मज्ञानमपेक्षेत ।
तथाच नान्यः पन्था विद्यतेऽयनायेति विरोधः ।
नच सम्भत्यवयवार्थे समुदायशक्तिकल्पना ।
तस्माद्ब्रह्मणि संस्थास्येति ।
ब्रह्मसंस्थः ।
एवञ्च चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थोऽमृतत्वमेतीति युक्तम् ।
तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ ।
भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः ।
नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासम्भवः ।
यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति ।
अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः ।
तथा सति गृहस्थादयोऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः ।
तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः ।
प्रमाणविरोधात् ।
तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते ।
एवञ्च त्रयोऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सोऽमृतत्वभागिति ।
नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः ।
यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां सम्प्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः ।
पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः ।
तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति ।
यथा आग्नेय्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते ।
नच विनियुक्तविनियोगविरोधः ।
यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्येत ।
विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः ।
इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते ।
न तूद्दिश्यते ।
विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् ।
तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसम्भवः ।
नच यातयामतया न विनियोगः ।
वाचस्तोमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् ।
तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः ।
राद्धान्तमुपक्रमतेतदयुक्तम् ।
नहि सत्यां गतौ वानप्रस्थविशेषणेनेति ।
यथोपक्रान्तं तथैव परिसमापनमुचितम् ।
यत्सङ्ख्याकाश्च ये प्रसिद्धास्ते तत्सङ्ख्याका एव कीर्त्यन्ते इति चोचितम् ।
न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते ।
अशाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् ।
न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते ।
नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आहतपश्चासाधारण इति ।
न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे ।
नच शौचसन्तोषशमदमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः ।
अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षतेऽशौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाःऽइति ।
सिद्धसङ्ख्याभेदेषु च सङ्ख्यान्तराभिधानमाश्लिष्टमित्याहचतुष्ट्वेन चेति ।
अपिच भेदव्यपदेशोऽत्रेति ।
त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव ।
न तावन्त्रय इति भिक्षुसङ्ग्रहे तद्वर्जनमेते त्रय इत्यत्र वर्तुं शक्यम् ।
एत इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसङ्ग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः ।
तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः ।
त्रिषु च ब्रह्मसंस्थपदे यदेति सम्बन्धनीयम् ।
भिक्षौ च सदेति वैषम्यम् ।
तदिदमुक्तम्पृथक्त्वे चेति ।
पूर्वपक्षाभासं स्मारयतिकथं पुनर्ब्रह्मसंस्थशब्दो योगादिति ।
तन्निराकरोतिअत्रोच्यत इति ।
अयमभिसन्धिः ।
सत्यं यौगिकः शब्दः सति प्रकृतसम्भवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति ।
असति तु सम्भवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासम्भवेऽधस्तादिति ।
एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव ।
तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र ।
शमदमादिस्तु तदीय इति ।
स्वाङ्गमव्यवधायकमित्यर्थः ।
ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याहतथाच न्यास इति ब्रह्मेति ।
सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आहब्रह्मा हि परः ।
अतः परो न्यासो ब्रह्मेति ।
किमपेक्ष्य परः सन्न्यास इत्यत आहतानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति ।
एतदुक्तं भवतिब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति ।
तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् ।
ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारोऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम् ।
न त्वनधिकृतं प्रतीत्यर्थः ॥२०॥
३,४.३.२१
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् । ब्रह्मसूत्र ३,४.२१ ।
यद्यत्र सन्निधान उपासनाविधिर्नास्ति ततः प्रदेशान्तरस्थितोऽपि विधिव्यभिचारिततद्विधिसम्बन्धेनोद्गीथेनोपस्थापितः स एष रसानां रसतम
इत्यादिना पदसन्दर्भेणैकवाक्यभावमुपगतः स्तूयते ।
नहि समभिव्याहृतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति ।
अनुषङ्गातिदेशलब्धैरपि विध्यसमभिव्याहृतैरर्थवादैरेकवाक्यताभ्युपगमात् ।
यदि तूद्गीथमुपासीत सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपासनाविषयसमर्पणपर
ओमित्येतदक्षरमुद्गीथमित्यनेनैवोपासनाविषयसमर्पणादिति प्राप्तेऽभिधीयतेन तावद्दूरस्थेन कर्मविधिवाक्येनैकवाक्यतासम्भवः ।
प्रतीतसमभिव्याहृतानां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवादानां रक्तपटन्यायेन भवति ।
न तु स्तुत्या विना काचिदनुपपत्तिर्विधेः ।
यथाहुःऽअस्ति तु तदित्यतिरेके परिहारःऽइति ।
अत एव विधेरपेक्षाभावात्प्रवर्तनात्मकस्यानुषङ्गतिदेशादिभिरर्थवादप्राप्त्यभिधानमसमञ्जसम् ।
नहि कर्त्रपेक्षितोपायामवगतायां प्राशस्त्यप्रत्ययस्यास्ति कश्चिदुपयोगः ।
तस्माद्दूरस्थस्य कर्मविधेः स्तुतावानर्थक्यम् ।
तेनैकवाक्यतानुपपत्तेः सन्निहितस्य तूपासनाविधेः किं विषयसमर्पणेनोपयुज्यतामुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या
बहिरङ्गत्वात् ।
अगत्या हि सा ।
तस्मादुपासनार्था इति सिद्धम् ।
ऽकुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् ।
एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् ॥
ऽभावनायाः खलु कर्तृसमीहितानुकूलत्वं विधिर्निषेधश्च कर्तुरहितानुकूलत्वम् ।
यथाहुःऽकर्तव्यश्च सुखफलोऽकर्तव्यो दुःखफलःऽइति ।
एतच्चास्माभिरुपपादितं न्यायकणिकायाम् ।
क्रिया च भावना तद्वचनाश्च करोत्यादयः ।
यथाहुःकृभ्वस्तयः क्रियासामान्यवचना इति ।
अत एव कृभ्वस्तीनुदाहृतवान् ।
सामान्योक्तौ तद्विशेषाः पचेदित्यादयोऽपि गम्यन्त इति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना ।
क्रियेतेति आक्षिप्तकर्मिका भावना ।
कर्तव्यमिति तु कर्मभूतद्रव्योपसर्जनभावना ।
एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूयेतेत्येकधात्वर्थविषया विध्युपहिता भावना उदाहार्याः ।
भवतिश्चैष जन्मनि ।
यथा कुलालव्यापाराद्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते ।
नच बीजादङ्कुरोऽस्तीति प्रयुञ्जते ।
तस्मादस्ति सत्तायां न जन्मनीति ॥२१॥
३,४.३.२२
भावशब्दाच्च । ब्रह्मसूत्र ३,४.२२ ।
॥ २२ ॥
३,४.४.२३
पारिप्लवार्था इति चेन्न विशेषितत्वात् । ब्रह्मसूत्र ३,४.२३ ।
यद्यपि उपनिषदाख्यानानि विद्यासन्निधौ श्रुतानि तथापिऽसर्वाण्याख्यानानि पारिप्लवेऽइति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य
सन्निधेर्बाधितत्वात्पारिप्लवार्थान्येवाख्यानानि ।
नच सर्वा दाशतयीरनुब्रूयादिति विनियोगेऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि
पारिप्लवे विनियेगे सन्निधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् ।
दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु सन्निधानात्श्रुतेर्बलीयस्त्वात् ।
तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यतेनैषामाख्यानानां पारिप्लवे विनियोगः ।
किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि ।
इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्पारिप्लवमाचक्षीतेत्यनर्थकं स्यात् ।
आख्यानविशेषणत्वे त्वर्थवत् ।
तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः ।
यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितापेक्षः सर्वशब्दः ।
तथा चोपनिषदाख्यानानां विद्यासन्निधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सोऽरोदीदित्यादीनामिव विद्येकवाक्यत्वं गमयतीति सिद्धम् ।
प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति ॥२३॥
३,४.४.२४
तथा चैकवाक्यतोपबन्धात् । ब्रह्मसूत्र ३,४.२४ ।
॥ २४ ॥
३,४.५.२५
अत एव चाग्नीन्धनाद्यनपेक्षा । ब्रह्मसूत्र ३,४.२५ ।
विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः ।
तदभावे कस्योपकारो विद्ययेति ।
यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् ।
अग्नीन्धानादिना चाश्रमकर्माण्युपलक्ष्यन्ते तदाहअग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति ।
स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति ।
एतच्चाधिकमुपरिष्टाद्वक्ष्यते ।
तद्विवक्षया चैतत्प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम् ॥२५॥
३,४.५.२६
अधिकविवक्ष्येति यदुक्तं तदधिकमाह
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् । ब्रह्मसूत्र ३,४.२६ ।
यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापेक्ष्येरन्निति शङ्का स्यात् ।
नच विविदिषन्ति यज्ञेनेत्यादिविरोधः ।
नह्येष विधिरपि तु वर्तमानापदेशः ।
स च स्तुत्याप्युपपद्यते ।
अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि ।
प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद्भवति यां किलाचक्षते श्रवणमिति ।
द्वितीया मीमांसासहिता तस्मादेवोपनिषद्वाक्याद्यामाचक्षते ।
मननमिति ।
तृतीया चिन्ता ।
सन्ततिमयी यामाचक्षते निदिध्यासनमिति ।
चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति ।
तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदितवाक्यगतिगोचरन्यायस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा ।
ते एव च चिन्तामयीं तृतीयां प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा ।
सा चादरनैरन्तर्यदीर्घकालसेविता साक्षात्कारवतीमाधत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा ।
तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा ।
तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् ।
एवं प्राप्त उच्यतेउत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वाराऽविविदिषन्ति यज्ञेनऽइति श्रुतेः ।
न चेदं वर्तमानापदेशत्वात्स्तुतिमात्रमपूर्वत्वादर्थस्य ।
यथा यस्य पर्णमयी जुहूर्भवतीति पर्णमयताविधिरपूर्वत्वान्न त्वयं वर्तमानापदेशः, अनुवादानुपपत्तेः ।
तस्मादुत्पत्तौ विद्यया शमादिवत्कर्माण्यपेक्ष्यन्ते ।
तत्राप्येवंविदिति विद्यास्वरूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विविदिषासंयोगात् ।
तथाहिआश्रमविहितनित्यकर्मानुष्ठानाद्धर्मसमुत्पादस्ततः पाप्मा विलीयते ।
स हि तत्त्वतोऽनित्याशुचिदुःखानात्मनि संसारे सति नित्यशुचिमुखात्मलक्षणेन विभ्रमेण मलिनयति चित्तसत्त्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् ।
अतः पाप्मनः प्रक्षये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्त्विकीमनित्याशुचिदुःखरूपतामप्रत्यूहं विनिश्चिनेति ।
ततोऽस्मिन्ननभिरतिसञ्ज्ञं वैराग्यमुपजायते ।
ततस्तज्जिहासास्योपावर्तते ।
ततो हानोपायं पर्येषते पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तज्जिज्ञासत इति
विविदिषोपहारमुखेनात्मज्ञानोत्पत्तावस्ति कर्माणामुपयोगः ।
विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते ।
ततोऽस्यऽतत्त्वमसिऽइतिवाक्यन्निर्विचिकित्सं ज्ञानमुत्पद्यते ।
नच निर्विचिकित्सं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिकारोऽस्ति ।
येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः ।
एतेन वृत्तिरूरपसाक्षात्कारकार्येऽपवर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः ।
तस्माद्यथैव शमदमादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीक्षिताभिधानम् ।
विदुषस्तत्रानधिकारादित्युक्तम् ।
दृष्टार्थेषु तु कर्मसु प्रतिषिद्धवर्जनमनधिकारेऽप्यसक्तस्य स्वारसिकी प्रवृत्तिरुपपद्यत एव ।
नहि तत्रान्वयव्यतिरेकसमधिगमनीयफलेऽस्ति विध्यपेक्षा ।
अतश्चऽभ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु तेऽइति प्रलापः ।
शमदमादीनां तु विद्योत्पादायोपात्तानामुपरिष्टादवस्थास्वाभाव्यादनपेक्षितानामप्यनुवृत्तिः ।
उपपादितं चैतदस्माभिः प्रथमसूत्र इते नेह पुनः प्रत्याप्यते ।
तस्माद्विविदिषोत्पादद्वाराश्रमकर्मणां विद्योत्पत्तावुपयोगो न विद्याकार्य इति सिद्धम् ।
शेषमतिरोहितार्थम् ॥२६॥
३,४.६.२७
शमदमाद्युपेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् । ब्रह्मसूत्र ३,४.२७ ।
॥ २७ ॥
३,४.७.२८
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् । ब्रह्मसूत्र ३,४.२८ ।
प्राणसंवादे सर्वेन्द्रियाणां श्रूयते ।
एष किल विचारविषयःसर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मेऽन्नं भविष्यतीति, तानि होचुः ।
यदिदं लोकेऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति ।
तदनेन सन्दर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिःऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽइति ।
सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति ।
तत्र संशयःकिमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं सङ्कीर्त्यत इति ।
तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते ।
तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे
विधिप्रतिपत्तिः ।
स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ ।
भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते ।
गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तस्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यतेअशक्तेः
कल्पनीयत्वाच्छास्त्रान्तरविरोधतः ।
प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः ॥
न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् ।
इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् ।
न चात्र लिङ्ग इव स्फुटतरा विधिप्रतिपत्तिरस्ति ।
नच कल्पनीयो विधिरपूर्वत्वाभावात् ।
स्तुत्यापि च तदुपपत्तेः ।
नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसङ्कोचो युक्तः ।
तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् ।
शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे ।
प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् ।
तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् ।
न त्वन्यत्रेति ।
इभ्येनहस्तिपकेनसामिस्वादितानर्धभक्षितान् ।
स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः ।
कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति ।
एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे ।
कारणं चात्रोवाच ।
न वाजीविष्यं न जीविष्यामीतीमान्कुल्माषानखादम् ।
कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति
तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास ॥२८॥
३,४.७.२९
अबाधाच्च । ब्रह्मसूत्र ३,४.२९ ।
॥ २९ ॥
३,४.७.३०
अपि च स्मर्यते । ब्रह्मसूत्र ३,४.३० ।
॥ ३० ॥
३,४.७.३१
शब्दश्चातोऽकामकारे । ब्रह्मसूत्र ३,४.३१ ।
॥ ३१ ॥
३,४.८.३२
विहितत्वाच्चाश्रमकर्मापि । ब्रह्मसूत्र ३,४.३२ ।
नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि ।
विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यम्भावनियमाभावादनित्यता प्राप्नोति ।
नित्यानित्यसंयोगश्चैकस्य न सम्भवति, अवश्यानवश्यम्भावयोरेकत्र विरोधात् ।
नच वाक्यभेदाद्वास्तवो विरोधः शक्योऽपनेतुम् ।
तस्मादनध्यवसाय एवात्रेति प्राप्तम् ।
एतेनऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइत्याक्षिप्तम् ।
एवं प्राप्तेऽभिधीयतेसिद्धे हि स्याद्विरोधोऽयं न तु साध्ये कथञ्चन ।
विध्यधीनात्मलाभेऽस्मिन् यथाविधि मता स्थितिः ॥
सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते ।
न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे ।
ते हि विध्यधीनत्वाद्विकल्पेते एव ।
न पुनः सिद्धे विकल्पसम्भवः ।
तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः
कादाचित्कतयानवश्यं भावेऽपिऽकाम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशतेऽइति न्यायादनित्याधिकारेण निविशमानमपि न
नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् ।
सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ ।
कोर्ऽथो विद्यासहकारीणि कर्माणीति ।
अयमर्थःसत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते ।
यथाऽसहैव दशभिः पूत्रैर्भारं वहति गर्दभीऽइति सात्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति ।
अविधिलक्षणत्वादिति ।
विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् ।
ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् ।
अविहिते च तदनुपपत्तेः ।
चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे ।
द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् ।
उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् ।
असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः ।
नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् ।
शेषमतिरोहितार्थम् ॥३२॥
३,४.८.३३
सहकारित्वेन च । ब्रह्मसूत्र ३,४.३३ ।
॥ ३३ ॥
३,४.८.३४
सर्वथापि त एवोभयलिङ्गात् । ब्रह्मसूत्र ३,४.३४ ।
यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापिऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेनऽइतिक्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्धिव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यतेसत्यपि प्रकरणान्तरे तदेव कर्म,
श्रुतेः स्मृतेश्च संयोगभेदः परं यथाऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति तदेवाग्निहोत्रमुभयसंयुक्तम् ।
नहि प्रकरणान्तरं साक्षाद्भेदकम् ।
किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् ।
प्रकरणान्तरेण तु विघटुतप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति ।
इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति ।
नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति साम्प्रतम् ।
होम एव साक्षाद्विधिश्रुतेः ।
कालस्य चानुपादेयस्याविधेयत्वात् ।
काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः ।
इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ ।
तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् ।
स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम् ॥३४॥
३,४.८.३५
अनभिभवं च दर्शयति । ब्रह्मसूत्र ३,४.३५ ।
॥ ३५ ॥
३,४.९.३६
अन्तरा चापि तु तद्दृष्टेः । ब्रह्मसूत्र ३,४.३६ ।
यदि विद्यासहकारीण्याश्रमकर्माणि हन्त भो विधुरादीनामनाश्रमिणामनधिकारो विद्यायाम्, अभावात्सहकारिणामाश्रमकर्मणामिति प्राप्त
उच्यतेनात्यन्तमकर्माणो रैक्वविधुरवाचक्रवीप्रभृतयः ।
सन्ति हि तेषामनाश्रमित्वेऽपि जपोपवासदेवताराधनादीनि कर्माणि ।
कर्मणां च सहकारित्वमुक्तमाश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिकारो विद्यासु ।
जन्मान्तरानुष्ठितेरपि चेति ।
न खलु विद्याकार्ये कर्मणामपेक्षा ।
अपितु उत्पादे ।
उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् ।
उत्पन्नविविदिषाणां पुरुषधौरेयाणां विधुरसंवर्तप्रभृतीनां कृतं कर्मभिः ।
यद्यपि चेह जन्मनि कर्माण्यननुष्ठितानि तथापि विविदिषातिशयदर्शनात्प्राचि भवेऽनुष्ठितानि तैरिति गम्यत इति ।
ननु यथाधीतवेद एव धर्मजिज्ञासायामधिक्रियते नानधीतवेद इह जन्मनि ।
तथेह जन्मन्याश्रमकर्मोत्पादितविविदिष एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो विधुरप्रभृतीनामित्यत आहदृष्टार्था चेति ।
अविद्यानिवृत्तिर्विद्याया दृष्टोर्ऽथः ।
स चान्वव्यतिरेकसिद्धो न नियममपेक्षत इत्यर्थः ।
प्रतिषेधो विधातस्तस्याभाव इत्यर्थः ॥३६॥
३,४.९.३७
अपि च स्मर्यते । ब्रह्मसूत्र ३,४.३७ ।
॥ ३७ ॥
३,४.९.३८
विशेषानुग्रहश्च । ब्रह्मसूत्र ३,४.३८ ।
॥ ३८ ॥
३,४.१०.३९
अतस्त्वितरज्ज्यायो लिङ्गाच्च । ब्रह्मसूत्र ३,४.३९ ।
यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तर्ह्याश्रमैरतिबहुलायासैरित्याशङ्क्याहअतस्त्वितरज्ज्यायो लिङ्गाच्च ।
स्वस्थेनाश्रमित्वमास्थेयम् ।
दैवात्पुनः पत्न्यादिवियोगातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्मृतिसन्दर्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्त्वावगतेः
श्रुतिलिङ्गात्स्मृतिलिङ्गाच्चावगम्यते ।
तेनैति पुण्यकृदिति श्रुतिलिङ्गम्, अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम् ॥३९॥
३,४.१०.४०
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः । ब्रह्मसूत्र ३,४.४० ।
आरोहवत्प्रत्यवरोहोऽपि कदाचिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थमिदमधिकरणम् ।
पूर्वधर्मेषु यागहोमादिषु ।
रागतो वा गृहस्थोऽहं पत्न्यादिपरिवृतः स्यामिति ।
नियमं व्याचष्टेतथाहिअत्यन्तमात्मानमिति ।
अतद्रूपतामारोहतुल्यताभावं व्याचष्टेयथाच ब्रह्मचर्यं समाप्येति ।
अभावं शिष्टाचाराभावं विभजतेन चैवमाचाराः शिष्टा इति ।
अतिरोहितार्थमन्यत् ॥४०॥
३,४.११.४१
न चाधिकारिकमपि पतनानुमानात्तदयोगात् । ब्रह्मसूत्र ३,४.४१ ।
प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्रायश्चित्ताभावस्मरणान्नैरृतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति ।
तस्माच्छिन्नशिरस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः ।
सूत्रयोजना तुन चाधिकारिकमधिकारलक्षणे प्रथमकाण्डे निर्णीतम्ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽइत्यनेन यत्प्रायश्चित्तं तन्न
नैष्ठिके भवितुमर्हति ।
कुतःारूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात्तत्प्रायश्चित्तायोगात् ॥४१॥
३,४.११.४२
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् । ब्रह्मसूत्र ३,४.४२ ।
श्रुतिस्तावत्सरसतोऽसङ्कुचद्वृत्तिर्ब्रह्मचारिमात्रस्य नैष्ठिकस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति साक्षात् ।
प्रायश्चित्तं न पश्यामीति तु स्मृतिः ।
तस्यामपि च साक्षात्प्रायश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सोऽनुमातव्यः ।
तथा च स्मृतिर्निषेधार्थेति अनुमाय तदर्था श्रुतिरनुमातव्या ।
श्रुतिस्तु सामान्यविषया विशेषमुपसर्पन्ती शीघ्रप्रवृत्तिरिति ।
स्मार्तं प्रायश्चित्तादर्शनं तु यत्नगौरवार्थम् ।
एतदुक्तं भवतिकृतनिर्णेजनैरपि एतैर्न सङ्ख्यानं कर्तव्यमिति ।
सूत्रार्थस्तुउपपूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न महापातकमपिरेवकारार्थे अत एके प्रायश्चित्तभावमिच्छन्तीति ।
आचार्याणां विप्रतिपत्तौ विशेषाभावात्साम्यं भवेत् ।
शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्रमूलत्वात् ।
उपपादितं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति ।
सुगममितरम् ॥४२॥
३,४.१२.४३
बहिस्तूभयथापि स्मृतेराचाराच्च । ब्रह्मसूत्र ३,४.४३ ।
यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति ।
तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणो वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यतेबहिस्तूभयथापि
स्मृतेराचाराच्च ।
निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वयेऽप्यशुद्धिमापादयति द्वैधं कस्यचिदेनसो लोकद्वयेऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः ।
कस्याचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् ।
यथा स्त्रीबालादिघातिनाम् ।
यथाहुःऽविशुद्धानपि धर्मतो न सम्पिबेत्ऽइति ।
तथा चऽप्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्ऽकामतः कृतमपि ।
बालघ्नादिस्तु कृतनिर्णेजनोऽपि वचनादव्यवहार्य इह लोके जायत इति ।
वचनं च बालघ्नांश्चेत्यादि ।
तस्मात्सर्वमवदातम् ॥४३॥
३,४.१३.४४
स्वामिनः फलश्रुतेरित्यात्रेयः । ब्रह्मसूत्र ३,४.४४ ।
प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्त्विक्सम्बन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संशय्यार्त्विज्येऽपि कर्मणि याजमान
एव कामो गुणफलेष्विति निर्णीतमिह त्वेवञ्जातीयकानि चाङ्गसम्बद्धानि उपासनानि किं याजमानन्येवोतार्त्विज्यानीति विचार्यत इति न
पुनरुक्तम् ।
तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमानस्य च कर्मजनितफलोपभोगभाजोऽधिकारादृत्विजां च तदनुपपत्तेर्वचनाच्च
राजाज्ञास्थानीयात्क्वचिदृत्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदाञ्चकारेत्यादेरुपासनस्य
च सिद्धविषयतयान्यायापवादसामर्थ्यभावाद्याजमानमेवोपासनाकर्मेति प्राप्त उच्यते ॥४४॥
३,४.१३.४५
आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते । ब्रह्मसूत्र ३,४.४५ ।
उपाख्यानात्तावदुपासनमौद्गात्रमवगम्यते ।
तद्बलवति सति बाधकेऽन्यथोपपादनीयम् ।
न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासम्भविनी तेन हि स परिक्रीतस्तद्गामिनो फलाय घटते ।
तस्मान्न व्यसनितामात्रेणोपाख्यानमन्यथयितुं युक्तमिति राद्धान्तः ॥४५॥
३,४.१३.४६
श्रुतेश्च । ब्रह्मसूत्र ३,४.४६ ।
॥ ४६ ॥
३,४.१४.४७
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ब्रह्मसूत्र ३,४.४७ ।
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन ।
लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति ।
यत्र हि विधिविभक्तिः श्रूयते स विधेयः ।
बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने ।
तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि ।
न चापूर्वत्वाद्विधेयं, तस्माद्ब्राह्णः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति ।
अथवा भिक्षुवचनोऽयं मुनिशब्दस्तत्र दर्शनात्ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽइत्यत्र ।
तस्यान्यतो विहितस्यायमनुवादः ।
तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् ।
भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् ।
अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसम्पत्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः ।
आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसन्निधानात् ।
तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।
एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याहनिर्वेदनीयत्वनिर्देशादिति ।
कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आहतद्वतो विद्यावतः सन्न्यासिनोभिक्षोः ।
पृच्छतिकथमिति ।
विद्यावत्ता प्रतीयते न सन्न्यासितेत्यर्थः ।
उत्तरन्तदधिकारात्भिक्षोस्तदधिकारात् ।
तद्दर्शयतिआत्मानं विदित्वेति ।
सूत्रावयवं योजयितुं शङ्कतेनन्विति ।
परिहरतिअत आहपक्षेणेति ।
विद्यावानिति न विद्यातिशयो विवक्षितः ।
अपि तु विद्योदयायाभ्यासो प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः ।
तथाचास्य पक्षे कदाचिद्भेददर्शनात्सम्भव इत्यर्थः ।
विध्यादिर्विधिमुख्यः प्रधानमिति यावत् ।
अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति ।
तत्राश्रूयमाणविधित्वेऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः ॥४७॥
३,४.१४.४८
ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयतिएवं बाल्यादिविशिष्टेति ।
उत्तरं पठति
कृत्स्नभावात्तु गृहिणोपसंहारः । ब्रह्मसूत्र ३,४.४८ ।
छान्दोग्ये बहुलायाससाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन
समापनादित्यर्थः ॥४८॥
३,४.१४.४९
एवं तदाश्रमद्वयोपन्यासेन क्वचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम्
मौनवदितरेषामप्युपदेशात् । ब्रह्मसूत्र ३,४.४९ ।
वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्माचारिणोऽपीति वृत्तिभेदोऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वेऽपि बहुवचनमविरुद्धम् ॥४९॥
३,४.१५.५०
अनाविष्कुर्वन्नन्वयात् । ब्रह्मसूत्र ३,४.५० ।
बाल्येनेति यावद्बालचरितश्रुतेः कामचारवादभक्षतायाशचात्यन्तबाल्येन प्रसिद्धेः शौचादिनियमविधायिनश्च सामान्यशास्त्रस्यानेन विशेषशास्त्रेण
बाधनात्सकलबालचरितविधानमिति प्राप्तेऽभिधीयतेविद्याङ्गत्वेन बाल्यविधानात्समस्तबालचर्यायां च
प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रौढेन्द्रियत्वादि भावशुद्धिरूपं तदेव विधीयते ।
एवं च शास्त्रान्तराबाधेनाप्युपपत्तौ न शास्त्रान्तरबाधनमन्याय्यं भविष्यतीति ॥५०॥
३,४.१६.५१
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ब्रह्मसूत्र ३,४.५१ ।
सङ्गतिमाहसर्वापेक्षा चेति ।
किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति ।
यद्यपि कर्माणि यज्ञादीन्यनियतफलानि तेषां च विद्योत्पादसाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति ।
तथाच गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात्ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽइति च स्मरणादामुष्मिकत्वमप्यवगम्यते ।
तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्छ्रवणादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् ।
यज्ञादीनां सत्त्वशुद्ध्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्रमाणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वाम् ।
श्रवणादीनां त्वनपेक्षाणामेव विद्योत्पादकत्वम् ।
नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् ।
नहि कुम्भलादिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय ।
तस्मादैहिक एव विद्योत्पादो नानियतकालः ।
श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रूतः ।
इत्थम्भूतानि नाम श्रवणादीन्यावश्यकफलानि यत्कालान्तरेऽपि विद्यामुत्पादयन्तीति ।
एवं प्राप्त उच्यतेयत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्वशुद्धिद्वारेण वा विघ्नोपशमद्वारा वोपयोगोऽत एव तेषां यज्ञादीनां
कर्मान्तरप्रतिबन्धाप्रतिबन्धाभ्यामनियतफलत्वेन तदपेक्षाणां श्रवणादीनामप्यनियतफलत्वं न्याय्यमनपहतविघ्नानां
श्रवणादीनामनुत्पादकत्वादविशुद्धसत्त्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् ।
तथाच तेषां यज्ञाद्यपेक्षाणां तेषां चानियतफलत्वेन श्रवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुतिस्मृतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो
भविष्यति ।
पुरुषाश्च विद्यार्थिनः साधनसामर्थ्यानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तमभिसन्धेर्निरङ्कुशत्वादिति ॥५१॥
३,४.१७.५२
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः । ब्रह्मसूत्र ३,४.५२ ।
यज्ञाद्युपकृतविद्यासाधनश्रवणादिवीर्यविशेषात्किल तत्फले विद्यायामैहिकामुष्मिकत्वलक्षण उत्कर्षो दर्शितः ।
तथा च यथा साधनोत्कर्षनिकर्षाभ्यां तत्फलस्य विद्याया उत्कर्षनिकर्षावेवं विद्याफलस्यापि मुक्तेरुत्कर्षनिकर्षौ सम्भाव्येते ।
नच मुक्तावैहिकामुष्मिकत्वलक्षणो विशेष उपपद्यते ब्रह्मोपासनापरिपाकलब्धजन्मनि विद्यायां जीवतो
मुक्तेरवश्यम्भावनियमात्सत्यप्यारब्धविपाककर्माप्रक्षये ।
तस्मान्मुक्तावेव रूपतो निकर्षोत्कर्षौ स्याताम् ।
अपिच सगुणानां विद्यानामुत्कर्षनिकर्षाभ्यां तत्फलानामुत्कर्षनिकर्षौ दृष्टाविति मुक्तेरपि विद्याफलत्वाद्रूपतश्चोत्कर्षनिकर्षौ स्यातामिति
प्रापत उच्यतेन मुक्तेस्तत्र तत्रैकरूप्यश्रुतेरुपपत्तेश्च ।
साध्यं हि साधनविशेशषाद्विशेषवद्भवति ।
नच मुक्तिर्ब्रह्मणो नित्यस्वरूपावस्थानलक्षणा नित्या सती साध्या भवितुमर्हति ।
नच सवासननिःशेषक्लेशकर्माशयप्रक्षयो विद्याजन्म {टिप्पणी १ इरोधिकार्योदय एव पूर्वप्रध्वसमिति मतमाश्रित्य क्लेशादिक्षयो विद्याजन्मेति
सामानाधिकरण्यम् ।}
विशेषवान्, येन तद्विशेषान्मोक्षो विशेषवान्भवेत् ।
नच सावशेषः क्लेशादिप्रक्षयो मोक्षाय कल्पते ।
नच चिराचिरोत्पादानुत्पादावन्तरेण विद्यायामपि रूपतो भेदः कश्चिदुपलक्ष्यते तस्या अप्येकरूपत्वेन श्रुतेः ।
सगुणायास्तु विद्यायास्तत्तद्गुणावापोद्धामाभ्यां तत्कार्यस्य फलस्योत्कर्षनिकर्षौ युज्येते ।
न चात्र विद्यात्वं सामान्यतो दृष्टं भवति ।
आगमतत्प्रभवयुक्तिबाधितत्वेन कालात्ययापदिष्टत्वात् ।
तस्मात्तस्या मुक्त्यवस्थाया ऐकरूप्यावधृतेर्मुक्तिलक्षणस्य फलस्याविशेषो युक्त इति ॥५२॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य चतुर्थः पादः ॥
॥ इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गसाधनविचाराख्यश्चतुर्थः पादः ॥
अथ चतुर्थोऽध्यायः
नाभ्यर्थ्या इह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः ।
मत्सरपित्तनिबन्धनमचिकित्स्यमरोचकं येषाम् ॥१॥
शङ्के सम्प्रति निर्विशङ्कमधुना स्वराज्यसौख्यं वहन्नेन्द्रः सान्द्रतपःस्थितेषु कथमप्युद्वेगमभ्येष्यति ।
यद्वाचस्पतिमिश्रनिर्मितमितव्याख्यानमात्रस्फुटद्वेदान्तार्थविवेकवञ्चिदभवाः स्वर्गेऽप्यमी निःस्पृहाः ॥२॥