३,२.१.१
सन्ध्ये सृष्टिराह हि । ब्रह्मसूत्र ३,२.१ ।
इदानीं तु तस्यैव जीवस्यावस्थाभेदः स्वयञ्ज्योतिष्ट्वसिद्ध्यर्थ प्रपञ्चयतेकिं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
यद्यपि ब्रह्मणोऽन्यस्यानिर्वाच्यतया जाग्रत्स्वप्नावस्थागतयोरुभयोरपि सर्गयोर्मायमयत्वं तथापि यथा
जाग्रत्सृष्टिर्ब्रह्मात्मभावसाक्षात्कारात्प्रागनुवर्तते ।
ब्रह्मात्मभावसाक्षात्कारात्तु निवर्तते ।
एवं किं स्वप्नसृष्टिराहोस्वित्प्रतिदिनमेव निवर्तत इति विमर्शार्थः ॥
द्वयोः इहलोकपरलोकस्थानयोः ।
सन्धौ भवं सन्ध्यम् ।
ऐहलौकिकचक्षुराद्यव्यापाराद्रूपादिसाक्षात्कारोपजननादनैहलौकिकं पारलौकिकेन्द्रियादिव्यापारस्य च भविष्यतोऽप्रत्युत्पन्नत्वेन न
पारलौकिकम् ।
नच न रूपादिसाक्षात्कारोऽस्ति स्वप्नदृशः ।
तस्मादुभयोर्लोकयोरस्यान्तरालत्वमिति ब्रह्मात्मभावसाक्षात्कारात्प्राक्तथ्यरूपैव सृष्टिर्भवितुमर्हति ।
अयमभिसन्धिःिह हि सर्वाण्येव मिथ्याज्ञानान्युदाहरणं तेषां सत्यत्वं प्रतिज्ञायते ।
प्रकृतोपयोगितया तु स्वप्नज्ञानमुदाहृतम् ।
ज्ञानं यमर्थमवबोधयति स तथैवेति युक्तम् ।
तथाभावस्य ज्ञानारोहात् ।
अतथात्वस्य त्वप्रतीयमानस्य तथाभावप्रमेयविरोधेन कल्पनास्पदत्वात्बाधकप्रत्ययादतथात्वमिति चेत् ।
न ।
तस्य बाधकत्वासिद्धेः ।
समानगोचरे हि विरुद्धार्थोपसंहारिणी ज्ञाने विरुध्यते ।
बलवदबलवत्त्वानिश्चयाच्च बाध्यबाधकभावं प्रतिपद्येते ।
न चेह समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः ।
यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं कालान्तरे शुक्तिर्भवेत् ।
नानारूपं वा तद्वस्तु ।
यद्यस्य तीव्रातपक्लान्तिसहितं चक्षुः स तस्य रजतरूपतां गृह्णाति ।
यस्य तु केवलमालोकमात्रोपकृतं, स तस्यैव शुक्तिरूपतां गृह्णाति ।
एवमुत्पलमपि नीललोहितं दिवा सौरीभिर्भाभिरभिव्यक्तं नीलतया गृह्यते ।
प्रदीपाभिव्यक्तं तु नक्तं लोहिततया ।
एवमसत्यां निद्रायां सतोऽपि रथादीन्न गृह्णाति निद्राणस्तु गृह्णातीति सामग्रीभेदाद्वा कालभेदाद्वा विरोधाभावः ।
नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिर्णयः ।
द्वयोरपि स्वगोचरचारितया समानत्वेन विनिगमनाहेतोरभावात् ।
तस्मादप्यवश्यमविरोधो व्यवस्थापनीयः ।
तत्सिद्धमेतत् ।
विवादास्पदं प्रत्ययाः, सम्यञ्चः, प्रत्ययत्वात्, जाग्रत्स्तम्भादिप्रत्ययवदिति ।
इममर्थं श्रुतिरपि दर्शयतिऽअथ रथान् रथयोगान् पथः सृजतेऽइति ।
नचऽन तत्र रथा न रथयोगा न पन्थानो भवन्तिऽइति विरोधादुपचरितार्थां सृजत इति श्रुतिर्व्याख्येया ।
सृजत इति हि श्रुतेर्बहुश्रुतिसंवादात्प्रमाणान्तरसंवादाच्च बलीयस्त्वेन तदनुगुणतया न तत्र रथा इत्यस्या भाक्तत्वेन व्याख्यानात् ।
जाग्रदवस्थादर्शनयोग्या न सन्ति न तु रथा न सन्तीति ।
अत एव कर्तृश्रुतिः शाखान्तरश्रुतिरुदाहृता ।
प्राज्ञकर्तृकत्वाच्चास्य पारमार्थिकत्वं वियदादिसर्गवत् ।
नच जीवकर्तृकत्वान्न प्राज्ञकर्तृकत्वमिति साम्प्रतम् ।
ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽइति प्राज्ञस्यैव प्रकृतत्वात् ।
जीवकर्तृकत्वेऽपि च प्राज्ञदभेदेन जीवस्य प्राज्ञत्वात् ।
अपिच जाग्रत्प्रत्ययसंवादवन्तोऽपि स्वप्नप्रत्ययाः केचिद्दृश्यन्ते ।
तद्यथा स्वप्ने शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणायनः प्रियव्रतं प्रत्याहप्रियव्रत, पञ्चमेऽहनि प्रातरेवोर्वराप्रायभूमिदानेन नरपतिस्त्वां
मानयिष्यतीति ।
स च जाग्रत्तथात्मनो मानमनुभूय स्वप्नप्रत्ययं सत्यमभिमन्यते ।
तस्मात्सन्ध्ये पारमार्थिकी सृष्टिः ॥१॥
३,२.१.२
निर्मातारं चैके पुत्रादयश्च । ब्रह्मसूत्र ३,२.२ ।
॥ २ ॥
३,२.१.३
इति प्राप्ते उच्यते
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ब्रह्मसूत्र ३,२.३ ।
इदमत्राकूतम् ।
न तावत्क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः सम्भवति ।
नहि जात्वीश्वरगृहे चिरस्थितान्यपि रजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते ।
न चेतरस्य रजतानुभवसमयेऽन्योऽनाकुलेन्द्रियो न तस्य शुक्तिभावमनुभवति प्रत्येति च ।
न चोभयरूपं वस्तु ।
सामग्रीभेदात्तु कदाचिदस्य तोयभावोऽनुभूयते कदाचिन्मरीचितेति साम्प्रतम् ।
पारमार्थिके ह्यास्य तोयभावे तत्साध्यामुदान्योपशमलक्षणार्थक्रियां कुर्यान्मरीचिसाध्यामपि रूपप्रकाशलक्षणाम् ।
न मरीचिभिः कस्यचित्तृष्णज उदन्योपशाम्यति ।
नच तोयमेव द्विविधमुदन्योपशमनमतदुपशमनमिति युक्तम् ।
तदर्थक्रियाकारित्वव्याप्तं तोयत्वं मात्रयापि तामकुर्वत्तोयमेव न स्यात् ।
अपिच तोयप्रत्ययसमीचीनत्वायास्य द्वैविध्यमभ्युपेयते तच्चाभ्युपगमेऽपि न सेद्धुमर्हति ।
तथाहिअसमर्थविधापाति तोयमेतदिति मन्वानो न तृष्णयापि मरीचितोयमभिधावेत्यथा मरीचीननुभवन् ।
अथाशक्तमभिमन्यमानोऽभिधावति ।
किमपराद्धं मरीचिषु तोयविपर्यासेन सर्वजनीनेन यत्तमतिलङ्घ्य विपर्यासान्तरं कल्प्यते ।
नच क्षीरदधिप्रत्ययवदाचार्यमातुलब्राह्मणप्रत्ययवद्वा तोयमरीचिविज्ञाने समुच्चितावगाहिनी
स्वानुभवात्परस्परविरुद्धयोर्बाध्यबाधकभावावभासनात् ।
तत्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं शुक्तिज्ञानं प्राप्तिपूर्वकत्वात्प्रतिषेधस्य ।
रजतज्ञानात्प्राक्प्रापकाभावेन शुक्तेरप्राप्तायाः प्रतिषेधसम्भवात्पूर्वज्ञानप्राप्तं तु रजतं शुक्तिज्ञानमपबाधितुमर्हति ।
तदपबाधात्मकं च स्वानुभवादवसीयते ।
यथाहुःऽआगामित्वादबाधित्वा परं पूर्वं हि जायते ।
पूर्वं पुनरबाधित्वा परं नोत्पद्यते क्वचित्ऽ ।
नच वर्तमानरजतावभासि ज्ञानं भविष्यत्तामस्यागोचरयन्न भविष्यता स्वसमयवर्तिनीं शुक्तिं गोचरयता प्रत्ययेन बाध्यते, कालभेदेन
विरोधाभावादिति युक्तम् ।
मा नामास्य ज्ञासीत्प्रत्यक्षं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमुपकारभावहेतुमिवासति विनाशप्रत्ययोपनिपाते स्थेमानमाकलयति ।
असति विनाशप्रत्ययोपनिपाते रजतमिदं स्थिरं रजतत्वादनुभूतप्रत्यभिज्ञातरजतवत् ।
तथाच रजतगोचरं प्रत्यक्षं वस्तुतः स्थिरमेव रजतं गोचरयेत् ।
तथाच भविष्यच्छुक्तिकाज्ञानकालं, रजतं व्याप्नुयादिति विरोधाच्छुक्तिज्ञानेन बाध्यते ।
यथाहुःऽरजतं गृह्यमाणं हि चिरस्थायीति गृह्यते ।
भविष्यच्छुक्तिकाज्ञानकालं व्याप्नोति तेन तत्ऽ ॥
इति ।
प्रत्यक्षेण चिरस्थायीति गृह्यत इति केचिद्व्याचक्षते ।
तदयुक्तम् ।
यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्तेरतीन्द्रियत्वात् ।
अथ कालान्तरव्यापित्वं, तदप्ययुक्तं, कालान्तरेण भविष्यतेन्द्रियस्य संयोगायोगात्तदुपहितसीम्नो व्यापित्वस्यातीन्द्रियत्वात् ।
नच प्रत्यभिज्ञाप्रत्ययवदत्रास्ति संस्कारः सहकारी येनावर्तमानमप्याकलयेत् ।
तस्मादत्यन्ताभ्यासवशेन प्रत्यक्षानन्तरं शीघ्रतरोत्पन्नविनश्यदवस्थानुमानसहितप्रत्यक्षाभिप्रायमेव चिरस्थायीति गृह्यत इति मन्तव्यम् ।
अत एवैतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगताः प्राहुः, द्विविधो हि विषयः प्रत्यक्षस्य ग्राह्यश्चाध्यवसेयश्च ।
ग्राह्यक्षण एकः स्वलक्षणोऽध्यवसेयश्च ।
सन्तान इति ।
एतेन स्वप्नप्रत्ययो मिथ्यात्वेन व्याख्यातः ।
यत्तु सत्यं स्वप्नदर्शनमुक्तं तत्राप्याख्यात्रा ब्राह्मणायनेनाख्याते संवादाभावात् ।
प्रियव्रतस्याख्यातसंवादस्तु काकतालीयो न स्वप्नज्ञानं प्रमाणयितुमर्हति ।
तादृशस्यैव बहुलं विसंवाददर्शनात् ।
दर्शितश्च विसंवादो भाष्यकृता कार्त्स्न्येनानभिव्यक्तिं विवृण्वता ।
रजन्यां सुप्त इति ।
रजनीसमयेऽपि हि भारताद्वर्षान्तरे केतुमालादौ वासरो भवतीति भारते वर्ष इत्युक्तम् ॥३॥
३,२.१.४
सूचकश्च हि श्रुतेराचक्षते च तद्विदः । ब्रह्मसूत्र ३,२.४ ।
दर्शनं सूचकं तच्च स्वरूपेण सत् ।
असत्तु दृश्यम् ।
अत एव स्त्रीदर्शनस्वरूपसाध्याश्चरमधातुविसर्गादयो जाग्रदवस्थायामनुवर्तन्ते ।
स्त्रीसाध्यास्तु माल्यविलेपनदन्तक्षतादयो नानुवर्तन्ते ।
न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापार इति ।
प्राज्ञव्यापारत्वेन पारमार्थिकत्वानुमानं प्रत्यक्षेण बाधकप्रत्ययेन विरुध्यमानं नात्मानं लभत इति भावः ।
बन्धमोक्षयोरान्तरालिकं तृतीयमैश्वर्यमिति ॥४॥
३,२.१.५
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ब्रह्मसूत्र ३,२.५ ।
देहयोगाद्वा सोऽपिइति सूत्रद्वयं कृतोपपादनमस्माभिः प्रथमसूत्रे ।
निगदव्याख्यातं चैतयोर्भाष्यमिति ॥५॥
३,२.१.६
देहयोगाद्वा सोऽपि । ब्रह्मसूत्र ३,२.६ ।
॥ ६ ॥
३,२.२.७
तदभावो नाडीषु तच्छ्रुतेरात्मनि च । ब्रह्मसूत्र ३,२.७ ।
इह हि नाडीपुरितत्परमात्मानो जीवस्य सुषुप्तावस्थायां स्थानत्वेन श्रूयन्ते ।
तत्र किमेषां स्थानानां विकल्प आहोस्वित्समुच्चयः ।
किमतो यद्येवम् ।
एतदतो भवति ।
यदा नाड्यो वा पुरीतद्वा सुषुप्तस्थानं तदा विपरीतग्रहणनिवृत्तावपि न जीवस्य परमात्मभाव इति ।
अविद्यानिवृत्तावपि जीवस्य परमात्मभावाय कारणान्तरमपेक्षितव्यं तच्च कर्मैव न तु तत्तज्ञानं विपरीतज्ञाननिवृत्तिमात्रेण तस्योपयोगात्,
विपरीतज्ञाननिवृत्तेश्च विनापि तत्त्वज्ञानं सुषुप्तावपि सम्भवात् ।
ततश्च कर्मणैवापवर्गो न ज्ञानेन ।
यथाहुःऽकर्मणैव तु संसिद्धिमास्थिता जनकादयःऽइति ।
अत तु परमात्मैव नाडीपुरीतस्मृतिद्वारा सुषुप्तिस्थानं ततो विपरीतज्ञाननिवृत्तेरस्ति मात्रया परमात्मभाव उपयोगः ।
तया हि तावदेष जीवस्तदवस्थानो भवति केवलम् ।
तत्त्वज्ञानाभावेन समूलकाषमविद्याया अकाषाज्जाग्रत्स्वप्नलक्षणं जीवस्य व्युत्थानं भवति ।
तस्मात्प्रयोजनवत्येषा विचारणेति ।
किं तावप्राप्तं, नाडीपुरीतत्परमात्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयं प्रति विकल्पः ।
यथा बहुषु प्रासादेष्वेको नरेन्द्रः कदाचित्क्वचिन्निलीयते कदाचित्क्वचिदेवमेको जीवः कदाचिन्नाडीषु कदाचित्पुरीतति कदाचिद्ब्रह्मणीति ।
यथा निरपेक्षा व्रीहियवाः क्रतुसाधनीभूतपुरोडाशप्रकृतितया श्रुता एकार्था विकल्प्यन्ते, एवं सप्तमीश्रुत्या वायतनश्रुत्या वेकनिलयनार्थाः
परस्परानपेक्षा नाड्यदयोऽपि विकल्पमर्हन्ति ।
यत्रापि नाडीभिः प्रत्यवसृप्य पुरीतति शेत इति नाडीपुरीततोः समुच्चयश्रवणम्ऽतथा तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति ।
अथास्मिन् प्राण एवैकधा भवतिऽइति नाडीब्रह्मणोराधारयोः समुच्चयश्रवणम् ।
प्राणशब्दं च ब्रह्मऽअथास्मिन् प्राणे ब्रह्मणि स जीव एकधा भवतिऽन्निरपेक्षयोरवेधारत्वम् ।
इयांस्तु विशेषः ।
कदाचिन्नाड्य एवाधारः कदाचिन्नाडीभिः सञ्चरमाणस्य पुरीतदेव ।
एवं ताभिरेव सञ्चरमाणस्य कदाचिद्ब्रह्मैवाधार इति सिद्धमाधारत्वे नाडीपुरीतत्परमात्मनामनपेक्षत्वम् ।
तथाच विकल्पो व्रीहियववद्बृहद्रथन्तरवद्वेति प्राप्तम् ।
प्राप्तेऽभिधीयतेजीवः समुच्चयेनैवैतानि नाड्यादीनि स्वापायोपैति न विकल्पेन ।
अयमभिसन्धिःनित्यवदाम्नातानां यत्पाक्षिकत्वं नाम तद्गत्यन्तराभावे कल्प्यते ।
यथाहुःऽएवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः ।
विकल्प आश्रितस्तत्र गतिरन्या न विद्यतेऽइति ।
प्रकृतक्रतुसाधनीभूतपुरोडाशद्रव्यप्रकृतितया हि परस्परानपेक्षौ व्रीहियवौ विहितौशक्रुतश्चैतौ प्रत्येकं पुरोडाशमभिनिर्वर्तयितुम् ।
तत्र यदि मिश्राभ्यां पुरोडाशोऽभिनिर्वर्त्येत परस्परानपेक्षव्रीहियवविधातृणी उभे अपि शास्त्रे बाध्येयाताम् ।
न चैतौ प्रयोगवचनः समुच्चतुमर्हति ।
स हि यथा विहितान्यङ्गान्यभिसमीक्ष्य प्रवर्तमानो नैतान्यन्यथयितं शक्नोति ।
मिश्रणे चान्यथात्वमेतेषाम् ।
न चाङ्गानुरोधेन प्रधानाभ्यासोऽगोसवे उभे कुर्यात्ऽइतिवद्युक्तः ।
अश्रुतो ह्यत्र प्रधानाभ्यासोऽङ्गानुरोधेन च सोऽन्याय्यः ।
न चाङ्गभूतैन्द्रवायवादिग्रहानुरोधेन यथा प्रधानस्य सोमयागस्यावृत्तिरेवमत्रापीति युक्तम् ।
ऽसोमेनयजेतऽइति हि तत्रापूर्वयागविधिः ।
तत्र च दशमुष्टिपरिमितस्य सोमद्रव्यस्यऽसोममभिषुणोतिऽ,ऽसोममभिप्लावयतिऽइति च वाक्यान्तरानुलोचनया रसद्वारेण
यागसाधनीभूतस्येन्द्रवाय्वाद्युद्देशेन प्रादेशमात्रेषूर्ध्वपात्रेषु ग्रहणानि पृथक्प्रकल्पनानि संस्कारा विधीयन्ते, नतु सोमयागोद्देशेनेन्द्रवाय्वादयो
देवताश्चोद्यन्ते, येन तासां यागनिष्पत्तिलक्षणैकार्थत्वेन विकल्पः स्यात् ।
नच प्रादेशमात्रमेकैकमूर्ध्वपात्रं दशमुष्टिपरिमितसोमरसग्रहणाय कल्पते, येन तुल्यार्थतया ग्रहणानि विकल्पेरन् ।
नच यावन्मात्रमेकमूर्ध्वपात्रं व्याप्नोति तावन्मात्रं गृहीत्वा परिशिष्टं त्यज्येतेति युज्यते ।
दशमुष्टिपरिमितोपादानस्यादृष्टार्थत्वप्रसङ्गात् ।
एवं तद्दृष्टार्थं भवेद्यदि तत्सर्वं याग उपयुज्येत ।
नच दृष्टे सम्भवत्यदृष्टकल्पना न्याय्या ।
तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्कारार्हत्वादेकैकेन च ग्रहणेन सकलस्य संस्कर्तुमशक्यत्वात्तदवयवस्यैकेन संस्कारेऽवयवान्तरस्य
ग्रहणान्तरेण संस्कार इति कार्यभेदाद्ग्रहणानि समुच्चीयेरन् ।
अत एव समुच्चयदर्शनंऽदशौतानध्वर्युः प्रातः सवने ग्रहन् गृह्णातिऽइति ।
समुच्चये च सति क्रमोऽप्युपपद्यते ।
ऽआश्विनो दशमो गृह्यते तृतीयो हूयतेऽ ।
तथैवऽऐन्द्रवायवाग्रान्ग्रहान्गृह्णातिऽइति ।
तेषां च समुच्चये सति यावद्यदुद्देशेन गृहीतं तावत्तस्यै देवतायै त्यक्तव्यमित्यर्थाद्यागस्यावृत्त्या भवितव्यम् ।
यदि पुनः पृथक्कृतान्यप्येकीकृत्य काञ्चन देवतामुद्दिश्य त्यजेरन्, पृथक्करणानि च देवतोद्देशाश्चादृष्टार्था भवेयुः ।
नच दृष्टे सम्भवत्यदृष्टकल्पना न्याय्येत्युक्तम् ।
तस्मात्तत्र समुच्चयस्यावश्यम्भावित्याद्गुणानुरोधेनापि प्रधानाभ्यास आस्थीयते ।
इह त्वभ्यासकल्पनाप्रमाणाभावात्पुरोडाशद्रव्यस्य चानियमेन प्रकृतिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते एकैका परस्परानपेक्षा व्रीहिश्रुतिर्यवश्रुतिश्च
नियामिकैकार्ततया विकल्पमर्हतः ।
न तु नाडीपुरीतत्परमात्मनामन्योन्यानपेक्षणामेकनिलयनार्थसम्भवो येन विकल्पो भवेत् ।
नह्येकविभक्तिनिर्देशमात्रेणैकार्थता भवति समुच्चितानामप्येकविभक्तिनिर्देशदर्शनात् ।
पर्यङ्के शेते प्रसादे शेत इति ।
तस्मादेकविभक्तिनिर्देशस्यानैकान्तिकत्वादन्यतो विनिगमना वक्तव्या ।
सा चोक्ता भाष्यकृतायत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयतीत्यादिना ।
सापेक्षश्रुत्यनुरोधेन निरपेक्षश्रुतिर्नेतव्येत्यर्थः ।
शेषमतिरोहितार्थम् ।
ननु यदि ब्रह्मैव निलयनस्थानं तावन्मात्रमुच्यतां कृतं नाड्युपन्यासेनेत्यत आहअपिचात्रेति ।
अपिचेति ।
समुच्चये न विकल्पे ।
एतदुपपत्तिसहिता पूर्वोपपत्तिरर्थसाधिनीति ।
मार्गोपदेशोपयुक्तानां नाडीनां स्तुत्यर्थमत्र नाडीसङ्कीर्तनमित्यर्थः ।
पित्तेनाभिव्याप्तकरणो न बाह्यान्विषयान्वेदेति तद्द्वारा सुखदुःखाभावेन तत्कारणपाप्मास्पर्शेन नाडीस्तुतिः ।
यदा तु तेजो ब्रह्म तदा सुगमम् ।
अपिच नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवतीति ।
अयमर्थःभ्युपेत्य जीवस्याधेयत्वमिदमुक्तम् ।
परमार्थतस्तु न जीवस्याधेयत्वमस्ति ।
तथाहिनाड्यः पुरीतद्वा जीवस्योपाधीनां करणानामाश्रयो जीवस्तु ब्राह्माव्यतिरेकात्स्वमहिप्रतिष्ठः ।
न चापि ब्रह्म जीवस्याधारः, तादात्म्यात् ।
विकल्प तु व्यतिरेकं ब्रह्मण आधारत्वमुच्यते जीवं प्रति ।
तथाच सुषुप्तावस्थायामुपाधीनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव ब्रह्माधारत्वं न तु नाडीपुरीताधारत्वम् ।
तदुपाधिकरणमात्राधारतया तु सुषुप्तदशारम्भाय जीवस्य नाडीपुरीतदाधारत्वमित्यतुल्यार्थतया न विकल्प इति ।
अपिच न कदाचिज्जीवस्येति ।
औत्सगिकं ब्रह्मस्वरूपत्वं जीवस्यासति जाग्रत्स्वप्नदशारूपेऽपवादे सुषुप्तवस्थायां नान्यथयितुं शक्यमित्यर्थः ।
अपिच येऽपि स्थानविकल्पमास्थिषचत तैरपि विशेषविज्ञानोपशमलक्षणा सुषुप्त्यवस्थाङ्गीकर्तव्या ।
न चेयमात्मतादात्म्यं विना नाड्यादिषु परमात्मव्यतिरिक्तेषु स्थानेषूपपद्यते ।
तत्र हि स्थितोऽयं जीव आत्मव्यतिरेकाभिमानी सन्नवश्यं विशेषज्ञानवान् भवेत् ।
तथाहि श्रुतिःऽयत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्ऽइति ।
आत्मस्थानत्वे त्वदोषः ।
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्विजानीयात्ऽइति श्रुतेः ।
तस्मादप्यात्मस्थानत्वस्य द्वारं नाड्यादीत्याहअपिच स्थानविकल्पाभ्युपगमेऽपीति ।
अत्र चोदयतिननु भेदविषयस्यापीति ।
भिद्यत इति भेदः ।
भिद्यमानस्यापि विषयस्येत्यर्थः ।
परिहरतिबाढमेवं स्यादिति ।
न तावज्जीवस्यास्ति स्वतःपरिच्छेदस्तस्य ब्रह्मात्मत्वेन विभुत्वात् ।
औपाधिके तु परिच्छेदे यत्रोपाधिसन्निहितस्तन्मात्रं न जानीयान्न तु सर्वम् ।
नह्यसन्निधानात्सुमेरुमविद्वान् देवदत्तः सन्निहितमपि न वेद ।
तस्मात्सर्वविशेषविज्ञानप्रत्यस्तमयीं सुषुप्तिं प्रसादयत तदास्य सर्वोपाध्युपसंहारो वक्तव्यः ।
अथाच सिद्धमस्य तथा ब्रह्मात्मत्वमित्यर्थः ।
गुणप्रधानभावेन समुच्चयो न समप्रधानतयाग्नेयादिवदिति वदन्विकल्पमप्यपाकरोतिनच वयमिहेति ।
स्वाध्यायाध्ययनविध्यापादितपुरुषार्थत्वस्य वेदराशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् ।
नच सुषुप्तावस्थायां जीवस्य स्वरूपेण नाड्यादिस्थानत्वप्रतिपादने किञ्चित्प्रयोजनं ब्रह्मभूयप्रतिपादने त्वस्ति ।
तस्मान्न समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः ।
नीतार्थमन्यत् ॥७॥
३,२.२.८
अतः प्रबोधोऽस्मात् । ब्रह्मसूत्र ३,२.८ ।
॥ ८ ॥
३,२.३.९
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ब्रह्मसूत्र ३,२.९ ।
यद्यपीश्वरादभिन्नो जीवस्तथाप्युपाध्यवच्छेदेन भेदं विवक्षित्वाधिकरणान्तरारम्भः ।
स एवेति दुःसम्पादमिति ।
स वान्यो वेति ईश्वरो वेति सम्भवमात्रेणोपन्यासः ।
नहि तस्य शुद्धमुक्तस्वभावस्याविद्याकृतव्युत्थानसम्भवः ।
अत एव
विमर्शावसरेऽस्यानुपन्यासः ।
यद्धि द्व्यहादिनिर्वर्तनीयमेकस्य पुंसश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्यास्ति स्मृतिरिति वक्तव्येऽनुः प्रत्यभिज्ञानसूचनार्थः ।
अत एव सोऽहमस्मीत्युक्तम् ।
पुनः प्रतिन्यायं प्रतियोन्याद्रवतीति ।
अयनमायः नियमेन गमनं न्यायः ।
जीवः प्रतिन्यायं सम्प्रसादे सुषुप्तावस्थायां वृद्धान्तायाद्रवति आगच्छति प्रतियोनि ।
योहि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र एव भवति न जात्यन्तरम् ।
तदिदमुक्तम्त इह व्याघ्रो वा सिंहो वेति ।
अथ तत्र सुप्त उतिष्ठेदिति ।
यो हि जीवः सुप्तः स शरीरान्तर उत्तिष्ठति शरीरान्तरगतस्तु सुप्तजीवसम्बन्धिनि शरीर उत्तिष्ठति, ततश्च न शरीरान्तरे व्यवहारलोप इत्यर्थः ।
अपिच न जीवो नाम कश्चित्परस्मादन्य इति ।
यथा घटाकाशो नाम न परमाकाशादन्यः ।
अथ चान्य इव यावद्घटमनुवर्तते ।
न चासौ दुर्विवेचस्तदुपाधेर्घटस्य विविक्तत्वात् ।
एवमनाद्यनिर्वचनीयाविद्योपधानभेदोपाधिकल्पितो जीवो न वस्तुतः परमात्मनो भिद्यते तदुपाद्युद्भवाभिभवाभ्यां चोद्भूत इत्यभिभूत इव
प्रतीयते ।
ततश्च सुषुप्तादावपि अभिभूत इव
जाग्रदवस्थादिषूद्भूत इव ।
तस्य चाविद्यातद्वासनोपाधेरनादितया कार्यकारणभावेन प्रवहतः सुविवेचतया तदुपहितो जीवः सुविवेच इति ॥९॥
३,२.४.१०
मुग्धेऽर्धसम्पत्तिः परिशेषात् । ब्रह्मसूत्र ३,२.१० ।
विशेषविज्ञानाभावान्मूर्च्छा जागरस्वप्नावस्थाभ्यां भिद्यते पुनरुत्थानाच्च मरणावस्थायाः ।
अतः सुषुप्तिरेव मूर्च्छा विशेषज्ञानाभावाविशेषात् ।
चिरानुच्छ्वासवेपथुप्रभृतयस्तु सुप्तेरवान्तरप्रभेदाः ।
तद्यथा कश्चित्सुप्तोत्थितः प्राह सुखमहमस्वाप्सं लघूनि मे गात्राणि प्रसन्नं मे मन इति, कश्चित्पुनर्दुःखमस्वाप्सं गुरूणि मे गात्राणि
भ्रमत्यनवस्थितं मे मन इति ।
न चैतावता सुषुप्तिर्भिद्यते ।
तथा विकारान्तरेऽपि मूर्च्छा न सुषुप्तेर्भिद्यते ।
तस्माल्लोकप्रसिद्ध्यभावान्नेयं पञ्चम्यवस्थेति प्राप्तम् ।
एवं प्राप्त उच्यते
यद्यपि विशेषविज्ञानोपशमेन मोहसुषुप्तयोः साम्यं तथापि नैक्यम् ।
नहि विशेषविज्ञानसद्भावसाम्यमात्रेण स्वप्नजागरयोरभेदः ।
बाह्येन्द्रियव्यापारभावाभावाभ्यां तु भेदे तयोः सुषुप्तमोहयोरपि प्रयोजनभेदात्कारणभेदाल्लक्षणभेदाच्च भेदः ।
श्रमापनुत्त्यर्था हि ब्रह्मणा सम्पत्तिः सुषप्तम् ।
शरीरत्यागार्था तु ब्रह्मणा सम्पत्तिर्मोहः ।
यद्यपि सत्यपि मोहे न मरणं तथाप्यसति मोहे न मरणमिति मरणार्थो मोहः ।
मुसलसम्पातादिनिमित्तत्वान्मोहस्य श्रमादिनिमित्तत्वाच्च सुषुप्तस्य मुखनेत्रादिविकारलक्षणत्वान्मोहस्य प्रसन्नवदनत्वादिलक्षणभेदाच्च
सुषुप्तस्यासुषुप्तस्य त्ववान्तरभेदेऽपि निमित्तप्रयोजनलक्षणाभेदादेकत्वम् ।
तस्मात्सुषुप्तमोहावस्थयोर्ब्रह्मणा सम्पत्तावपि सुषुप्ते यादृशी सम्पत्तिर्न तादृशी मोह इत्यर्धसम्पत्तिरुक्ता ।
साम्यवैषम्याभ्यामर्धत्वम् ।
यदा नैतदवस्थान्तरं तदा भेदात्तत्प्रविलयाय यत्नान्तरमास्थेयम् ।
अभेदे तु न यत्नान्तरमिति चिन्ताप्रयोजनम् ॥१०॥
३,२.५.११
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । ब्रह्मसूत्र ३,२.११ ।
अवान्तरसङ्गतिमाहयेन ब्रह्मणा सुषुप्तादिष्विति ।
यद्यपिऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽइत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रपञ्चलिङ्गानां बह्वीनां श्रुतीनां दर्शनाद्भवति
पुनर्विचिकित्सा अतस्तन्निवारणायारम्भः ।
तस्य च तत्त्वज्ञानमपवर्गोपयोगीति प्रयोजनवान् विचारः ।
तत्रोभयलिङ्गश्रवणादुभयरूपत्वं ब्रह्मणः प्राप्तम् ।
तत्रापि सविशेषत्वनिर्विशेषत्वयोर्विरोधात्स्वाभाविकत्वानुपपत्तेरेकं स्वतोऽपरं तु परतः ।
नच यत्परतस्तद्पारमार्थिकम् ।
नहि चक्षुरादीनां स्वतःप्रमाणभूतानां दोषतोऽप्रामाण्यमपारमार्थिकम् ।
विपर्ययज्ञानलक्षणकार्यानुत्पादप्रसङ्गात् ।
तस्मादुभयलिङ्गकशास्त्रप्रामाण्यादुभयरूपता ब्रह्मणः पारमार्थिकीति प्राप्त उच्यतेन स्थानत उपाधितोऽपि परस्य ब्रह्मण
उभयचिह्नत्वसम्भवः ।
एकं हि पारमार्थिकमन्यदध्यारोपितम् ।
पारमार्थिकत्वे ह्युपाधिजनितस्य रूपस्य ब्रह्मणः परिणामो भवेत् ।
स च प्राक्प्रतिषिद्धः ।
तत्पारिशेष्यात्स्फटिकमणेरिव स्वभावस्वच्छधवलस्य लाक्षारसावसेकोपाधिररूणिमा सर्वगन्धत्वादिरौपाधिको ब्रह्मण्यध्यस्त इति पश्यामो
निर्विशेषताप्रतिपादनार्थत्वाच्छ्रुतीनाम् ।
सविशेषतायामपि ऽयश्चायमस्यां पृथिव्यां तेजोमयःऽइत्यादीनां श्रुतीनां
ब्रह्मैकत्वप्रतिपादनपरत्वादेकत्वनानात्वयोश्चैकस्मिन्नसम्भवादेकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात्, नानात्वस्य
प्रमाणान्तरसिद्धतयानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्वोपपत्तेर्भेददर्शननिन्दया च साक्षाद्भूयसीभिः
श्रुतिभिरभेदप्रतिपानादाकारवद्ब्रह्मविषयाणां च कासाञ्चिच्छ्रुतीनामुपासनापरत्वमसति बाधकेऽन्यपराद्वचनात्प्रतीयमानमपि गृह्यते ।
यथा देवतानां विग्रहवत्त्वम् ।
सन्ति चात्र साक्षाद्वैतापवादेनाद्वैतप्रतिपादनपराः शतशः श्रुतयः ।
कासाञ्चिच्च द्वैताभिधायिनीनां तत्प्रविलयपरत्वम् ।
तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद्ब्रह्म परमार्थतः, विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम् ।
शेषमतिरोहितार्थम् ॥११॥
३,२.५.१२
न भेदादिति चेन्न प्रत्येकमतद्वचनात् । ब्रह्मसूत्र ३,२.१२ ।
॥ १२ ॥
३,२.५.१३
अपि चैवमेके । ब्रह्मसूत्र ३,२.१३ ।
॥ १३ ॥
३,२.५.१४
अरूपवदेव हि तत्प्रधानत्वात् । ब्रह्मसूत्र ३,२.१४ ।
॥ १४ ॥
३,२.५.१५
प्रकाशवच्चावैयर्थ्यात् । ब्रह्मसूत्र ३,२.१५ ।
॥ १५ ॥
३,२.५.१६
आह च तन्मात्रम् । ब्रह्मसूत्र ३,२.१६ ।
॥ १६ ॥
३,२.५.१७
दर्शयति चाथो अपि स्मर्यते । ब्रह्मसूत्र ३,२.१७ ।
॥ १७ ॥
३,२.५.१८
अत एव चोपमा सूर्यकादिवत् । ब्रह्मसूत्र ३,२.१८ ।
॥ १८ ॥
३,२.५.१९
अम्बुवदग्रहणात्तु न तथात्वम् । ब्रह्मसूत्र ३,२.१९ ।
॥ १९ ॥
३,२.५.२०
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् । ब्रह्मसूत्र ३,२.२० ।
॥ २० ॥
३,२.५.२१
दर्शनाच्च । ब्रह्मसूत्र ३,२.२१ ।
अत्र केचिद्द्वे अधिकरणे कल्पयन्तीति ।
किं साल्लक्षणं च प्रकाशलक्षणं च ब्रह्म किं सल्लक्षणमेव ब्रह्मोत प्रकाशलक्षणमेवेति तत्र पूर्वपक्षं गृह्णातिप्रकाशवच्चावैयर्थ्यात् ।
चकारात्सच्च ।
अवैयर्थ्यात् ।
ब्रह्मणि सच्छ्रुतेः सिद्धान्तयतिआह च तन्मात्रम् ।
प्रकाशमात्रम् ।
नहि सत्त्वं नाम प्रकाशरूपादन्यत्, यथा सर्वगन्धत्वादयोऽपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं ब्रह्मण इत्यर्थः ।
तदेतदनेनोपन्यस्य दूषितम् ।
सत्ताप्रकाशयोरेकत्वे नोभयलक्षणत्वम् ।
भेदे न स्थानतोऽपीति निराकृतमिति नाधिकरणान्तरं प्रयोजयति ।
परमार्थतस्त्वभेद एव प्रकर्षप्रकाशवदिति ।
सर्वेषां च साधारणे प्रविलयार्थत्वे सतिऽ अरूपवदेव हि तत्प्रधानत्वात्ऽ इति विनिगमनकारणवचनमनवकाशं स्यात् ।
एवं हि तस्यावकाशः स्याद्याद काश्चिदुपासनापरतया रूपमाचक्षीरन् काश्चिन्नीरूपब्रह्मप्रतिपादनपरा भवेयुः ।
सर्वासां तु प्रविलयार्थत्वेन नीरूपब्रह्मप्रतिपादनार्थत्वे उक्तो
विनिगमनहेतुर्न स्यादित्यर्थः ।
एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदित्यधिकाराभिप्रायम्,अनुबन्धभेदात्तु भिन्नोऽनयोरपि नियोग इति ।
कोऽयं प्रपञ्चप्रविलय इति ।
वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् ।
समारोपितस्य वा रज्ज्वां सर्पभावस्येव रज्जुतत्त्वपरिज्ञानात् ।
न तावद्वास्तवः सर्वसाधारणः पृथिव्यादिप्रपञ्चः पुरुषमात्रेण शक्यः समुच्छेत्तुम् ।
अपिच प्रह्लादशुकादिभिः पुरुषधौरेयैः समूलमुन्मूलितः प्रपञ्च इति शून्यं जगद्भवेत् ।
नच वास्तवं तत्त्वज्ञानेन शक्यं समुच्छेत्तुम् ।
आरोपितरूपविरोधित्वातत्त्वज्ञानस्येत्युक्तम् ।
समारोपितरूपस्तु प्रपञ्चो ब्रह्मतत्त्वज्ञापनपरैरेव वाक्यैर्ब्रह्मतत्त्वमवबोधयद्भिः शक्यः समुच्छेत्तुमिति कृतमत्र विधिना ।
नहि विधिशतेनापि विना तत्त्वावबोधनं प्रवर्तस्वात्मज्ञान इति वा कुरु प्रपञ्चप्रविलयं वेति प्रवर्तितः शक्नोति प्रपञ्चप्रविलयं कर्तुम् ।
न चास्यात्मज्ञानविधिं विना वेदान्तार्थब्रह्मतत्त्वावबोधो न भवति ।
मौलिकस्य स्वाध्यायाध्ययनविधेरेव विवक्षितार्थतया सकलस्य वेदराशेः फलवदर्थावबोधनपरतामापादयतो विद्यमानत्वात् ।
अन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेक्षेरन्निति ।
नच चिन्तासाक्षात्कारयोर्विधिरिति तत्त्वसमीक्षायामस्माभिरूपपादितम् ।
विस्तरेण चायमर्थस्तत्रैव प्रपञ्चितः ।
तस्मात्ऽजर्तिलयवाग्वा जुहुयात्ऽइतिवद्विधिसरूपा एतेऽआत्मा वा अरे द्रष्टव्यऽइत्यादयो न तु विधय इति ।
तदिदमुक्तम्द्रष्टव्यादिशब्दा अपि तत्त्वाभिमुधीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना इति ।
अपिच ब्रह्मतत्त्वं निष्प्रपञ्चमुक्तं न तत्र नियोज्यः कश्चित्सम्भवति ।
जीवो हि नियोज्यो भवेत्, स चेत्प्रपञ्चपक्षे वर्तते को नियोज्यस्तस्योच्छिन्नत्वात् ।
अथ ब्रह्मपक्षे तथाप्यनियोज्यः, ब्रह्मणोऽनियोज्यत्वात् ।
अथ ब्रह्मणोऽनन्योऽप्यविद्ययान्य इवेति नियोज्यः ।
तदयुक्तम् ।
ब्रह्मभावं पारमार्थिकमवगमयतागमेनाविद्याया निरस्तत्वात् ।
तस्मान्नियोज्याभावादपि न नियोगः ।
तदिदमुक्तम्जीवो नाम प्रपञ्चपक्षस्यैवेति ।
अपिच ज्ञानविधिपरत्वे तन्मात्रात्तु ज्ञानस्यानुत्पत्तेस्तत्त्वप्रतिपादनपरत्वमभ्युपगमनीयम् ।
तत्र वरं तत्त्वप्रतिपादनपरत्वमेवास्तु तस्यावश्याभ्युपगन्तव्यत्वेनोभयवादिसिद्धत्वात् ।
एवं च कृतं तत्त्वज्ञानविधिनेत्याहज्ञेयाभिमुखस्यापीति ।
नच ज्ञानादाने प्रमाणानपेक्षस्यास्ति कश्चिदुपयोगो विधेः ।
एवं हि तदुभयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादधीत ।
नच तच्छक्यं वापि युक्तमित्याहनच
प्रमाणान्तरेणेति ।
किञ्चान्यन्नियोगनिष्ठतयैव च पर्यवस्यत्याम्नाये यदभ्युपगतम्भवद्भिः शास्त्रपर्यालोचनयानियोज्यब्रह्मात्मत्वं जीवस्येति
तदेतच्छास्त्राविरोधादप्रमाणकम् ।
अथैतच्छास्त्रमनियोज्यब्रह्मात्मत्वं च जीवस्य प्रतिपादयति जीवं च नियुक्तं ततो द्व्यर्थं च विरुद्धार्थं च स्यादित्याहअथेति ।
दर्शपौर्णमासादिवाक्येषु जीवस्यानियोज्यस्यापि वस्तुतोऽध्यस्तनियोज्यभावस्य नियोज्यता युक्ता ।
नहि तद्वाक्यं तस्य नियोज्यतामाहापि तु लौकिकप्रमाणसिद्धां नियोज्यतामाश्रित्य दर्शपूर्णमासौ विधत्ते ।
इदं तु नियोज्यतामपनयति च नियुङ्क्ते चेति दुर्घटमिति भावः ।
नियोगपरतायां चेति ।
पौर्वापर्यालोचनया वेदान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियोगनिष्ठतेत्यर्थः ।
अपिच
नियोगनिष्ठत्वे वाक्यस्य दर्शपौर्णामासकर्मण इवापूर्वावान्तरव्यापारादात्मज्ञानकर्मणोऽप्यपूर्वावान्तरव्यापारादेव
स्वर्गादिफलवन्मोक्षस्यानन्दरूपफलस्य सिद्धिः ।
तथा चानित्यत्वं सातिशयत्वं
स्वर्गवद्भवेदित्याहकर्मफलवदिति ।
अपिच ब्रह्मवाक्येष्विति ।
सप्रपञ्चनिष्प्रपञ्चोपदेशेषु हि साध्यानुबन्धभेदादेकनियोगत्वमसिद्धम् ।
दर्शपौर्णमासप्रयाजवाक्येषु तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारांशस्य साध्यस्य भेदाभावादभेद इति ॥२१॥
३,२.६.२२
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ब्रह्मसूत्र ३,२.२२ ।
अधिकरणविषयमाहद्वे वाव ब्रह्मणो रूपे इति ।
द्वे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थतोऽरूपस्याध्यारोपिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते ।
ते दर्शयतिमूर्तं चैवामूर्तं च ।
समुच्चीयमानावधारणम् ।
अत्र पृथिव्यप्तेजांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छितावयवमितरेतरानुप्रविष्टावयवं कठिनमिति यावत् ।
तस्यैव विशेषणान्तराणिमर्त्यं मरणधर्मकम् ।
स्थितमव्यापि ।
अवच्छिन्नमिति यावत् ।
सतन्येभ्यो विशिष्यमाणमसाधारणधर्मवदिति यावत् ।
गन्धस्नेहोष्णताश्चान्योन्यव्यवच्छेदहेतवोऽसाधारणा धर्माः ।
तस्यैतस्य ब्रह्मरूपस्य तेजोऽबन्नस्य चतुर्विशेषणस्यैष रसः सारो य एष सविता तपति ।
अथामूर्तं वायुश्चान्तरिक्षं च तद्धि न कठिनमित्यमूर्तमेतदमृतममरणधर्मकम् ।
मूर्तं हि मूर्तान्तरेणाभिहन्यमानमवयवविश्लेषाद्ध्वंसते नतु तथाभावः सम्भवत्यमूर्तस्य ।
एतद्यदेति गच्छति व्याप्नोतीति ।
एतत्त्यं नित्यपरोक्षमित्यर्थः ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः ।
करणात्मको हिरण्यगर्भप्राणाह्वयस्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्यमित्यधिदैवतम् ।
अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणान्तराकाशाभ्यां भूतत्रयं शरीरारम्भकमेतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य
स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति ।
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेक्षन्
पुरुषस्त्यस्य ह्येष रसः ।
लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षिणमक्ष्यधिष्ठानं श्रुतेरधिगतम् ।
तदेवं ब्रह्मण औपाधिकयोर्मूर्तामूर्तयोराध्यात्मिकाधिदैविकयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्यच्छब्दवाच्ययोः ।
अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् ।
मूर्तामूर्तवासनाविज्ञानमयं विचित्रं मायामहेन्द्रजालोपमं तद्विचित्रैर्दृष्टान्तैरादर्शयतिऽतद्यथा माहारजनंऽइत्यादिनाम् ।
एतदुक्तं भतिमूर्तामूर्तवासनाविज्ञानमयस्य विचित्रं रूपं लिङ्गस्येति ।
तदेवं
निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्वरूपावधारणार्थमिदमारभ्यते ।
यतः सत्यस्य रूपं निःशेषमुक्तमतोऽवशिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याहअथात आदेशःकथनं
सत्यसत्यस्य परमात्मनस्तमाहनेति नेतीति ।
एतदर्थकथनार्थमिदमधिकरणम् ।
ननु किमेतावदेवादेश्यमुतेतः परमन्यतप्यस्तीत्यत आहनह्येतस्माद्ब्रह्मण इति ।
नेत्यादिष्टादन्यत्परमस्ति यदादेश्यं भवेत् ।
तस्मादेतावदेवादेश्यं नापरमस्तीत्यर्थः ।
अत्रैवमर्थेनेतिना यत्सन्निहितं परामृष्टं तन्निषिध्यते नञा सन्निहितं च मूर्तामूर्तं सवासनं रूपद्वयम् ।
तदवच्छेदकत्वेन च ब्रह्म ।
तत्रेदं विचार्यतेकिं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति ।
यद्यपि तेषु तेषु वेदान्तप्रदेशेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् ।
ऽअस्तीत्येवोपलब्धव्यःऽइति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवासनमूर्तामूर्तरूपसाधारणतया च सामान्यं तस्य चैते विशेषा
मूर्तामूर्तादयः ।
नच तत्तद्विशेषनिषेधे सामान्यमवस्थातुमर्हति निर्विशेषस्य
सामान्यस्यायोगात् ।
यथाहुःऽनिर्विशेषं न सामान्यं भवेच्छशविषाणवत्ऽइति ।
तस्मात्तद्विशेषनिषेधेऽपि तत्सामान्यस्य ब्रह्मणोऽनवस्थानात्सर्वस्यैवायं निषेधः ।
अत एव नह्येतस्मादिति नेत्यन्यत्परमस्तीति निषेधात्परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः ।
ऽअस्तीत्येवोपलब्धव्यःऽइति चोपासनाविधानवन्नेयं, न त्वस्तित्वमेवास्य तत्त्वम् ।
तत्प्रशंसार्थ चासद्भावज्ञाननिन्दा ।
यच्चान्यत्र ब्रह्मस्वरूपप्रतिपादनं तदपि मूर्तामूर्तरूपप्रतिपादनवन्निषेधार्थम् ।
असन्निहितोऽपि च तत्र निषेधो योग्यत्वात्सम्भन्स्यते ।
यथाहुःऽयेन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सःऽइति ।
तस्मात्सर्वस्यैवाविशेषेण निषेध इति प्रथमः पक्षः ।
अथवा पृथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यक्षादिप्रमाणसिद्धत्वात्, ब्रह्मणस्तु वाङ्मनसागोचरतया सकलप्रमाणविरहात्, कतरस्यास्तु निषेध इति
विशये प्रपञ्चप्रतिषेधे समस्तप्रत्यक्षादिव्याकोपप्रसङ्गात्, ब्रह्मप्रतिषेधे त्वव्याकोपाद्ब्रह्मैव प्रतिषेधेन सम्बध्यते योग्यत्वान्न प्रपञ्चस्तद्वैपरीत्यात्,
वीप्सा तु तदत्यन्ताभावसूचनायेति मध्यमः पक्षः ।
तत्र प्रथमं पक्षं निराकरोतिन तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गादिति ।
अयमभिसन्धिःुपाधयो ह्यमी पृथिव्यादयोऽविद्याकल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य ।
न चोपाधिविगमे उपहितस्याभावोऽप्रतीतिर्वा ।
नह्युपादीनां दर्पणमणिकृपाणादीनामपगमे मुखस्याभावोऽप्रतितिर्वा ।
तस्मादुपाधिनिषेधेऽपि नोपहितस्य शशविषाणायमानताप्रत्ययो वा ।
न चेतीति सन्निधानाविशेषात्सर्वस्य प्रतिषेध्यत्वमिति युक्तम् ।
नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते ।
किञ्चिद्धि क्वचिन्निषिध्यते ।
नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् ।
तदिदमुक्तमपरिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते तस्य प्रतिषेद्भुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः ।
मध्यमं पक्षं प्रतिक्षिपतिनापि ब्रह्मप्रतिषेध उपपद्यते ।
युक्तं यन्नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्तिपूर्वकत्वात्प्रतिषेधस्य ।
ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् ।
तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् ।
तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधोऽपि प्रमाणवान् ।
नच पर्युदासाधिकरणपूर्वपक्षन्यायेन विकल्पः वस्तुनि सिद्धस्वभावे तदनुपपत्तेः ।
न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः ।
अशक्यश्च कथं निषिध्यते ।
प्रपञ्चस्त्वनाद्यविद्यासिद्धोऽनूद्य ब्रह्मणि प्रतिषिद्यत इति युक्तम् ।
तदिमामनुपपत्तिमभिप्रेत्योक्तम्ऽनापि ब्रह्मप्रतिषेध उपपद्यतेऽइति ।
हेत्वन्तरमाहब्रह्म ते ब्रवाणीति ।
उपक्रमविरोधादिति ।
उपक्रमपरामर्शोपसंहारपर्यालोचनया हि वेदान्तानां सर्वेषामेव ब्रह्मपरत्वमुपपादितं प्रथमेऽध्याये ।
न चासत्यामाकाङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां सम्बन्धः सम्भवति ।
यच्च वाङ्मनसातीततया ब्रह्मणस्तत्प्रतिषेधस्य न प्रमाणान्तरविरोध इति तत्राहवाङ्मनसातीतत्वमपीति ।
प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म ।
नच निषेधाय तत्प्रतिपादनम्, अनुपपत्तेरित्युक्तमधस्तात् ।
इदानीं तु निष्प्रयोजनमित्युक्तंऽप्रक्षालनाद्धि पङ्कस्यऽइति न्यायात् ।
तस्माद्वेदान्तवाचा मनसि सन्निधानाद्ब्रह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रतिपादनप्रक्रियोपक्रम एषः ।
यथा गवादयो विषयाः साक्षाच्छृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म ।
यथाहुःऽभेदप्रपञ्चविलयद्वारेण च निरूपणम्ऽइति ।
ननु प्रकृतप्रतिषेधे ब्रह्मणोऽपि कस्मान्न प्रतिषेध इत्यत आहतद्धि प्रकृतं प्रपञ्चितं चेति ।
प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रपञ्चावच्छेदकत्वेनाप्रधानत्वादित्यर्थः ।
ततोऽन्यद्ब्रवीतीति नेति नेतीति प्रतिषेधादन्यद्भूयो ब्रवीतीति तन्निर्वचनम् ।
नह्येतस्मादित्यस्य यदा नह्येतस्मादिति नेति नेत्यादिष्टाद्ब्रह्मणोऽन्यत्परमस्तीति व्याख्यानं तदा प्रपञ्चप्रतिषेधादन्यद्ब्रह्मैव ब्रवीतीति व्याख्येयम् ।
यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रपञ्चप्रतिषेधमात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं
ब्रह्मोपलक्ष्यते ।
कस्मादित्यत आहततो ब्रवीति च भूय इति ।
यस्मात्प्रतिषेधस्य परस्तादपि ब्रवीति ।
अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिःऽप्राणा वै सत्यम्ऽइति ।
महारजनाद्युपमितं लिङ्गमुपलङयति ।
तत्खलु सत्यमितरापेक्षया तस्यापि परं सत्यं ब्रह्म ।
तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रपञ्चप्रतिषेधमात्रं ब्रह्मापि तु भावरूपमिति ।
तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् ।
अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् ।
शेषमतिरोहितार्थम् ॥२३॥
३,२.६.२४
अपि च संराधने प्रत्यक्षानुमानाभ्याम् । ब्रह्मसूत्र ३,२.२४ ।
॥ २४ ॥
३,२.६.२५
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् । ब्रह्मसूत्र ३,२.२५ ।
॥ २५ ॥
३,२.५.२६
अतोऽनन्तेन तथा हि लिङ्गम् । ब्रह्मसूत्र ३,२.२६ ।
॥ २६ ॥
३,२.६.२७
उभयव्यपदेशात्त्वहिकुण्डलवत् । ब्रह्मसूत्र ३,२.२७ ।
अनेनाहिरूपेणाभेदः ।
कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विषयभेदाद्भेदाभेदयोरविरोध इत्येकविषयत्वेन वा सर्वदोपलब्धेरविरोधः ।
विरुद्धमिति हि नः क्व सम्प्रत्ययो न यत्प्रमाणेनोपलभ्यते ।
आगमतश्च प्रमाणादेकगोचरावपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवितृप्रकाशयोरिव प्रत्यक्षात्प्रमाणाद्भेदाभेदाविति ॥२७॥
३,२.६.२८
प्रकाशाश्रयवद्वा तेजस्त्वात् । ब्रह्मसूत्र ३,२.२८ ।
प्रकारान्तरेण भेदाभेदयोरविरोधमाहप्रकाशाश्रयवद्वा तेजस्त्वात् ॥२८॥
३,२.६.२९
तदेवं परमतमुपन्यस्य स्वमतमाह
पूर्ववद्वा । ब्रह्मसूत्र ३,२.२९ ।
अयमभिसन्धिःयस्य मतं वस्तुनोऽहित्वेनाभेदः ।
कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किमहित्वकुण्डलत्वे वस्तुनो भिन्ने उताभिन्ने इति ।
यदि भिन्ने, अहित्वकुण्डलत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ ।
नह्यन्यभेदाभेदाभ्यामन्यद्भिन्नमभिन्नं वा भवितुमर्हति ।
अतिप्रसङ्गात् ।
अथ वस्तुनो न भिद्येते अहित्वकुण्डलत्वे तथा सति को भेदाभेदयोर्विषयभेदस्तयोर्वस्तुनोऽनन्यत्वेनाभेदात् ।
न चैकविषयत्वेऽपि सदानुभूयमानत्वाद्भेदाभेदयोरविरोधः स्वरूपविरुद्धयोरप्यविरोधे क्व नाम विरोधो व्यवतिष्ठेत ।
नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति ।
देहात्मभावस्यापि सर्वदानुभूयमानस्य भाविकत्वप्रसङ्गात् ।
प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् ।
तस्मादनाद्यविद्याविक्रीडितमेवैकस्यात्मनो जीवभावभेदो न भाविकः ।
तथाच तत्त्वज्ञानदविद्यानिवृत्तावपवर्गसिद्धिः ।
तात्त्विकत्वे त्वस्य न ज्ञानान्निवृत्तिसम्भवः ।
नच तत्त्वज्ञानादन्यदपवर्गसाधनमस्ति ।
यथाह श्रुतिःऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनायऽइति ।
शेषमतिरोहितार्थम् ॥२९॥
३,२.६.३०
प्रतिषेधाच्च । ब्रह्मसूत्र ३,२.३० ।
॥ ३० ॥
३,२.७.३१
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । ब्रह्मसूत्र ३,२.३१ ।
यद्यपि श्रुतिप्राचुर्याद्ब्रह्मव्यतिरिक्तं तत्त्वं नास्तीत्यवधारितं तथापि सेत्वादिश्रुतीनामापाततस्तद्विरोधदर्शनात्तत्प्रतिसमाधानार्थमयमारम्भः ।
जाङ्गलंस्थलम् ।
प्रकाशवदनन्तवज्ज्योतिष्मदायतनवदिति पादा ब्रह्मणश्चत्वारस्तेषां पादानामर्धान्यष्टौ शफाः ।
तेऽष्टावस्य ब्रह्मण इत्यष्टशफं ब्रह्म ।
षोडश कला अस्येति षोशकलम् ।
तद्यथा प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः ।
एतदुपासनायां प्रकाशवान्मुख्यो भवतीति प्रकाशवान् पादः ।
अथापराः पृथिव्यन्तरिक्षं द्यौः समुद्र इति चतस्रः कला एष द्वितीयः पादोऽनन्तवान्नाम ।
सोऽयमनन्तवत्त्वेन गुणेनोपास्यमानोऽनन्तत्वमुपासकस्यावहतीति अनन्तवान् पादः ।
अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पादस्तृतीयस्तदुपासनाज्ज्योतिष्मान् भवतीति ज्योतिष्मान् पादः ।
अथ घ्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतनवान्नाम ।
एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भवन्तीत्यायतनवान्नाम पादः ।
तदेवं चतुष्पाद्ब्रह्माष्टशफं षोडषकलमुन्मिषितं श्रुत्या ।
अतस्ततो ब्रह्मणः परमन्यदस्ति ।
स्यादेतत् ।
अस्ति चेत्परिसङ्ख्यायोच्यतामेतावदिति ।
अत आहअमितमस्तीति ।
प्रमाणसिद्धम् ।
न त्वेतावदित्यर्थः ।
भेदव्यपदेशश्च त्रिप्रकारःाधारतश्चातिदेशतश्चावधितश्च ॥३१॥
३,२.७.३२
सामान्यात्तु । ब्रह्मसूत्र ३,२.३२ ।
जगतस्तन्मर्यादानां च विधारकत्वं च सेतुसामान्यम् ।
यथा हि तन्तवः पटं विधारयन्ति तदुपादानत्वादेवं ब्रह्मापि जगद्विधारयति तदुपपादकत्वात् ।
तन्मर्यादानां च विधारकं ब्रह्म ।
इतरथातिचपलस्थूलबलवत्कल्लोलमालाकलिलो जलनिधिरिलापरिमण्डलमवगिलेत् ।
वडवानलो वा विस्फुर्जितज्वालाजटिलो जगद्भस्मसाद्भावयेत् ।
पवनः प्रचण्डो वाकाण्डमेव ब्रह्माण्डं विघटयेदिति ।
तथाच श्रुतिःऽभीषास्माद्वातः पवतेऽइत्यादिका ॥३२॥
३,२.७.३३
बुद्ध्यर्थः पादवत् । ब्रह्मसूत्र ३,२.३३ ।
मनसो ब्रह्मप्रतीकस्य समारोपितब्रह्मभावस्य वाग्घ्राणश्चक्षुः श्रोत्रमिति चत्वारः पादाः ।
मनो हि वक्तव्यघ्रातव्यद्रष्टव्यश्रोतव्यान् गोचरान् वागादिभिः सञ्चरतीति सञ्चरणसाधारणतया मनसः पादस्तदिदमध्यात्मन् ।
आकाशस्य ब्रह्मप्रतीकस्याग्निर्वायुरादित्यो दिश इति चत्वारः पादाः ।
ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति पादास्तदिदमधिदैवतम् ।
तदनेन पादवदिति वैदिकं निदर्शनं व्याख्याय लौकिकं चेदं निदर्शनमित्याहअथवा पादवदिति ।
तद्वदिति ।
इहापि मन्दबुद्धीनामाध्यानव्यवहारायेत्यर्थः ॥३३॥
३,२.७.३४
स्थानविशेषात्प्रकाशादिवत् । ब्रह्मसूत्र ३,२.३४ ।
बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य जाग्रत्स्वप्नयोर्विशेषविज्ञानस्योपाध्युपशमेऽभिभवे सुषुप्तावस्थानमिति ।
तथा भेदव्यपदेशोऽपि त्रिविधो ब्रह्मण उपाधिभेदापेक्षयेति ।
यथा सौधजालमार्गनिवेशिन्यः सवितृभासो जालमार्गोपाधिभेदाद्भिन्ना
भासन्ते तद्विगमे तु गभस्तिमण्डलेनैकीभवन्त्यतस्तेन सम्बध्यन्त एवमिहापीति ॥३४॥
३,२.७.३५
स्यादेतत् ।
एकीभावः कस्मादिह सम्बन्धः कथञ्चिद्व्याख्यायते न मुख्य एवेत्येतत्सूत्रेण परिहरति
उपपत्तेश्च । ब्रह्मसूत्र ३,२.३५ ।
स्वमपीत इति हि स्वरूपसम्बन्धं ब्रूते ।
स्वभावश्चेदनेन सम्बन्धत्वेन स्पृष्टस्ततः स्वाभाविकस्तादात्म्यान्नातिरिच्यत इति तर्कपाद उपपादितमित्यर्थः ।
तथा भेदोऽपि त्रिविधो वान्यादृशः स्वाभाविक इत्यर्थः ॥३५॥
३,२.७.३६
तथान्यप्रतिषेधात् । ब्रह्मसूत्र ३,२.३६ ।
सुगमेन भाष्येण व्याख्यातम् ॥३६॥
३,२.७.३७
अनेन सर्वगतत्वमायामशब्दादिभ्यः । ब्रह्मसूत्र ३,२.३७ ।
ब्रह्माद्वैतसिद्धावपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब्रह्मणा स्वरूपेण रूपवत्त्वं सिध्यतीत्यत आहअनेन
सेत्वादिनिराकरणेनपरहेतुनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च स्वसाधनोपन्यासेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति ।
अद्वैते सिद्धे सर्वोऽयमनिर्वचनीयः प्रपञ्चावभासो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्मसम्बन्धाद्ब्रह्म सर्वगतमिति सिद्धम् ॥३७॥
३,२.८.३८
फलमत उपपत्तेः । ब्रह्मसूत्र ३,२.३८ ।
सिद्धान्तोपक्रममिदमधिकरणम् ।
स्यादेतत् ।
नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फलहेतुत्वमपीत्यत आहतस्यैव ब्रह्मणो व्यावहारिक्यामिति ।
नास्य पारमार्थिकं रूपमाश्रित्यैतच्चिन्त्यते किन्तु सांव्यवहारिकम् ।
एतच्चऽतपसा चीयते ब्रह्मऽइति व्याचक्षाणेरस्माभिरूपपादितम् ।
इष्टम्फलं स्वर्गः ।
यथाहुःऽयन्न दुःखन सम्भिन्नं नच ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्ऽइति ।
अनिष्टमवीच्यादिस्थानभोग्यं,व्यामिश्रम्मनुष्यभोग्यम् ।
तत्र तावत्प्रतिपाद्यतेफलमत ईश्वरात्कर्मभिराराधिताद्भवितुमर्हति ।
अथ कर्मण एव फलं कस्मान्न भवतीत्यत आहकर्मणस्त्वनुक्षणविनाशिनःप्रत्यक्षविनाशिन इति ।
चोदयतिसयादेतत्कर्म विनश्यदिति ।
उपात्तमपि फलं भोक्तुमयोग्यत्वाद्वा कर्मान्तरप्रतिबन्धाद्वा न
भुज्यत इत्यर्थः ।
परिहरतितदपि न परिशुध्यतीति ।
नहि स्वर्ग आत्मानं लभतामित्यधिकारिणः कामयन्ते किन्तु भोग्योऽस्माकम्भवत्विति ।
तेन यादृशमेभिः काम्यते तादृशस्य फलत्वमिति भोग्यमेव सत्फलमिति ।
नच तादृशं कर्मानन्तरमिति कथं फलं, तदपि स्वरूपेण ।
अपिच स्वर्गनरकौ तीव्रतमे सुखदुःखे इति तद्विषयेणानुभवेन भोगापरनाम्नावश्यं भवितव्यम् ।
तस्मादनुभवयोग्ये अननुभूयमाने शशशृङ्गवन्न स्त इति निश्चीयते ।
चोदयतिअथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः कर्माकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
परिहरतितदपि नेति ।
यद्यदचेतनं तत्तत्सर्वं चेतनाधिष्ठितं प्रवर्तत इति प्रत्यक्षागमाभ्यामवधारितम् ।
तस्मादपूर्वोणाप्यचेतनेन चेतनाधिष्ठितेनैव प्रवर्तितव्यं नान्यथेत्यर्थः ।
न चापूर्वं प्रामाणिकमपीत्याहतदस्तित्वे इति ॥३८॥
३,२.८.३९
श्रुतत्वाच्च । ब्रह्मसूत्र ३,२.३९ ।
अन्नादः अन्नप्रदः ॥३९॥
३,२.८.४०
सिद्धान्तेनोपक्रम्य पूर्वपक्षं गृह्णाति
धर्मं जैमिनिरत एव । ब्रह्मसूत्र ३,२.४० ।
श्रुतिमाहश्रूयते तावदिति ।
ननुऽस्वर्गकामो यजेतऽइत्यादयः श्रुतयः फलं प्रति न साधनतया यागं विदधति ।
तथाहियदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि त एव स्वपदेभ्यः पूर्वापरीभूताः साध्यस्वभावा अवगम्यन्त इति न
साध्यान्तरमपेक्षन्त इति न स्वर्गेण साध्यान्तरेण सम्बद्धुमर्हन्ति ।
अथापि तदतिरेकिणी भावानास्ति तथाप्यसौ भाव्यापेक्षापि स्वपदोपात्तं पूर्वावगतं न भाव्यं धात्वर्थमपहाय न भिन्नपदोपात्तं पुरुषविशेषणं च
स्वर्गादि भाव्यतया स्वीकर्तुमर्हति ।
न चैकस्मिन् वाक्ये साध्यद्वयसम्बन्धसम्भवः, वाक्यभेदप्रसङ्गात् ।
न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साक्षाद्धात्वर्थ एव साध्यो न तु स्वर्गादिस्तस्य तदव्याप्यत्वात् ।
स्वर्गादेस्तु नामपदाभिधेयतया सिद्धरूपस्याख्यातवाच्यं साध्यं धात्वर्थं प्रतिऽभूतं भव्यायोपदिश्यतेऽइति न्यायात्साधनतया गुणत्वेनाभिसम्बन्धः ।
तथाच पारमर्षं सूत्रम्ऽद्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धःऽइति ।
तथाच कर्मणो यागादेर्दुःखत्वेन पुरुषेणासमीहितत्वात्, समीहितस्य च स्वर्गादेरसाध्यत्वान्न यागादयः पुरुषस्योपकुर्वन्त्यनुपकारिणां चैषां न
पुरुष ईष्टे अनीशानश्च न तेषु सम्भवत्यधिकारीत्यधिकाराभावप्रतिपादितानर्थक्यपरिहाराय कृत्स्नस्यैवाम्नायस्य
निर्मृष्टनिखिलदुःखानुषङ्गनित्यसुखमयब्रह्मज्ञानपरत्वं भेदप्रपञ्चविलयनद्वारेण तथाहिसर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य प्रविलयो
गम्यतेयथाऽस्वर्गकामो यजेतऽइति शरीरात्मभावप्रलियः ।
इह खल्वापाततो देहातिरिक्त आमुष्मिकफलोपभोगसमर्थोऽधिकारी गम्यते ।
तत्राधिकारस्योक्तेन क्रमेण निराकरणादसतोऽपि प्रतीयमानस्य विचारासहस्योपायतामात्रेणावस्थानादनेन वाक्येन
देहात्मभावप्रविलयस्तत्परेण क्रियते ।
ऽगोदोहनेन पशुकामस्य प्रणयेत्ऽइत्यत्राप्यापाततोऽधिकृताधिकारावगमादधिकारिभेदप्रविलयः ।
निषेधवाक्यानि च साक्षादेव प्रवृत्तिनिषेधेन विधिवाक्यानि चान्यानिऽसाङ्ग्रहण्या यजेत ग्रामकामःऽइत्यादीनि न साङ्ग्रहण्यादिप्रवृत्तिपराण्यपि
तूपायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि ।
यथा विषं भुङ्क्षव मास्य गृहे भुङ्क्ष्वेति ।
तथाच रागाद्यक्षिप्तप्रवृत्तिप्रतिषेधेन शास्त्रस्य शास्त्रत्वमप्युपपद्यते ।
रागनिबन्धनां तूपायोपदेशद्वारेण प्रवृत्तिमनुजानतो रागसंवर्धनादशास्त्रत्वप्रसङ्गः ।
तन्निषेधेन तु ब्रह्मणि प्रणिधानमादधच्छास्त्रं शास्त्रं भवेत् ।
तस्मात्कर्मफलसम्बन्धस्याप्रामाणिकत्वादनादिविचित्राविद्यासहकारिण ईश्वरादेव
कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति ।
कथं तर्हि विधिः किमत्र कथं प्रवर्तनामात्रत्वाद्विधेस्तस्य चाधिकारमन्तरेणाप्युपपत्तेः ।
नहि यो यः प्रवर्तयति स सर्वोऽधिकृतमपेक्षते ।
पवनादेः प्रवर्तकस्य तदनपेक्षत्वादितिशङ्कामपाचिकीर्षुराहतत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते ।
अन्यथा ह्यननुष्ठातृको याग आपद्येत ।
अयमभिसन्धिःुपदेशो हि विधिः ।
यथोक्तम्ऽतस्य ज्ञानमुपदेशःऽइति ।
उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः ।
तद्यथारोग्यकामो जीर्णे भुञ्जीत ।
एष सुपन्था गच्छतु भवाननेनेति ।
न त्वज्ञानादिरिव नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात्, तस्य चापौरुषेयेऽसम्भवात् ।
अस्य चोपदेशस्य नियोज्यप्रयोजनव्यापारविषयत्वमनुष्ठात्रपेक्षितानुकूलव्यापारगोचरत्वमस्माभिरुपपादितं न्यायकणिकायाम् ।
तथाचऽस्वर्गकामो यजेतऽइत्यादिषु स्वर्गकामादेः समीहितोपाया गम्यन्ते यागादयः ।
इतरथा तु न साधयितारमनुगच्छेयुः ।
तदुक्तमृषिणाऽअसाधकं तु तादर्थ्यात्ऽइति ।
अनुष्ठात्रपेक्षितोपायतारहितप्रवर्तनामात्रार्थत्वे यजेतेत्यादीनामसाधकं कर्म यागादि स्यात् ।
साधयितारं नाधिगच्छेदित्यर्थः ।
न चैते साक्षाद्भावनाभाव्या अपि कर्त्रपेक्षितसाधनताविध्युपहितमर्यादा भावनोद्देश्या भवितुमर्हन्ति, येन पुंसामनुपकारकाः सन्तो
नाधिकारभाजो भवेयुः ।
दुःखत्वेन कर्मणां चेतनसमीहानास्पदत्वात् ।
स्वर्गादीनां तु भावनापूर्वरूपकामनोपधानाच्च ।
प्रीत्यात्मकत्वाच्च ।
नामपदाभिधेयानामपि पुरुषविशेषणानामपि भावनोद्देश्यतालक्षणभाव्यत्वप्रतीतेः ।
फलार्थप्रवृत्तभावनाभाव्यत्वलक्षणेन च यागादिसाध्यत्वेन फलार्थप्रवृत्तभावनाभाव्यत्वरूपस्य फलसाध्यत्वस्य
समप्रधानत्वाभावेनैकवाक्यसमवायसम्भवात्, भावनाभाव्यत्वमात्रस्य च यागादिसाध्यत्वस्य करणेऽप्यविरोधात् ।
अन्यथा सर्वत्र तदुच्छेदात् ।
परश्वादेरपि छिदादिषु तथाभावात् ।
फलस्य साक्षाद्भावनाव्याप्यत्वविरहिणोऽपि तदुद्देश्यतया सर्वत्र व्यापितया व्यवस्थानात्स्वर्गसाधने यागादौ स्वर्गकामादेरधिकार इति सिद्धम् ।
न चाप्राप्तार्थविषयाः साङ्ग्रहण्यादियागविधयः परिसङ्ख्यायका नियामका वा भवितुमर्हन्ति ।
न चाधिकाराभावे
देहात्मप्रविलयो वाधिकारिभेदप्रविलयो वा शक्य उपपादयितुम् ।
आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्थायातपरत्वम् ।
स्वरसतः प्रतीयमानेर्ऽथे वाक्यस्य तादर्थ्ये सम्भवति न सम्पातायातपरत्वमुचितम् ।
न चैतावता शास्त्रत्वव्याघातः ।
तस्य स्वर्गाद्युपायशासनेऽपि शास्त्रत्वोपपत्तेः ।
पुरुषश्रेयोऽभिधायकत्वं हि शास्त्रत्वम् ।
सरागवीतरागपुरुषश्रेयोऽभिधायकत्वेन सर्वपारिषदतया न तत्त्वव्याघातः ।
तस्माद्विधिविषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति सिद्धम् ।
कर्मणो वा काचिदवस्थेति ।
कर्मणोऽवान्तरव्यापारः ।
एतदुक्तं भवतिकर्मणो हि फलं प्रति यत्साधनत्वं श्रुतं, तन्निर्वाहयितुं तस्यैवावान्तरव्यापारो भवति ।
नच व्यापारवति सत्येव व्यापारो नासतीति युक्तम् ।
असत्स्वप्याग्नेयादिषु तदुत्पत्त्यपूर्वाणां परमापूर्वे जनयितव्ये तदवान्तरव्यापारत्वात् ।
असत्यपि च तैलपानकर्मणि तेन पुष्टौ कर्तव्यायामन्तरा तैलपरिणामभेदानां तदवान्तरव्यापारत्वात् ।
तस्मात्कर्मकार्यमपूर्वं कर्मणा फले कर्तव्ये तदवान्तरव्यापार इति युक्तम् ।
यदा पुनः फलोपजननान्यथानुपपत्त्या किञ्चित्कल्प्यते तदाफलस्य वा पूर्वावस्था ।
अविचित्रस्य कारणस्येति ।
यदीश्वरादेव केवलादिति शेषः ।
कर्मभिर्वा शुभाशुभैः कार्यद्वैधोत्पादे रागादिमत्त्वप्रसङ्ग इत्याशयः ॥४०॥
३,२.८.४१
पूर्वं तु बादरायणो हेतुव्यपदेशात् । ब्रह्मसूत्र ३,२.४१ ।
दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा ।
नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः ।
नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः ।
तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रवर्तितुमुत्सहते नच चैतन्यमात्रं
कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत ।
तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं
देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेध्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे ।
लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्ति भिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति
विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् ।
तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् ।
यथा विनष्टं
कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति ।
तथा देवपूजात्मको यागो देवतां नप्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् ।
नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते ।
तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते ।
तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण ।
एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् ।
ततः स्थायिनोऽनिष्टफलप्रसवः ।
नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते ।
नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिकोऽपीश्वरः ।
यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः ।
एवं प्रधानाराधनेऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः ।
स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात् ।
तस्माद्दृष्टाविरोधेन देवताराधनात्फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः ।
ये पुनरन्तर्यामिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषयाम्बभूवुस्तेभ्यो
व्यावहारिख्यामीशित्रीशितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत ॥४१॥
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां तृतीयस्याध्यायस्य द्वितीयः पादः ॥२॥
॥ इति तृतीयाध्यायस्य तत्त्वम्पदार्थपरिशोधनाख्यो द्वितीयः पादः ॥
तृतीयाध्याये तृतीयः पादः ।