०१

३,१.१.१
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् । ब्रह्मसूत्र ३,१.१ ।
द्वितीयतृतीयाध्याययोर्हेतुमद्भावलक्षणं सम्बन्धं दर्शयन् सुखावबोधार्थमर्थसङ्क्षेपमाहद्वितीयेऽध्याय इति ।
स्मृतिन्यायश्रुतिविरोधपरिहारेण हि अनध्यवसायलक्षणमप्रामाण्यं परिहृतं तथाच प्रामाण्ये निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु
निर्बीजतया न सिध्येदिति ।
अवान्तरसङ्गतिं दर्शयितुन्तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानिचेत्युक्तम् ।
अध्यायार्थसङ्क्षेपमुक्त्वा पादार्थसङ्क्षेपमाहतत्र प्रथमे तावत्पाद इति ।
तस्य प्रयोजनमाहवैराग्य इति ।
पूर्वापरपरिशोधनाय भूमिकामारचयतिजीवो मुख्यप्राणसचिव इति ।
करणोपादानवद्भूतोपादानस्याश्रुतत्वादिति ।
अत्र च करणोपादानश्रुत्यैव भौतिकत्वात्करणानां भूतोपादानसिद्धेरिन्द्रियोपादानातिरिक्तभूतविवक्षयाधिकरणारम्भः ।
यदि भूतान्यादायागमिष्यत्तदा तदपि करणोपादानवदेवश्रोष्यत् ।
नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहत्यपि तु करणमात्रपरिष्वक्तः ।
नह्यागमैकगम्येर्ऽथे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्हति ।
नच देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याहसुलभाश्च सर्वत्र भूतमात्रा इति ।
द्युपर्जन्य इति ।
इह हि कायारम्भणामग्निहोत्रापूर्वपरिणामलक्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्रभृतिष्वग्निषु होतव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं
विवक्षन्त्याह श्रुतिःऽअसौ वाव लोको गौतमाग्निःऽइत्यादि ।
अत्र सायम्प्रातरग्निहोत्राहुतो, हुते पयःादिसाधने श्रद्धापूर्वमाहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षं
क्रमेणोत्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रवद्रव्यपयःप्रभृत्यप्सम्बन्धादप्शब्दवाच्ये, श्रद्धाहेतुकत्वाच्च श्रद्धाशब्दवाच्ये ।
तयोराहुत्योरधिकरणमग्निरन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते ।
असौ वाव द्युलोको गौतमाग्निः ।
यथाग्निहोत्राधिकरणमाहवनीय एवं श्रद्धाशब्दवाच्याग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा या आपः श्रद्धाभावितास्तदधिकरणं द्युलोकः ।
अस्यादित्य एव समित् ।
तेन हीद्धोऽसौ द्युलोको दीप्यतेऽतः समिन्धनात्समित्तस्यादित्यस्य रश्मयो धूमा इन्धनादिवादित्याद्रश्मीनां समुत्थानात् ।
अहरर्थिः ।
प्रकाशसामान्यादादित्यकार्यत्वाच्च ।
चन्द्रमा अङ्गारः ।
अर्चिषः प्रशमेऽभिव्यक्तेः ।
नक्षत्राप्यस्य विस्फुलिङ्गः चन्द्रमसोऽङ्गारस्यावयवा इव विप्रकीर्णतासामान्याद्विस्फुलिङ्गः ।
तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् ।
श्रद्धां जुह्वति श्रद्धा चोक्ता ।
पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः ।
तस्य वायुरेव समित् ।
वायुना हि पर्जन्योऽग्निः समिध्यते, पुरोवातादिप्राबल्ये वृष्टिदर्शनात् ।
अभ्रं धूमः ।
धूकार्यत्वात्धूमसादृश्याच्च ।
विद्युदर्चिः ।
प्रकाशसामान्यात् ।
अशनिरङ्गाराः काठिन्याद्विद्युत्सम्बन्धाच्च ।
गर्जितं मोघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् ।
तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोमस्याहुतेर्वर्षं भवति ।
एतदुक्तं भवतिश्रद्धाख्या आपो द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त
इति ।
ऽपृथिवी वाव गौतमाग्निःऽतस्य पृथिव्याख्यस्याग्नैः संवत्सर एव समित् ।
संवत्सरेण कालेन हि समिद्धा भूमिर्व्रीह्यादिनिष्पत्तये कल्पते ।
आकाशो धूमः पृथिव्यग्नेरुत्थित इवाकाशो दृश्यते ।
रात्रिरर्चिः पृथिव्या श्यामाया अनुरूपा श्यामतया रात्रिरग्नेरिवानुरुपमर्चिः ।
दिशोङ्गाराः प्रगे रात्रिरूपार्चिःशमने उपशान्तानां प्रसन्नानां दिशां दर्शनात् ।
अवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसाम्यात् ।
तस्मिन्नग्नौ श्रद्धासोमपरिणामक्रमेणागता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति ।
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् ।
वाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्याभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते ।
प्राणो धूमः ।
धूमवन्मुखान्निर्गमनात् ।
जिह्वार्चिः लोहितत्वसाम्यात् ।
चक्षुरङ्गाराः प्रभाश्रयत्वात् ।
श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वात् ।
ता एवापः श्रद्धादिपरिणामक्रमेणागताः व्रीह्यादिरूपेः परिणता सत्यः पुरुषेऽग्नौ हुतास्तासां परिणामो रेतः सम्भवति ।
योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् ।
तेन हि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः ।
स्त्रीसम्भवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् ।
यदन्तः करोति मैथुनं तेऽङ्गाराः ।
अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् ।
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति ।
एवं श्रद्धासोमवर्षान्नरेतोहवनक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति ।
तत्राप्समवायित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामाहुताविति ।
यतः पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते ।
एतदुक्तं भवतिश्रद्धाशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजोऽन्नाविनाभावेनाब्ग्रहणेन तेजोन्नयोरपि सङ्ग्रह इत्येतदपि वक्ष्यते ।
यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोवन्नानां पञ्चम्यामाहुतौ पुरुषवचस्त्वमात्रश्रवणात्, तथापीष्टादिकारिणां धूमादिना
पितृयाणेन पथा चन्द्रलोकप्राप्तिकथनपरयाऽआकाशाच्चन्द्रमसमेष सोमो राट्ऽइति श्रुत्या सहऽश्रद्धां जुह्वति तस्या आहुतेः सोमो राजा
सम्भवतिऽइत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति ।
तथाहिया एवापो हुता द्वितीयस्यामाहुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति ।
ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोमभावमाप्नुवन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु ।
को दोषः ।
अयं दोषः ।
यतः श्रुतिसामान्यातिक्रम इति ।
एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् ।
अन्यथा तु न श्रुतिसामान्यं स्यात् ।
तस्मात्परिष्वक्तापरिष्वक्तरंहणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तरंहणं निश्चीयते ।
अतो दधिपयःप्रभृतयो द्रवभूयस्त्वादापो हुताः सूक्ष्मीभूता इष्टादिकारिणमाश्रिता नेन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमय्य
इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति ।
चोदयतिनन्वन्या श्रुतिरिति ।
अयमर्थःेवं हि सूक्ष्मदेहपरिष्वक्तो रंहेत्यद्यस्य स्थूलं शरीरं रंहतो न भवेत् ।
अस्ति त्वस्य वर्तमानस्थूलशरीरयोग आदेहान्तरप्राप्तेस्तृणजलायुकानिदर्शनेन, तस्मान्निदर्शनश्रुतिविरोधान्न सूक्ष्मदेहपरिष्वक्तो रंहतीति ।
परिहरतितत्रापीति ।
न तावत्परमात्मनः संसरणसम्भवः, तस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वात् ।
किन्तु जीवानाम् ।
परमात्मैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति ।
तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं
जलूकयोपमीयते ।
साङ्ख्यानां कल्पनामाहव्यापिनां करणानामिति ।
आहङ्कारिकत्वात्करणानामहङ्कारस्य च जगन्मण्डलव्यापित्वात्करणानामपि व्यापितेत्यर्थः ।
बौद्धानां कल्पनामाहकेवलस्यैवात्मन इति ।
आलयविज्ञानसन्तान आत्मा तस्य वृत्तिः षट्प्रवृत्तिविज्ञानानि ।
पञ्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते ।
कणभुक्क्ल्पनामाहमन एव चेति ।
भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् ।
दिगम्बरकल्पनामाहजीव एवोत्प्लुत्येति ।
आदिग्रहणेन लोकायतिकानां कल्पनां सङ्गृह्णाति ।
ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति ॥१॥



३,१.१.२
चोदयति
ननूदाहृताभ्यामिति ।
अत्र सूत्रेणोत्तरमाह
त्र्यात्मकत्वात्तु भूयस्त्वात् । ब्रह्मसूत्र ३,१.२ ।
तेजसः कार्यमशितपीताहारपरिपाकः ।
अपां कार्यं स्नेहस्वेदादि ।
पृथिव्याः कार्यं गन्धादि ।
यस्तु गन्धस्वेदपाकप्राणावकाशदानदर्शनाद्देहस्य पाञ्चभौतिकत्वं पश्यंस्तेजोबन्नात्मकत्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याहपुनश्च त्र्यात्मक
इति ।
वातपित्तश्लेष्मभिस्त्रिभिर्धातुभिः शरीरधारणात्मकैस्त्रिधातुत्वात् ।
अतो न स देहो भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।
अब्ग्रहणनियमस्तर्हि कस्मादित्यत आहतस्माद्भूयस्त्वापेक्ष इति ।
पृथिवीधातुवर्जमितरतेजःाद्यपेक्षया कार्यस्य शरीरस्य लोहितादिद्रवभूयस्त्वात्तत्करणयोश्चोपादाननिमित्तयोर्द्रवभूयस्त्वादपां
पुरुषवचस्त्वोक्तिर्न पुनर्भूतान्तरनिरासार्था ॥२॥



३,१.१.३
प्राणगतेश्च । ब्रह्मसूत्र ३,१.३ ।
प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् ।
अतः षाट्कौशिका देहादुत्क्रामन्तः कस्मिंश्चिदुत्क्रामत्युत्क्रामन्ति ।
स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते ।
नहीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाणां गतिरुपपद्येतेति ॥३॥



३,१.१.४
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् । ब्रह्मसूत्र ३,१.४ ।
श्रावितेऽपि स्पष्टे जीवस्य प्राणैः सह गमनेऽग्न्यादिगतिशङ्का श्रुतिविरोधोत्थापनार्था ।
अत्र हि लोमकेशयोरोषधिवनस्पतिगमनं दृष्टविरोधाद्भाक्तं तावदभ्युपेयम् ।
एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचितमिति ।
भक्तिश्चोपकारनिवृत्तिरुक्ता ॥४॥



३,१.१.५
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः । ब्रह्मसूत्र ३,१.५ ।
पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया होतव्यताभिधानसम्भद्धमनुपपन्नं च ।
नहि यथा पश्वादिभ्यो हृदयादयोऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धिप्रसादलक्षणा निष्क्रष्टुं वा होतुं वा शक्यते ।
न चाप्येवमौत्सर्गिकी कारणानुरूपता कार्यस्य युज्यते ।
तस्माद्भक्त्यायामप्सु श्रद्धाशब्दः प्रयुक्त इति ।
अतःेव श्रुतिःऽआपो हात्मैऽइति ॥५॥



३,१.१.६
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः । ब्रह्मसूत्र ३,१.६ ।
अस्यार्थः पूर्वमेवोक्तः ।
अग्निहोत्रे षट्सूत्क्रान्तिगतिप्रतिष्ठातृप्तिपुनरावृत्तिलोकप्रत्युत्थायिष्वग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु प्रश्नाः षट्, तेषां यः समाहारः षण्णां
सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम् ॥६॥



३,१.१.७
सूत्रान्तरमवतारयितुं शङ्कतेकथं पुनरिति ।
सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तीति ।
क्रियासमभिहारेणाप्यायनापक्षयौ यथा सोमस्य तथा भक्षयन्ति सोममयांल्लोकानित्यर्थः ।
अत उत्तरं पठति
भाक्तं वानात्मविस्त्त्वात्तथाहि दर्शयति । ब्रह्मसूत्र ३,१.७ ।
कर्मजनितफलोपभोगकर्ता ह्यधिकारी न पुनरुपभोग्यस्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभक्ष्यत्वेऽस्वर्गकामो यजेतऽइति यागभावनायः
कर्त्रपेक्षितोपायतारूपविधिश्रुतिविरोधादन्नशब्दो भोक्तृणामेव सतां देवोपजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मुख्य
इति ।
अत्रैवार्थे श्रुत्यन्तरं सङ्गच्छत इत्याहतथाहि दर्शयति ।
श्रुतिरनात्मविगामनात्मवित्त्वादेव पशुवद्देवोपभोग्यतां न तु चर्वणीयतया ।
यथा हि बलीवर्दादयो भुञ्जाना अपि स्वफलं स्वामिनो हलादिवहनेनोपकुर्वाणा भोग्याः, एवं परमतत्त्वमविद्वांस इष्टादिकारिण इह
दधिपयःपुरोडाशादिनामुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः ।
अथवाअनात्मवित्त्वात्तथाहि दर्शयतिइत्यस्यान्या व्याख्या ।
आत्मवित्पञ्चाग्निविद्यावित्न आत्मवितनात्मवित् ।
यो हि पञ्चाग्निविद्यां न वेद तं देवा भक्षयन्तीति निन्द्यते पञ्चाग्निविद्यां स्तोतुं तस्या एव प्रकृतत्वात् ।
तदनेनोपचारस्य प्रयोजनमुक्तम् ।
उपचारनिमित्तमनुपपत्तिमाहतथाहि दर्शयति ।
श्रुतिर्भोक्तृत्वम् ।
स सोमलोके विभूतिमनुभूयेति ।
शेषमतिरोहितार्थम् ॥७॥



३,१.२.८
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ब्रह्मसूत्र ३,१.८ ।
यावत्सम्पातमुषित्वेति ।
यावदुपबन्धात् ।
यत्किञ्चेह करोत्ययमिति ।
च यत्किञ्चेह कर्म कृतं तस्यान्तं प्राप्येति श्रवणात्, प्रायणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जकत्वात् ।
न खल्वभिव्यक्तिनिमित्तस्य साधारण्येऽभिव्यक्तिनियमो युक्तः ।
फलदानाभिमुखीकरणं चाभिव्यक्तिस्तस्मात्समस्तमेव कर्म फलमुपभोजितवत् ।
स्वफलविरोधि च कर्म ।
तस्माच्छ्रुतेरुपपत्तेश्चं निरनुशयानामेव चरणादाचारादवरोहो न कर्मणः ।
आचारकर्मणी च श्रुतेः प्रसिद्धभेदे ।
यथाकारी यथाचारी तथा भवतीति ।
तथाच रमणीयचरणाः कपूयचरणा इत्याचारमेव योनिनिमित्तमुपदिशति न तु कर्म ।
स्तां वा कर्मशीले द्वे अप्यविशेषेणानुशयस्तथापि यद्यप्ययमिष्टापूर्तकारी स्वयं निरनुशयो भुक्तभोगत्वात्तथापि पित्रादिगतानुशयवशात्तद्विपाकान्
जात्यायुर्भोगांश्चन्द्रलोकादवरुह्यानुभविष्यति ।
स्मर्यते ह्यन्यस्य सुकृतदुष्कृताभ्यामन्यस्य तत्सम्बन्धिनस्तत्फलभागिताऽपतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत्ऽइत्यादि ।
तथा श्राद्धवैश्वानरीयेष्ट्यादेः पितापुत्रादिगामिफलश्रुतिः ।
तस्माद्यावत्सम्पातमित्युपक्रमानुरोधात्ऽयत्किञ्चेह करोतिऽइति च श्रुत्यन्तरानुसाराद्रमणीयचरणत्वं सम्बन्ध्यन्तरगतमिष्टापूर्तकारिणि भाक्तं
गमयितव्यम् ।
तथाच निरनुशयानामेव भुक्तभोगानामवरोह इति प्राप्त उच्यतेयेन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीतेऽपि सानुशया एव
चन्द्रमण्डलादवरोहन्ति ।
कुतःदृष्टस्मृतिभ्याम् ।
प्रत्यक्षदृष्टा श्रुतिर्दृष्टशब्दवाच्या ।
स्मृतिश्चोपन्यस्ता ।
अथवा दृष्टशब्देनोच्चावचरूपो भोग उच्यते ।
अयमभिसन्धिःकपूयचरणा रमणीयचरणा इत्यवरोहितामेतद्विशेषणम् ।
नच सति मुख्यार्थसम्भवे सम्बन्धिमात्रेणोपचरितार्थत्वं न्याय्यम् ।
न चोपक्रमविरोधाच्छ्रुत्यन्तरविरोधाच्च मुख्यार्थसम्भव इति साम्प्रतम् ।
दत्तफलेष्टापूर्तकर्मापेक्षयापि यावत्पदस्य यत्किञ्चेतिपदस्य चोपपत्तेः ।
नहिऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति यावज्जीवमाहारविहारादिसमयेऽपि होमं विधत्ते नापि मध्याह्नादावपि तु सायम्प्रातःकालापेक्षया ।
सायम्प्रातःकालविधानसामर्थ्यात्, कालस्य चानुपादेयतयानङ्गस्यापि निमित्तानुप्रवेशात्तत्रैवमिति चेत् ।
न ।
इहापि रमणीयचरणा इत्यादेर्मुख्यार्थत्वानुरोधात्तदुपपत्तेः ।
तत्किमिदानीमुपसंहारानुरोधेनोपक्रमः सङ्कोचयितव्यः ।
नेत्युच्यते ।
नह्यसावुपसंहारानुरोधेऽप्यसङ्कुचद्वृत्तिरुपपत्तुमर्हति ।
नहि यावन्तः सम्पाता यावतां वा पुंसां सम्पातास्ते सर्वे तत्रेष्टादिकारिणा भोगेन क्षयं नीयन्ते ।
पुरुषान्तराश्रयाणां कर्माशयानां तद्भोगेन क्षयेऽतिप्रसङ्गात् ।
चिरोपभुक्तानां च कर्माशयानामसतां चन्द्रमण्डलोपभोगेनापनयनात् ।
तथाच स्वयं सङ्कुचन्ती यावच्छ्रुतिरुपसंहारानुरोधप्राप्तमपि सङ्कोचनमनुमन्यते ।
एतेनऽयत्किञ्चेह करोतिऽइत्यपि व्याख्यातम् ।
अपि चेष्टापूर्तकारीह जन्मनि केवलं न तन्मात्रमकार्षीदपि तु गोदोहनेनापः प्रणयन् पशुफलमप्यपूर्वं समचैषीत् ।
एवमहर्निशं च वाङ्मनः शरीरचेष्टाभिः पुण्यापुण्यमिहामुत्रोपभोग्यं सञ्चितवतो न मर्त्यलोकादिभोग्यं चन्द्रलोके भोग्यं भवितुमर्हति ।
नच स्वफलविरोधिनोऽनुशयस्य ऋते प्रायश्चित्तादात्मज्ञानाद्वादत्तफलस्य ध्वंसः सम्भवति ।
तस्मात्तेनानुशयेनायमनुशयवान् परावर्तत इति श्लिष्टम् ।
न चैकभविकः कर्माशय इत्यग्रे भाष्यकृद्वक्ष्यति ।
अन्ये तु सकलकर्मक्षये परावृत्तिशङ्का निर्बीजेति मन्यमाना अन्यथाधिकरणं वर्णयाञ्चक्रुरित्याहकेचित्तावदाहुरिति ।
अनुशयोऽत्र दत्तफलस्य कर्मणः शेष उच्यते ।
तत्रेदमिह विचार्यतेकिं दत्तफलानामिष्टापूर्तकर्मणामवशेषादिहावर्तन्ते उत तान्युपभोगेन निरवशेषं क्षपयित्वानुपभुक्तकर्मशादिहावर्तन्त
इति ।
तत्रेष्टादीनां भोगेन समूलकाषं कषितत्वान्निरनुशया एवानुपभुक्तकर्मवशादावर्तन्त इति प्राप्त उच्यतेसानुशया एवावर्तन्त इति ।
कुतःदृष्टानुसारात् ।
यथा भाण्डस्थे मधुनि सर्पिषि वा क्षालितेऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि
प्रतिपत्तव्यम् ।
न चावशेषमात्राच्चन्द्रमण्डले तिष्ठासन्नपि स्थातुं पारयति ।
यथा सेवको हास्तिकाश्वीयपदातिव्रातपरिवृतो महाराजं सेवमानः कालवशाच्छत्रपादुकावशेषो न सेवितुमर्हतीति दृष्टं तन्मूला च लौकिकी
स्मृतिरिति दृष्टस्मृतिभ्यां सानुशया एवावर्तन्त इति ।
तदेदद्दूषयतिन चैतदिति ।
एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयुक्तः ।
शब्दैकगम्येर्ऽथे न सामान्यतोदृष्टानुमानावसर इत्यर्थः ।
शेषमतिरोहितार्थम् ।
पूर्वपक्षहेतुमनुभाषतेयदप्युक्तं प्रायणमिति ।
दूषयतितदप्यनुशयसद्भावेति ।
रमणीयचरणा कपूयचरणा इत्यादिकयानुशयप्रतिपादनपरया श्रुत्या विरुद्धमित्यर्थः ।
अपिचेत्यादि ।
इह जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते ।
युगपच्चेदेकप्रघट्टकेन प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् ।
युगपदेव तत्फलानि भुज्येरन् ।
तस्मादुपभोगपर्यायदर्शनाद्बलीयसा दुर्बलस्याभिभवः कल्पनीयः ।
एवं विरुद्धजातिनिमित्तोपभोगफलेष्वपि कर्मसु द्रष्टव्यम् ।
न चाभिव्यक्तं च कर्म फलं न दत्त इति च सम्भवति ।
फलोपजनाभिमुख्यं हि कर्मणामभिव्यक्तिः ।
अपिच प्राणस्याभिव्यञ्जकत्वे स्वर्गनरकततिर्यग्योनिगतानां जन्तूनां तस्मिञ्जन्मनि कर्मस्वनधिकारान्नापूर्वकर्मोपजनः पूर्वकृतस्य क्रमाश्यस्य
प्रायणाभिव्यक्ततया फलोपभोगेन प्रक्षयान्नास्ति तेषां कर्माश्य इति न ते संसरेयुः ।
नच मुच्येरन्नात्मज्ञानाभावादिति कष्टां बतालिष्टा दशाम् ।
किञ्च स्वसमवेतमेव प्रायणेनाभिव्यज्यतेऽपूर्वं न परसमवेतं, येन पित्रादिगतेन कर्मणा वर्तेरन्निति ।
शेषं सुगमम् ॥८॥



३,१.२.९
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः । ब्रह्मसूत्र ३,१.९ ।
अनेन निरनुशया एवावरोहन्तीति पूर्वपक्षबीजं निगूढमुद्धाट्य निरस्यति ।
यद्यपिऽअक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च ज्ञानं च शीलमेताद्विदुर्बुधाः ॥
ऽइति स्मृतेः शीलमाचारोऽनुशयाद्भिन्नस्तथाप्यानुशयाङ्गतयानुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने ।
तथाच रमणीयचरणाः कपूयचरणा इत्यनेनानुशयोपलक्षणात्सिद्धं सानुशयानामेवावरोहणमिति ॥९॥



३,१.२.१०
आनर्थक्यमिति चेन्न तदपेक्षत्वात् । ब्रह्मसूत्र ३,१.१० ।
ऽआचारहीनं न पुनन्ति वेदाःऽइति हि स्मृत्या वेदपदेन वेदार्थमुपलक्षयन्त्या वेदार्थानुष्ठानशेषत्वमाचारस्योक्तं न तु स्वतन्त्र आचारः फलस्य
साधनं, तेन वेदार्थानुष्ठानोपकारकतयाचारस्य नानर्थक्यं क्रत्वर्थस्य ।
तदनेन समिदादिवदाचारस्य क्रत्वर्थत्वमुक्तम् ।
सम्प्रति स्नानादिवत्पुरुषार्थत्वे पुरुषसंस्कारत्वेऽप्यदोष इत्याहपुरुषार्थत्वेऽप्याचारस्येति ।
तदेवं चरणशब्देनाचारवाचिना सर्वोऽनुशयो लक्षित इत्युक्तम् ॥१०॥



३,१.२.११
बादरिस्तु मुख्य एव चरणशब्दः कर्मणीत्याह
सुकृतदुष्कृते एवेति तु बादरिः । ब्रह्मसूत्र ३,१.११ ।
ब्रह्मणपरिव्राजकन्यायो गोबलीवर्दन्यायः ।
शेषमतिरोहितार्थम् ॥११॥



३,१.३.१२
अनिष्टादिकारिणामपि च श्रुतम् । ब्रह्मसूत्र ३,१.१२ ।
ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽइति कौषीतकिनां समाम्नानात्, देहारम्भस्य च चन्द्रलोकगमनमन्तरेणानुपपत्तेः
पञ्चम्यामाहुतावित्याहितिसङ्ख्यानियमात् ।
तथाहिद्युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् ।
न चैतन्मनुष्याभिप्रायं, कपूयचरणाः स्वयोनिमित्यमनुष्यस्यापि श्रवणात् ।
गमनागमनाय च देवयानपितृयाणयोरेव मार्गयोराम्नानात्, पथ्यन्तरस्याश्रुतेः,ऽजायस्व म्रियस्वेति तृतीयं स्थानम्ऽइति च
स्थानत्वमात्रेणावगमात्पथित्वेनाप्रतीतेश्चन्द्रलोकादवतीर्णानामपि च तत्स्थानत्वसम्भवादसम्पूरणेन प्रतिवचनोपपत्तेः, अनन्यमार्गतया च
तद्भोगविरहिणामपि ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत्संयमनादिषु यमवश्यतायै चन्द्रलोकगमनोपपत्तेः,ऽन
कतरेणचनऽइत्यस्यासम्पूरणप्रतिपादनपरतया मार्गद्वयनिषेधपरत्वाभावात्, अनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्तेऽभिधीयतेसत्यं
स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न सम्पूर्यते इत्यस्य प्रतिवचनावसरे
मार्गद्वयनिषेधपूर्वं तृतीयं स्थानमभिवदन्नसम्पूरणाय तत्प्रतिपक्षमाचक्षीत ।
यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धवत्स्थानमध्यासीत नैतत्तृतीयं स्थानं भवेत् ।
नहीष्टादिकारिणश्चन्द्रमण्डलादवरुह्य रमणीयां निन्दितां वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते ।
तत्कस्य हेतोः ।
पितृयाणेन पथावरोहात् ।
तद्यदि क्षुद्रजन्तवोऽप्यनेनैव पथावरोहेयुः, नैतदेषां जन्ममरणप्रबन्धवत्तृतीयं स्थानं भवेत् ।
ततोऽवगच्छामः संयमनं सप्त च यातनाभूमीर्यमवशतया प्रतिपद्यमाना अनिष्टादिकारिणो न चन्द्रमण्डलादवरोहन्तीति ।
तस्मात्ऽये वै के चऽइतीष्टादिकारिविषयं न सर्वविषयम् ।
पञ्चम्यामाहुताविति च स्वार्थविधानपरं न पुनरपञ्चम्याहुतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात् ।
संयमने त्वनुभूयेति सूत्रेणावरोहापादानतया संयमनस्योपादानाच्चन्द्रमण्डलापादाननिषेध आञ्जसः ।
तथाच सिद्धान्तसूत्रमेव ।
पूर्वपक्षसूत्रत्वे तु शङ्कान्तराध्याहारेण कथञ्चिद्गमयितव्यम् ।
जीवजञ्जरायुजम् ।
संशोकजंसंस्वेदजम् ॥१२॥



३,१.३.१३
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् । ब्रह्मसूत्र ३,१.१३ ।
॥ १३ ॥



३,१.३.१४
स्मरन्ति च । ब्रह्मसूत्र ३,१.१४ ।
॥ १४ ॥



३,१.३.१५
अपि च सप्त । ब्रह्मसूत्र ३,१.१५ ।
॥ १५ ॥



३,१.३.१६
तत्रापि च तद्व्यापारादविरोधः । ब्रह्मसूत्र ३,१.१६ ।
॥ १६ ॥



३,१.३.१७
विद्याकर्मणोरिति तु प्रकृतत्वात् । ब्रह्मसूत्र ३,१.१७ ।
॥ १७ ॥



३,१.३.१८
न तृतीये तथोपलब्धेः । ब्रह्मसूत्र ३,१.१८ ।
॥ १८ ॥



३,१.३.१९
स्मर्यतेऽपि च लोके । ब्रह्मसूत्र ३,१.१९ ।
॥ १९ ॥



३,१.३.२०
दर्शनाच्च । ब्रह्मसूत्र ३,१.२० ।
॥ २० ॥



३,१.३.२१
तृतीयशब्दावरोधः संशोकजस्य । ब्रह्मसूत्र ३,१.२१ ।
॥ २१ ॥



३,१.४.२२
साभाव्यापत्तिरुपपत्तेः । ब्रह्मसूत्र ३,१.२२ ।
यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्म्यावगमाद्यथेतमाकाशमित्येतदपि
तादात्म्य एवावतिष्ठते ।
न चान्यस्यान्यभावानुपपत्तिः ।
मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद्देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात् ।
तस्मान्मुख्यार्थपरित्यागेन न गौणी वृत्तिराश्रयणीया ।
गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः सम्भवात् ।
यथाहुःऽलक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणताऽइति ।
एवं प्राप्ते ब्रूमःसाभाव्यापत्तिः ।
समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् ।
कुतःुपपत्तेः ।
एतदेव व्यतिरेकमुखेन व्याचष्टेनह्यन्यस्यान्यभावो मुख्य उपपद्यते ।
युक्तमेतद्यद्देवशरीरमजगरभावेन परिणमते, देवदेहसमयेऽजगरशरीरस्याभावात् ।
यदि तु देवाजगशरीरे समसमये स्यातां न देवशरीरमजगरशरीरं शिल्पिशतेनापि क्रियते ।
नहि दधिपयसी समसमये परस्परात्मनी शक्ये सम्पादयितुं, तथेहापि सूक्ष्मशरीराकाशयोर्युगपद्भावान्न परस्परात्मत्वं भवितुमर्हति ।
एवं वाय्वादिष्वपि योज्यम् ।
तथाच तद्भावस्तत्सादृश्येनौपचारिको व्याख्येयः ।
नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आहविभुत्वाच्चाकाशेनेति ॥२२॥



३,१.५.२३
नातिचिरेण विशेषात् । ब्रह्मसूत्र ३,१.२३ ।
ऽदुर्निष्प्रपतरम्ऽइति दुःखेन निःसरणं ब्रूते न तु विलम्बेनेति मन्यते पूर्वपक्षी ।
विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्प्रपतरं विलम्बं लक्षयतीति राद्धान्तः ॥२३॥



३,१.६.२४
अन्याधिष्ठितेषु पूर्ववदभिलापात् । ब्रह्मसूत्र ३,१.२४ ।
आकाशसारूप्यं वायुधूमादिसम्पर्कोऽनुशयिनामुक्त इहेदानीं व्रीहियवा ओषाधिवनस्पतयस्तिलभाषा इति जायन्त इति श्रूयते ।
तत्र संशयःकिमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेष्वेषु संसर्गमात्रमनुभवन्तीति ।
तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसिद्धत्वादत्रापि व्रीह्यादिशरीरपरिग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा
एवानुशयिन इति युक्तम् ।
नच रमणीयचरणाः कपूयचरणा इतिवत्कर्मविशेषासङ्कीर्तनामात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञानन्तराधिष्ठितानामेव
यत्सम्पर्कमात्रमिति साम्प्रतम् ।
इष्टादिकारिणामिष्टादिकर्मसङ्कीर्तनादिष्टादेश्च हिंसादोषदूषितात्वेन सावद्यफलतया चन्द्रलोकभोगानान्तरं
स्थावरशरीरभोग्यदुःखफलत्वस्याप्युपपत्तेः ।
नचऽन हिंस्यात्सर्वा भूतानिऽइति सामान्यशास्त्रस्याग्नीषोमीयपशुहिंसाविषयविशेषशास्त्रेण बाधनं, सामान्यशास्त्रस्य हिंसामान्यद्वारेण
विशेषोपसर्पणं विलम्बेनेति साक्षाद्विशेषस्पृशः शास्त्रच्छीघ्रतरप्रवृत्ताद्दुर्बलत्वादिति साम्प्रतम् ।
नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे ।
न चेहास्ति विरोधः, भिन्नगोचरचारित्वात् ।
ऽअग्नीषोमीयं पशुमालभेत्ऽइति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् ।
तेनास्तु निषेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्छ क्रत्वर्थता को विरोधः ।
यथाहुःऽयो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् ।
न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितःऽइति ।
तस्माज्जनेर्मुख्यार्थत्वाद्व्रीह्यादिशरीरा अनुशयिनो जायन्त इति प्राप्तेऽभिधीयतेभवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा
इतिवद्व्रीह्यादिष्वनुशयवतां कर्मविशेषः कीर्त्येत न चैतदस्ति ।
न चेष्टादेः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः सम्भवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् ।
नच तद्गतायाः पशुहिंसायाऽन हिंस्यात्ऽइति निषेधात्क्रत्वर्थाया अपि दुःखफलवत्सम्भवः ।
पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् ।
तथाहिन हिंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते ।
न चैतत्ऽनानृतं वदेत्ऽऽन तौ पशौ करोतिऽइतिवत्कस्यचित्प्रकरणे समाम्नातं येनानृततवदनवदस्य निषेधस्य क्रत्वर्थते निषेधोऽपि क्रत्वर्थः
स्यात् ।
पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् ।
एवं हि सत्याज्यभागरहितैरप्यङ्गान्तरैराज्यभागसाध्यः क्रतूपकारो विज्ञायते ।
तस्मादनारभ्याधीतेन न हिंस्यादित्यनेनाभिहितस्य विध्युपहितस्य पुरुषव्यापारस्य विधिविभक्तिविरोधात्प्रकृत्यर्थहिंसाकर्मभाव्यत्परित्यागेन
पुरुषार्थ एव भाव्योऽवतिष्ठते ।
आख्यातानभिहितस्यापि पुरुषस्य कर्तृव्यापाराभिधानद्वारेणोपस्थापितत्वात् ।
केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन नञर्थं विधिरुपसङ्क्रामति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधोऽपि पुरुषार्थो भवति ।
तथा चायमर्थः सम्पद्यतेयत्पुरुषार्थं हननं तन्न कुर्यादिति ।
क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्यते ।
नच दृष्टे पुरुषोकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् ।
नच स्वातन्त्र्यपारतन्त्र्ये सति संयोगपृथक्त्वे खादिरतादिवदेकत्र सम्भवतः ।
तस्मात्पुरुषार्थप्रतिषेधो न क्रत्वर्थमप्यास्कन्दतीति शुद्धसुखफलत्वमेवेष्टादीनां न स्थावरशरीरोपभोग्यदुःखफलत्वमपीति ।
आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् ।
अनुशयिनां व्रीह्यादिसंयोगमात्रं न तु देहत्वमिति ।
अयमेवार्थ उत्सर्गापवादकथनेनोपलक्षितः ।
अपिच मुख्येऽनुशयिनां व्रीह्यादिजन्मनीति ।
व्रीह्यादिभावमापन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतः सिग्भावमनुभवन्ती श्रूयते ।
तदेतद्व्रीह्यादिदेहत्वेऽनुशयिनां नोपपद्यते ।
व्रीह्यादिदेहत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्यादिदेहविनाशादनुशयिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे
तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संसर्गिणोऽनुशयिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते ।
शेषमुक्तम् ॥२४॥



३,१.६.२५
अशुद्धमिति चेन्न शब्दात् । ब्रह्मसूत्र ३,१.२५ ।
॥ २५ ॥



३,१.६.२६
रेतःसिग्योगोऽथ । ब्रह्मसूत्र ३,१.२६ ।
सद्यो जातो हि बालो न रेतः सिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते ॥२६॥



३,१.६.२७
तत्किमिदानीं सर्वत्रैवानुशयिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह
योनेः शरीरम् । ब्रह्मसूत्र ३,१.२७ ।
सुगमम् ॥२७॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमांसाभाष्यविभागे भामत्यां तृतीयस्याध्यायस्य प्रथमः पादः ॥
॥ इति तृतीयाध्यायस्य गत्यागतिचिन्तया वैराग्यनिरूपणाख्यः प्रथमः पादः ॥





तृतीयाध्याये द्वितीयः पादः ॥