०४

२,४.१.१
तथा प्राणाः । ब्रह्मसूत्र २,४.१ ।
यद्यपि ब्रह्मवेदने सर्ववेदनप्रतिज्ञातादुपपादनश्रुतिविरोधाद्बहुतराद्वैतश्रुतिविरोधाच्च प्राणानां सर्गादौ सद्भावश्रुतिर्वियदस्मृतत्वादिश्रुतय
इवान्यथा कथञ्चिन्नेतुमुचिता, तथाप्यन्यथानयनप्रकारमविद्वानन्यथानुपपद्यमानैकापि श्रुतिर्बह्वीरन्यथयेदिति मन्वानः पूर्वपक्षयति ।
अत्र चात्युच्चतया वियदधिकरणपूर्वपक्षहेतून् स्मारयतितत्र तावदिति ।
शब्दैकप्रमाणसमधिगम्या हि महाभूतोत्पत्तिस्तस्या यत्र शब्दो निवर्तते तत्र तत्प्रमाणभावेन तदभावः प्रतीयते ।
यथा चैत्यवन्दनतत्कर्मधर्मताया इत्यर्थः ।
अत्रापाततः श्रुतिविप्रतिपत्त्यानध्यवसायेन पूर्वपक्षयित्वाथवेत्यभिहितं पूर्वपक्षममवतारयति ।
अभिप्रायोऽस्य दर्शितः ।
ऽपानव्यापच्च तद्वत्ऽइत्यत्राश्वप्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षसूत्रार्थसादृश्यं तदा परामृष्टम् ।
राद्धान्तस्तु स्यादेतदेवं यदि सर्गादौ प्राणसद्भावश्रुतिरनन्यथासिद्धा भवेत् ।
अन्यथैव त्वेषा सिध्यति ।
अवान्तरप्रलये ह्यग्निसाधनानां सृष्टिर्वक्तव्येति तदर्थोऽसावुपक्रमः ।
तत्राधिकारिपुरुषः प्रजापतिरप्रनष्ट एव त्रैलोक्यमात्रं प्रलीनमतस्तदीयान् प्राणानपेक्ष्य सा श्रुतिरुपपन्नार्था ।
तस्माद्भूयसीनां श्रुतीनामनुग्रहाय सर्वविज्ञानप्रतिज्ञोपपत्त्यर्थस्य चोत्तरस्य सन्दर्भस्य गौणत्वे तु
प्रतिज्ञातार्थानुगुण्याभावेनानपेक्षितार्थत्वप्रसङ्गात्प्राणा अपि नभोवद्ब्रह्मणो विकारा इति ।
नच चैत्यवन्दनादिवत्सर्वथा प्राणानामुत्पत्त्यश्रुतिः, क्वचित्खल्वेषामुत्पत्त्यश्रवणमुत्पत्तिश्रुतिस्तु तत्र तत्र दर्शिता ।
तस्माद्वैषम्यं चैत्यवन्दनपोषधादिभिरिति ।



२,४.१.२
गौण्यसम्भवात् । ब्रह्मसूत्र २,४.२ ।
केचिद्वियदधिकरणव्याख्यानेन गौण्यसम्भवादिति सूत्रं व्याचक्षते ।
गौणी प्राणानामुत्पत्तिश्रुतिरसम्भवादुत्पत्तेरिति ।
तदयुक्तम् ।
विकल्पासहत्वात् ।
तथाहिप्राणानां जीववद्वाविकृतब्रह्मात्मतयानुपपत्तिः स्यात्, ब्रह्मणस्तत्त्वान्तरतया वा ।
न तावज्जीववदेषामविकृतब्रह्मात्मता, जडत्वात् ।
तस्मात्तत्त्वान्तरतयैषामनुत्पत्तिरास्थेया ।
तथाच ब्रह्मवेदनेन सर्ववेदनप्रतिज्ञाव्याहतिः, समस्तवेदान्तव्याकोपश्चेत्येतदाहवियदधिकरणे हीति ॥२॥



२,४.१.३
तत्प्राक्श्रुतेश्च । ब्रह्मसूत्र २,४.३ ।
निगदव्याख्यातमस्य भाष्यम् ॥३॥



२,४.१.४
तत्पूर्वकत्वाद्वाचः । ब्रह्मसूत्र २,४.४ ।
वाच इति वाक्प्राणमनसामुपलक्षणम् ।
अयमर्थःयत्रापि तेजःप्रभृतीनां सृष्टौ प्राणसृष्टिर्नोक्तेति ब्रूषे, तत्राप्युक्तेति ब्रूमहे ।
तथाहियस्मिन् प्रकरणेन तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायतेऽअन्नमयं हिऽइत्यादिना, तद्यदि मुख्यार्थं ततस्तत्सामासर्वेषामेव प्राणानां
सृष्टिरुक्ता ।
अथ गौणं तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायामुपक्रमोपसंहारपर्यालोचनया श्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चार्थमेव
प्राणादीनामापोमयत्वाद्यभिधानमित्युक्तैव तत्रापि प्राणसृष्टिरिति सिद्धम् ॥४॥



२,४.२.५
सप्त गतेर्विशेषितत्वाच्च । ब्रह्मसूत्र २,४.५ ।
अवान्तरसङ्गतिमाहौत्पत्तिविषय इति ।
संशयकारणमाहश्रुतिविप्रतिषेधादिति ।
विशयःसंशयः ।
क्वचित्सप्त प्राणाः ।
तद्यथाचक्षुर्घ्राणरसनवाक्श्रोत्रमनस्त्वगिति ।
क्वचिदष्टौ प्राणाग्रहत्वेनबन्धनेन गुणेन सङ्कीर्त्यन्ते ।
तद्यथाघ्राणरसनवाक्चक्षुःश्रोत्रमनोहस्तत्वगिति, त एते ग्रहाः, एषां तु विषया अतिग्रहास्त्वष्टावेवऽप्राणो वै ग्रहः सोऽपानेनातिग्रहेण
गृहीतोऽपानेन हि गन्धान् जिघ्रतिऽइत्यादिना सन्दर्भेणोक्ताः ।
क्वचिन्नव ।
तद्यथासप्त वै शीर्षण्याः प्राणाः द्वाववाञ्चाविति ।
द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका वागिति सप्त ।
पायूपस्थौ बुद्धिमनसी वा द्वाववाञ्चाविति नच ।
क्वचिद्दश ।
नव वै पुरुषे प्राणास्त उक्ता नाभिर्दशमीति ।
क्वचिदेकादशऽ दशेमे पुरुषे प्राणाःऽ ।
तद्यथाबुद्धीन्द्रियाणि घ्राणादीनि पञ्च कर्मेन्द्रियाण्यपि हस्तादीनि पञ्च आत्मैकादश, आप्नोत्यधिष्ठानेनेत्यात्मा मनः स एकादश इति ।
क्वचिद्वादश ।
ऽसर्वेषां स्पर्शानां त्वगेकायनम्ऽ इत्यत्र ।
तद्यथात्वग्नासिकारसनचक्षुःश्रोत्रमनोहृदयहस्तपादोपस्थपायूवागिति ।
क्वचिदेत एव प्राणा अहङ्काराधिकास्त्रयोदश ।
एवं विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः ।
अत्र प्रश्नपूर्वं पूर्वपक्षं गृह्णातिकिं तावत्प्राप्तम् ।
सप्तैवेति ।
सप्तैव प्राणाः कुतःगतेःवगते ।
श्रुतिभ्यःऽसप्त प्राणाः प्रभवन्तिऽइत्यादिभ्यः ।
न केवलं श्रुतितोऽवगतिः, विशेषणादप्येवमेवेत्याहविशेषितत्वाच्च ।
सप्त वै शीर्षण्याः प्राणा इति ।
ये सप्त शीर्षण्याः श्रोत्रादयस्ते प्राणा इत्युक्ते इतरेषामशीर्षण्यानां हस्तादीनामप्राणत्वं गम्यते ।
यथा दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीति गम्यते ।
एतदुक्तं भवतियद्यपि श्रुतिविप्रतिषेदो यद्यपि च पूर्वसङ्ख्यासु न परासां सङ्ख्यानां निवेशस्तथाप्यवच्छेदकत्वेन बह्वीनां
सङ्ख्यानामसम्भवादेकस्यां कल्प्यमानायां सप्तत्वमेव युक्तं प्राथम्याल्लाघवाच्च, वृत्तिभेदमात्रविवक्षया त्वष्टत्वादयो गमयितव्या इति प्राप्तम् ॥५॥



२,४.२.६
एवं प्राप्त उच्यते
हस्तादयस्तु स्थितेऽतो नैवम् ।
हस्तादयस्तु स्थितेऽतो नैवम् । ब्रह्मसूत्र २,४.६ ।
तुशब्दः पक्षं व्यावर्तयति ।
न सप्तैव किन्तु हस्तादयोऽपि प्राणाः ।
प्रमाणान्तरादेकादशत्वे प्राणानां स्थितेऽतोस्मिन् सति ।
सार्वविभक्तिकस्तसिः ।
नैवम् ।
लाघवात्प्राथम्याच्च सप्तत्वमित्यक्षरार्थः ।
एतदुक्तं भवतियद्यपि श्रुतयः स्वतःप्रमाणतयानपेक्षास्तथापि परस्परविरोधान्नार्थतत्त्वपरिच्छेदायालम् ।
नच सिद्धे वस्तुनि अनुष्ठान इव विकल्पः सम्भवति ।
तस्मात्प्रमाणान्तरोपनीतार्थवशेन व्यवस्थाप्यन्ते ।
यथा हीनेति ।
ऽस्रुवेणावद्यपिऽइति मांसपुरोडाशावदानासम्भवात्,
सम्भवाच्च द्रवावदानस्य स्रुवावदाने द्रवाणीति व्यवस्थाप्यते ।
एवमिहापि रूपादिबुद्धिपञ्चककार्यव्यवस्थातश्चक्षुरादिबुद्धीन्द्रियकरणपञ्चकव्यवस्था ।
नह्यन्धादयः सत्स्वपीतरेषु घ्राणादिषु गन्धाद्युपलब्ध्यानुमितसद्भावेषु रूपादीनुपलभन्ते ।
तथा वचनादिलक्षणकार्यपञ्चकव्यवस्थातो वाक्पाण्यादिलक्षणकर्मेन्द्रियपञ्चकव्यवस्था ।
नहि जातु मूकादयः सत्स्वपि विहरणाद्यवगतसद्भावेषु पादादिषु बुद्धीन्द्रियेषु वा वचनादिमन्तो भवन्ति ।
एवं कर्मबुद्धीन्द्रियासम्भविन्या सङ्कल्पादिक्रियाव्यवस्थयान्तःकरणव्यवस्थानुमानम् ।
एकमपि चान्तःकरणमनेकक्रियाकारि भविष्यति, यथा प्रदीप एको रूपप्रकाशवर्तिविकारस्नेहशोषणहेतुः ।
तस्मान्नान्तःकरणभेदः ।
एकमेव त्वन्तःकरणं मननान्मन इति चाभिमानादहङ्कार इति चाध्यवसायाद्बुद्धिरिति चाख्यायते ।
वृत्तिभेदाच्चाभिन्नमपि भिन्नमिवोपचर्यते त्रयमिति ।
तत्त्वेन त्वेकमेव भेदे प्रमाणाभावात् ।
तदेवमेकादशानां कार्याणां व्यवस्थानादेकादश प्राणा इति श्रुतिराञ्जसी ।
तदनुगुणतया त्वितराः श्रुतयो नेतव्याः ।
तत्रावयुत्यनुवादेन सप्ताष्टनवदशसङ्ख्याश्रुतयो यथैकं वृणीते द्वौ वृणीते इति त्रीन् वृणीत इत्येतदानुगुण्यात् ।
द्वादशत्रयोदशसङ्ख्याश्रुती तु कथञ्चिद्वृत्तिभेदेन भेदं विवक्षित्वोपासनादिपरतया नेतव्ये ।
तस्मादेकादशैव प्राणा नेतर इति सिद्धम् ।
अपिच शीर्षण्यानां प्राणानां यत्सप्तत्वाभिधानं तदपि चतुर्ष्वेवव्यवस्थापनीयम्, प्रमाणान्तरविरोधात् ।
न खलु द्वे चक्षुषी, रूपोपलब्धिलक्षणस्य कार्यस्याभेदात् ।
पिहितैकचक्षुषस्तु न तादृशी रूपोपलब्धिर्भवति यादृशी समग्रचक्षुषः, तस्मादेकमेव चक्षुरधिष्ठानभेदेन तु भिन्नमिवोपचर्यते ।
काणस्याप्येकगोलकगतेन चक्षुरवयवेनोपलम्भः ।
एतेन घ्राणश्रोत्रे अपि व्याख्याते ।
इयमपरा सूत्रद्वययोजनासप्तैव प्राणाः चक्षुर्घ्राणरसनवाक्श्रोत्रमनस्त्वच उत्क्रान्तिमन्तः स्युः ।
सप्तानामेव गतिश्रुतेर्विशेषितत्वादिति व्याख्यातुं शङ्कतेननु सर्वशब्दोऽप्यत्रेति ।
अस्योत्तरंविशेषितत्वादिति ।
चक्षुरादयस्त्वक्पर्यन्ता उत्क्रान्तौ विशेषिताः ।
तस्मात्सर्वशब्दस्य प्रकृतापेक्षत्वात्सप्तैव प्राणा उत्क्रामन्ति न पाण्यादय इति प्राप्तम् ।
चोदयतिनन्वत्र विज्ञानमष्टममिति ।
ऽन विजानातीत्याहुःऽइत्यनेनानुक्रान्तम् ।
परिहरतिनैष दोष इति ।
सिद्धान्तमाहहस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाःुत्क्रान्तिभाजोऽवगम्यन्ते ग्रहत्वश्रुतेर्हस्तादीनाम् ।
एवं खल्वेषां ग्रहत्वाम्नानमुपपद्येत ।
यद्यामुक्तेरात्मानं बध्नीयुरितरथा षाट्कोशिकशरीरवदेषां ग्रहत्वं नाम्नायेत ।
अत एव च स्मृतिरेषां मुक्त्यवधितामाहपुर्यष्टकेनेति ।
तथाथर्वणश्रुतिरप्येषामेकादशानामुत्क्रान्तिमभिवदति ।
तस्माच्छ्रुत्यन्तरेभ्यः स्मृतेश्च सर्वशब्दार्थासङ्कोचाच्च सर्वेषामुत्क्रमेण स्थितेऽस्मिन्नैवं यदुक्तं सप्तैवेति, किन्तु प्रदर्शनार्थं सप्तत्वसङ्ख्येति
सिद्धम् ॥६॥



२,४.३.७
अणवश्च । ब्रह्मसूत्र २,४.७ ।
अत्र साङ्ख्यानामाहङ्कारिकत्वादिन्द्रियाणामहङ्कारस्य च जग्नामण्डलव्यापित्वात्सर्वगताः प्राणाः ।
वृत्तिस्तेषां शरीरदेशतया प्रादेशिकी तन्निबन्धना च गत्यागतिश्रुतिरिति मन्यन्ते, तान्प्रत्याहअणवश्च प्राणा अनुद्भूतरूपस्पशर्ता चाणुत्वं
दुरधिगमत्वान्न तु परमाणुत्वं देहव्यापिकार्यानुत्पत्तिप्रसङ्गात्तापदूनस्य शिशिरह्रदनिमग्नस्य सर्वाङ्गीणशीतस्पर्शोपलब्धिरस्तीत्युक्तम् ।
एतदुक्तं भवतियदि सर्वगतानीन्द्रियाणि भवेयुस्ततो व्यवहितविप्रवृष्टवस्तूपलम्भप्रसङ्गः ।
सर्वगतत्वेऽपि देहावच्छिन्नानामेव करणत्वं तेन न व्यवहितविप्रकृष्टवस्तूपलम्भप्रसङ्ग इति चेत्, हन्त प्राप्ताप्राप्ताविवेकेन शरीरावच्छिन्नानामेव
तेषां करणत्वमिन्द्रियत्वमिति न व्यापिनामिन्द्रियभावः ।
तथाच नाममात्रे विसंवादो नार्थेऽस्माभिस्तदिन्द्रियमुच्यते भवद्भिस्तु वृत्तिरिति सिद्धमणवः प्राणा इति ॥७॥



२,४.४.८
श्रेष्ठश्च । ब्रह्मसूत्र २,४.८ ।
न केवलमितरे प्राणा ब्रह्मविकाराः ।
श्रेष्ठश्च प्राणो ब्रह्मविकारः ।
ऽनासदासीत्ऽइत्यधिकृत्य प्रवृत्ते ब्रह्मसूक्ते नासदासीये सर्गात्प्रागानीदिति प्राणव्यापारश्रवणादसति च व्यापारानुपपत्ते
प्राणसद्भावाज्ज्येष्ठत्वश्रुतेश्च न ब्रह्मविकारः प्राण इति मन्वानस्य बहुश्रुतिविरोधेऽपि च श्रुत्योरेतयोर्गतिमपश्यतः पूर्वपक्षः ।
राद्धान्तस्तु बहुश्रुतिविरोधादेवानीदिति न प्राणव्यापारप्रतिपादिनी, किन्तु सृष्टिकारणमानीत्जीवति स्म आसीदिति यावत् ।
तेन तत्सद्भावप्रतिपादनपरा ।
ज्येष्ठत्वं च श्रोत्राद्यपेक्षमिति गमयितव्यम् ।
तस्माद्बहुश्रुत्यनुरोधान्मुख्यस्यापि प्राणस्य ब्रह्मविकारत्वमिति सिद्धम् ॥८॥



२,४.५.९
न वायुक्रिये पृथगुपदेशात् । ब्रह्मसूत्र २,४.९ ।
सम्प्रति मुख्यप्राणस्वरूपं निरूप्यते ।
अत्र हिऽयः प्राणः स वायुःऽइति श्रुतेर्वायुरेव प्राण इति प्रतिभाति ।
अथवाऽप्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषाऽइति वायोर्भेदेन प्राणस्य श्रवणादेतद्विरोधाद्वरं तन्त्रान्तरीयमेव प्राणस्य स्वरूपमस्तु,
श्रुती च विरुद्धार्थे कथञ्चिन्नेष्येते इति सामान्यकरणवृत्तिरेव प्राणोऽस्तु ।
न चात्रापि करणेभ्यः पृथक्प्राणस्यानुक्रमणश्रुतिविरोधो वृत्तिवृत्तिमतोर्भेदादिति पूर्वः पक्षः ।
सिद्धान्तस्तुन सामान्येन्द्रियवृत्तिः प्राणः ।
स हि मिलितानां वेन्द्रियाणां वृत्तिर्भवेत्प्रत्येकं वा ।
न तावन्मिलितानाम्, एकद्वित्रिचतुरिन्द्रियाभावे तदभावप्रसभङ्गात् ।
नो खलु चूर्णहरिद्रासंयोगजन्मारुणगुणस्तयोरन्यतराभावे भवितुमर्हति ।
नच बहुविष्टिसाध्यं शिबिकोद्वहनं द्वित्रिविष्टिसाध्यं बवति ।
न च त्वगेकसाध्यं, तथा सति सामान्यवृत्तित्वानुपपत्तेः ।
अपिच यत्सम्भूय कारकाणि निष्पादयन्ति तत्प्रधानव्यापारानुगुणावान्तरव्यापारेणैव यथा वयसां प्रातिस्विको व्यापारः पञ्जरचालनानुगुणः ।
न चेन्द्रियाणां प्राणे प्रधानव्यापारे जनयितव्येऽस्ति तादृशः कश्चिदवान्तरव्यापारस्तदनुगुणः ।
ये च रूपादिप्रत्यया न ते तदनुगुणाः, तस्मान्नेन्द्रियाणां सामान्यवृत्तिः प्राणस्तथा च वृत्तिवृत्तिमतोः कथञ्चिद्भेदविवक्षया न पृथगुपदेशो
गमयितव्यः ।
तस्मान्न क्रिया, नापि वायुमात्रं प्राणः, किन्तु वायुभेद एवाध्यात्मामापन्नः पञ्चव्यूहः प्राण इति ॥९॥



२,४.५.१०
स्यादेतत् ।
यथा चक्षुरादीनां जीवं प्रति गुणभूतत्वाज्जीवस्य च श्रेष्ठत्वाज्जीवः स्वतन्त्र एवं प्राणोऽपि प्राधान्यात्श्रेष्ठत्वाच्च स्वतन्त्रः प्राप्नोति ।
नच द्वयोः स्वतन्त्रयोरेकस्मिन् शरीरे एकवाक्यत्वमुपपद्यत इत्यपर्यायं विरुद्धानेकदिक्क्रियतया देह उन्मथ्येत ।
इति प्राप्ते, उच्यते
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः । ब्रह्मसूत्र २,४.१० ।
यद्यपि चक्षुराद्यपेक्षया श्रेष्ठत्वं प्राधान्यं च प्राणस्य तथापि संहतत्वादचेतनत्वाद्भौतिकत्वाच्चक्षुरादिभिः सहशिष्टत्वाच्चच पुरुषार्थत्वात्पुरुषं
प्रति पारतन्त्र्यं शयनासनादिवद्भवेत् ।
तथाच यथा मन्त्रीतरेषु नैयोगिकेषु प्रधानमपि राजानमपेक्ष्यास्वतन्त्र एवं प्राणोऽपि चक्षुरादिषु प्रधानमपि जीवेऽस्वतन्त्र इति ॥१०॥



२,४.५.११
स्यादेतच्चक्षुरादिभिः सह शासनेन करणं चेत्प्राणः ।
एवं सति चक्षुरादिविषयरूपादिवदस्यापि विषयान्तरं वक्तव्यम् ।
नच तच्छक्यं वक्तुम् ।
एकादशकरणगणनव्याकोपश्चेति दोषं परिहरति
अकरणत्वाच्च न दोषस्तथाहि दर्शयति । ब्रह्मसूत्र २,४.११ ।
न प्राणः परिच्छेदधारणादिकरणमस्माभिरभ्युपेयते येनास्य विषयान्तरमन्विष्येत ।
एकादशत्वं च करणानां व्याकुप्येतापि तु प्राणान्तरासम्भवि देहेन्द्रियविधारणकारणं प्राणः ।
तच्च श्रुतिप्रबन्धेन दर्शितं न केवलं शरीरेन्द्रियधारणमस्य कार्यम् ॥११॥



२,४.५.१२
अपिच
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते । ब्रह्मसूत्र २,४.१२ ।
ऽविपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्ऽयथा मरुमरीचिकादिषु सलिलादिबुद्धयः ।
अतद्रूपप्रतिष्ठता च संशयेऽप्यस्ति तस्यैकाप्रतिष्ठानात् ।
अतः सोऽपि सङ्गृहीतः ।
ऽशब्दज्ञानानुपाती वस्तुशून्यो विकल्पःऽ ।
यद्यपि मिथ्याज्ञानेऽप्यस्ति वस्तुशून्यता तथापि न तस्य व्यवहारहेतुतास्ति ।
अस्य तु पण्डितरूपविचारासहस्यापि शब्दज्ञानमाहात्म्याद्व्यवहाराहेतुभावोऽस्त्येव ।
यथ पुरुषस्य चैतन्यमिति ।
नह्यत्र षष्ठ्यर्थः सम्बन्धोऽस्ति, तस्य भेदाधिष्ठानत्वात् ।
चैतन्यस्य पुरुषादत्यन्ताभेदात् ।
यद्यपि चात्राभावप्रत्ययालम्बना वृत्तिर्नेष्यते तथापि विक्षेपसंस्कारलक्षणा मनोवृत्तिरिहास्त्येवेति सर्वमवदातम् ॥१२॥



२,४.६.१३
अणुश्च । ब्रह्मसूत्र २,४.१३ ।
ऽसमास्त्रिभिर्लोकैःऽइति विभुत्वश्रवणाद्विभुः प्राणः,ऽसमः प्लुषिणाऽइत्याद्यास्तु श्रुतयो विभोरप्यवच्छेदाद्भाविष्यन्ति ।
यथा विभुन आकाशस्य कुटकरकाद्यवच्छेदात्कुटादिसाम्यमिति प्राप्त आहअणुश्च ।
उत्क्रान्तिगत्यागतिश्रुतिभ्य आध्यात्मिकस्य प्राणस्यावच्छिन्नता न विभुत्वम् ।
दुरधिगमतामात्रेण च शरीरव्यापिनोऽप्यणुत्वमुपचर्यते न त्वणुत्वमित्युक्तमधस्तात् ।
यत्त्वस्य विभुत्वान्मानं तदाधिदैविकेन सूत्रात्मना समष्टिव्यष्टिरूपेण न त्वाध्यात्मिकेन रूपेण ।
तदाश्रयाश्चऽसमः प्लुषिणाऽइत्येवमाद्याः श्रुतयो देहसाम्यमेव प्राणस्याहुः स्वरूपतो न तु करकाकाशवत्परोपाधिकतया कथञ्चिन्नेतव्या इति
॥१३॥



२,४.७.१४
ज्योतिराद्यधिष्ठानं तु तदामननात् । ब्रह्मसूत्र २,४.१४ ।
यद्धि यत्कार्यं कुर्वद्दृष्टं तत्स्वमहिम्नैव करोतित्येष तावदुत्सर्गः पराधिष्ठानं तु तस्य बलवत्प्रमाणान्तरवशात्स्यादेतत् ।
वास्यादीनां तक्षाद्यधिष्ठितानामचेतनानां कार्यकारित्वदर्शनादचेतनत्वेनन्द्रियाणामप्यधिष्ठातृदेवताकल्पनेति चेत् ।
न ।
जीवस्यैवाधिष्ठातुश्चेतनस्य विद्यमानत्वात् ।
नचऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽइत्यादिश्रुतिभ्यो देवतानामप्यधिष्ठातृत्वमभ्युपगन्तुं युक्तम् ।
अनेकाधिष्ठानाभ्युपगमे हि तेषामेकाभिप्रायनियमनिमित्ताभावान्न किञ्चित्कार्यमुत्पद्येत विरोधात् ।
अपिच य इन्द्रियाणामधिष्ठाता स एव भोक्तेति देवतानां भोक्तृत्वेन स्वामित्वं शरीर इति न जीवः स्वामी स्याद्भोक्ता च ।
तस्मादग्न्याद्युपचारो वागादिषु प्रकाशकत्वादिना केनचिन्निमित्तेन गमयिततव्यो नतु स्वरूपेणाग्न्यादिदेवतानां मुखाद्यनुप्रवेश इति प्राप्तम् ।
एवं प्राप्ते उच्यतेनानाविधासु तावच्छ्रुतिषु स्मृतिषु च तत्र तत्र वागादिष्वग्न्यादिदेवताधिष्ठानवगम्यते ।
नच तदसत्यामनुपपत्तौ क्लेशेन व्याख्यातुमुचितम् ।
नच स्वरूपोपयोगभेदज्ञानविरहिणो जीवस्येन्द्रियाधिष्ठातृत्वसम्भवः, सम्भवति तु देवतानामिन्द्रियाद्यार्षेण ज्ञानेन साक्षात्कृतवतीनां
तत्स्वरूपभेदतदुपयोगभेदविज्ञानम् ।
तस्मात्तास्ता एव देवतास्तत्तत्करणाधिष्ठात्र्य इति युक्तं न तु जीवः ।
भवतु वा जीवोऽप्यधिष्ठाता तथाप्यदोषः ।
अनेकेषामधिष्ठातणामेकः परमेश्वरोऽस्ति नियन्तान्तर्यामी तद्वशाद्विप्रतिपित्सवोऽपि न विप्रतिपत्तुमर्हन्ति ।
तथा चैकवाक्यतया न तत्कार्योत्पत्तिप्रत्यूहः ।
न चैतावता देवतानामत्र शरीरे भोक्तृत्वम् ।
नहि यन्ता रथमधितिष्ठिन्नपि तत्साध्यविजयादेर्भोक्तापि तु स्वाम्येव ।
एवं देवता अधिष्ठात्र्योऽपि न भोक्त्र्यस्तासां तावन्मात्रस्य श्रुतत्वात् ।
भोक्ता तु जीव एव ।
नच नरादिशरीरोचितं दुःखबहुलमुपभोगं सुखमय्यो देवता अर्हन्ति ।
तस्मात्प्राणानामधिष्ठात्र्यो देवता इति सिद्धम्, शेषमतिरोहितार्थम् ॥१४॥



२,४.७.१५.
प्राणवता शब्दात् । ब्रह्मसूत्र २,४.१५ ।
॥ १५ ॥



२,४.७.१६.
तस्य च नित्यत्वात् । ब्रह्मसूत्र २,४.१६ ।
॥ १६ ॥



२,४.७.१७
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् । ब्रह्मसूत्र २,४.१७ ।
मा भूत्प्राणो वृत्तिरिन्द्रियाणाम् ।
इन्द्रियाण्येवास्य ज्येष्ठस्य श्रेष्ठस्य च प्राणस्य वृत्तयो भविष्यन्ति ।
तद्भावाभावानुविधायिभावाभावत्वमिन्द्रियाणां श्रुत्यनुभवसिद्धं, तथाच प्राणशब्दस्यैकस्यान्याय्यमनेकार्थत्वं न भविष्यति ।
वृत्तीनां वृत्तिमतस्तत्त्वान्तरत्वाभावात् ।
तत्त्वान्तरत्वे त्विन्द्रियाणां, प्राणशब्दस्यानेकार्थत्वं प्रसज्येत ।
इन्द्रियेषु लाक्षणिकत्वं वा ।
नच मुख्यसम्भवे लक्षणा युक्ता जघन्यत्वात् ।
नच भेदेन व्यपदेशो भेदसाधनम्ऽएतस्माज्जायते प्राणःऽइत्यादिर्मनसोऽपीन्द्रियेभ्योऽस्ति भेदेन व्यपदेश इत्यनिन्द्रियत्वप्रसङ्गः ।
स्मृतिवशात्तु तस्येन्द्रियत्वे इन्द्रियाणामपि प्राणाद्भेदेन व्यपदिष्टानामप्यस्ति प्राणस्वभावत्वेऽहन्त अस्यैव रूपमसामऽइति श्रुतिः ।
तस्मादुपपत्तेः श्रुतेश्च प्राणस्यैव वृत्तय एकादशेन्द्रियाणि न तत्त्वान्तराणीति इति प्राप्तम् ।
एवं प्राप्त उच्यतेमुख्यात्प्राणात्तत्त्वान्तराणीन्द्रियाणि, तत्र तत्र भेदेन व्यपदेशात् ।
मृत्युप्राप्ताप्राप्तत्वलक्षणविरुद्धधर्मसंसर्गश्रुतेः ।
अर्थक्रियाभेदाच्च ।
देहधारणं हि प्राणस्य क्रियार्ऽथालोचनमनने चेन्द्रियाणाम् ।
नच तद्भावाभावानुविधानं तद्वृत्तितामावहति ।
देहेन व्यभिचारात् ।
प्राणादयो हि देहान्वयव्यतिरेकानुविधायिनो नच देहात्मनः ।
यापि च प्राणरूपतामिन्द्रियाणामभिदधाति श्रुतिः, तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयत इत्युक्तं भाष्यकृता ।
तस्माद्बहुश्रुतिविरोधात्पूर्वापरविरोधाच्च प्राणरूपताभिधानमिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् ।
मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीर्वदन्यायेन ।
अथवा इन्द्रियाणां वर्तमानमात्रविषयत्वान्मनसस्तु त्रैकाल्यगोचरत्वाद्भेदेनाभिधानम् ।
नच प्राणे भेदव्यपदेशबाहुल्यं तथा नेतुं युक्तम् ।
प्राणरूपताश्रुतेश्च गतिर्दर्शिता ।
तथा ज्येष्ठे प्राणशब्दस्य मुख्यत्वादिन्द्रियेषु ततस्तत्त्वान्तरेषु लाक्षणिकः प्राणशब्द इति युक्तम् ।
नच मुख्यत्वानुरोधेनावगतभेदयोरैक्यं युक्तं, मा भूद्गङ्गादीनां तीरादिभिरैक्यमिति ।
अन्ये तु भेदशब्दाध्याहारभिया भेदश्रुतेश्चेति पौनरुक्त्यभिया च तच्छब्दस्य चानन्तरोक्तपरमार्थकत्वादन्यथा वर्णयाञ्चक्रुः ।
किमेकादशैव वागादय इन्द्रियाण्याहो प्राणोऽपीति विशये इन्द्रस्यात्मनो लिङ्गमिन्द्रियं, तथाच वागादिवत्प्राणस्यापीन्द्रलिङ्गतास्ति नच
रूपादिविषयालोचनकरणतेन्द्रियता, आलोकस्यापीन्द्रियत्वप्रसङ्गात् ।
तस्माद्भौतिकमिन्द्रलिङ्गमिन्द्रियमिति वागादिवत्प्राणोऽपीन्द्रियमिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेइन्द्रियाणि वागादिनि श्रेष्ठात्प्राणादन्यत्र ।
कुतःतेनेन्द्रियशब्देन तेषामेव वागादीनां व्यपदेशात् ।
नहि मुख्ये प्राणा इन्द्रियशब्दो दृष्टचरः ।
इन्द्रलिङ्गता तु व्युत्पत्तिमात्रनिमित्तं यथा गच्छतीति गौरिति ।
प्रवृत्तिनिमित्तं तु देहाधिष्ठानत्वे सति रूपाद्यालोचनकरणत्वम् ।
इदं चास्य देहाधिष्ठानत्वं यद्देहानुग्रहोपघाताभ्यां तदनुग्रहोपघातौ ।
तथाच नालोकस्येन्द्रियत्वप्रसङ्गः ।
तस्माद्रूढेर्वागादय एवेन्द्रियाणि न प्राण इति सिद्धम् ।
भाष्यकारीयं त्वधिकरणं भेदश्रुतेरित्यादिषु सूत्रेषु नेयम् ॥१७॥



२,४.८.१८.
भेदश्रुतेः । ब्रह्मसूत्र २,४.१८ ।
॥ १८ ॥



२,४.८.१९.
वैलक्षण्याच्च । ब्रह्मसूत्र २,४.१९ ।
॥ १९ ॥



२,४.९.२०
सञ्ज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् । ब्रह्मसूत्र २,४.२० ।
सत्प्रक्रियायांऽतत्तेज ऐक्षतऽइत्यादिना सन्दर्भेण तेजोऽबन्नानां सृष्टिं विधायोपदिश्यतेऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणिऽइति ।
अस्यार्थःपूर्वोक्तं बहुभवनमीक्षणप्रयोजनमद्यापि सर्वथा न निष्पन्नमिति पुनरीक्षां कृतवती बहुभवनमेव प्रयोजनमुद्दिश्य कथं
हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवताः पूर्वसृष्टावुभूतेन सम्प्रति स्मरणसन्निधापितेन जीवेन प्राणधारणकर्त्रात्मनानुप्रविश्य
बुद्ध्यादिभूतमात्रायामदर्श इव मुखबिम्बं तोय इव चन्द्रमसो बिम्बं छायामात्रतयानुप्रविश्य नाम च रूपं च ते व्याकरवाणि विस्पष्टं
करवाणीदमस्य नामेदं च रूपमिति ।
तासां तिसृणां देवतानां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकामेकैकां देवतां करवाणीति ।
तत्र संशयःकिं जीवकर्तृकमिदं नामरूपव्याकरणमाहो परमेश्वरकर्तृकमिति ।
यदि जीवकर्तृकं ततःऽआकाशो ह वै नाम नामरूपयोर्निर्वहिताऽइत्यादिश्रुतिविरोधादनध्यवसायः ।
अथ परमेश्वरकर्तृकं, ततो न विरोधः ।
तत्र डित्थडवित्थादिनामकरणे च घटपटादिरूपकरणे च जीवकर्तृत्वदर्शनादिहापि त्रिवृत्करणे नामरूपकरणे चास्ति सम्भावना जीवस्य ।
तथाच योग्यत्वादनेन जीवेनेति व्याकरवाणीति प्रधानक्रियया सम्बध्यते, न त्वानन्तर्यादनुप्रविश्येत्यनेन सम्बध्यते ।
प्रधानपदार्थसम्बन्धो हि साक्षात्सर्वेषां गुणभूतानां पदार्थानामौत्सर्गिकस्तादर्थ्यात्तेषाम् ।
तस्य तु क्वचित्साक्षादसम्भवात्परम्पराश्रयणं, साक्षात्सम्भवश्च योग्यतया दर्शितः ।
ननु सेयं देवतेति परमेश्वरकर्तृत्वं श्रूयते ।
सत्यम् ।
प्रयोजकतया तु तद्भविष्यति ।
यथा लोके चारेणाहं परसैन्यमनुप्रविश्य सङ्कलयानीति ।
यदि पुनरस्य साक्षात्कर्तृभावो भवेदनेन जीवेनेत्यनर्थकं स्यात् ।
नहि जीवस्यान्यथा करणभावो भवितुमर्हति ।
प्रयोजककर्तुस्तत्साक्षात्कर्ता करणं भवति प्रधानक्रियोद्देशेन प्रयोजकेन प्रयोज्यकर्तुर्व्यापनात् ।
तस्मादत्र जीवस्य कर्तृत्वं नामरूपव्याकरणेऽन्यत्र तु परमेश्वरस्येति विरोधादनध्यवसाय इति प्राप्तम् ।
एवं प्राप्त उच्यतेपरमेश्वरस्यैवेहापि नामरूपव्याकर्तृत्वमुपदिश्यते न तु जीवस्य, तस्य प्रधानक्रियासम्बन्धं प्रत्ययोग्यत्वात् ।
नन्वन्यत्र डित्थडवित्थादिनामकर्मणि घटशरावादिरूपकर्मणि च कर्तृत्वदर्शनादिहापि योग्यता सम्भाव्यत इति चेत् ।
न ।
निरिनदीसमुद्रादिनिर्माणासामर्थ्येनार्थापत्त्यभावपरिच्छिन्नेन सम्भावनापबाधनात् ।
तस्मात्परमेश्वरस्यैवात्र साक्षात्कर्तृत्वमुपदिश्यते न जीवस्य ।
अनुप्रविश्येत्यनेन तु सन्निहितेनास्य सम्बन्धो योग्यत्वात् ।
न चानर्थक्यं त्रिवृत्करणस्य भोक्तृजीवार्थतया तदनुप्रवेशाभिधानस्यार्थवत्त्वात् ।
स्यादेतत् ।
अनुप्रविश्य व्याकरवाणीति समानकर्तृत्वे क्त्वः स्मरणात्प्रवेशनकर्तुर्जीवस्यैव व्याकर्तृत्वमुपदिश्यतेऽन्यथा तु परमेश्वरस्य व्याकर्तृत्वे जीवस्य
प्रवेष्टृत्वे भिन्नकर्तृकत्वेन क्त्वः प्रयोगो व्याहन्येतेत्यत्राहनच जीवो नामेति ।
अतिरोहितार्थमन्यत् ॥२०॥



२,४.९.२१
मांसादि भौमं यथाशब्दमितरयोश्च । ब्रह्मसूत्र २,४.२१ ।
अत्र भाष्यकृतोत्तरसूत्रशेषतया सूत्रमेतद्विषयोपदर्शनपरतया व्याख्यातम् ।
शङ्कानिराकरणार्थत्वमप्यस्य शक्यं वक्तुम् ।
तथाहियोऽन्नस्याणिष्ठो भागस्तन्मनस्तेजसस्तु योऽणिष्ठो भागः स वागित्यत्र हि काणादानां साङ्ख्यानां चास्ति विप्रतिपत्तिः ।
तत्र काणादा मनो नित्यमाचक्षते ।
साङ्ख्यास्त्वाहङ्कारिके वाङ्मनसे ।
अन्नभागतावचनं त्वस्यान्नसम्बन्धलक्षणार्थम् ।
अन्नोपभोगे हि मनः स्वस्थं भवति ।
एवं वाचोऽपि पाटवेन तेजःसाम्यमभ्यूहनीयम् ।
तत्रेदमुपतिष्ठतेमांसादिति ।
वाङ्मनस इति वक्तव्ये मांसाद्यभिधानं सिद्धेन सह साध्यस्योपन्यासो दृष्टान्तलाभाय ।
यथा मांसादि भौमाद्येवं वाङ्मनसे अपि तैजसभौमे इत्यर्थः ।
एतदुक्तं भवतिन तावद्ब्रह्मव्यतिरिक्तमस्ति किञ्चिन्नित्यम् ।
ब्रह्मज्ञानेन सर्वज्ञानप्रतिज्ञाव्याघातात्, बहुश्रुतिविरोधाच्च नाप्याहङ्कारिकम्, अहङ्कारस्य साङ्ख्याभिमतस्य तत्त्वस्याप्रामाणिकत्वात् ।
तस्मादसति बाधके श्रुतिराञ्जसी नान्यथा कथञ्चिन्नेतुमुचितेति कञ्चिद्दोषमित्युक्तं तं दोषं दर्शयन्नाह पूर्वपक्षीयदि सर्वमेव इति ॥२१॥



२,४.९.२२
वैशेष्यात्तु तद्वादस्तद्वादः । ब्रह्मसूत्र २,४.२२ ।
त्रिबृत्करणाविशेषेऽपि यस्य च यत्र भूयस्त्वं तेन तस्य व्यपदेश इत्यर्थः ॥२२॥
इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमद्भगवत्पादशारीरकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य चतुर्थः पादः ॥४॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्येऽविरोधाख्यो द्वितीयोऽध्यायः ॥

अथ तृतीयोऽध्यायः ।