२,३.१.१
न वियदश्रुतेः । ब्रह्मसूत्र २,३.१ ।
पूर्वं प्रमाणान्तरविरोधः श्रुतेर्निराकृतः ।
सम्प्रति तु श्रुतीनामेव परस्परविरोधो निराक्रियते ।
तत्र सृष्टिश्रुतीनां परस्परविरोधमाहवेदान्तेषु तत्र तत्रेति ।
श्रुतिविप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्य श्रुतिविप्रतिषेधादिति ।
तदर्थनिर्मलत्वमर्थाभासविनिवृत्त्यार्थतत्त्वप्रतिपादनम् ।
तस्य फलं स्वपक्षस्य जगतो ब्रह्मकारणत्वस्यानपेक्षत्वाशङ्कानिवृत्तिः ।
इह हि पूर्वपक्षे श्रुतीनां मिथो विरोधः प्रतिपाद्यते, सिद्धान्ते त्वविरोधः ।
तत्र सिद्धान्त्येकदेशिनोवचनंऽन वियदश्रुतेःऽइति ।
तस्याभिसन्धिःयद्यपि तैत्तिरीयके वियदुत्पत्तिश्रुतिरस्ति तथापि तस्याः प्रमाणान्तरविरोधाद्बहुश्रुतिविरोधाच्च गौणत्वम् ।
तथाच वियतो नित्यत्वात्तेजःप्रमुख एव सर्गः, तथाच न विरोधः श्रुतीनामिति ।
तदिदमुक्तम्प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्याकाशस्योत्पत्तिरस्त्युत नास्तीति ।
यदि नास्ति न श्रुतिविरोधाशङ्का ।
अथास्ति ततः श्रुतिविरोध इति तत्परिहाराय प्रयत्नान्तरमास्थेयमित्यर्थः ॥१॥
२,३.१.२
तत्र पूर्वपक्षसूत्रम्
अस्ति तु । ब्रह्मसूत्र २,३.२ ।
तैत्तिरीये हि सर्गप्रकरणे केवलस्याकाशस्यैव प्रथमः सर्गः श्रूयते ।
छान्दोग्ये च केवलस्य तेजसः प्रथमः सर्गः ।
नच श्रुत्यन्तरानुरोधेनासहायस्याधिगतस्यापि ससहायताकल्पनं युक्तमसहायत्वावगमविरोधात् ।
श्रुतसिद्ध्यर्थं खल्वश्रुतं कल्प्यते न तु तद्विघाताय, विहन्यते चासहायत्वं श्रुतं कल्पितेन ससहायत्वेन ।
नच परस्परानपेक्षाणां व्रीहियववद्विकल्पः ।
अनुष्ठानं हि विकल्प्यते न वस्तु ।
नहि स्थाणुपुरुषविकल्पो वस्तुनि प्रतिष्ठां लभते ।
नच सर्गभेदेन व्यवस्थोपपद्यते, साम्प्रतिकसर्गवद्भूतपूर्वस्यापि तथात्वात् ।
न खल्विह सर्गे क्षीराद्दधि जायते सर्गान्तरे तु दध्नः क्षीरमिति भवति ।
तस्मात्सर्गश्रुतयः परस्परविरोधिन्यो नास्मिन्नर्थे प्रमाणं भवितुमर्हन्तीति पूर्वः पक्षः ॥२॥
२,३.१.३
सिद्धान्त्येकदेशी सूत्रेण स्वाभिप्रायमाविष्करोति
गौण्यसम्भवात् । ब्रह्मसूत्र २,३.३ ।
प्रमाणान्तरविरोधेन बहुश्रुत्यन्तरविरोधेन चाकाशोत्पत्त्यसम्भवाद्गौण्येषाकाशोत्पत्तिश्रुतिरित्यविरोध इत्यर्थः ।
प्रमाणान्तरविरोधमाहन ह्याकाशस्येति ।
समवाय्यसमवायिनिमित्तकारणेभ्यो हि कार्यस्योत्पत्तिर्नियता तदभावे न भवितुमर्हति धूम इव धूमध्वजाभावे ।
तस्मात्सदकारणमाकाशं नित्यमिति ।
अपिच य उत्पद्यन्ते तेषां प्रागुत्पत्तेरनुभवार्थक्रिये नोपलभ्य्ते उत्पन्नस्य च दृश्येते, यथा तेजःप्रभृतीनाम् ।
न चाकाशस्य तादृशो विशेष उत्पादानुत्पादयोरस्ति, तस्मान्नोत्पद्यत इत्याहौत्पत्तिमतां चेति ।
प्रकाशनं प्रकाशो घटपटादिगोचरः ।
पृथिव्यादिवैधर्म्याच्चेति ।
आदिग्रहणेन द्रव्यत्वे सत्यस्पर्शवत्त्वादात्मवन्नित्यमाकाशमिति गृहीतम् ।
आरण्यानाकाशेष्विति ।
वेदेऽप्येकस्याकाशस्यौपाधिकं बहुत्वम् ॥३॥
२,३.१.४
तदेवं प्रमाणान्तरविरोधेन गौणत्वमुक्त्वा श्रुत्यन्तरविरोधेनापि गौणत्वमाह
शब्दाच्च । ब्रह्मसूत्र २,३.४ ।
सुगमम् ॥४॥
२,३.१.५
स्याच्चैकस्य ब्रह्मशब्दवत् । ब्रह्मसूत्र २,३.५ ।
पदस्यानुषङ्गो न पदार्थस्य ।
तद्धि क्वचिन्मुख्यं क्वचिदौपचारिकं सम्भवासम्भवाभ्यामित्यविरोधः ।
चोद्यद्वयं करोतिकथमिति ।
प्रथमं चोद्यं परिहरतिएकमेवेति तावदिति ।
कुलङ्गृहम् ।
अमत्राणि ।
पात्राणि घटशरावादीनि ।
आपेक्षिकमवधारणं न सर्वविषयमित्यर्थः ।
उपपत्त्यन्तरमाहनच नभसापीति ।
अपिरभ्युपगमे ।
यदि सर्वापेक्षं तथाप्यदोष इत्यर्थः ।
नच प्रागुत्पत्तेः ।
जगत इति शेषः ।
द्वितीयं चोद्यमपाकरोतिअत एव च ब्रह्मविज्ञानेनेति ।
लक्षणान्यत्वाभावेनाकाशस्य ब्रह्मणोऽनन्यत्वादिति ।
अपि चाव्यतिरिक्तदेशकालमाकाशं ब्रह्मणा च ब्रह्मकार्यैश्च तदभिन्नस्वभावैरतः क्षीरकुम्भप्रक्षिप्तकतिपयपयोबिन्दुवद्ब्रह्मणि तत्कार्ये च
विज्ञाते नभो विदितं भवतीत्याहअपि च सर्वं कार्यमुत्पद्यमानमिति ॥५॥
२,३.१.६
एवं सिद्धान्तैकदेशमिते प्राप्त इदमाह
प्रतिज्ञाहानिरव्यतिरेकच्छब्देभ्यः । ब्रह्मसूत्र २,३.६ ।
ब्रह्मविवर्तात्मतयाजगतस्तद्विकारस्य वस्तुतो ब्रह्मणाभेदे ब्रह्मणि ज्ञाते ज्ञानमुपपद्यते ।
नहि जगत्तत्त्वं ब्रह्मणोऽन्यत् ।
तस्मादाकाशमपि तद्विवर्ततया तद्विकारः सत्तज्ज्ञानेन ज्ञातं भवति नान्यथा ।
अविकारत्वे तु ततस्तत्त्वान्तरं न ब्रह्मणि विदिते विदितं भवति ।
भिन्नयोस्तु लक्षणान्यत्वाभावेऽपि देशकालाभेदेऽपि नान्यतरज्ञानेनान्यतरज्ञानं भवति ।
नहि क्षीरस्य पूर्णकुम्भे क्षीरे गृह्यमाणे सत्स्वपि पाथोबिन्दुषु पाथस्तत्त्वं प्रति ज्ञातत्वमस्ति विज्ञाने ।
तस्मान्न ते क्षीरे विदिते विदिता इति प्रतिज्ञादृष्टान्तप्रचयानुपरोधाय वियत उत्पत्तिरकामेनाभ्युपेयेति ।
तदेवं सिद्धान्तैकदेशिनि दूषितेपूर्वपक्षी स्वपक्षे विशेषमाहसत्यं दर्शितम् ।
अत एवविरुद्धं तु तदिति ।
सिद्धान्तसारमाहनैष दोषः ।
तेजःसर्गस्य तैत्तिरीयक इति ।
श्रुत्योरन्यथोपपद्यमानान्यथानुपपद्यमानयोरन्यथानुपपद्यमाना बलवती तैत्तिरीयकश्रुतिः ।
छान्दोग्यश्रुतिश्चान्यथोपपद्यमाना दुर्बला ।
नन्वसहायं तेजः प्रथममवगम्यमानं ससहायत्वेन विरुध्यत इत्युक्तमत आहनहीयं श्रुतिस्तेजोजनिप्रधानेति ।
सर्गसंसर्गः श्रौतो भेदस्त्वार्थः ।
स च श्रुत्यन्तरेण विरोधिना बाध्यते, जघन्यत्वात् ।
नच तेजः प्रमुखसर्गसंसर्गवदसहायत्वमप्यस्य श्रौतं, किन्तु व्यतिरेकलभ्यम् ।
नच श्रुतेन तदपवादबाधने श्रुतस्य तेजःसर्गस्यानुपपत्तिः, तदिदमुक्तम्ऽतेजोजनिप्रधानाऽइति ।
स्यादेतत् ।
यद्येकं वाक्यमनेकार्थ न भवत्येकस्य व्यापारद्वयासम्भवात्, हन्त भोः कथमेकस्य स्रष्टुरनेकव्यापारत्वमविरुद्धमित्यत आहस्रष्टा त्वेकोऽपीति ।
वृद्दप्रयोगाधीनावधारणं शब्दसामर्थ्यम् ।
नचानावृत्तस्य शब्दस्य क्रमाक्रमाभ्यामनेकत्रार्थे व्यापारो दृष्टः ।
दृष्टं तु क्रमाक्रमाभ्यामेकस्यापि कर्तुरनेकव्यापारत्वमित्यर्थः ।
नचास्मिन्नर्थ एकस्य वाक्यस्य व्यापारोऽपि तु भिन्नानां वाक्यानामित्याहनचास्माभिरिति ।
सुगमम् ।
चोदयतिननु शमविधानार्थमिति ।
यत्परः शब्दः स शब्दार्थः ।
न चैष सृष्टिपरोऽपि तु शमपर इत्यर्थः ।
परहरतिनहि तेजःप्राथम्यानुरोधेनेति ।
गुणत्वादार्थत्वाच्च क्रमस्य श्रुतप्रधानपदार्थविरोधात्तत्त्यागोऽयुक्त इत्यर्थः ।
सिंहावलोकितन्यायेन वियदनुत्पत्तिवादिनं प्रत्याहअपिच छान्दोग्य इति ।
यत्पुनरन्यथा प्रतिज्ञोपपादनं कृतं, तद्दूषयतियच्चोक्तमिति ।
दृष्टान्तानुरूपत्वाद्दार्ष्टान्तिकस्य, तस्य च प्रकृतिविकाररूपत्वाद्दार्ष्टान्तिकस्यापि तथाभावः ।
अपिच भ्रान्तिमूलं चैतद्वचनम्ऽएकमेवाद्वितीयम्ऽइति तोये क्षीरबुद्धिवत् ।
औपचारिकं वा सिंहो माणवक इतिवत् ।
तत्र न तावद्भ्रान्तमित्याहक्षीरोदकन्यायेनेति ।
भ्रान्तेर्विप्रलम्भाभिप्रायस्य च पुरुषधर्मत्वादपौरुषेये तदसम्भव इत्यर्थः ।
नाप्यौपचारिकमित्याहसावधारणा चेयमिति ।
काममुपचारादस्त्वेकत्वम्, अवधारणाद्वितीयपदे नोपपद्येते ।
नहि माणवके सिंहत्वमुपचर्य न सिंहादन्योऽस्ति मनागपि माणवक इति वदन्ति लौकिकाः ।
तस्माद्ब्रह्मत्वमैकान्तिकं जगतो विवक्षितं श्रुत्या न त्वौपचारिकम् ।
अभ्यासे हि भूयस्त्वमर्थस्य भवति नत्वल्पत्वमपि प्रागेवौपचारिकमित्यर्थः ।
नच स्वकार्यापेक्षयेति ।
निःशेषवचनः स्वरसतः सर्वशब्दो नासति श्रुत्यन्तरविरोधे एकदेशवविषयो युज्यत इत्यर्थः ॥६॥
२,३.१.७
आकाशस्योत्पत्तौ प्रमाणान्तरविरोधमुक्तमनुभाष्य तस्य प्रमाणान्तरस्य प्रमाणान्तरविरोधेनाप्रमाणभूतस्य न गौणत्वापादनसामर्थ्यमत आह
यावद्विकारं तु विभागो लोकवत् । ब्रह्मसूत्र २,३.७ ।
सोऽयं प्रयोगःाकाशदिक्क्लामनःपरमाणवो विकाराः, आत्मन्यत्वे सति विभक्तत्वात्, घटशरावोदञ्चनादिवदिति ।
सर्वं कार्यं निरात्मकमिति ।
निरूपादानं स्यादित्यर्थः ।
शून्यवादश्च निराकृतः स्वयमेव श्रुत्योपन्यस्यऽकथमसतः सज्जायेतऽइति ।
उपपादितं च तन्निराकरणमधस्तादिति ।
आत्मत्वादेवात्मनः प्रत्यगात्मनो निराकरणाशङ्कानुपपत्तिः ।
एतदुक्तं भवतिसोपादानं चेत्कार्यं तत आत्मैवोपानत्वेन श्रुतेरुपादानान्तरकल्पनानुपपत्तेरिति ।
स्यादेतत् ।
अस्त्वात्मोपादानमस्य जगतः, तस्य तूपादानान्तरमश्रूयमाणमप्यन्यद्भविष्यतीत्यत आहनह्यात्मागन्तुकः कस्यचितुपादानान्तरस्योपादेयः ।
कुतः ।
स्वयंसिद्धत्वात् ।
सत्ता वा प्रकाशो वास्य स्वयंसिद्धी ।
तत्र प्रकाशात्मिकायाः सिद्धेस्तावदनागन्तुकत्वमाहनह्यात्मात्मन इति ।
उपपादितमेतद्यथा संशयविपर्यासपारोक्ष्यानास्पदत्वात्कदापि नात्मा पराधीनप्रकाशः, तदधीनप्रकाशास्तु प्रमाणादयः ।
अत एव श्रुतिःऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽइति ।
नचेदृशस्य निराकारणं सम्भवतीति ।
निराकरणमपि हि तदधीनात्मलाभं तद्विरुद्धं नोदेतुमर्हतीत्यर्थः ।
सत्ताया अनागन्तुकत्वमस्याहतथाहमेवेदानीं जानामीति ।
प्रमाप्रमाणप्रमेयाणां वर्तमानातीतानागतत्वेऽपि प्रमातुः सदा वर्तमानत्वेनानुभवादप्रच्युतस्वभावस्य नागन्तुकं सत्त्वम् ।
त्रैकाल्यावच्छेदेन ह्यागन्तुकत्वं व्याप्तं, तत्प्रमातुः सदावर्तमानाद्व्यावर्तमानमागन्तुकत्वं स्वव्याप्यमादाय निवर्तत इति ।
अन्यथाभवत्यपि ज्ञातव्य इति ।
प्रकृतिप्रत्ययाभ्यां ज्ञानज्ञेययोरन्यथाभावो दर्शितः ।
ननु जीवतः प्रमातुर्मा भूदन्यथाभावो मृतस्य तु भविष्यतीत्यत आहतथा भस्मीभवत्यपीति ।
यत्खलु सत्स्वभावमनुभवसिद्धं तस्यानिर्वचनीयत्वमन्यतो बाधकादवसातव्यम् ।
बाधकं च घटादीनां स्वभावाद्विचलनं प्रमाणोपनीतम् ।
यस्य तु न तदस्यात्मनो न तस्य तत्कल्पनं युक्तम्, अबाधितानुभवसिद्धस्य सत्स्वभावस्यानिर्वचनीयत्वकल्पनाप्रमाणाभावात् ।
तदिदमुक्तम्न सम्भावयितुं शक्यमिति ।
तदनेन प्रबन्धेन प्रत्यनुमानेनाकाशानुत्पत्त्यनुमानं तूषयित्वानैकान्तिकत्वेनापि दूषयतियत्तूक्तं समानजातीयमिति ।
नाप्यनेकमेवोपादानमुपादेयमारभते ।
यत्र हि क्षीरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादनत्वमभ्युपगन्तव्यं किन्तूपात्तमेव क्षीरमेकमुपादेयदधिभावेन परिणमते ।
यथा निरवयवपरमाणुवादिनाङ्क्षीरपरमाणुर्दधिपरमाणुभावेनेति ।
शेषमतिरोहितार्थम् ॥७॥
२,३.२.८
एतेन मातरिश्वा व्याख्यातः । ब्रह्मसूत्र २,३.८ ।
यद्यभ्यासे भूयस्त्वमर्थस्य भवति नाल्पत्वं दूरत एवोपचरितत्वं, हन्त भोः पवनस्य नित्यत्वप्रसङ्गः ।
ऽवायुश्चान्तरिक्षमेतदमृतम्ऽइति द्वयोरमृतत्वमुक्त्वा पुनः पवनस्य विशेषेणाहसैषानस्तमिता देवता यद्वायुरिति ।
तस्मादभ्यासान्नापेक्षिकं वायोरमृतत्वमपि त्वौत्पत्तिकमेवेति प्राप्तम् ।
तदिदमुक्तं भाष्यकृताअस्तमयप्रतिषेधादमृतत्वादिश्रवणाच्चेति ।
चेन समुच्चयार्थेनाभ्यासो दर्शितः ।
एवं प्राप्त उच्यतेएकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्, प्रतिज्ञावाक्यार्थस्य प्राधान्यात्, तदुपपादनार्थत्वाच्च वाक्यान्तराणां, तेषामपि
चाद्वैतप्रतिपादकानां मातरिश्वोत्पत्तिक्रमप्रतिपादकानां बहुलमुपलब्धेः, मुख्यभूयस्त्वाभ्याममूषां श्रुतीनां बलीयस्त्वात्,
एतदनुरोधेनामृतत्वास्तमयप्रतिषेधावापेक्षिकत्वेन नेतव्याविति ।
भूयसीः श्रुतीरपेक्ष्य द्वे अपि श्रुती शब्दमात्रमुक्ते ॥८॥
२,३.३.९
असम्भवस्तु सतोऽनुपपत्तेः । ब्रह्मसूत्र २,३.९ ।
ननुऽन चास्य कश्चिज्जनिताऽइत्यात्मनः सतोऽकारणत्वश्रुतेः कथमुत्पत्त्याशङ्का ।
नच वचनमदृष्ट्वा पूर्वः पक्षः इति युक्तम्, अधीतवेदस्य ब्रह्मजिज्ञासाधिकारादर्शनानुपपत्तेरत आहवियत्पवनयोरिति ।
यथाहि वियत्पवनयोरमृतत्वानस्तमयत्वश्रुती श्रुत्यन्तरविरोधादापेक्षिकत्वेन नीते ।
एवमकारणत्वश्रुतिरात्मनोऽग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधात्प्रमाणान्तरविरोधाच्चापेक्षिकत्वेन व्याख्यातव्या ।
न चात्मनः कारणवत्त्वेऽनवस्था लोहगन्धितामावहत्यनादित्वात्कार्यकारणपरम्पराया इति भावः ।
तथा विकारेभ्य इति ।
प्रमाणान्तरविरोधो दर्शितः ।
एवं प्राप्त उच्यतेसदेकस्वभावस्योत्पत्त्यसम्भवः ।
कुतःनुपपत्तेः ।
सदेकस्वभावं हि ब्रह्म श्रूयते तदसति बाधके नान्यथयितव्यम् ।
उक्तमेतद्विकाराः सत्त्वेनानुभूता अपि कतिपयकालकलातिक्रमे विनश्यन्तो दृश्यन्त इत्यनिर्वचनीयास्त्रैकाल्यावच्छेदादिति ।
न चात्मा तादृशस्तस्य श्रुतेरनुभावाद्वा वर्तमानैकस्वभावत्वैन प्रसिद्धेस्तदिदमाहसन्मात्रं हि ब्रह्मेति ।
एतदुक्तं भवतियत्स्वभावाद्विचलति तदनिर्वचनीयं निर्वचनीयोपादानं युक्तं, न तु विपर्ययः ।
यथा रज्जूपादानः सर्पो न तु सर्पोपादाना रज्जुरिति ।
ययोस्तु स्वभावादप्रच्युतिस्तयोर्निर्वचनीययोर्नोपादेयोपादानभावः, यथा रज्जुशुक्तिकयोरिति ।
नच निरधिष्ठानो विभ्रम इत्याहनाप्यसत इति ।
नच निरधिष्ठानभ्रमपरम्परानादितेत्याहमूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गादिति ।
पारमार्थिको हि कार्यकारणभावोऽनादिर्नानवस्थया दुष्यति. समारोपस्तु विकारस्य न समारोपितोपादान इत्युपपादितं
माध्यमिकमतनिषेधाधिकारे, तदत्र न प्रस्मर्तव्यम् ।
तस्मान्नासदधिष्ठानविभ्रमसमर्थनानादित्वेनोचितेत्यर्थः ।
अग्निविस्फुलिङ्गश्रुतिश्चौपादिकरूपापेक्षया नेतव्या ।
शेषमतिरोहितार्थम् ।
ये तु गुणदिक्कालोत्पत्तिविषयमिदमधिकरणं वर्णयाञ्चक्रुस्तैःऽसतोऽनुपपत्तेःऽइति क्लेशेन व्याख्येयम् ।
अविरोधसमर्थनप्रस्तावे चास्य सङ्गतिर्वक्तव्या ।
अबादिवद्दिक्कालादीनामुत्पत्तिप्रतिपादकवाक्यस्यानवगमात् ।
तदास्तां तावत् ॥९॥
२,३.४.१०
तेजोऽतस्तथा ह्याह । ब्रह्मसूत्र २,३.१० ।
यद्यपिऽवायोरग्निःऽइत्यपादानपञ्चमीऽकारकविभक्तिरुपपदविभक्तेर्बलीयसीऽइति नेयमानन्तर्यपरा युक्ता, तथापि बहुश्रुतिविरोधेन
दुर्बलाप्युपपदविभक्तिरेवात्रोचिता ।
ततश्चानन्तर्यदर्शनपरेयं वायोरग्निरिति श्रुतिः ।
नच साक्षाद्ब्रह्मजत्वसम्भवे तद्वंश्यत्वेन तज्जत्वं परम्परयाश्रयितुं युक्तम् ।
वाजपेयस्य पशुयूपवदिति प्राप्तम् ।
एवं प्राप्ते उच्यतेयुक्तं पशुयागवाजपेयोरङ्गाङ्गिनोर्नानात्वात्तत्र साक्षाद्वाजपेयासम्बन्धे क्लेशेन परम्पराश्रयणम् ।
इह तु वायोर्ब्रह्मविकारस्यापि ब्रह्मणो वस्तुतोऽनन्यत्वाद्वयूपादानत्वे साक्षादेव ब्रह्मोपादानत्वोपपत्तेः
कारकविभक्तेर्बलीयस्त्वानुरोधेनोभयथोपपद्यमानाः श्रुतयः कांस्यभोजिन्यायेन नियम्यन्त इति युक्तमिति राद्धान्तः ।
ऽपारम्पर्यजत्वेऽपिऽइति भेदकल्पनाभिप्रायं यतः पारमार्थिकाभेदमाहवायुभावापन्नं ब्रह्मेति ।
यथा तस्याः शृतमिति तु दृष्टान्तः परम्परामात्रसाम्येन न तु सर्वथां साम्येनेति सर्वमवदातम् ॥१०॥
२,३.५.११
आपः । ब्रह्मसूत्र २,३.११ ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥११॥
२,३.६.१२
पृथिव्यधिकाररूपशब्दान्तरेभ्यः । ब्रह्मसूत्र २,३.१२ ।
अन्नशब्दोऽयं व्युत्पत्त्या च प्रसिद्ध्या च व्रीहियवादौ तद्विकारे चौदने प्रवर्तते ।
श्रुतिश्च प्रकरणाद्बलीयसी, सा च वाक्यशेषेणोपोद्बलिताऽयत्र क्वचन वर्षतिऽइत्येतेन तस्मादभ्यवहार्यं व्रीहियवाद्येवात्राद्भ्यो जायत इति
विवक्षितम् ।
कार्ष्ण्यमपि हि सम्भवति कस्यचिददनीस्य ।
नहि पृथिव्यपि कृष्णा, लोहितादिरूपाया अपि दर्शनात् ।
ततश्च श्रुत्यन्तरेणऽअद्भ्यः पृथिवी पृथिव्या ओषधयःऽइत्यादिना विरोध इति पूर्वः पक्षः ।
श्रुत्योर्विरोधे वस्तुनि विकल्पानुपपत्तेरन्यतरानुगुणतयान्यतरा नेतव्या ।
तत्र किम्ऽअद्भ्यः पृथिवीऽइति पृथिवीशब्दोऽन्नपरतया नीयतामुतऽअन्नमसृजतऽइत्यन्नशब्दः पृथिवीपरतयेति विशये,
महाभूताधिकारानुरोधात्प्रायिककृष्णरूपानुरोधाच्चऽतद्यदपां शर आसीत्ऽइति च पुनः श्रुत्यनुरोधाच्च वाक्यशेषस्य
चान्यथाप्युपपत्तेरन्नशब्दोऽन्नकारणे पृथिव्यामिति राद्धान्तः ॥१२॥
२,३.७.१३
तदभिध्यानादेव तु तल्लिङ्गात्सः । ब्रह्मसूत्र २,३.१३ ।
सृष्टिक्रमे भूतानामविरोध उक्तः ।
इदानीमाकाशादिभूताधिष्ठात्र्यो देवताः किं स्वतन्त्रा एवोत्तरोत्तरभूतसर्गे प्रवर्तन्त उत परमेश्वराधिष्ठिताः परतन्त्रा इति ।
तत्रऽआकाशाद्वायुर्वायुरग्निःऽइति स्ववाक्ये निरपेक्षाणां श्रुतेः स्वयञ्चेतनानां च चेतनान्तरापेक्षायां प्रमाणाभावात्, प्रस्तावस्य च लिङ्गस्य च
पारम्पर्येणापि मूलाकारणस्य ब्रह्मण उपपत्तेः, स्वतन्त्राणामेवाकाशादीनां वाय्वादिकारणत्वमिति जगतो ब्रह्मयोनित्वव्याघात इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेआकाशाद्वायुःऽइत्यादय आकाशादीनां केवलमुपादानभावमाचक्षते, न पुनः स्वातन्त्र्येणाधिष्ठातृत्वम् ।
नच चेतनानां स्वकार्यस्वातन्त्र्यमित्येतदप्यैकान्तिकं परतन्त्राणामपि तेषां बहुलमुपलब्धेर्भृत्यान्तेवास्यादिवत् ।
तस्माल्लिङ्गप्रस्तावसामञ्जस्याय स ईश्वर एव तेन तेनाकाशादिभावेनोपादानभावेनावतिष्ठमानः स्वयमधिष्ठाय निमित्तकारणभूतस्तं तं विकारं
वाय्वादिकं सृजतीति युक्तम् ।
इतरथा लिङ्गप्रस्तावौ क्लेशितौ स्यातामिति ।
परमेश्वरावेशवशादिति ।
परमेश्वर एवान्तर्यमिभावेनाविष्ट ईक्षिता, तस्मात्सर्वस्य कार्यजातस्य साक्षात्परमेश्वर एवाधिष्ठाता निमित्तकारणं न त्वाकाशादिभावमापन्नः ।
आकाशादिभावमापन्नस्तूपादानमिति सिद्धम् ॥१३॥
२,३.८.१४
विपर्ययेण तु क्रमोऽत उपपद्यते च । ब्रह्मसूत्र २,३.१४ ।
उत्पत्तौ महाभूतानां क्रमः श्रुतो नाप्ययेऽप्ययमात्रस्य श्रुतत्वात् ।
तत्र नियमे सम्भवति नानियमः ।
व्यवस्थारहितो हि सः ।
नच व्यवस्थायां सत्यामव्यवस्था युज्यते ।
तत्र क्रमभेदापेक्षायां किं दृष्टोऽप्ययक्रमो घटादीनां महाभूताप्ययक्रमनियामकोऽस्त्वाहो श्रौत उत्पत्तिक्रम इति विशये श्रौतस्य
श्रौतान्तरमभ्यर्हितं समानजातीयतया तस्यैव बुद्धिसान्निध्यात् ।
न दृष्टं, विरुद्धजातीयत्वात् ।
तस्माच्छ्रौतेनैवोत्पत्तिक्रमेणाप्ययक्रमो नियम्यत इति प्राप्त उच्यतेअप्ययस्य क्रमापेक्षायां खलूत्पत्तिक्रमो नियामको भवेत्, न त्वस्त्यप्ययस्य
क्रमापेक्षा, दृष्टानुमानोपनीतेन क्रमभेदेन श्रुत्यनुसारिणोऽप्ययक्रमस्य बाध्यमानत्वात् ।
तस्मिन् हि सत्युपादानोपरमेऽप्युपादेयमस्तीति स्यात् ।
न चैतदस्ति ।
तस्मात् ।
तद्विरुद्धदृष्टक्रमावरोधादाकाङ्क्षैव नास्ति क्रमान्तरं प्रत्ययोग्यत्वात्तस्य ।
तदिदमुक्तं सूत्रकृताऽउपपद्यते चऽइति ।
भाष्यकारोऽप्याहन चासावयोग्यत्वाप्ययेनाकाङ्क्ष्यत इति ।
तस्मादुत्पत्तिक्रमाद्विपरीतः क्रम इत्येतन्न्यायमूला च स्मृतिरुक्ता ॥१४॥
२,३.९.१५
अन्तराविज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् । ब्रह्मसूत्र २,३.१५ ।
तदेवं भावनोपयोगिनौ भूतानामुत्पत्तिप्रलयौ विचार्य बुद्धीन्द्रियमनसां क्रमं विचारयति ।
अत्र च विज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानशब्देनेन्द्रियाणि च बुद्धिं च ब्रूते ।
तत्रैतेषां क्रमापेक्षायामात्मानं च भूतानि चान्तरा समाम्नानात्तेनैव पाठेन क्रमो नियम्यते ।
तस्मात्पूर्वोत्पत्तिक्रमभङ्गप्रसङ्गः ।
यत आत्मनः करणानि करणेभ्यश्च भूतानीति प्रतीयते, तस्मादात्मन आकाश इति भज्यते ।
अन्नमयमिति च मयडानन्दमय इतिवत्न विकारार्थ इति प्राप्तेऽभिधीयतेविभक्तत्वात्तावन्मनःप्रभृतीनां कारणापेक्षायामन्नमयं मन
इत्यादिलिङ्गश्रवणादपेक्षितार्थकथनाय विकारार्थत्वमेव मयटो युक्तम्, इतरथा त्वनपेक्षितमुक्तं भवेत् ।
नच तदपि घटते ।
नह्यन्नमयो यज्ञ इतिवदन्नप्राचुर्यं मनसः सम्भवति ।
एवं चोद्भूतविकारा मन आदयो भूतानां परस्तादुत्पद्यन्त इति युक्तम् ।
प्रौढवादितयाभ्युपेत्याहअथ त्वभौतिकानीति ।
भवत्वात्मन एव करणानामुत्पत्तिः, न खल्वेतावता भूतैरात्मनो नोत्पत्तव्यम् ।
तथाच नोक्तक्रमभङ्गप्रसङ्गः ।
विशिष्यतेभिद्यते ।
भज्यत इति यावत् ॥१५॥
२,३.१०.१६
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् । ब्रह्मसूत्र २,३.१६ ।
देवदत्तादिनामधेयं तावज्जीवात्मनो न शरीरस्य, तन्नाम्ने शरीराय श्राद्धादिकरणानुपपत्तेः ।
तन्मृतो देवदत्तो जातो देवदत्त इति व्यपदेशस्य मुख्यत्वं मन्वानस्य पूर्वः पक्षः, मुख्यत्वे शास्त्रोक्तामुष्मिकस्वर्गादिफलसम्बन्धानुपपत्तेः
शास्त्रविरोधाल्लौकिकव्यपदेशो भाक्तो व्याख्येयः ।
भक्तिश्च शरीरस्योत्पादविनाशौ ततस्तत्संयोग इति ।
जातकर्मादि च गर्भबीजसमुद्भवजीवपापप्रक्षयार्थं,
न तु जीवजन्मजपापक्षयार्थम् ।
अत एव स्मरन्तिऽएवमेनः शमं याति बीजगर्भसमुद्भवम्ऽइति ।
तस्मान्न शरीरोत्पत्तिविनाशाभ्यां जीवजन्मविनाशाविति सिद्धम् ।
एतच्च लौकिकव्यपदेशस्याभ्रान्तिमूलत्वमभ्युपेत्याधिकरणम् ।
उक्ता त्वध्यासभाष्येऽस्य भ्रान्तिमूलतेति ॥१६॥
२,३.११.१७
मा भूतामस्य शरीरोदयव्ययाभ्यां स्थूलावुत्पत्तिविनाशौ, आकाशादेरिव तु महासर्गादौ तदन्ते चोत्पत्तिविनाशौ जीवस्य भविष्यत इति
शङ्कान्तरमपनेतुमिदमारभ्यते ।
नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः । ब्रह्मसूत्र २,३.१७ ।
विचारमूलसंशयस्य बीजमाहश्रुतिविप्रतिपत्तेरिति ।
तामेव दर्शयतिकासुचिच्छ्रुतिष्विति ।
पूर्वपक्षं गृह्णातितत्र प्राप्तमिति ।
परमात्मनस्तावद्विरुद्धधर्मसंसर्गादपहतानपहतपाप्मत्वादिलक्षणाज्जीवानामन्यत्वम् ।
ते चेन्न विकारास्ततस्तत्त्वान्तरत्वे बहुतराद्वैतश्रुतिविरोधः ।
ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधश्च ।
तस्माच्छुतिभिरनुज्ञायते विकारत्वम् ।
प्रमाणान्तरं चात्रोक्तम्विभक्तत्वादाकाशादिवदिति ।
ऽयथाग्नेः श्रुद्रा विस्फलिङ्गःऽइति च श्रुतिः साक्षादेव ब्रह्मविकारत्वं जीवानां दर्शयति ।
ऽयथा सूदीप्तात्पावकात्ऽइति च ब्रह्मणो जीवानामुत्पत्तिं च तत्राप्ययं च साक्षाद्दर्शयति ।
नन्वक्षराद्भावानामुत्पत्तिप्रलयाववगम्येते ।
न जीवानामित्यत आहजीवात्मनामिति ।
स्यादेतत् ।
सृष्टिश्रुतिष्वाकाशाद्युत्पत्तिरिव कस्माज्जीवोत्पत्तिर्नाम्नायते ।
तस्मादाम्नानयोग्यस्यानाम्नानात्तस्योत्पत्त्यभावं प्रतीम इत्यत आहनच क्वचिदश्रवणमिति ।
एवं हि कस्याञ्चिच्छाखायामाम्नातस्य कतिपायाङ्गसहितस्य कर्मणः शाखान्तरीयाङ्गोपसंहारो न भवेत् ।
तस्माद्बहुतरश्रुतिविरोधादनुप्रवेशश्रुतिर्विकारभावात्पत्त्या व्याख्येया ।
तस्मादाकाशवज्जीवात्मान उत्पद्यन्त इति प्राप्त उच्यतेभवेदेवं यदि जीवा ब्रह्मणो भिद्येरन् ।
न त्वेतदस्ति ।
ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽऽअनेन जीवेनऽइत्याद्यविभागश्रुतेरौपाधिकत्वाच्च भेदस्य घटकरकाद्याकाशवद्विरुद्धधर्मसंसर्गस्योपपत्तेः ।
उपाधीना च मनोमय इत्यादीनां श्रुतेर्भूयसीनां च नित्यत्वाजत्वादिगोचराणां श्रुतीनां दर्शनात्ऽउपाधिप्रविलयेनोपहितस्यऽइति च
प्रश्नोत्तराभ्यामनेकधोपपादनादविभागस्य चऽएको देवः सर्वभूतेषु गूढःऽइति श्रुत्यैवोक्तत्वान्नित्या जीवात्मनो न विकारा न चाद्वैतप्रतिज्ञाविरोध
इति सिद्धम् ।
मैत्रेयिब्राह्मणं चाधस्ताद्व्याख्यातमिति नेह व्याख्यातम् ॥१७॥
२,३.१२.१८
ज्ञोऽत एव । ब्रह्मसूत्र २,३.१८ ।
कर्मणा हि जानात्यर्थो व्याप्तस्तदभावे न भवति धूम इव धूमध्वजाभावे, सुषुप्त्याद्यवस्थासु च ज्ञेयस्याभावात्तद्व्याप्यस्य ज्ञानस्याभावः ।
तथाच नात्मस्वभावश्चैतन्यं तदनुवृत्तावपि चैतन्यस्य व्यावृत्तिः ।
तस्मादिन्द्रियादिभावाभावानुविधानात्ज्ञानभावाभावयोरिन्द्रियादिसन्निकर्षाधेयमागन्तुकमस्य चैतन्यं धर्मो न स्वाभाविकः ।
अत एवेन्द्रियादीनामर्थवत्त्वम्, इतरथा वैयर्थ्यमिन्द्रियाणां भवेत् ।
नित्यचैतन्यश्रुतयश्च शक्त्यभिप्रायेण व्याख्येयाः ।
अस्ति हि ज्ञानोत्पादनशक्तिर्निजा जीवानां, न तु व्योम्न इवेन्द्रियादिसन्निकर्षेऽप्येषा ज्ञानं न भवतीति ।
तस्माज्जडा एव जीवा इति प्राप्तेऽभिधीयतेयदागन्तुकज्ञानं जडस्वभावं तत्कदाचित्परोक्षं कदाचित्सन्दिग्धं कदाचिद्विपर्यस्तं, यथा घटादि, न
चैवमात्मना ।
तथाहिअनुमिमानोऽप्यपरोक्षः, स्मरन्नप्यानुभविकः, सन्दिहानोऽप्यसन्दिग्धः, विपर्यस्यन्नप्यविपरीतः सर्वस्यात्मा ।
तथाच तत्स्वभावः ।
नच तत्स्वभावस्य चैतन्यस्याभावः, तस्य नित्यत्वात् ।
तस्माद्वृत्तयः क्रियारूपाः सकर्मिकाः कर्माभावे सुषुप्त्यादौ निवर्तन्ते ।
तेन चैतन्यमात्मस्वभाव इति सिद्धम् ।
तथाच नित्यचैतन्यवादिन्यः श्रुतयो न कथञ्चित्क्लेशेन व्याख्यातव्या भवन्ति ।
गन्धादिविषयवृत्त्युपजने चेन्द्रियाणामर्थवत्तेति सर्वमवदातम् ॥१८॥
२,३.१३.१९
उत्क्रान्तिगत्यागतीनाम् । ब्रह्मसूत्र २,३.१९ ।
यद्यप्यविकृतस्यैव परमात्मनो जीवभावस्तथा चानणुपरिमाणत्वं, तथाप्युत्क्रान्तिगत्यागतीनां श्रुतेश्च साक्षादणुपरिमाणश्रवणस्य
चाविरोधार्थमिदमधिकरणमित्याक्षेपसमाधानाभ्यामाहननु चेति ।
पूर्वपक्षं गृह्णातितत्र प्राप्तं तावदिति ।
विभागसंयोगोत्पादौ हि तूत्क्रान्त्यादीनां फलम् ।
नच सर्वगतस्य तौ स्तः ।
सर्वत्र नित्यप्राप्तस्य वा सर्वात्मकस्य वा तदसम्भावादिति ॥१९॥
२,३.१३.२०
स्वात्मना चोत्तरयोः । ब्रह्मसूत्र २,३.२० ।
उत्क्रमणं हि मरणे निरूढम् ।
तच्चाचलतोऽपि तत्र सतो देहस्वाम्यनिवृत्त्योपपद्यते न तु गत्यागती ।
तयोश्चलने निरूढयोः कर्तृस्थभावयोर्व्यापिन्यसम्भवादिति मध्यमं परिमाणं महत्त्वं शरीरस्यैव ।
तच्चार्हतपरीक्षायां प्रत्युक्तम् ।
गत्यागती च परममहति न सम्भवतोऽतः पारिशेष्यादणुत्वसिद्धिः ।
गत्यागतिभ्यां च प्रादेशिकत्वसिद्धौ मरणमपि देहादपसर्पणमेव जीवस्य न तु तत्र सतः स्वाम्यनिवृत्तिमात्रमिति सिद्धमित्याहसत्योश्च
गत्यागत्योरिति ।
इतश्च देहादपसर्पणमेव जीवस्य मरणमित्याहदेहप्रदेशानामिति ।
तस्माद्गत्यागत्यपेक्षोत्क्रान्तिरपि सापादानाणुत्वसाधनमित्यर्थः ।
न केवलमपादानश्रुतेः, तच्छरीरप्रदेशान्तव्यत्वश्रुतेरप्येवमेवेत्याहस एतास्तेजोमात्रा इति ॥२०॥
२,३.१३.२१
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् । ब्रह्मसूत्र २,३.२१ ।
यत उत्क्रान्त्यादिश्रुतिभिर्जीवानामणुत्वं प्रसाधितं ततो व्यापकात्परमात्मनस्तेषां तद्विकारतया भेदः ।
तथाच महत्त्वानन्त्यादिश्रुतयः परमात्मविषया न जीवविषया इत्यविरोध इत्यर्थः ।
यदि जीवा अणवस्ततोऽयोऽयं विज्ञानमयः प्राणेषुऽइति कथं शारीरो महत्त्वसम्बन्धित्वेन प्रतिनिर्दिश्यते इति चोदयतिनन्विति ।
परिहरतिशास्त्रदृष्ट्यापारमार्थिकदृष्ट्या निर्देशो वामदेववत् ।
यथा हि गर्भस्थ एव वामदेवो जीवः परमार्थदृष्ट्यात्मनो ब्रह्मत्वं प्रतिपेदे, एवं विकाराणां प्रकृतेर्वास्तवादभेदात्तत्परिमाणत्वव्यपदेश इत्यर्थः
॥२१॥
२,३.१३.२२
स्वशब्दोन्मानाभ्यां च । ब्रह्मसूत्र २,३.२२ ।
स्वशब्दं विभजतेसाक्षादेवेति ।
उन्मानं विभजतेतथोन्मानमपीति ।
उद्धृत्य मानमुन्मानं बालाग्रादुद्धृतः शततमो भागस्तस्मादपि शततमादुद्धृतः शततमो भाग इति तदिदमुन्मानम् ।
आराग्रादुद्धृतं मानमाराग्रमात्रमिति ॥२२॥
२,३.१३.२३
सूत्रान्तरमवतारयितुं चोदयतिनन्वणुत्वे सतीति ।
अणुरात्मा न शरीरव्यापीति न सर्वाङ्गीणशैत्योपलब्धिः स्यादित्यर्थः ।
अविरोधश्चन्दनवत् । ब्रह्मसूत्र २,३.२३ ।
त्वक्संयुक्तो हि जीवः त्वक्च सकलशरीरव्यापिनीति त्वग्व्याप्यात्मसम्बन्धः सकलशैत्योपलब्धौ समर्थ इत्यर्थः ॥२३॥
२,३.१३.२४
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि । ब्रह्मसूत्र २,३.२४ ।
चन्दनबिन्दोः प्रत्यक्षतोऽल्पीयस्त्वं बुद्ध्वा युक्ता कल्पना भवति, यस्य तु सन्दिग्धमणुत्वं सर्वाङ्गीणं च कार्यमुपलभ्यते तस्य
व्यापित्वमौत्सर्गिकमपहाय नेयं कल्पनावकाशं लभत इति शङ्कार्थः ।
नच हरिचन्दनबिन्दुदृष्टान्तेनाणत्वानुमानं जीवस्य, प्रतिदृष्टान्तसम्भवेनानैकान्तिकत्वादित्याहन चात्रानुमानमिति ।
शङ्कामिमामपाकरोतिअत्रोच्यत इति ।
यद्यपि पूर्वोक्ताभिः श्रुतिभिरणुत्वं सिद्धमात्मनस्तथापि वैभवाच्छ्रुत्यन्तरमुपन्यस्तम् ॥२४॥
२,३.१३.२५
गुणाद्वा लोकवत् । ब्रह्मसूत्र २,३.२५ ।
ये तु सावयवत्वाच्चन्दनबिन्दोरणुसञ्चारेण देहव्याप्तिरुपपद्यते न त्वात्मनोऽनवयवस्याणुसञ्चारः सम्भवी, तस्माद्वैषम्यमिति मन्यन्ते तान्
प्रतीदमुच्यते गुणाद्वा लोकवदिति ।
तद्विभजतेचैतन्य इति ।
यद्यप्यणुर्जीवस्तथापि तद्गुणश्चैतन्यं सकलदेहव्यापि ।
यथा प्रदीपस्याल्पत्वेऽपि तद्गुणः प्रभासकलगृहोदरव्यापिनीति ॥२५॥
२,३.१३.२६
एतदपि शङ्काद्वारेण दृषयित्वा दृष्टान्तान्तरमाह
व्यतिरेको गन्धवत् । ब्रह्मसूत्र २,३.२६ ।
अक्षीयमाणमपि तदिति ।
क्षयस्यातिसूक्ष्मतयानुपलभ्यमानक्षयमिति शङ्कतेस्यादेतदिति ।
विश्लिष्टानामल्पत्वादित्युपलक्षणं, द्रव्यान्तरपरमाणूनामनुप्रवेशादित्यपि द्रष्टव्यम् ।
विश्लेषानुप्रवेशाभ्यां च सन्नपि विश्लेषः सूक्ष्मत्वान्नोपलक्ष्यते इति ।
निराकरोतिन ।
कुतः ।
अतीन्द्रियत्वादिति ।
परमाणूनां परमसूक्ष्मत्वात्तद्गतरूपादिवद्गन्धोऽपि नोपलभ्येत ।
उपलभ्यमानो वा सूक्ष्म उपलभ्येत न स्थूल इत्यर्थः ।
शेषमतिरोहितार्थम् ॥२६॥
२,३.१३.२७
तथा च दर्शयति । ब्रह्मसूत्र २,३.२७ ।
॥ २७ ॥
२,३.१३.२८
पृथगुपदेशात् । ब्रह्मसूत्र २,३.२८ ।
निगदव्याख्यातमस्य भाष्यम् ॥२८॥
२,३.१३.२९
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् । ब्रह्मसूत्र २,३.२९ ।
कण्टकतोदनेऽपीति ।
महदल्पयोः संयोगोऽल्पमवरुणद्धि न महान्तं, न जातु घटकरकादिसंयोगा नभसो नभो व्यश्रुवतेऽपित्वल्पानेव घटकरकादीन्, इतरथा यत्र
नभस्तत्र सर्वत्र घटकरकाद्युपलम्भ इति, तेऽपि नभःपरिमाणः प्रसज्येरन्निति ।
न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते ।
यद्यप्यन्तःकरणमणु तथापि तस्यत्वचा सम्बद्धत्वात्त्वचश्च समस्तशरीरव्यापित्वादेकदेशेऽप्यधिष्ठिता त्वगधिष्ठितैवेति शरीरव्यापी जीवः
शक्नोति सर्वाङ्गीणं शैत्यमनुभवितुं त्वगिन्द्रियेण गङ्गायाम् ।
अणुस्तु जीवो यत्रास्ति तस्मिन्नेव शरीरप्रदेशे तदनुभवेन्न सर्वाङ्गीणं, तस्यासर्वाङ्गीणत्वात् ।
कण्टकतोदनस्य तु प्रादेशिकतया न सर्वाङ्गीणोपलब्धिरिति वैषम्यम् ।
गुणत्वमेव हीति ।
इदमेव हि गुणानां गुणत्वं यद्द्रव्यदेशत्वम् ।
अत एव हि हेमन्ते विषक्तावयवाप्यद्रव्यगतेऽतिसान्द्रे शीतस्पर्शेऽनुभूयमानेप्यनुद्भूतं रूपं नोपलभ्यते यथा, तथा मृगमदादीनां
गन्धवाहविप्रकीर्णसूक्ष्मावयवानामतिसान्द्रे गन्धेऽनुभूयमाने रूपस्पर्शौ नानुभूयेते तत्कस्य हेतोः, अनुद्भूतत्वात्तयोर्गन्धस्य चोद्भूतत्वादिति ।
नच द्रव्यस्य प्रक्षयप्रसङ्गः, द्रव्यान्तरावयवपूरणात् ।
अत एव कालपरिवासवशादस्य हतगन्धितोपलभ्यते ।
अपिच चैतन्यं नाम न गुमो जीवस्य गुणानः, किन्तु स्वभावः ।
नच स्वभावस्य व्यापित्वे भावस्याव्यापित्वं, तत्त्वप्रच्युतेरित्याहयदि च चैतन्यमिति ।
तदेवं श्रुतिस्मृतीतिहासपुराणसिद्धे जीवस्याविकारितया परमात्मत्वे, तथा श्रुत्यादितः परममहत्त्वे च, या नामाणुत्वश्रुतयस्तास्तदनुरोधेन
बुद्धिगुणसारतया व्याख्येया इत्याहतद्गुणसारत्वादिति ।
तद्व्याचष्टेतस्या बुद्धेरिति ।
आत्मना स्वसम्बन्धिन्या बुद्धेरुपस्थापितत्वात्तदा परामर्शः ।
नहि शुद्धबुद्धमुक्तस्वभावस्यात्मनस्तत्त्वं संसारिभिरनुभूयते ।
अपितु योऽयं मिथ्याज्ञानद्वेषाद्यनुषक्तः स एव प्रत्यात्ममनुभवगोचरः ।
नच ब्रह्मस्वभावस्य जीवात्मनः कूटस्थनित्यस्य स्वतः इच्छाद्वेषानुषङ्गसम्भव इति बुद्धिगुणानां तेषां तदभेदाध्यासेन तद्धर्मत्वाध्यासः,
उदशरावाध्यस्तस्येव चन्द्रमसो बिम्बस्य तोयकम्पे कमम्पवत्त्वाध्यास इत्युपपादितमध्यासभाष्ये ।
तथाच बुद्ध्याद्युपाधिकृतमस्य जीवत्वमिति बुद्धेरन्तःकरणस्याणुतया सोऽप्यणुव्यपदेशभाग्भवति, नभ इव करकोपहितं करकपरिमाणम् ।
तथा चोत्क्रान्त्यादीनामुपत्तिरिति ।
निगदव्याख्यातमितरत् ।
प्रायणेऽसत्त्वमसंसारित्वं वा, ततश्च कृतविप्रणाशाकृताभ्यागमप्रसङ्गः ॥२९॥
२,३.१३.३०
यावदात्मभावित्वात्तु न दोषस्तद्दर्शनात् । ब्रह्मसूत्र २,३.३० ।
यावत्संसार्यात्मभावित्वादित्यर्थः ।
समानः सन्निति ।
बुद्ध्या समानः तद्गुणसारत्वादिति ।
अपिच मिथ्याज्ञानेति ।
न केवलं यंवत्संसार्यात्मभावित्वमागमतः,
उपपत्तितश्चेत्यर्थः ।
आदित्यवर्णमिति ।
प्रकाशरूपमित्यर्थः ।
तमस इति ।
अविद्याया इत्यर्थः ।
तमेव विदित्वा साक्षात्कृत्य मृत्युमविद्यामत्येतीति योजना ॥३०॥
२,३.१३.३१
अनुशयबीजं पूर्वपक्षी प्रकटयतिननु सुषुप्तप्रलययोरिति ।
सतापरमात्मना ।
अनुशयबीजपरिहारः अत्रोच्यते
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् । ब्रह्मसूत्र २,३.३१ ।
निगदव्याख्यातमस्य भाष्यम् ॥३१॥
२,३.१३.३२
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोन्यतरनियमो वान्यथा । ब्रह्मसूत्र २,३.३२ ।
स्यादेतत् ।
अन्तःकरणेऽपि सति तस्य नित्यसन्निधानात्कस्मान्नित्योपलब्ध्यनुपलब्धी न प्रसज्येते ।
अथादृष्टविपाककादाचित्कत्वात्सामर्थ्यप्रतिबन्धाप्रतिबन्धाभ्यामन्तः करणस्य नायं प्रसङ्गः ।
तावसत्येवान्तः करणे आत्मनो वेन्द्रियाणां वा स्तां, तत्किमन्तर्गडुनान्तःकरणेनेति चोदयतिअथवान्यतरस्यात्मन इति ।
अथवेति सिद्धान्तं निवर्तयति ।
सिद्धान्ती ब्रूतेन चात्मन इति ।
अवधानं खल्वनुवुभूषा शुश्रूषा वा ।
न चैते आत्मनो धर्मौ, तस्याविक्रियत्वात् ।
न चोन्द्रियाणम्, एकैकेन्द्रियव्यतिरेकेऽप्यन्धादीनां दर्शनात् ।
नच ते आन्तरत्वेनानुभूयमाने बाह्ये सम्भवतः ।
तस्मादस्ति तदान्तरं किमपि ।
यस्य चैते तदन्तःकरणम् ।
तदिदमुक्तम्यस्यावधानेति ।
अत्रैवार्थे श्रुतिं दर्शयतितथा चेति ॥३२॥
२,३.१४.३३
कर्ता शास्त्रार्थवत्त्वात् । ब्रह्मसूत्र २,३.३३ ।
ननुऽतद्गुणसारत्वात्ऽइत्यनेनैव जीवस्य कर्तृत्वं भोक्तृत्वं च लब्धमेवेति तद्व्युत्पादनमनर्थकमित्यत आहतद्गुणसारत्वाधिकारेणेति ।
तस्यैवैष प्रपञ्चो ये पश्यन्त्यात्मा भोक्तैव न कर्तेति तन्निराकरणार्थः ।
ऽशास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्ऽइत्याह स्म भगवान् जैमिनिः ।
प्रयोक्तर्यनुष्ठातरि ।
कर्तरीति यावत् ।
शास्त्रफलं स्वर्गादि ।
कुतः ।
प्रयोक्तृफलसाधनतालक्षणत्वात्शास्त्रस्य विधेः ।
कर्त्रपेक्षितोपायता हि विधिः ।
बुद्धिश्चेत्कर्त्री भोक्ता चात्मा ततो यस्यापेक्षितोपायो भोक्तुन तस्य कर्तृत्वं यस्य कर्तृत्वं नच तस्यापेक्षितोपाया इति किं केन सङ्गतमिति
शास्त्रस्यानर्थकत्वमविद्यमानाभिधेयत्वं तथा चाप्रयोजनकत्वं स्यात् ।
यथा च तद्गुणसारतयास्यावस्तुसदपि भोक्तृत्वं सांव्यवहारिकमेवं कर्तृत्वमपि सांव्यवहारिकं न तु भाविकम् ।
अविद्यावद्विषयत्वं च शास्त्रस्योपपादितमध्यासभाष्य इति सर्वमवदातम् ॥३३॥
२,३.१४.३४
विहारोपदेशात् । ब्रह्मसूत्र २,३.३४ ।
विहारः सञ्चारः क्रिया, तत्र स्वातन्त्र्यं नाकर्तुः सम्भवति ।
तस्मादपि कर्ता जीवः ॥३४॥
२,३.१४.३५
उपादानात् । ब्रह्मसूत्र २,३.३५ ।
तदेतेषां प्राणानामिन्द्रियाणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादायोपादायेत्युपादाने स्वातन्त्र्यं नाकर्तुः सम्भवति ॥३५॥
२,३.१४.३६
व्यपदेशाच्च क्रियायां चेन्निर्देशविपर्ययः । ब्रह्मसूत्र २,३.३६ ।
अभ्युच्चयमात्रमेतन्न सम्यगुपपत्तिः ।
विज्ञानं कर्तृ यज्ञं तनुते ।
सर्वत्र हि बुद्धिः करणरूपा करणत्वेनैव व्यपदिश्यते न कर्तृत्वेन, इह तु कर्तृत्वेन, तस्या व्यपदेशे विपर्ययः स्यात् ।
तस्मादात्मैव विज्ञानमिति व्यपदिष्टः ।
तेन कर्तेति ॥३६॥
२,३.१४.३७
सूत्रान्तरमवतारयितुं चोदयतिअत्राह यदीति ।
प्रज्ञावान् स्वतन्त्र इष्टमोवात्मनः सम्पादयेन्नानिष्टम् ।
अनिष्टसम्पत्तिरप्यस्योपलभ्यते ।
तस्मान्न स्वतन्त्रस्तथा च न कर्ता ।
तल्लक्षणत्वात्तस्येत्यर्थः ।
अस्योत्तरम्
उपलब्धिवदनियमः । ब्रह्मसूत्र २,३.३७ ।
करणादीनि कारकान्तराणि कर्ता प्रयुङ्क्ते न त्वयं कारकान्तरैः प्रयुज्यत इत्येतावन्मात्रमस्य स्वातन्त्र्यं न तु कार्यक्रियायां न
कारकान्तराण्यपेक्षत इति ।
ईदृशं हि स्वातन्त्र्यं नेश्वरस्याप्यत्रभवतोऽस्तीत्युत्सन्नसङ्कथः कर्ता स्यात् ।
तथा चायमदृष्टपरिपाकवशादिष्टमभिप्रेप्सुस्तत्साधनविभ्रमेणानिष्टोपायं व्यापारयन्ननिष्टं प्राप्नुयादित्यनियमः कर्तृत्वं चेति न विरोधः ।
विषयप्रकल्पनमात्रप्रयोजनत्वादिति ।
नित्यचैतन्यस्वभावस्य खल्वात्मन इन्द्रियादीनि करणानि स्वविषयमुपनयन्ति, तेन विषयावच्छिन्नमेव चैतन्यं वृत्तिरिति विज्ञानमिति चाख्यायते,
तत्र चास्यास्ति स्वातन्त्र्यमित्यर्थः ॥३७॥
२,३.१४.३८
शक्तिविपर्ययात् । ब्रह्मसूत्र २,३.३८ ।
पूर्वं कारणकविभक्तिविपर्यय उक्तः ।
सम्प्रति कारकशक्तिविपर्यय इत्यपुनरुक्तम् ।
अविपर्ययाय तु करणान्तरकल्पनायां नाम्नि विसंवाद इति ॥३८॥
२,३.१४.३९
समाध्यभावाच्च । ब्रह्मसूत्र २,३.३९ ।
समाधिरिति संयममुपलक्षयति ।
धारणाध्यानसमाधयो हि संयमपदेवदनीयाः ।
यथाहुःऽत्रयमेकत्र संयमःऽइति ।
अत्र श्रोतव्यो मन्तव्य इति धारणोपदेशः ।
निदिध्यासितव्य इति ध्यानोपदेशः ।
द्रष्टव्य इति समाधेरुपदेशः ।
यथाहुःऽतदेव ध्यानमर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिःऽइति ।
सोऽयमिह कर्तात्मा समाधावुपदिश्यमान आत्मनः कर्तृत्वमवैतीति सूत्रार्थः ॥३९॥
२,३.१५.४०
यथा च तक्षोभयथा । ब्रह्मसूत्र २,३.४० ।
अवान्तरसङ्गतिमाहएवं तावदिति ।
विमृशतितत्पुनरिति ।
पूर्वपक्षं गृह्णातितत्रेति ।
शास्त्रार्थवत्त्वादयो हि हेतव आत्मनः कर्तृत्वमापादयन्ति ।
नच स्वाभाविके कर्तृत्वे सम्भवत्यसत्यपवादे तदौपाधिकं युक्तमतिप्रसङ्गात् ।
नच मुक्त्यभावप्रसङ्गोऽस्यापवादकः, यथा ज्ञानस्वभावो ज्ञेयाभावेऽपि नाज्ञो भवत्येवं कर्तृस्वभावोऽपि क्रियावेशाभावेऽपि नाकर्ता ।
तस्मात्स्वाभाविकमेवास्य कर्तृत्वमिति प्राप्तेऽभिधीयते ।
नित्यशुद्धबुद्धमुक्तस्वभावं हि ब्रह्म भूयोभूयः श्रूयते ।
तदस्य बुद्धत्वमसत्यपि बोद्धव्ये युक्तं, वह्नेरिवासत्यपि दाह्ये दग्धृत्वं, तच्छीलस्य तस्यावगमात् ।
कर्तृत्वं त्वस्य क्रियावेशादवगन्तव्यम् ।
नच नित्योदासीनस्य कूटस्थस्य नित्यस्यासकृच्छुतस्य सम्भवति, तस्य च कदाचिदप्यसंसर्गे कथं तच्छक्तियोगो निर्विषयायाः
शक्तेरसम्भवात्तथाच यदि तत्सिध्यर्थं तद्विषः क्रियावेशोऽभ्युपेयते तथा सति तत्स्वभावस्य स्वभावोच्छेदाभावाद्भावनाशप्रसङ्गः, नच मुक्तस्यास्ति
क्रियायोग इति ।
क्रियाया दुःखत्वान्न विगलितसकलदुःखपरमानन्दावस्था मोक्षः स्यादित्याशयवानाहन स्वाभाविकं कर्तृत्वमात्मन इति ।
अभिप्रायमबुध्वा चोदयतिननु स्थितायामपीति ।
परिहरतिन ।
निमित्तानामपीति ।
शक्तशक्याश्रया शक्तिः स्वसत्तयावश्यं शक्यमाक्षिपति ।
तथाच तयाक्षिप्तं शक्यं सदैव स्यादिति भावः ।
चोदयतिननु मोक्षसाधनविधानादिति ।
परिहरतिन ।
साधनायत्तस्येति ।
अस्माकं तु न मोक्षः साध्यः, अपितु ब्रह्मस्वरूपं तच्च नित्यमिति ।
उक्तमभिप्रायमाविष्करोतिअपिच नित्यशुद्ध इति ।
चोदयतिपर एव तर्हि संसारीति ।
अयमर्थःपरश्चेत्संसारी तस्याविद्यप्रविलये मुक्तौ सर्वे मुच्येरन्नविशेषात् ।
ततश्च सर्वसंसारोच्छेदप्रसङ्गः ।
परस्मादन्यश्चेत्स बुद्ध्यादिसङ्घात एवेति, तस्यैव तर्हि मुक्तिसंसारौ नात्मन इति ।
परिहरतिन ।
अविद्याप्रत्युपस्थापितत्वादिति ।
न परमात्मनो मुक्तिसंसारौ, तस्य नित्यमुक्तत्वात् ।
नापि बुद्ध्यादिसङ्घातस्य, तस्याचेतनत्वात् ।
अपि त्वविद्योपस्थापितानां बुद्ध्यादिसङ्घातानां भेदात्तत्तद्बुद्ध्यादिसङ्घातभेदोपधान आत्मैकोऽपि भिन्न इव विशुद्धोऽप्यविशुद्ध इव
ततश्चैकबुद्ध्यादिसङ्घातापगमे तत्र मुक्त इवेतरत्र बद्ध इव यथा मणिकृपाणाद्युपधानभेदादेकमेव मुखं नानेव दीर्घमिव वृत्तमिव
श्याममिवावदातमिव अन्यतमोपधानविगमे तत्र मुक्तमिवान्यत्रोपहितमिवेति नैकमुक्तौ सर्वमुक्तिप्रसङ्गः ।
तस्मान्न परमात्मनो मक्षसंसारौ, नापि बुद्ध्यादिसङ्घातास्य किन्तु बुद्ध्याद्युपहितस्यात्मस्वभावस्य जीवभावमापन्नस्येति परमार्थः ।
अत्रैवान्वयव्यतिरेकौ श्रुतिभिरादर्शयतितथाचेति ।
इतश्चौपाधिकं यदुपाध्यभिभवोद्भवाभ्यामस्याभिभवोद्भवौ दर्शयति श्रुतिरित्याहतथा स्वप्नजागरितयोरिति ।
अत्रैवार्थे सूत्रं व्याचष्टेतदेतदाहेति ।
सम्प्रसादः सुषुप्तिः ।
स्यादेतत् ।
तक्ष्णः पाण्यादयः सन्ति तैरयं वास्यादीन् व्यापारयन् भवतु दुःखी, परमात्मा त्वनवयवः केन मनःप्रभृतीनि व्यापारयेदिति वैषम्यं तक्ष्णो
दृष्टान्तेनेत्यत आहतक्षदृष्टान्तश्चेति ।
यथा स्वशरीरेणोदासीनस्तक्षा सुखी, वास्यादीनि तु करणानि व्यापारयन् दुःखी, तथा स्वात्मनात्मोदासीनः सुखी, मनःप्रभृतीनि तु करणादीनि
व्यापारयन् दुःखीत्येतावतास्य साम्यं न तु सर्वथा ।
यथात्मा च जीवोऽवयवान्तरानपेक्षः स्वशरीरं व्यापारयत्येवं मनःप्रभृतीनि तु करणान्तराणि व्यापारयतीति प्रमाणसिद्धे
नियोगपर्यनुयोगानुपपत्तिः ।
पूर्वपक्षहेतूननुभाष्य दूषयतियत्तूक्तमिति ।
यत्परं हि शास्त्रं स एव शास्त्रार्थः ।
कर्त्रपेक्षितोपायभावनापरं तन्न कर्तृस्वरूपपरम् ।
तेन यथालोकसिद्धं कर्तारमपेक्ष्य स्वविषये प्रवर्तमानं न पुंसः स्वाभाविकं कर्तृत्वमवगमयितुत्सहते,
तस्मात्तत्त्वमसीत्याद्युपदेशविरोधादविद्याकृतं तदवतिष्ठते ।
चोदयतिननु सन्ध्ये स्थान इति ।
औपाधिकं हि कर्तृत्वं नोपाध्यपगमे सम्भवतीति स्वाभाविकमेव युज्यत इत्यर्थः ।
अपिच यत्रापि करणमस्ति तत्रापि केवलस्यात्मनः कर्तृत्वश्रवणात्स्वाभाविकमेव युक्तमित्याहतथोपादानेऽपीति ।
तदेतत्परिहरतिन तावत्सन्ध्य इति ।
उपाध्यपगमोऽसिद्धोऽन्तःकरणस्योपाधेः सन्ध्येऽप्यवस्थानादित्यर्थः ।
अपिच स्वप्ने यादृशं ज्ञानं तादृशो विहारोऽपीत्याहविहारोऽपि च तत्रेति ।
तथोपादानेऽपीति ।
यद्यपि कर्तृविभक्तिः केवले कर्तरि श्रूयते तथापि कर्मकरणोपधानकृतमस्य कर्तृत्वं न शुद्धस्य, नहि परशुसहायश्छेत्ता केवलश्छेत्ता भवति ।
ननु यदि न केवलस्य कर्तृत्वमपि तु करणादिसहितस्यैव, तथा सति करणादिष्वपि कर्तृविभक्तिः स्यात् ।
न चैतदस्तीत्याहभवति न लोक इति ।
करणादीष्वपि कर्तृविभक्तिः कदाचिदस्त्येव विवक्षावशादित्यर्थः ।
अपि चेयमुपादानश्रुतिः करणव्यापारोपरममात्रपरा न स्वातन्त्र्यपरा कर्तृविभक्तिस्तु भाक्ती ।
कूलं पिपतिषतीतिवदबुद्धिपूर्वकस्य करणव्यापारोपरमस्य दृष्टत्वादित्याहअपिचास्मिन्नुपादान इति ।
यस्त्वयं व्यपदेशैति यत्तदुक्तमस्माभिरभ्युच्चयमात्रमेतमिति तदितः समुत्थितम् ।
सर्वकारकाणामेवेति ।
विक्लिद्यन्ति तण्डुला ज्वलन्ति काष्ठानि बिभर्त्ति स्थालीति हि स्वव्यापारे सर्वेषां, कर्तृत्वं, तत्किं बुद्ध्यादीनां कर्तृत्वमेव न करणत्वमित्यत
आहौपलब्ध्यपेक्षं त्वेषां करणत्वम् ।
नन्वेवं सति तस्यामेवात्मनः स्वाभाविकं कर्तृत्वमस्त्वित्यत आहनच तस्यामुलब्धावप्यस्य
स्वाभाविककर्तृत्वमस्तिकस्मात्नित्योपलब्धिस्वरूपत्वातात्मनः ।
नहि नित्ये स्वभावे चास्ति भावस्य व्यापार इत्यर्थः ।
तदेवं नास्योपलब्धौ सवाभाविकं कर्तृत्वमस्तीत्युक्तम् ।
नापि बुद्ध्यादेरुपलब्धिकर्तृत्वमात्मन्यध्यस्तं यथा तद्गतमध्यवसायादिकर्तृत्वमित्याहअहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति ।
कुतः ।
अहङ्कारस्याप्युपलभ्यमानत्वात् ।
नहि शरीरादि यस्यां क्रियायां गम्यं तस्यामेव गन्तृ भवति ।
एतदुक्तं भवतियदि बुद्धिरुपलब्धी भवेत्, ततस्तस्या उपलब्धृत्वमात्मन्यध्यवस्येत ।
न चैतदस्ति ।
तस्या जडत्वेनोपलभ्यमानतयोपलब्धिकर्तृत्वानुपपत्तेः ।
यदा चौपलब्धौ बुद्धेरकर्तृत्वं तदा यदुक्तं बुद्धेरुपलब्धृत्वे करणान्तरं कल्पनीयं, तथाच नाममात्रे विसंवाद इति तन्न भवतीत्याहन चैवं सति
करणान्तरकल्पनाबुद्धेरुपलब्धृत्वाभावात् ।
तत्किमिदानीमकरणं बुद्धिरुपलब्धावात्मा चानपलब्धेत आहबुद्धे करणत्वाभ्युपगमात् ।
अयमभिसन्धिःचैतन्यमुपलब्धिरात्मस्वभावो नित्य इति न तत्रात्मनः कर्तृत्वं, नापि बुद्धेः करणत्वं, किन्तु चैतन्यमेव विषयावच्छिन्नं वृत्तिरिति
चोपलब्धिरिति चाख्यायते ।
तस्य तु तत्तद्विषयावच्छेदे वृत्तौ बुद्ध्यादीनां करणत्वमात्मनश्च तदुपधानेनाहङ्कारपूर्वकं कर्तृत्वं युज्यत इति ॥४०॥
२,३.१६.४१
परात्तु तच्छ्रुतेः । ब्रह्मसूत्र २,३.४१ ।
यदेतज्जीवानामौपाधिकं कर्तृत्वं तत्प्रवर्तनालक्षणेषु रागादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अतिप्रसङ्गात् ।
नचेश्वरो द्वेषपक्षपातरहितो जीवान् साध्वसाधुनि कर्मणि प्रवर्तयितुमर्हति, येन धर्माधर्मापेक्षया जगद्वैचित्र्यमापद्येत ।
स हि स्वतन्त्रः कारुणिको धर्म एव जन्तून् प्रवर्तयेन्नाधर्मे ।
ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखिनः ।
स्वतन्त्रास्तु रागादिप्रयुक्ताः प्रवर्तमाना धर्माधर्मप्रचयवन्तो वैचित्र्यमनुभवन्तीति युक्तम् ।
एवञ्च विधिनिषेधयोरर्थवत्त्वमितरथा तु सर्वथा जीवा अवस्ततन्त्रा इतीश्वरेणैव प्रवर्त्यन्त इति कृतं विधिनिषेधाभ्याम् ।
नहि बलवदनिलसलिलौघनुद्यमानं प्रत्युपदेशोर्ऽथवान् ।
तस्मात्ऽएष ह्येव साधु कर्म कारयतिऽइत्यादयः श्रुतयः समस्तविधिनिषेधश्रुतिविरोधाल्लोकविरोधाच्चैश्वर्यप्रशंसापरतया नेया इति
प्राप्तेऽभिधीयते ।
ऽएष ह्येव साधु कर्म कारयतिऽइत्यादयस्तावच्छछ्रुतयः सर्वव्यापारेषु जन्तूनामीश्वरतन्त्रतामाहुः, तदसति प्रतिबन्धके न प्रशंसापरतया
व्याख्यातुमुचितम् ।
नच श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्येत ।
न चेश्वरतन्त्रत्वे धर्म एव जन्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् ।
यद्यप्ययमीश्वरो वीतरागस्तथापि पूर्वपूर्वजन्तुकर्मापेक्षय जन्तून् धर्माधर्मयोः प्रवर्तयन्न द्वेषपक्षपाताभ्यां विषमः ।
नापि निर्घृणः ।
नच कर्मप्रचयस्यादिरस्त्यनादित्वात्संसारस्य ।
न चेश्वरतन्त्रस्य कृतं विधिनिषेधाभ्यामिति साम्प्रतम् ।
नहीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चैतन्यमनुरुध्यमानो रागाद्युपहारमुखेन ।
एवं चेष्टानिष्टप्राप्तिपरिहारार्थिनो विधिनिषेधावर्थवन्तौ भवतः ।
तदनेनाभिसन्धिनोक्तम्परायत्तेऽपि हि कर्तृत्वे करोत्येव जीव इति ।
तस्माद्विधिनिषेधशास्त्राविरोधाल्लोकस्य स्थूलदर्शित्वात्ऽएष ह्येव साधु कर्म कारयतिऽइत्यादिश्रुतेः ।
ऽअज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥
ऽइति स्मृतेश्चेश्वरतन्त्राणामेव जन्तूनां कर्तृत्वं, न तु स्वतन्त्राणामिति सिद्धम् ।
ईश्वर एव विधिनिषेधयोस्थाने नियुज्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्रतिपादितधर्माधर्मनिरपेक्षेण कृतमिति विधिनिषेधयोरानर्थक्यम् ।
न केवलमानर्थक्यं विपरीतं चापद्येत इत्याहतथा विहितकारिणमिति ।
पूर्वोक्तश्च दोषः कृतनाशाकृताभ्यागमः प्रसज्येत ।
अतिरोहितार्थमन्यत् ॥४१॥
२,३.१६.४२
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ब्रह्मसूत्र २,३.४२ ।
॥ ४२ ॥
२,३.१७.४३
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । ब्रह्मसूत्र २,३.४३ ।
अवान्तरसङ्गतिमाहजीवेश्वरयोरिति ।
उपकार्योपकारकभावःप्रयोज्यप्रयोजकभावः ।
अत्रापाततो विनिगमनाहेतोरभावादनियमो निश्चय इत्युक्तः ।
निश्चयहेत्वाभासदर्शनेन भेदपक्षमालम्ब्याहअथवेति ।
ईशितव्येशितृभावश्चान्वेष्यान्वेष्टृभावश्च ज्ञेयज्ञातृभावश्च नियम्यनियन्तृभावश्चाधाराधेयभावश्च न जीवपरमात्मनोरभेदेऽवकल्प्यते ।
न चऽब्रह्मदाशा ब्रह्मकितवाःऽइत्याद्याश्च श्रुतयो दाशा ब्रह्म कितवा ब्रह्मेत्यादिप्रतिपादनपरा जीवानां ब्रह्मणो भेदेऽवकल्प्यन्ते ।
न चैताभिर्भेदाभेदप्रतिपादनपराभिः श्रुतिभिः साक्षादंशत्वप्रतिपादकाच्च मन्त्रवर्णात्ऽपादोऽस्य विश्वा भूतानिऽइत्यादेः,
स्मृतेश्चऽममैवांशःऽइत्यादेर्जीवानामीश्वरांशत्वसिद्दिः ।
निरतिशयोपाधिसम्पदा च विभूतियोगेनेश्वरः स्वांशानामपि निकृष्टोपाधीनामीष्ट इति युज्यते ।
नहि तावदनवयवेश्वरस्य जीवा भवितुमर्हन्त्यंशाः ।
अपिच जीवानां ब्रह्मांशत्वे तद्गता वेदना ब्रह्मणो भवेत् ।
पादादिगता इव वेदना देवदत्तस्य ।
ततश्च ब्रह्मभूयङ्गतस्य समस्तजीवगतवेदनानुभवप्रसङ्ग इति वरं संसार एव मुक्तेः तत्र हि स्वगतवेदनामात्रामनुभवान्न भूरि दुःखमनुभवति ।
मुक्तस्तु सर्वजीववेदनाभागिति प्रयत्नेन मुक्तिरनर्थबहुलतया परिहर्तव्या स्यादिति ।
तथा भेदाभेदयोः परस्परविरोधिनोरेकत्रासम्भवान्नांशत्वं जीवानाम् ।
नच ब्रह्मैव सदसन्तस्तु जीवा इति युक्तं, सुखदुःखमुक्तिसंसारव्यवस्थाभावप्रसङ्गादनुज्ञापरिहाराभावप्रसङ्गाच्च ।
तस्माज्जीवा एव परमार्थसन्तो न ब्रह्मैकमद्वयम् ।
अद्वैतश्रुतयस्तु जातिदेशकालाभेदनिमित्तोपचारादिति प्राप्तेऽभिधीयतेअनधिगतार्थावबोधनानि प्रमाणानि विशेषतः शब्दः ।
तत्र भेदो लोकसिद्धत्वान्न शब्देन प्रतिपाद्यः ।
अभेदस्त्वनधिगतत्वादधिगतभेदानुवादेन प्रतिपादनमर्हति ।
येन च वाक्यमुपक्रम्यते मध्ये च परामृश्यते अन्ते चोपसंह्रियते तत्रैव तस्य तात्पर्यम् ।
उपनिषदश्चाद्वैतोपक्रमतत्परामर्शतदुपसंहारा अद्वैतपरा एव युज्यन्ते ।
नच यत्परास्तदौपचारिकं युक्तम्, अभ्यासे हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि प्रागेवोपचरितत्वमित्युक्तम् ।
तस्माद्वैते भाविके स्थिते जीवभावस्तस्य ब्रह्मणोऽनाद्यनिर्वचनीयाविद्योपधानभेदादेकस्यैव बिम्बस्य दर्पणाद्युपाधिभेदात्प्रतिबिम्बभेदाः ।
एवं चानुज्ञापरिहारौ लौकिकवैदिकौ सुखदुःखमुक्तिसंसारव्यवस्था चोपपद्येत ।
नच मोक्षस्यानर्थबहुलता, यतः प्रतिबिम्बानामिव श्यामतावदाततादिर्जीवानामेव नानावेदनाभिसम्बन्धो ब्रह्मणस्तु बिम्बस्येव न तदभिसम्बन्धः ।
यथाच दर्पणापनये तत्प्रतिबिम्बं बिम्बभावेऽवतिष्ठते न कृपाणे प्रतिबिम्बितमपि ।
एवमविद्योपधानविगमे जीवे ब्रह्मभाव इति सिद्धं जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंश इति तात्पर्यार्थाः ॥४३॥
२,३.१७.४४
मन्त्रवर्णाच्च । ब्रह्मसूत्र २,३.४४ ।
॥ ४४ ॥
२,३.१७.४५
अपि च स्मर्यते । ब्रह्मसूत्र २,३.४५ ।
॥ ४५ ॥
२,३.१७.४६
प्रकाशादिवन्नैवं परः । ब्रह्मसूत्र २,३.४६ ।
॥ ४६ ॥
२,३.१७.४७
स्मरन्ति च । ब्रह्मसूत्र २,३.४७ ।
सप्तदशसङ्ख्यापरिमितो राशिर्गणः सप्तदशकः ।
तद्यथाबुद्धिकर्मेन्द्रियाणि बाह्यानि दश बुद्धिमनसी वृत्तिभेदमात्रेण भिन्ने अप्येकीकृत्यैकमन्तःकरणं शरीरं पञ्च विषया इति सप्तदशको राशिः
॥४७॥
२,३.१७.४८
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् । ब्रह्मसूत्र २,३.४८ ।
अनुज्ञा विधिरभिमतो न तु प्रवृत्तप्रवर्तना ।
अपौरुषेये प्रवर्तयितुरभिप्रायानुरोधासम्भवात् ।
क्रत्वर्थायामग्नीषोमीयहिंसायां प्रवृत्तप्रवर्तनानुपपत्तेश्च ।
पुरुषार्थेऽपि नियमांशे प्रवृत्तेःकः पुनर्देहसम्बन्ध इति ।
नहि कूटस्थनित्यस्यात्मनोपरिणामिनोऽस्ति देहेन संयोगः समवायो वान्यो वा कश्चित्सम्बन्धः सकलधर्मातिगत्वादित्यभिसन्धिः ।
उत्तरम्देहादिरयं सङ्घातोऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः ।
अयमर्थःसत्यं नास्ति कश्चिदात्मनो देहादिभिः पारमार्थिकः सम्बन्धः, किन्तु बुद्ध्यादिजनितात्मविषया विपरीता वृत्तिःऽअहमेव
देहादिसङ्घातःऽइत्येवंरूपा ।
अस्यां देहादिसङ्घात आत्मतादात्म्येन भासते ।
सोऽयं सांवृत्तस्तादात्म्यलक्षणः सम्बन्धो न पारमार्थिक इत्यर्थः ।
गूढाभिसन्धिश्चोदयतिसम्यग्दर्शिनस्तर्हीति ।
उत्तरन्न ।
तस्येति ।
यदि सूक्ष्मस्थूलदेहादिसङ्घातोऽविद्योपदर्शित एकमेवाद्वितीयं ब्रह्मास्मीति सम्यग्दर्शनमभिमतम्, अद्धा तद्वन्तं प्रति विधिनिषेधयोरानर्थक्यमेव ।
एतदेव विशदयतिहेयोपादेययोरिति ।
चोदको निगूढाभिसन्धिमाविष्करोतिशरीरव्यतिरेकदर्शिन एव ।
आमुष्मिकफलेषु कर्मसु दर्सपूर्णमासादिषु नियोज्यत्वमिति चोत्परिहरतिन ।
तत्संहतत्वाभिमानात् ।
एतद्विभजतेसत्यमिति ।
यो ह्यात्मनः षाट्कौशिकाद्देहादुपपत्त्याव्यतिरेकं वेद, न तु समस्तबुद्ध्यादिसङ्घातव्यतिरेकं,
तस्यामुष्मिकफलेष्वाधिकारः ।
समस्तबुद्ध्यादिव्यतिरेकवेदिनस्तु कर्मभोक्तृत्वाभिमानरहितस्य नाधिकारः कर्मणि तथाच न यथेष्टचेष्टा, अभिमानविकलस्य तस्या
अप्यभावादिति ॥४८॥
२,३.१७.४९
असन्ततेश्चाव्यतिकरः । ब्रह्मसूत्र २,३.४९ ।
॥ ४९ ॥
२,३.१७.५०
आभास एव च । ब्रह्मसूत्र २,३.५० ।
येषां तु साङ्ख्यानां वैशेषिकाणां वा सुखदुःखव्यवस्थां पारमार्थिकीमिच्छतां बहव आत्मानः सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति ।
तत्र प्रश्नपूर्वकं साङ्ख्यान् प्रति व्यतिक्रमं तावदाहकथमिति ।
यादृशस्तादृशो गुणसम्बन्धः सर्वान् पुरुषान् प्रत्यविशिष्ट इति तत्कृते सुखदुःखे सर्वान् प्रत्यविशिष्टे ।
नच कर्मनिबन्धना व्यवस्था, कर्मणः प्राकृतत्वेन प्रकृतेश्च साधारणत्वेनाव्यवस्थातादवस्थ्यात् ।
चोदयतिस्यादेतदिति ।
अयमर्थःन प्रधानं स्वविभूतीख्यापनाय प्रवर्तते, किन्तु पुरुषार्थम् ।
यं च पुरुषं प्रयत्नेन भोगापवर्गौ पुरुषार्थौ साधितौ तं प्रति समाप्ताधिकारतया निवर्तते पुरुषान्तरं तु प्रत्यसमाप्ताधिकारं प्रवर्तते ।
एवं च मुक्तसंसारिव्यवस्थोपपत्तेः सुखदुःखव्यवस्थापि भविष्यतीति निराकरोतिनहीति ।
सर्वेषां पुरुषाणां विभुत्वात्प्रधानस्य च साधारण्यदमुं पुरुषं प्रत्यनेनार्थः साधित इत्येतदेव नास्ति ।
तस्मात्प्रयोजनवशेन विना हेतुं व्यवस्थास्थेया ।
सा चायुक्ता हेत्वभावादित्यर्थः ।
भवतु साङ्ख्यानामव्यवस्था, प्रधानसमवायाददृष्टस्य, प्रधानस्य च साधारण्यात् ।
काणादादीनां त्वात्मसमवाप्यदृष्टं प्रत्यात्ममसाधारणं तत्कृतश्च मनसा सहात्मनः स्वस्वामिभावलक्षणः सम्बन्धोऽनादिरदृष्टभेदानामनादित्वात्,
तथा चात्मनःसंयोगस्य साधारण्येऽपि स्वस्वामिभावस्यासाधारण्यादभिसन्ध्यादिव्यवस्थोपपद्यत एव ।
नच संयोगोऽपि साधारणः ।
नहि तस्य मनस आत्मान्तरैर्यः संयोगः स एव स्वामिनापि, आत्मसंयोगस्य प्रतिसंयोगभेदेन भेदात् ।
तस्मादात्मैकत्वस्यागमसिद्धत्वात्, व्यवस्थायाश्चैकत्वेऽप्युपपत्तेः, नानेकात्मकल्पना, गौरवादागमविरोधाच्च ।
अन्त्यविशेषवत्त्वेन च भेदकल्पनायामन्योन्याश्रयापत्तेः ।
भेदे हि तत्कल्पना ततश्च भेद इति ।
एतदेव काणादमतदूषणम् ।
भाष्यकृता तु प्रौढवादितया काणादान् प्रत्यप्यदृष्टानियमादित्यादीनि सूत्राणि योजितानि ।
साङ्ख्यमतदूषणपराण्येवेति तु रोचयन्ते केचित्तदास्तां तावत् ॥५०॥
२,३.१७.५१
अदृष्टानियमात् । ब्रह्मसूत्र २,३.५१ ।
॥ ५१ ॥
२,३.१७.५२
अभिसन्ध्यादिष्वपि चैवम् । ब्रह्मसूत्र २,३.५२ ।
॥ ५२ ॥
२,३.१७.५३
प्रदेशादिति चेन्नान्तर्भावात् । ब्रह्मसूत्र २,३.५३ ।
॥ ५३ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरकभाष्यविभागे भामत्यां द्वितीयाध्यायस्य तृतीयः पादः ॥३॥
॥ इति द्वितीयाध्यायस्य पञ्चमहाभूतजीवश्रुतीनां विरोधपरिपाराख्यस्तृतीयः पादः ॥
द्वितीयाध्याये चतुर्थः पादः ।