०१

२,१.१.१
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । ब्रह्मसूत्र २,१.१ ।
वृत्तवर्तिष्यमाणयोः समन्वयविरोधपरिहारलक्षणयोः सङ्गतिप्रदर्शनाय सुखग्रहणाय चैतन्योः सङ्क्षेपतस्तात्पर्यार्थमाहप्रथमेऽध्याय इति ।
अनपेक्षवेदान्तवाक्यस्वरससिद्धसमन्वयलक्षणस्य विरोधतत्परिहाराभ्यामाक्षेपसमाधानकरणादनेन लक्षणेनास्ति विषयविषयिभावः सम्बन्धः ।
पूर्वलक्षणार्थो हि विषयस्तद्गोचरत्वादाक्षेपसमाधानयोरेष च विषयीति ।
तदेवमध्यायमवतार्य तदवयवमधिकरणमवतारयतितत्र प्रथमं तावदिति ।
तन्त्र्यते व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा स्मृतिस्तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणीता ।
अन्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनुसारिण्यः ।
न खल्वमूषां स्मृतीनां मन्वादिस्मृतिवदन्योऽवकाशः शक्यो वदितुमृते मोक्षसाधनप्रकाशनात् ।
तदपि चेन्नाभिदध्युरनवकाशाः सत्योऽप्रमाणं प्रसज्येरन् ।
तस्मात्तदविरोधेन कथञ्चिद्वेदान्ता व्याख्यातव्याः ।
पूर्वपक्षमाक्षिपतिकथं पुनरीक्षत्यादिभ्य इति ।
प्रसाधितं खलु धर्ममीमांसायांऽविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽइत्यत्र, यथा श्रुतिविरुद्धानां स्मृतीनां दुर्बलतयानपेक्षणीयत्वं तस्मान्न
दुर्बलानुरोधेन बलीयसीनां श्रुतीनां युक्तमुपवर्णनम्, अपि तु स्वतःसिद्धप्रमाणभावाः श्रुतयो दुर्बलाः स्मृतीर्बाधन्त एवेति युक्तम् ।
पूर्वपक्षी समाधत्तेभवेदयमिति ।
प्रसाधितोऽप्यर्थः श्रद्धाजडान्प्रति पुनः प्रसाध्यत इत्यर्थः ।
आपाततः समाधानमुक्त्वा परमसमाधानमाह पूर्वपक्षीकपिलप्रभृतीनां चार्षमिति ।
अयमस्याभिसन्धिःब्रह्म हि शास्त्रस्य कारणमुक्तंऽशास्त्रयोनित्वात्ऽइति, तेनैष वेदराशिर्ब्रह्मप्रभवः
सन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतबुद्धिपूर्वको यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां
स्मृतयोऽनावरणसर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽमूषामस्ति कश्चिद्विशेषः ।
न चैताः स्फुटतरं प्रधानादिप्रतिपादनपराः शक्यन्तेऽन्यथयितुम् ।
तस्मात्तदनुरोधेन कथञ्चिच्छ्रुतय एव नेतव्याः ।
अपि च तर्कोऽपि कपिलादिस्मृतिरनुमन्यते, तस्मादप्येतदेव प्राप्तम् ।
एवं प्राप्त आहतस्य समाधिरिति ।
यथा हि श्रुतीनामविगानं ब्रह्मणि गतिसामान्यात्, नैवं स्मृतीनामविगानमस्ति प्रधाने, तासां भूयसीनां ब्रह्मोपादानत्वप्रतिपादनपराणां तत्र तत्र
दर्शनात् ।
तस्मादविगानाच्छ्रौत एवार्थ आस्थेयो न तु स्मार्तो विगानादिति ।
तत्किमिदानीं परस्परविगानात्सर्वा एव स्मृतयोऽवहेया इत्यत आहविप्रतिपत्तौ च स्मृतीनामिति ।
न चातीन्द्रियार्थानिति ।
अर्वाग्दृगभिप्रायम् ।
शङ्कतेशक्यं कपिलादीनामिति ।
निराकरोतिन ।
सिद्धेरपीति ।
न तावत्कपिलादय ईश्वरवदाजानसिद्धाः, किन्तु विनिश्चतवेदप्रामाण्यानां तेषां तदनुष्ठानवतां प्राचि भवेऽस्मिञ्जन्मनि सिद्धिः, अत
एवाजानसिद्धा उच्यन्ते ।
यदस्मिन् जन्मनि न तैः सिद्धद्युपायोऽनुष्ठितः प्राग्भवीयवेदार्थानुष्ठानलब्धजन्मत्वात्तत्सिद्धीनाम् ।
तथा चावधृतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्रमाणमेव ।
अप्रमाणेन च न वेदार्थोऽतिशङ्कितुं युक्तः प्रमाणसिद्धत्वात्तस्य ।
तदेवं वेदविरोधे सिद्धवचनमप्रमाणमुक्त्वा सिद्धानामपि परस्परविरोधे तद्वचनादनाश्वास इति पूर्वोक्तं
स्मारयतिसिद्धव्यपाश्रयकल्पनायामपीति ।
श्रद्धाजडान्बोधयतिपरतन्त्रप्रज्ञस्यापीति ।
ननु श्रुतिश्चेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बोधयति, कथं तेषां वचनमप्रमाणं, तदप्रामाण्ये श्रुतेरप्यप्रामाण्यप्रसङ्गादित्यत
आहया तु श्रुतिरिति ।
न तावत्सिद्धानां परस्परविरुद्धानि वचांसि प्रमाणं भवितुमर्हन्ति ।
नच विकल्पो वस्तुनि, सिद्धे तदनुपपत्तेः ।
अनुष्ठानमनागतोत्पाद्यं विकल्प्यते, न सिद्धम् ।
तस्य व्यवस्थानात् ।
तस्माच्छुतिसामान्यमात्रेण भ्रमः साङ्ख्यप्रणेता कपिलः श्रौत इति ।
स्यादेतत् ।
कपिल एव श्रौतो नान्ये मन्वादयः ।
ततश्च तेषां स्मृतिः कपिलस्मृतिविरुद्धावहेयेत्यत आहभवति चान्या मनोरिति ।
तस्याश्चागमान्तरसंवादमाहमहाभारतेऽपि चेति ।
न केवलं मनोः स्मृतिः स्मृत्यन्तरसंवादिनी, श्रुतिसंवादिन्यपीत्याहश्रुतिश्चेति ।
उपसंहरतिअत इति ।
स्यादेतत् ।
भवतु वेदविरुद्धं कापिलं वचस्तथापि द्वयोरपि पुरुषबुद्धिप्रभवतया को विनिगमनायां हेतुर्यतो वेदविरोधि कापिलं वचो नादरणीयमित्यत
आहवेदस्य हि निरपेक्षमिति ।
अयमभिसन्धिःसत्यं शास्त्रयोनिरीश्वरस्तथाप्यस्य न शास्त्रक्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव ।
स हि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शास्त्रं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् ।
एवं पूर्वतरानुसारेण पूर्वस्मिन् पूर्वतामनुसारेण च पूर्वतर इत्यनादिरयं शास्त्रेश्वरयोः कार्यकारणभावः ।
तत्रेश्वरस्य न शास्त्रार्थज्ञानपूर्वा शास्त्रक्रिया येनास्य कपिलादिवत्स्वातन्त्र्यं भवत् ।
शास्त्रार्थज्ञानं चास्य स्वयमाविर्भवदपि न शास्त्रकारणतामुपैति, द्वयोरप्यपर्यायेणाविर्भावात् ।
शास्त्रं च स्वतोबोधकतया पुरुषस्वातन्त्र्याभावेन निरस्तमस्तदोषाशङ्कं सदनपेक्षं साक्षादेव स्वार्थे प्रमाणम् ।
कपिलादिवचांसि तु स्वतन्त्रकपिलादिप्रणेतृकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थस्मृतयश्च तदर्थानुभवपूर्वाः ।
तस्मात्तासामर्थप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत्स्मृत्यनुभवौ कल्पेते तावत्स्वतः सिद्धप्रमाणभावयानेपक्षयैव श्रुत्या स्वार्थो विनिश्चायित इति
शीघ्रतरप्रवृत्तया श्रुत्या स्मृत्यर्थो बाध्यत इति युक्तम् ॥१॥



२,१.१.२
इतरेषां चानुपलब्धेः । ब्रह्मसूत्र २,१.२ ।
प्रधानस्य तावत्क्वचिद्वेदप्रदेशे वाक्याभासानुदृश्यन्ते, तद्विकाराणां तु महदादीनां तान्यपि न सन्धि ।
नच भूतेन्द्रियादिवन्महदादयो लोकसिद्धाः ।
तस्मादात्यन्तिकात्प्रमाणान्तरासंवादात्प्रमाणमूलत्वाच्च स्मृतेर्मूलाभावादभावो वन्ध्याया इव दौहित्र्यस्मृतेः ।
न चार्षज्ञानमत्र मूलमुपपद्यत इति युक्तम् ।
तस्मान्न कापिलस्मृतेः प्रधानोपादानत्वं जगत इति सिद्धम् ॥२॥



२,१.२.३
एतेन योगः प्रत्युक्तः । ब्रह्मसूत्र २,१.३ ।
नानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जलादेः सर्वथा प्रामाण्यं निराक्रियते, किन्तु जगदुपादानस्वतन्त्रप्रधानतद्विकारमहदहङ्कारपञ्चतन्मात्रगोचरं
प्रामाण्यं नास्तीत्युच्यते ।
न चैतावतैषामप्रामाण्यं भवितुमर्हति ।
यत्पराणि हि तानि तत्राप्रामाण्येऽप्रामाण्यमश्रुवीरन् ।
न चैतानि प्रधानादिसद्भावपराणि ।
किन्तु योगस्वरूपतत्साधनतदवान्तरफलविभूतितत्परमफलकैवल्यव्युत्पादनपराणि ।
तच्च किञ्चिन्निमित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं, पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु, न तु
तद्विवक्षितम् ।
अन्यपरादपि चान्यनिमित्तं तत्प्रतीयमानमभ्युपेयेत, यदि न मानान्तरेण विरुध्येत ।
अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् ।
तस्मात्प्रमाणभूतादपि योगशास्त्रान्न प्रधानादिसिद्धिः ।
अत एव योगशास्त्रं व्युत्पादयिताह स्म भगवान् वार्षगण्यःऽगुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम् ॥
ऽइति ।
योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः, न तु भावतः, तेषामतात्त्विकत्वादित्यर्थः ।
अलोकसिद्धानामपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासोत्प्रेक्षितानामनुवाद्यत्वमुपपन्नम् ।
तदनेनाभिसन्धिनाहएतेन साङ्ख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपिप्रधानादिविषयतयाप्रत्याख्याता द्रष्टव्येति ।
अधिकरणान्तरारम्भमाक्षिपतिनन्वेवं सति समानन्यायत्वादिति ।
समाधत्ते अस्त्यत्राभ्यधिकाशङ्का ।
मा नाम साङ्ख्यशास्त्रात्प्रधानसत्ता विज्ञायि ।
योगशास्त्रात्तु प्रधानादिसत्ता विज्ञापयिष्यते बहुलं हि योगशास्त्राणां वेदेन सह संवादो दृश्यते ।
उपनिषदुपायस्य च तत्त्वज्ञानस्य योगापेक्षास्ति ।
न जातु योगशास्त्रविहितं यमनियमादिबहिरङ्गमुपायमपहायान्तरङ्गं च धारणादिकमन्तरेणौपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति ।
तस्मादौपनिषदेन तत्त्वज्ञानेनापक्षणात्संवादबाहुल्याच्च वेदेनाष्टकादिस्मृतिवद्योगस्मृतिः प्रमाणम् ।
ततश्च प्रमाणात्प्रधानादिप्रतीतेर्नाशब्दत्वम् ।
नच तदप्रमाणं प्रधानादौ, प्रमाणं च यमादाविति युक्तम् ।
तत्राप्रामाण्येऽन्यत्राप्यनाश्वासात् ।
यथाहुःऽप्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥
ऽइति ।
सेयं लब्धप्रसरा प्रधानादौ योगाप्रमाणतापिशाची सर्वत्रैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपेयमिति नाशब्दं प्रधानमिति
शङ्कार्थः ।
साइयमप्यधिकाशङ्कातिर्देशेन निवर्त्यते ।
निवृत्तिहेतुमाहअर्थैकदेशसम्प्रतिपत्तावपीति ।
यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत्, भवेत्प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् ।
तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् ।
तस्मान्न प्रधानादिपरं तत्, किन्तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् ।
न चाविषयेऽप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति ।
नहि चक्षू रसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति ।
तस्माद्वेदान्तश्रुतिविरोधात्प्राधानादिरस्याविषयो न त्वप्रामाण्यमिति परमार्थः ।
स्यादेतत् ।
अध्यात्मविषयाः सन्ति सहस्रं स्मृतयो बौद्धार्हतकापालिकादीनां, ता अपि कस्मान्न निराक्रियन्त इत्यत आहसतीष्वपीति ।
तासु खलु बहुलं वेदार्थविसंवादिनीषु शिष्टानादृतासु कैश्चिदेव तु पुरुषापसदैः पशुप्रायैर्म्लेच्छादिबिः परिगृहीतासु वेदमूलत्वाशङ्कैव नास्तीति न
निराकृताः, तद्विपरीतास्तु साङ्ख्ययोगस्मृतय इति ताः प्रधानादिपरतया व्युदस्यन्त इत्यर्थः ।
न साङ्ख्यज्ञानेन वेदनिरपेक्षेणेति ।
प्रधानादिविषयेणेत्यर्थः ।
द्वैतिनो हि ते साङ्ख्या योगाश्च ।
ये प्रधानादिपरतया तच्छास्त्रं व्याचक्षत इत्यर्थः ।
सङ्ख्या सम्यग्बुद्धिर्वैदिकी तया वर्तन्त इति साङ्ख्याः ।
एवं योगो ध्यानमुपायोपेययोरभेदविवक्षया ।
चित्तवृत्तिनिरोधो हि योगस्तस्योपायो ध्यानं प्रत्ययैकानता ।
एतच्चोपलक्षणम् ।
अन्येऽपि यमनियमादयो बाह्या आन्तराश्च धारणादयो योगोपाया द्रष्टव्याः ।
एतेनाभ्युपगतवेदप्रामाण्यानां कणभक्षाक्षचरणादीनां सर्वाणि तर्कस्मरणानीति योजना ।
सुगममन्यत् ॥३॥



२,१.३.४
न विलक्षणत्वादस्य तथात्वं च शब्दात् । ब्रह्मसूत्र २,१.४ ।
अवान्तरसङ्गतिमाहब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्येति ।
चोदयतिकुतः पुनरिति ।
समानविषयत्वे हि विरोधो भवेत् ।
न चेहास्ति समानविषयता, धर्मवद्ब्रह्मणोऽपि मानान्तराविषयतयातर्क्यत्वेनानपेक्षाम्नायैकगोचरत्वादित्यर्थः ।
समाधत्तेभवेदयमिति ।
ऽमानान्तरस्याविषयः सिद्धवस्त्ववगाहिनः ।
धर्मोऽस्तु कार्यरूपत्वाद्ब्रह्म सिद्धं तु गोचरः ॥
ऽतस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः ।
नन्वस्तु विरोधः, तथापि तर्कादरे को हेतुरित्यत आहयथा च श्रुतीनामिति ।
सावकाशा बह्वयोऽपि श्रुतयोऽनवकाशैकश्रुतिविरोधे तदनुगुणतया यथा नीयन्ते एवमनवकाशैकतर्कविरोधे तदनुगुणतया बह्वयोऽपि श्रुतयो
गुणकल्पनादिभिर्व्याख्यानमर्हन्तीत्यर्थः ।
अपि च ब्रह्मसाक्षात्कारो विरोधितयानादिमविद्यां निवर्तयन् दृष्टेनैव रूपेण मोक्षसाधनमिष्यते ।
तत्र ब्रह्मसाक्षात्कारस्य मोक्षसाधनतया प्रधानस्यानुमानं दृष्टसाधर्म्येणादृष्टविषयं विषयतोऽन्तरङ्गं, बहिरङ्गं त्वत्यन्तपरोक्षगोचरं शाब्दं ज्ञानं, तेन
प्रधानप्रत्यासत्त्याप्यनुमानमेव बलीय इत्याहदृष्टसाधर्म्येण चेति ।
अपि च श्रुत्यापि ब्रह्मणि तर्क आदृत इत्याहश्रुतिरिति ।
सोऽयं ब्रह्मणो जगदुपादानत्वाक्षेपः पुनस्तर्केण प्रस्तूयतेऽप्रकृत्या सह सारूप्यं विकाराणामवस्थितम् ।
जगद्ब्रह्मसरूपं च नेति नो तस्य विक्रिया ॥
विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् ।
तेन प्रधानसारूप्यात्प्रधानस्यैव विक्रिया ॥
ऽतथाहिएक एव स्त्रीकायः सुखदुःखमोहात्मकतया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य तामविन्दतोऽपर्यायं सुखदुःखविषादानाधत्ते ।
स्त्रिया च सर्वे भावा व्याख्याताः ।
तस्मात्सुखदुःखमोहात्मतया च स्वर्गनरकाद्युच्चावचप्रपञ्चतया च जगदशुद्धमचेतनं च, ब्रह्म तु चेतनं विशुद्धं च, निरतिशयत्वात् ।
तस्मात्प्रधानस्याशुद्धस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् ।
ये तु चेतनब्रह्मविकारतया जगच्चैतन्यमाहुस्तान्प्रत्याहअचेतनं चेदं जगदिति ।
व्यभिचारं चोदयतिननु चेतनमपीति ।
परिहरतिन स्वामिभृत्ययोरपीति ।
ननु मा नाम साक्षाच्चेतनश्चेतनान्तरस्योपकाषीन्त्, तत्कार्यकरणबुद्ध्यादिनियोगद्वारेण तूपकरिष्यतीत्यत आहनिरतिशया ह्यकर्तारश्चेतना
इति ।
उपजनापायवद्धर्मयोगोऽतिशयः, तदभावो निरतिशयत्वम् ।
अत एव निर्व्यापारत्वादकर्तारः ।
तस्मात्तेषां बुद्ध्यादिप्रयोक्तृत्वमपि नास्तीत्यर्थः ।
चोदकोऽनुशयबीजमुद्धाटयतियोपीति ।
अभ्युपेत्यापाततः समाधानमाहतेनापि कथञ्चिदिति ।
परमसाधानं तु सूत्रावयवेन वक्तुं तमेवावतारयतिन चेतरदपि विलक्षणत्वमिति ।
सूत्रावयवाभिसन्धिमाहअनवगम्यमानमेव हीदमिति ।
शब्दार्थात्खलु चेतनप्रकृतित्वाच्चैतन्यं पृथिव्यादीनामवगम्यमानमुपोद्बलितं मानान्तरेण साक्षाच्छ्रूयमाणमप्यचैतन्यमन्यथयेत् ।
मानान्तराभावे वार्थोर्ऽथः श्रुत्यर्थेनापबाधनीयः, न तु तद्बलेन श्रुत्यर्थोऽन्यथयितव्य इत्यर्थः ॥४॥



२,१.३.५
सूत्रान्तरमवतारयितुं चोदयतिननु चेतनत्वमपि क्वचिदिति ।
न पृथिव्यादीनां चैतन्यमाथमेव, किन्तु भूयसीनां श्रुतीनां साक्षादेवार्थ इत्यर्थः ।
सूत्रमवतारयतिअत उत्तरं पठति
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । ब्रह्मसूत्र २,१.५ ।
विभजतेतुशब्द इति ।
नैताः श्रुतयः साक्षान्मृदादीनां वागादीनां च चैतन्यमाहुः, अपि तु तदधिष्ठात्रीणां देवतानां चिदात्मनां, तेनैतच्छ्रुतिबलेन न मृदादीनां वागादीनां च
चैतन्यमाशङ्कनीयमिति ।
कस्मात्पुनरेतदेवमित्यत आहविशेषानुगतिभ्याम् ।
तत्र विशेषं व्याचष्टेविशेषो हीति ।
भोक्तृणामुपकार्यत्वाद्भूतेन्द्रियाणां चोपकारकत्वात्साम्ये च तदनुपपत्तेः सर्वजनप्रसिद्धेश्चऽविज्ञानं चाभवत्ऽइति श्रुतेश्च
विशेषश्चेतनाचेतनलक्षणः प्रागुक्तः स नोपपद्येत ।
देवताशब्दकृतो वात्र विशेषो विशेषशब्देनोच्यत इत्याहअपि च कौषीतकिनः प्राणसंवाद इति ।
अनुगतिं व्याचष्टेअनुगताश्चेति ।
सर्वत्र भूतेन्द्रियादिष्वनुगता देवता अभिमानिनीरूपदिशन्ति मन्त्रादयः ।
अपि च भूयस्यः श्रुतयःऽअग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्ऽइत्यादय
इन्द्रियविशेषगता देवता दर्शयन्ति ।
देवताश्च क्षेत्रज्ञभेदाश्चेतनाः ।
तस्मान्नेन्द्रियादीनां चैतन्यं रूपत इति ।
अपि च प्राणसंवादवाक्यशेषे प्राणानामस्मदादिशरीराणामिव क्षेत्रज्ञाधिष्ठितानां व्यवहारं दर्शयन् प्राणानां क्षेत्रज्ञाधिष्ठानेन चैतन्यं
द्रढयतीत्याहप्राणसंवादवाक्यशेषे चेति ।
तत्तेज ऐक्षतेत्यपीति ।
यद्यपि प्रथमेऽध्याये भाक्तत्वेन वर्णितं तथापि मुख्यतयापि कथञ्चिन्नेतुं शक्यमिति द्रष्टव्यम् ।
पूर्वपक्षमुपसंहरतितस्मादिति ॥५॥



२,१.३.६
सिद्धान्तसूत्रम्
दृश्यते तु । दृश्यते तु । ब्रह्मसूत्र २,१.६ ।
प्रकृतिविकारभावे हेतुं सारूप्यं विकल्प्य दूषयतिअत्यन्तसारूप्ये चेति ।
प्रकृतिविकारभावाभावहेतुं वैलक्षण्यं विकल्प्य दूषयतिविलक्षणत्वेन च कारणेनेति ।
सर्वस्वभावाननुवर्तनं प्रकृतिविकारभावाविरोधि ।
तदनुवर्तने तादात्म्येन प्रकृतिविकारभावाभावात् ।
मध्यमस्त्वसिद्धः ।
तृतीयस्तु निदर्शनाभावादसाधारण इत्यर्थः ।
अथ जगद्योनितयागमाद्ब्रह्मणोऽवगमादागमबाधितविषयत्वमनुमानस्य कस्मान्नोद्भाव्यत इत्यत आहआगमविरोधस्त्विति ।
न चास्मिन्नागमैकसमधिगमनीये ब्रह्मणि प्रमाणान्तरस्यावकाशोऽस्ति, येन तदुपादायागम आक्षिप्येतेत्याशयवानाहयत्तूक्तं
परिनिष्पन्नत्वाद्ब्रह्मणीति ।
यथा हि कार्यत्वाविशेषऽपिऽआरोग्यकामः पथ्यमश्रीयात्ऽऽस्वरकामः सिकतां भक्षयेत्ऽइत्यादीनां मानान्तरापेक्षता, न तुऽदर्शपूर्णमासाभ्यां
स्वर्गकामो यजेतऽइत्यादीनाम् ।
तत्कस्य हेतोः ।
अस्य कार्यभेदस्य प्रमाणान्तरागोचरत्वात् ।
एवम्भूतत्वाविशेषेऽपि पृथिव्यादीनां मानान्तरगोचरत्वं, न तु भूतस्यापि ब्रह्मणः, तस्माम्नायैकगोचरस्यातिपतितसमस्तमानान्तरसीमतया
स्मृत्यागमसिद्धत्वादित्यर्थः ।
यदि स्मृत्यागमसिद्धं ब्रह्मणस्तर्काविषयत्वं, कथं तर्हि श्रवणातिरिक्तमननविधानमित्यत आहयदपि श्रवणव्यतिरेकेणेति ।
तर्को हि प्रमाणविषयविवेचकतया तदितिकर्तव्यताभूतस्तदाश्रयोऽसति प्रमाणेऽनुग्राह्यस्याश्रयस्याभावाच्छुष्कतया नाद्रियते ।
यस्त्वागमप्रमाणाश्रयस्तद्विषयविवेचकस्तदविरोधी स मन्तव्य इति विधीयते ।
श्रुत्यनुगृहीतेति ।
श्रुत्याः श्रवणस्य पश्चादितिकर्तव्यतात्वेन गृहीतः ।
अनुभवाङ्गत्वेनेति ।
मतो हि भाव्यमानो भावनाया विषयतयानुभूतो भवतीति मननमनुभवाङ्गम् ।
आत्मनोऽनन्वागतत्वमिति ।
स्वप्नाद्यवस्थाभिरसम्पृक्तत्वम् ।
उदासीनत्वमित्यर्थः ।
अपि च चेतनकारणवादिभिः कारणसालक्षण्येऽपि कार्यस्य कथञ्चिच्चैतन्याविर्भावानाविर्भावाभ्यां विज्ञानं चाविज्ञानं चाभवदिति जगत्कारणे
योजयितुं शक्यम् ।
अचेतनप्रधानकारणवादिनां तु दुर्योजमेतत् ।
नह्यचेतनस्य जगत्कारणस्य विज्ञानरूपता सम्भविनी ।
चेतनस्य जगत्कारणस्य सुषुप्ताद्यव्यवस्थास्विव सतोऽपि चैतन्यस्यानाविर्भावतया शक्यमेव कथञ्चिदविज्ञानात्मत्वं योजयितुमित्याहयोऽपि
चेतनकारणश्रवणबलेनेति ।
परस्यैव त्वचेतनप्रधानकारणवादिनः साङ्ख्यस्य न युज्येत ।
प्रत्युक्तत्वात्तु वैलक्षण्यस्येति ।
वैलक्षण्ये कार्यकारणभावो नास्तीत्यभ्युपेत्येदमुक्तम् ।
परमार्थतस्तु नास्माभिरेतदभ्युपेयत इत्यर्थः ॥६॥



२,१.३.७
असदिति चेन्न प्रतिषेधमात्रत्वात् । ब्रह्मसूत्र २,१.७ ।
न कारणात्कार्यमभिन्नम्, अभेदे कार्यत्वानुपपत्तेः, कारणवत्स्वात्मनि वृत्तिविरोधात्, शुद्ध्यशुदध्यादिविरुद्धधर्मसंसर्गाच्च ।
अथ चिदात्मनः कारणस्य जगतः कार्याद्भेदः, तथा चेदं जगत्कार्यं सत्त्वेऽपि चिदात्मनः कारणस्य प्रागुत्पत्तेर्नास्ति, नास्ति चेदसदुत्पद्यत इति
सत्कार्यवादव्याकोप इत्याहयदि चेतनं शुद्धमिति ।
परिहरतिनैष दोष इति ।
कुतः,प्रतिषेधमात्रत्वात् ।
विभजतेप्रतिषेधमात्रं हीदमिति ।
प्रतिपादयिष्यति हिऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽइत्यत्र ।
यथा कार्यं स्वरूपेण सदसत्त्वाभ्यां न निर्वचनीयम् ।
अपि तु कारणरूपेण शक्यं सत्त्वेन निर्वक्तुमिति ।
एवं च कारणसत्तैव कार्यस्य सत्ता न ततोऽन्येति कथं तदुत्पत्तेः प्राक्सति कारणे भवत्यसत् ।
स्वरूपेण तूत्पत्तेः प्रागुत्पन्नस्य ध्वस्तस्य वा सदसत्त्वाभ्यामनिर्वाच्यस्य न सतोऽसतो वोत्पत्तिरिति निर्विषयः सत्कार्यवादप्रतिषेध इत्यर्थः ॥७॥



२,१.३.८
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । ब्रह्मसूत्र २,१.८ ।
असामञ्जस्यं विभजतेअत्राहचोदकः,यदि स्थौल्येति ।
यथा हि यूषादिषु हिङ्गुसैन्धवादीनामविभागलक्षणो लयः स्वगतरसादिभिर्यूषं रूषयत्येवं ब्रह्मणि विशुद्ध्यादिधर्मिणि जगल्लियमानमविभागं
गच्छद्ब्रह्म स्वधर्मेण रूषयेत् ।
न चान्यथा लयो लोकसिद्ध इति भावः ।
कल्पान्तरेणासामञ्जस्यमाहअपि च समस्तस्येति ।
नहि समुद्रस्य फेनोर्मिबुद्बुदादिपरिणामे वा रज्ज्वां सर्पधारादिविभ्रमे वा नियमो दृष्टः ।
समुद्रो हि कदाचित्फेनोर्मिरूपेण परिणमते कदाचिद्बुद्बुदादिना, रज्ज्वांहि कश्चित्सर्प इति विपर्यस्यति कश्चिद्धारेति ।
नच क्रमनियमः ।
सोऽयमत्र भोग्यादिविभागनियमः क्रमनियमश्चासमञ्जस इति ।
कल्पान्तरेणासामञ्जस्यमाहअपिच भोक्तृणामिति ।
कल्पान्तरं शङ्कापूर्वमाहअथेदमिति ॥८॥



२,१.३.९
सिद्धान्तसूत्रम्न तु दृष्टान्तभावात् । ब्रह्मसूत्र २,१.९ ।
नाविभागमात्रं लयोऽपि तु कारणे कार्यस्याविभागः ।
तत्र च तद्धर्मारूषणे सन्ति सहस्रं दृष्टान्ताः ।
तव तु कारणे कार्यस्य लये कार्यधर्मरूषणे न दृष्टान्तलवोऽप्यस्तीत्यर्थः ।
स्यादेतत्यदि कार्यस्याविभागः कारणे, कथं कार्यधर्मारूषणं कारणस्येत्यत आहअनन्यत्वेऽपीति ।
यथा रजतस्यारोपितस्य पारमार्थिकं रूपं शुक्तिर्न च शुक्ती रजतमेवमिदमपीत्यर्थः ।
अपि च स्थित्युत्पत्तिप्रलयकालेषु त्रिष्वपि कार्यस्य कारणादभेदमभिदधती श्रुतिरनतिशङ्कनीया सर्वैरेव वेदवादिभिः, तत्र स्थित्युत्पत्त्योर्यः
परिहारः स प्रलयेऽपि समानः कार्यस्याविद्यासमारोपितत्वं नाम, तस्मान्नापीतिमात्रमनुयोज्यमित्याहअत्यल्पं चेदमुच्यत इति ।
अस्ति चायमपरो दृष्टान्तः ।
यथा च स्वप्नदृगेक इति ।
लौकिकः पुरुषः ।
एवमवस्थात्रयसाक्ष्येक इति ।
अवस्थात्रयमुत्पत्तिस्थितिप्रलयाः ।
कल्पान्तरेणासामञ्जस्ये कल्पान्तरेण दृष्टान्तभावं परिहारमाहयत्पुनरेतदुक्तमिति ।
अविद्याशक्तेर्नियतत्वादुत्पत्तिनियम इत्यर्थः ।
एतेनेति ।
मिथ्याज्ञानविभागशक्तिप्रतिनियमेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, कारणाभावे कार्याभावस्य प्रतिनियमात्, तत्त्वज्ञानेन च सशक्तिनो
मिथ्याज्ञानस्य समूलघातं निहतत्वादिति ॥९॥



२,१.३.१०
स्वपक्षदोषाच्च । ब्रह्मसूत्र २,१.१० ।
कार्यकारणयोर्वैलक्षण्यं तावत्समानमेवोभयोः पक्षयोः ।
प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गोऽपीतौ तद्वत्प्रसङ्गश्च प्रधानोपादानपक्ष एव नास्मत्पक्ष इति यद्यप्युपरिष्टात्प्रतिपादयिष्यामस्तथापि
गुडजिह्विकया समानत्वापादनमिदानीमिति मन्तव्यम् ।
इदमस्य पुरुषस्य सुखदुःखोपादानं क्लेशकर्माशयादीदमस्येति ।
सुगममन्यत् ॥१०॥



२,१.४.११
तर्काप्रतिष्ठानादपि । ब्रह्मसूत्र २,१.११ ।
केवलागमगम्येर्ऽथे स्वतन्त्रतर्काविषये न साङ्ख्यादिवत्साधर्म्यवैधर्म्यमात्रेण तर्कः प्रवर्तनीयो येन प्रधानादिसिद्धिर्भवेत् ।
शुष्कतर्को हि स भवत्यप्रतिष्ठानात् ।
तदुक्तम्ऽयत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
ऽइति ।
नच महापुरुषपरिगृहीतत्वेन कस्यचित्तर्कस्य प्रतिष्ठा, महापुरुषाणामेव तार्किकाणां मिथो विप्रतिपत्तेरिति ।
सूत्रे शङ्कतेअन्यथानुमेयमिति चेत् ।
तद्विभजतेअन्यथा वयमनुमास्यामह इति ।
नानुमानाभासव्यभिचारेणानुमानव्यभिचारः शङ्कनीयः, प्रत्यक्षादिष्वपि तदाभासव्यभिचारेण तत्प्रसङ्गात् ।
तस्मात्स्वाभाविकप्रतिबन्धवल्लिङ्गानुसरणे निपुणेनानुमात्रा भवितव्यं, ततश्चाप्रत्यूहं प्रधानं सेत्स्यतीति भावः ।
अपि च येन तर्केण तर्काणामप्रतिष्ठामाह स एव तर्कः प्रतिष्ठितोऽभ्युपेयः, तदप्रतिष्ठायामितराप्रतिष्ठानाभावादित्याहनहि प्रतिष्ठितस्तर्क एवेति ।
अपि च तर्काप्रतिष्ठायां सकललोकयात्रोच्छेदप्रसङ्गः ।
नच श्रुत्यर्थाभासनिराकरणेन तदर्थतत्त्वविनिश्चय इत्याहसर्वतर्काप्रतिष्ठायां चेति ।
अपि च विचारात्मकस्तर्कस्तर्कितपूर्वपक्षपरित्यागेन तर्कितं राद्धान्तमनुजानाति ।
सति चैष पूर्वपक्षविषये तर्के प्रतिष्ठारहिते प्रवर्तते, तदभावे विचाराप्रवृत्तेः ।
तदिदमाहअयमेव च तर्कस्यालङ्कार इति ।
तामिमामाशङ्कां सूत्रेण परिहरतिएवमप्यविमोक्षप्रसङ्गः ।
न वयमन्यत्र तर्कमप्रमाणयामः, किन्तु जगत्कारणसत्त्वे स्वाभाविकप्रतिबन्धवन्न लिङ्गमस्ति ।
यत्तु साधर्म्यवैधर्म्यमात्रं, तदप्रतिष्ठादोषान्न मुच्यत इति ।
कल्पान्तरेणानिर्मोक्षपदार्थमाहअपि च सम्यग्ज्ञानान्मोक्ष इति ।
भूतार्थगोचरस्य हि सम्यग्ज्ञानस्य व्यवस्थितवस्तुगोचरतया व्यवस्थानं लोके दृष्टं, यथा प्रत्यक्षस्य ।
वैदिकं चेदं चेतनजगदुपादानविषयं विज्ञानं वेदोत्थतर्केतिकर्तव्यताकं वेदजनितं व्यवस्थितम् ।
वेदानपेक्षेण तु तर्केण जगत्कारणभेदमवस्थापयतां तार्किकाणामन्योन्यं विप्रतिपत्तेस्तत्त्वनिर्धारणकारणाभावाच्च न ततस्तत्त्वव्यवस्थेति न
ततः सम्यग्ज्ञानम् ।
असम्यग्ज्ञानाच्च न संसाराद्विमोक्ष इत्यर्थः ॥११॥



२,१.४.१२
एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ब्रह्मसूत्र २,१.१२ ।
न कार्यं कारणादभिन्नमभेदे कारणरूपवत्कार्यत्वानुपपत्तेः, करोत्यर्थानुपपत्तेश्च ।
अभूतप्रादुर्भावनं हि तदर्थः ।
न चास्य कारणात्मत्वे किञ्चिदभूतमस्ति, यदर्थमयं पुरुषो यतेत ।
अभिव्यक्त्यर्थमिति चेत्, न ।
तस्या अपि कारणात्मत्वेन सत्त्वात्, असत्त्वे वाभिव्यङ्ग्यस्यापि तद्वत्प्रसङ्गेन कारणात्मत्वव्याघातात् ।
नहि तदेव तदानीमेवास्ति नास्ति चेति युज्यते ।
किं चेदं मणिमन्त्रौषधमिन्द्रजालं कार्येण शिक्षितं यदिदमजातानिरुद्धातिशयमव्यवधानमविदूरस्थानं च तस्यैव तदवस्थेन्द्रियस्य पुंसः
कदाचित्प्रत्यक्षं परोक्षं च, येनास्य कदाचित्प्रत्यक्षमुपलम्भनं कदाचिदनुमानं कदाचिदागमः ।
कार्यान्तरव्यवधिरस्य पारोक्ष्यहेतुरिति चेत् ।
न ।
कार्यजातस्य सदातनत्वात् ।
अथापि स्यात्कार्यान्तराणि पिण्डकपालशर्कराचूर्णकणप्रभृतीनि कुम्भं व्यवदधते, ततः कुम्भस्य पारोक्ष्यं कदाचिदिति ।
तन्न ।
तस्य कार्यजातस्य कारणात्मनः सदातनत्वेन सर्वदा व्यवधानेन कुम्भस्यात्यन्तानुपलब्धिप्रसङ्गात् ।
कादाचित्कत्वे वा कार्यजातस्य न कारणात्मत्वं, नित्यत्वानित्यत्वलक्षणविरुद्धधर्मसंसर्गस्य भेदकत्वात् ।
भेदाभेदयोश्च परस्परविरोधेनैकत्र सहासम्भव इत्युक्तम् ।
तस्मात्कारणात्कार्यमेकान्तत एव भिन्नम् ।
नच भेदे गवाश्ववत्कार्यकारणभावानुपपत्तिरिति साम्प्रतम्, अभेदेऽपि कारणरूपवत्तदनुपपत्तेरुक्तत्वात् ।
अत्यन्तभेदे च कुम्भकुम्भकारयोर्निमित्तकभावस्य दर्शनात् ।
तस्मादन्यत्वाविशेषेऽपि समवायभेद एवोपादानोपादेयभावनियमहेतुः ।
यस्याभूत्वा भवतः समवायस्तदुपादेयं यत्र च समवायस्तदुपादानम् ।
उपादानत्वं च कारणस्य कार्यादल्पपरिमाणस्य दृष्टं, यथा तन्त्वादीनां पटाद्युपादानानां पटादिभ्यो न्यूनपरिमाणत्वम् ।
चिदात्मनस्तु परमहत उपादानान्नात्यन्ताल्पपरिमाणमुपादेयं भवितुमर्हति ।
तस्माद्यत्रेदमल्पतारतम्यं विश्राम्यति यतो न क्षोदीयः सम्भवति तज्जगतो मूलकारणं परमाणुः ।
क्षोदीयोऽन्तरानन्त्ये तु मेरुराजसर्षपयोस्तुल्यपरिमाणत्वप्रसङ्गोऽनन्तावयवत्वादुभयोगो ।
तस्मात्परममहतो ब्रह्मण उपादानादभिन्नमुपादेयं जगत्कार्यमभिदधती श्रुतिः
प्रतिष्ठितप्रामाण्यतर्कविरोधात्सहस्रसंवत्सरसत्रगतसंवत्सरश्रुतिवत्कथञ्चिज्जघन्यत्ववृत्त्या व्याख्यायेत्यधिकं शङ्कमानं प्रति
साङ्ख्यदूषणमतिदिशतिएतेनेति सूत्रेण ।
अस्यार्थःकारणात्कार्यस्य भेदंऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽइत्यत्र निषेत्स्यामः ।
अविद्यासमारोपणेन च कार्यस्य न्यूनाधिकभावमप्यप्रयोजकत्वादुपोक्षिष्यामहे ।
तेन वैशेषिकाद्यभिमतस्य तर्कस्य शुष्कत्वेनाव्यवस्थितेः सूत्रमिदं साङ्ख्यदूषणमतिदिशति ।
यत्र कथञ्चिद्वेदानुसारिणी मन्वादिभिः शिष्टैः परिगृहीतस्य साङ्ख्यतर्कस्यैषा गतिस्तत्र परमाण्वादिवादस्यात्यन्तवेदबाह्यस्य मन्वाद्युपेक्षितस्य च
कैव कथेति ।
केनचिदंशेनेति ।
सृष्ट्यादयो हि व्युत्पाद्यास्ते च किञ्चित्सदसद्वा पूर्वपक्षन्यायोत्प्रेक्षितमप्युदाहृत्य व्युत्पाद्यन्त इति केनचिदंशेनेत्युक्तम् ।
सुगममन्यत् ॥१२॥



२,१.५.१३
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् । ब्रह्मसूत्र २,१.१३ ।
स्यादेतत् ।
अतिगम्भीरजगत्कारणविषयत्वं तर्कस्य नास्ति, केवलगमगम्यमेतदित्युक्तम्, तत्कथं पुनस्तर्कनिमित्त आक्षेप इत्यत आहयद्यपि श्रुतिः
प्रमाणमिति ।
प्रवृत्ता हि श्रुतिरनपेक्षतया स्वतःप्रमाणत्वेन न प्रमाणान्तरमपेक्षते ।
प्रवर्तमाना पुनः स्फुटतरप्रतिष्ठितप्रामाण्यतर्कविरोधेन मुख्यार्थात्प्रच्याव्य जघन्यवृत्तितां नीयते, यथा मन्त्रार्थवादावित्यर्थः ।
अतिरोहितार्थं भाष्यम् ।
यथा त्वद्यत्व इति ।
यद्यतीतानागतयोः सर्गयोरेष विभागो न भवेत् ।
ततस्तदेवाद्यतनस्य विभागस्य बाधकं स्यात् ।
स्वप्नदर्शनस्येव जाग्रद्दर्शनम् ।
न त्वेतदस्ति ।
अबाधिताद्यतनदर्शनेन तयोरपि तथात्वानुमानादित्यर्थः ।
इमां शङ्कामापाततोऽविचारितलोकसिद्धदृष्टान्तोपदर्शनमात्रेण निराकरोति सूत्रकारःस्याल्लोकवत् ॥१३॥



२,१.६.१४
परिहाररहस्यमाह
तदनन्यत्वमारम्भणशब्दादिभ्यः । ब्रह्मसूत्र २,१.१४ ।
पूर्वस्मादविरोधादस्य विशेषाभिधानोपक्रमस्य विभागमाहअभ्युपगम्य चेममिति ।
स्यादेतत् ।
यदिकारणात्परमार्थभूतादनन्यत्वमाकाशादेः प्रपञ्चस्य कार्यस्य कुतस्तर्हि न वैशेषिकाद्युक्तदोषप्रपञ्चावतार इत्यत आहव्यतिरेकेणाभावः
कार्यस्यावगम्यत इति ।
न खल्वनन्यत्वमित्यभेदं ब्रूमः, किन्तु भेदं व्यासेधामः, ततश्च नाभेदाश्रयदोषप्रसङ्गः ।
किन्त्वभेदं व्यासेधद्भिर्वैशेषिकादिभिरस्मासु साहायकमेवाचरितं भवति ।
भेदनिषेधहेतुं व्याचष्टेआरम्भणशब्दस्तावदिति ।
एवं हि ब्रह्मविज्ञानेन सर्वं जगत्तत्त्वतो ज्ञायेत यदि ब्रह्मैव तत्त्वं जगतो भवेत् ।
यथा रज्ज्वां ज्ञातायां भुजङ्गतत्त्वं ज्ञातं भवति ।
सा हि तस्य तत्त्वम् ।
तत्त्वज्ञानं च ज्ञानमतोऽन्यन्मिध्याज्ञानमज्ञानमेव ।
अत्रैव वैदिको दृष्टान्तःयथा सोम्यैकेन मृत्पिण्डेनेति ।
स्यादेतत् ।
मृदि ज्ञातायां कथं मृन्मयं घटादि ज्ञातं भवति ।
नहि तन्मृदात्मकमित्युपपादितमधस्तात् ।
तस्मात्तत्त्वतो भिन्नम् ।
न चान्यस्मिन्विज्ञातेऽन्यद्विज्ञातं भवतीत्यत आह श्रुतिःऽवाचारम्भणं विकारो नामधेयम् ।
वाचया केवलमारभ्यते विकारजातं, न तु तत्त्वतोऽस्ति, यतो नामधेयमात्रमेतत् ।
यथा पुरुषस्य चैतन्यमिति राहोः शिर इति विकल्पमात्रम् ।
यथाहुर्विकल्पविदःऽशब्दज्ञानानुपाती वस्तुशून्यो विकल्पःऽइति ।
तथा चावस्तुतयानृतं विकारजातं, मृत्तिकेत्येव सत्यम् ।
तस्माद्घटशरावोदञ्चनादीनां तत्त्वं मृदेव, तेन मृदि ज्ञातायां येषां सर्वेषामेव तत्त्वं ज्ञातं भवति ।
तदिदमुक्तम्न चान्यथैकविज्ञानेन सर्वविज्ञानं सम्पद्यत इति ।
निदर्शनान्तरद्वयं दर्शयन्नुपसंहरतितस्माद्यथा घटकरकाद्याकाशानामिति ।
ये हि दृष्टनष्टस्वरूपा न ते वस्तुसन्तो यथा मृगतृष्णिकोदकादयः, तथा च सर्वं विकारजातं तस्मादवस्तुसत् ।
तथाहि यदस्ति तदस्त्येव, यथा चिदात्मा ।
नह्यसौ कदाचित्क्वचित्कथञ्चिद्वास्ति ।
किन्तु सर्वदा सर्वत्र सर्वथास्त्येव, न नास्ति ।
न चैवं विकारजातं, तस्य कदाचित्कथञ्चित्कुत्रचिदवस्थानात् ।
तथाहिसत्स्वभावं चेद्विकारजातं, कथं कदाचिदसत् ।
असत्स्वभावं चेत्, कथं कथाचिद्सत् ।
सदसतोरेकत्वविरोधात् ।
नहि रूपं कदाचित्क्वचित्कथञ्चिद्वा गन्धो भवति ।
अथ यस्य सदसत्त्वे धर्मौ, ते च स्वकारणाधीनजन्मतया कदाचिदेव भवतः, तत्तर्हि विकारजातं दण्डायमानं सदातनमिति न विकारः कस्यचित् ।
अथासत्त्वसमये तन्नास्ति, कस्य तर्हि धर्मोऽसत्त्वम् ।
नहि धर्मिण्यप्रत्युत्पन्ने तद्धर्मोऽसत्त्वं प्रत्युत्पन्नमुपपद्यते ।
अथास्य न धर्मः किन्त्वर्थान्तरमसत्त्वम् ।
किमायातं भावस्य ।
नहि घटे जाते पटस्य किञ्चिद्भवति ।
असत्त्वं भावविरोधीति चेत् ।
न ।
अकिञ्चित्करस्य तत्त्वानुपपत्तेः ।
किञ्चित्करत्वे वा तत्राप्यसत्त्वेन तदनुयोगसम्भवात् ।
अथास्यासत्त्वं नाम किञ्चिन्न जायते किन्तु स एव न भवति ।
यथाहुःऽन तस्य किञ्चिद्भवति न भवत्येव केवलम्ऽइति ।
अथैष प्रसज्यप्रतिषेधो निरुच्यतां, किं तत्स्वभावो भाव उत भावस्वभावः स इति ।
तत्र पूर्वस्मिन् कल्पे भावानां तत्स्वभावतया तुच्छतया जगच्छून्यं प्रसज्येत ।
तथा च भावानुभवाभावः ।
उत्तरस्मिंस्तु सर्वभावनित्यतया नाभावव्यवहारः स्यात् ।
कल्पनामात्रनिमित्तत्वेऽपि निषेधस्य भावनित्यतापत्तिस्तदवस्थैव तस्माद्भिन्नमस्ति कारणाद्विकारजातं न वस्तु सत् ।
अतो विकारजातमनिर्वचनीयमनृतम् ।
तदनेन प्रमाणेन सिद्धमनृतत्वं विकारजातस्य कारणस्य निर्वाच्यतया सत्त्वंऽमृत्तिकेत्येव सत्यम्ऽइत्यादिना प्रबन्धेन दृष्टान्ततयानुवदति श्रुतिः ।
ऽयत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं स दृष्टान्तःऽइति चाक्षपादसूत्रं प्रमाणसिद्धो दृष्टान्त इत्येतत्परं, न पुनर्लोकसिद्धत्वमत्र विवक्षितम्,
अन्यथा तेषां परमाण्वादिर्न दृष्टान्तः स्यात् ।
नहि परमाण्वादिर्नैसर्गिकवैनयिकबुद्ध्यतिशयरहितानां लौकिकानां सिद्ध इति ।
सम्प्रत्यनेकान्तवादिनमुत्थापयतिनन्वनेकात्मकमिति ।
अनेकाभिः शक्तिभिर्याः प्रवृत्तयो नानाकार्यसृष्टयस्तद्युक्तं ब्रह्मैकं नाना चेति ।
किमतो यद्येवमित्यत आहतत्रैकत्वांशेनेति ।
यदि पुनरेकत्वमेव वस्तुसद्भवेत्ततो नानात्वाभावाद्वैदिकः कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः समस्त एवोच्छिद्येत ।
ब्रह्मगोचराश्च श्रवणमननादयः सर्वे दत्तजलाञ्जलयः प्रसज्येरन् ।
एवं चानेकात्मकत्वे ब्रह्मणो मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति ।
तमिममनेकान्तवादं दूषयतिनैवं स्यादिति ।
इदं तावदत्र वक्तव्यम्, मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वमिति वदतः कार्यकारणयोः परस्परं किमभेदोऽभिमतः, आहो भेदः, उत
भेदाभेदाविति ।
तत्राभेद ऐकान्तिके मृदात्मनेति च घटशरावाद्यात्मनेति चोल्लेखद्वयं नियमश्च नोपपद्यते ।
भेदे चोल्लेखद्वयनियमावुपपन्नौ, आत्मनेति त्वसमञ्जसम् ।
नह्यन्यस्यान्य आत्मा भवति ।
न चानेकान्तवादः ।
भेदाभेदकल्पे तुल्लेखद्वयं भवेदपि ।
नियमस्त्वयुक्तः ।
नहि धर्मिणोः कार्यकारणयोः सङ्करे तद्धर्मावेकत्वनानात्वे न सङ्कीर्येते इति सम्भवति ।
ततश्च मृदात्मनैकत्वं यावद्भवति तावद्घटशरावाद्यात्मनापि स्यात्, एवं घटशरावाद्यात्मना नानात्वं यावद्भवति तावन्मृदात्मना नानात्वं भवेत् ।
सोऽयं नियमः कार्यकारणयोरैकान्तिकं भेदमुपकल्पयति, अनिर्वचनीयतां वा कार्यस्य ।
पराक्रान्तं चास्माभिः प्रथमाध्याये तत् ।
आस्तां तावत् ।
तदेतद्युक्तिनिराकृतमनुवदन्तीं श्रुतिमुदाहरतिमृत्तिकेत्येव सत्यमिति ।
स्यादेतत् ।
न ब्रह्मणो जीवभावः काल्पनिकः, किन्तु भाविकः ।
अंशो हि सः, तस्य कर्मसहितेन ज्ञानेन ब्रह्मभाव आधीयत इत्यत आहस्वयं प्रसिद्ध हीति ।
स्वाभाविकस्यानादेरिति ।
यदुक्तं नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राहबाधिते चेति ।
यावदबाधं हि सर्वोऽयं व्यवहारः स्वप्नदशायामिव तदुपदर्शितपदार्थजातव्यवहारः ।
स च यथा जाग्रदवस्थायां बाधकान्निवर्तते एवं तत्त्वमस्यादिवाक्यपरिभावनाभ्यासपरिपाकभुवा शारीरस्य ब्रह्मात्मभावसाक्षात्कारेण बाधकेन
निवर्तते ।
स्यादेतत् ।
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽइत्यादिना मिथ्याज्ञानाधीनो व्यवहारः क्रियाकारकादिलक्षणः सम्यग्ज्ञानेनापनीयत इति न ब्रूते,
किन्त्ववस्थाभेदाश्रयो व्यवहारोऽवस्थान्तरप्राप्त्या निवर्तते, यथा बालकस्य कामचारवादभक्षतोपनयनप्राप्तौ निवर्तते ।
नच तावतासौ मिथ्याज्ञाननिबन्धनो भवत्येवमत्रापीत्यत आहन चायं व्यवहाराभाव इति ।
कुतः,तत्त्वमसीति ब्रह्मात्मभावस्येति ।
न खल्वेतद्वाक्यमवस्थाविशेषविनियतं ब्रह्मात्मभावमाह जीवस्य, अपि तु न भुजङ्गो रज्जुरियमितिवत्सदातनं तमभिवदति ।
अपि च सत्यानृताभिधानेनाप्येतदेव युक्तमित्याहतस्करदृष्टान्तेन चेति ।
न चास्मिन्दर्शन इति ।
नहि जातु काष्ठस्य दण्डकमण्डलुकुण्डलशालिनः कुण्डलित्वज्ञानं दण्डवत्तां कमण्डलुमत्तां बाधते ।
तत्कस्य हेतोः ।
तेषां कुण्डलादीनां तस्मिन् भाविकत्वात् ।
तद्वदिहापि भाविकगोचरेणैकात्म्यज्ञानेन न नानात्वं भाविकमपवदनीयम् ।
नहि ज्ञानेन वस्त्वपनीयते ।
अपि तु मिथ्याज्ञानेनारोपितमित्यर्थः ।
चोदयतिनन्वेकत्वैकान्ताभ्युपगम इति ।
अबाधितानधिगतासन्दिग्धविज्ञानसाधनं प्रमाणमिति प्रमाणसामान्यलक्षणोपपत्त्या प्रत्यक्षादीनि प्रमाणतामश्नुवते ।
एकत्वैकान्ताभ्युपगमे तु तेषां सर्वेषां भेदविषयाणां बाधितत्वादप्रामाण्यं प्रसज्येत ।
तथा विधिप्रतिषेधशास्त्रमपि भावनाभाव्यभावककरणेतिकर्तव्यताभेदापेक्षत्वाद्व्याहन्येत ।
तथा च नास्तिक्यम् ।
एकदेशाक्षेपेण च सर्ववेदाक्षेपाद्वेदान्तानामप्यप्रामाण्यमित्यभेदैकान्ताभ्युपगमहानिः ।
न केवलं विधिनिषेधाक्षेपेणास्य मोक्षशास्त्रस्याक्षेपः स्वरूपेणास्यापि भेदापेक्षत्वादित्याहमोक्षशास्त्रस्यापीति ।
अपि चास्मिन् दर्शने वर्णपदवाक्यप्रकरणादीनामलीकत्वात्तत्प्रभवमद्वैतज्ञानमसीचीनं भवेत्, न खल्वलीकाद्धूमकेतनज्ञानं
समीचीनमित्याहकथं चानृतेन मोक्षशास्त्रेणेति ।
परिहरतिअत्रोच्यत इति ।
यद्यपि प्रत्यक्षादीनां तात्त्विकमबाधितत्वं नास्ति, युक्त्यागमाभ्यां बाधनात्, तथापि व्यवहारे बाधनाभावात्सांव्यवहारिकमबाधनम् ।
नहि प्रत्यक्षादिभिरर्थं परिच्छिद्य प्रवर्तमानो व्यवहारे विसम्बाद्यते सांसारिकः कश्चित् ।
तस्मादबाधनान्न प्रमाणलक्षणमतिपतन्ति प्रत्यक्षादय इति ।
सत्यत्वोपपत्तेरिति ।
सत्यत्वाभिमानोपपत्तेरिति ।
ग्रहणकवाक्यमेतत् ।
विभजतेयावद्धि न सत्यात्मैकत्वप्रतिपत्तिरिति ।
विकारानेव तु शरीरादीनहमित्यात्मभावेन पुत्रपश्वादीन्ममेत्यात्मीयभावेनेति योजना ।
वैदिकश्चेति ।
कर्मकाण्डमोक्षशास्त्रव्यवहारसमर्थना ।
ऽस्वप्नव्यवहारस्येवऽइति विभजतेयथा सुप्तस्य प्राकृतस्येति ।
ऽकथं चानृतेन मोक्षशास्त्रेणऽइति यदुक्तं तदनुभाष्य दूषयतिकथं त्वसत्येनेति ।
शक्यमत्र वक्तुं, श्रवणाद्युपाय आत्मसाक्षात्कारपर्यन्तो वेदान्तसमुत्थोऽपि ज्ञाननिचयोऽसत्यः, सोऽपि हि वृत्तिरूपः कार्यतया निरोधधर्मा, यस्तु
ब्रह्मस्वभावसाक्षात्कारोऽसौ न कार्यस्तत्स्वभावत्वात्, तस्मादचोद्यमेतत्कथमसत्यात्सत्योत्पाद इति ।
यत्खलु सत्यं न तदुत्पद्यत इति कुतस्तस्यासत्यादुत्पादः ।
यच्चोत्पद्यते तत्सर्वमसत्यमेव ।
सांव्यवहारिकं तु सत्यत्वं वृत्तिरूपस्य ब्रह्मसाक्षात्कारस्येव श्रवणादीनामप्यभिन्नम् ।
तस्मादभ्युपेत्य वृत्तिस्वरूपस्य ब्रह्मसाक्षात्कारस्य परमार्थसत्यतां व्यभिचारोद्भावनमिति मन्तव्यम् ।
यद्यपि सांव्वहारिकस्य सत्यादेव भयात्सत्यं मरणमुत्पद्यते तथापि भयहेतुरहिस्तज्ज्ञानं वासत्यं ततो भयं सत्यं जायत
इत्यसत्यात्सत्यस्योत्पत्तिरुक्ता ।
यद्यपि चाहिज्ञानमपि स्वरूपेण सत्तथापि न तज्ज्ञानत्वेन भयहेतुरपि त्वनिर्वाच्याहिरूषितत्वेन ।
अन्यथा रज्जुज्ञानादपि भयप्रसङ्गाज्ज्ञानत्वेनाविशेषात् ।
तस्मादनिर्वाच्याहिरूषितं ज्ञानमप्यनिर्वाच्यमिति सिद्धमसत्यादपि सत्यस्योपजन इति ।
न च ब्रूमः सर्वस्यादसत्यात्सत्यस्योपजनः, यतः समारोपितधूमभावाया धूममहिष्या वह्निज्ञानं सत्यं स्यात् ।
नहि चक्षुषो रूपज्ञानं सत्यमुपजायत इति रसादिज्ञानेनापि ततः सत्येन भवितव्यम् ।
यतो नियमो हि स तादृशः सत्यानां यतः कुतश्चित्किञ्चिदेव जायत इति ।
एवमसत्यानामपि नियमो यतः कुतश्चिदसत्यात्सत्यं कुतश्चिदसत्यं, यथा दीर्घत्वादेर्वर्णेषु समारोपितत्वाविशेषेऽप्यजीनमित्यतो
ज्यानिविरहमवगच्छन्ति सत्यम् ।
अजिनमित्यतस्तु समारोपितदीर्घभावाज्ज्यानिविरहमवगच्छन्तो भवन्ति भ्रान्ताः ।
न चोभयत्र दीर्घसमारोपं प्रति कश्चिदस्ति भेदः ।
तस्मादुपपन्नमसत्यादपि सत्यस्योदय इति ।
निदर्शनान्तरमाहस्वप्नदर्शनावस्थस्येति ।
यथा सांसारिको जाग्रद्भुजङ्गं दृष्ट्वा पलायते ततश्च न दंशवेदनामाप्नोति, पिपासुः सलिलमालोक्य पातुं प्रवर्तते ततस्तदासाद्य
पायम्पायमाप्यायितः सुखमनुभवति, एवं स्वप्नान्तिकेऽपि तदवस्थं सर्वमित्यसत्यात्कार्यसिद्धिः ।
शङ्कतेतत्कार्यमप्यनृतमेवेति ।
एवमपि नासत्यात्सत्यस्य सिद्धिरुक्तेत्यर्थः ।
परिहरतितत्र ब्रूमः ।
यद्यपि स्वप्नदर्शनावस्थस्येति ।
लौकिको हि सुप्तोत्थितोऽवगम्यं बाधितं मन्यते न तदवगतिं, तेन यद्यपि परिक्षका अनिर्वाच्यरूषितामवगतिमनिर्वाच्यां निश्चिन्वन्ति तथापि
लौकिकाभिप्रायेणैतदुक्तम् ।
अत्रान्तरे लौकायतिकानां मतमपाकरोतिएतेन स्वप्नदृशोऽवगत्यबाधनेनेति ।
यदाखल्वयं चैत्रस्तारक्षवीं व्यात्तविकटदंष्ट्राकरालवदनामुत्तब्धबम्भ्रमन्मस्तकावचुम्बिलाङ्गूलामतिरोषारुणस्तब्धविशालवृत्तलोचनां
रोमाञ्चसञ्चयोत्फुल्लमीषणां स्फटिकाचलभित्तिप्रतिबिम्बितामभ्यमित्रीणां तनुमास्थाय स्वप्ने प्रतिबुद्धो मानुषीमात्मनस्तनुं पश्यति
तदोभयदेहानुगतमात्मानं प्रतिसन्दधानो देहातिरिक्तमात्मानं, निश्चिनोति, न तु देहमात्रम्, तन्मात्रत्वे देहवत्प्रतिसन्धानाभावप्रसङ्गात् ।
कथं चैतदुपपद्येत यदि स्वप्नदृशोऽवगतिरबाधिता स्यात् ।
तद्बाधे तु प्रतिसन्धानाभाव इति ।
असत्याच्च सत्यप्रतीतिः श्रुतिसिद्धान्वयव्यतिरेकसिद्धा चेत्याहतथाच श्रुतिरिति ।
तथाकारादीति ।
यद्यपि रेखास्वरूपं सत्यं तथापि तद्यथासङ्केतमसत्यम् ।
नहि सङ्केतयितारः सङ्केतयन्तीदृशेन रेखाभेदेनायं वर्णः प्रत्येतव्योऽपि त्वीदृशो रेखाभेदोऽकारमीदृशश्च ककार इति ।
तथा चासमीचीनात्सङ्केतात्समीचीनवर्णावगतिरिति सिद्धम् ।
यच्चोक्तमेकत्वांशेन ज्ञानमोक्षव्यवहारः सेत्स्यति, नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राहअपि चान्त्यमिदं
प्रमाणमिति ।
यदि खल्वेकत्वानेकत्वनिबन्धनौ व्यवहारावेकस्य पुंसोऽपर्यायेण सम्भवतस्ततस्तदर्थमुभयसद्भावः कल्प्येत, न त्वेतदस्ति ।
नह्येकत्वावगतिनिबन्धनः कश्चिदस्ति व्यवहारः, तदवगतेः सर्वोत्तरत्वात् ।
तथाहिऽतत्त्वमसिऽइत्यैकात्म्यावगतिः समस्तप्रमाणतत्फलताद्व्यहारानपबाधमानैवोदीयते, नैतस्याः परस्तात्किञ्चिदनुकूलं प्रतिकूलं चास्ति,
यदपेक्षेन, येन चेयं प्रतिक्षिप्येत, तत्रानुकूलप्रतिकूलनिवारणान्नातः परं किञ्चिदाकाङ्क्ष्यमिति ।
न चेयमवगतिर्डुलक्षीरप्रायेत्याहन चेयमिति ।
स्यादेतत् ।
अन्त्या चेदियमवगतिर्निष्प्रयोजना तर्हि तथा च न प्रेक्षावद्भिरुपादीयेत, प्रयोजनवत्त्वे वा नान्त्या स्यादित्यत आहन
चेयमवगतिरनर्थिकाकुतःविद्यानिवृत्तिफलदर्शनात् ।
नहीयमुत्पन्ना सती पश्चादविद्यां निवर्तयति येन नान्त्या स्यात्, किन्त्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवोदयते ।
अविद्यानिवृत्तिश्च न तत्कार्यतया फलमपि त्विष्टतया, इष्टलक्षणत्वात्फलस्येति ।
प्रतिकूलं पराचीनं निराकर्तुमाहभ्रान्तिर्वेति ।
कुतः,बाधकेति ।
स्यादेतत् ।
मा भूदेकत्वनिबन्धनो व्यवहारोऽनेकत्वनिबन्धनस्त्वस्ति, तदेव हि सकलामुद्वहति लोकयात्राम्, अतस्तत्सिद्ध्यर्थमनेकत्वस्य कल्पनीयं
तात्त्विकत्वमित्यत आहप्राक्चेति ।
व्यवहारो हि बुद्धिपूर्वकारिणां बुद्ध्योपपद्यते, न त्वस्यास्तात्त्विकत्वेन, भ्रान्त्यापि तदुपपत्तेरित्यावेदितम् ।
सत्यं च तदविसंवादात्, अनृतं च विचारासहतयानिर्वाच्यत्वात् ।
अन्त्यस्यैकात्म्यज्ञानस्यानपेक्षतया बाधकत्वं, अनेकत्वज्ञानस्य च प्रतियोगिग्रहापेक्षया दुर्बलत्वेन बाध्यत्वं वदन् प्रकृतमुपसंहरतितस्मादन्त्येन
प्रमाणेनेति ।
स्यादेतत् ।
न वयमनेकत्वव्यवहारसिद्ध्यर्थमनेकत्वस्य तात्त्विकत्वं कल्पयामः, किन्तु श्रौतमेवास्य तात्त्विकत्वमिति चोदयतिननु मृदादिति ।
परिहरतिनेत्युच्यत इति ।
मृदादिदृष्टान्तेन हि कथञ्चित्परिणाम उन्नेयः, नच शक्य उन्नेतुम्,ऽमृत्तिकेत्येव सत्यम्ऽइति कारणमात्रसत्यत्वावधारणेन
कार्यस्यानृतत्वप्रतिपादनात् ।
साक्षात्कूटस्थनित्यत्वप्रतिपादिकास्तु सन्ति सहस्रशः श्रुतय इति न परिणामधर्मता ब्रह्मणः ।
अथ कूटस्थस्यापि परिणामः कस्मान्न भवतीत्यत आहन ह्येकस्येति ।
शङ्कतेस्थितिगतिवदिति ।
यथैकबाणाश्रये गतिनिवृत्ति एवमेकस्मिन्ब्रह्मणि परिणामश्च तदभावश्च कौटस्थ्यं भविष्यत इति ।
निराकरोतिन कूटस्थस्येति विशेषणादिति ।
कूटस्थनित्यता हि सदातनी स्वभावादप्रच्युतिः ।
सा कथं प्रच्युत्या न विरुध्यते ।
नच धर्मिणो व्यतिरिच्यते धर्मो येन तदुपजनापायेऽपि धर्मी कूटस्थः स्यात् ।
भेद ऐकान्तिके गवाश्ववद्धर्मधर्मिभावाभावात् ।
बाणादयस्तु परिणामिनः स्थित्या गत्या च परिणमन्त इति ।
अपि च स्वाध्यायाध्ययनविध्यापादितार्थवत्त्वस्य वेदराशेरेकेनापि वर्णेनानर्थकेन न भवितव्यं किं पुनरियता जगतो ब्रह्मयोनित्वप्रतिपादकेन
वाक्यसन्दर्भेण ।
तत्र फलवद्ब्रह्मदर्शनसमाम्नानसन्निधावफलं जगद्योनित्वं समाम्नायमानं तदर्थं सत्तदुपायतयावतिष्ठते नार्थान्तरार्थमित्याहनच यथा ब्रह्मणि
इति ।
अतो न परिणामपरत्वमस्येत्यर्थः ।
तदनन्यत्वमित्यस्य सूत्रस्य प्रतिज्ञाविरोधं श्रुतिविरोधं च चोदयतिकूटस्थब्रह्मात्मवादिन इति ।
परिहरतिन ।
अविद्यात्मक इति ।
नाम च रूपं च ते एव बीजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्षत्वादैश्वर्यस्य ।
एतदुक्तं भवतिन तात्त्विकमैश्वर्यं सर्वज्ञत्वं च ब्रह्मणः किन्त्वविद्योपाधिकमिति तदाश्रयं प्रतिज्ञासूत्रं, तत्त्वाश्रयं तु तदनन्यत्वसूत्रम्, तेनाविरोधः ।
सुगममन्यत् ॥१४॥



२,१.६.१५
भावे चोपलब्धेः । ब्रह्मसूत्र २,१.१५ ।
कारणस्य भावः सत्ता चोपलम्भश्च तस्मिन् कार्यस्योपलब्धेर्भावाच्च ।
एतदुक्तं भवतिविषयपदं विषयविषयिपरं, विषयिपदमपि विषयिविषयपरं, तेन कारणोपलम्भभावयोरुपादेयोपलम्भभावादिति सूत्रार्थः
सम्पद्यते ।
तथा च प्रभारूपानुविरुद्धबोध्येन चाक्षुषेण न व्यभिचारः, नापि वह्निभावाभावानुविधायिभावाभावेन धूमभेदेनेति सिद्धं भवति ।
तत्र यथोक्तहेतोरेकदेशाभिधानेनोपक्रमते भाष्यकारःितश्च कारणादनन्यत्वम्भेदाभावः कार्यस्य, यत्कारणं यस्मात्कारणात्भाव एव
कारणस्येति ।
अस्य व्यतिरेकमुखेन गमकत्वमाहनच नियमेनेति ।
काकतालीयन्यायेनान्यभावेऽन्यदुपलभ्यते, न तु नियमेनेत्यर्थः ।
हेतुविशेषणाय व्यभिचारं चोदयतिनन्वन्यस्य भावेऽपीति ।
एकदेशिमतेन परिहरतिनेत्युच्यत इति ।
शङ्कयैकदेशिपरिहारं दूषयित्वा परमार्थपरिहारमाहअथेति ।
तदनेन हेतुविशेषणमुक्तम् ।
पाठान्तरेणेदमेव सूत्रं व्याचष्टेन केवलं शब्दादेवेति ।
पट इति हि प्रत्यक्षबुद्ध्या तन्तव एवातानवितानावस्था आलम्ब्यन्ते, न तु तदतिरिक्तः पटः प्रत्यक्षमुपलभ्यते ।
एकत्वं तु तन्तूनामेकप्रावरणलक्षणार्थक्रियावच्छेदाद्बहूनामपि ।
यथैकदेशकालावच्छिन्ना धवखदिरपलाशादयो बहवोऽपि वनमिति ।
अर्थक्रियायां च प्रत्येकमसमर्था अप्यनारभ्यैवार्थान्तरं किञ्चिन्मिलिताः कुर्वन्तो दृश्यन्ते, यथा ग्रावाण उखाधारणमेकम्, एवमनारभ्यैवार्थान्तरं
तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति ।
नच समवायाद्भिन्नयोरपि भेदानवसायः अनवसाय इति साम्प्रतम, अन्योन्याश्रयत्वात् ।
भेदे हि सिद्धे समवायः समवायाच्च भेदः ।
नच भेदे साधनान्तरमस्ति, अर्थक्रियाव्यपदेशभेदयोरभेदेऽप्युपपत्तेरित्युपादितम् ।
तस्माद्यत्किञ्चिदेतम् ।
अनया च दिशा मूलकारणं ब्रह्मैव परमार्थसत्, अवान्तरकारणानि च तन्वादयः सर्वेऽनिर्वाच्या एवेत्याहतथा च तन्तुष्विति ॥१५॥



२,१.६.१६
सत्त्वाच्चापरस्य । ब्रह्मसूत्र २,१.१६ ।
विभजतेइतश्चेति ।
न केवलं श्रुतिः, उपपत्तिश्चात्र भवतियच्च यदात्मनेति ।
नहि तैलं सिकतात्मना सिकतायामस्ति यथा घटोऽस्ति मृदि मृदात्मना ।
प्रत्युत्पन्नो हि घटो मृदात्मनोपलभ्यते ।
नैवं प्रत्युत्पन्नं तैलं सिकतात्मना ।
तेन यथा सिकतायास्तैलं न जायत एवमात्मनोऽपि जगन्न जायेत, जायते च, तस्मादात्मात्मनासीदिति गम्यते ।
उपपत्त्यन्तरमाहयथा कारणं ब्रह्मेति ।
यथा हि घटः सर्वदा सर्वत्र घट एव ना जात्वसौ क्वचित्पटो भवत्येवं सदपि सर्वत्र सर्वदा सदेव न तु
क्वचित्कदाचिदसद्भवितुमर्हतीत्युपपादितमधस्तात् ।
तस्मात्कार्यं त्रिष्वपि कालेषु सदेव ।
सत्त्वं चेत्किमतो यद्येवमित्यत आहएकं च पुनरिति ।
सत्त्वं चैकं कार्यकारणयोः ।
नहि प्रतिव्यक्ति सत्त्वं भिद्यते ।
ततश्चाभिन्नसत्तानन्यत्वादेते अपि मिथो न भिद्येते इति ।
नच ताभ्यामनन्यत्वात्सत्त्वस्यैव भेद इति युक्तम् ।
तथा सति हि सत्त्वस्य समारोपितत्वप्रसङ्गः ।
तत्र भेदाभेदयोरन्यतरसमारोपकल्पनायां किं तात्त्विकाभेदोपादानाभेदकल्पनास्तु, आहो तात्त्विकभेदोपादानाभेदकल्पनेति ।
वयं तु पश्यामो भेदग्रहस्य प्रतियोगिग्रहपेक्षत्वाद्भेदग्रहमन्तरेण च प्रतियोगिग्रहसम्भवादन्योन्यसंश्रयापत्तेः, अभेदग्रहस्य च निरपेक्षतया
तदनुपपत्तेरेकैकाश्रयत्वाच्च भेदस्यैकाभावे तदनुपपत्तेरभेदग्रहोपादानैव भेदकल्पनेति सर्वभवदातम् ॥१६॥



२,१.६.१७
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् । ब्रह्मसूत्र २,१.१७ ।
व्याकृतत्वाव्याकृतत्वे च धर्मावनिर्वचनीयौ ।
सूत्रमेतन्निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥१७॥



२,१.६.१८
युक्तेः शब्दान्तराच्च । ब्रह्मसूत्र २,१.१८ । अतिशयवत्त्वात्प्रागवस्थाया इति ।
अतिशयो हि धर्मो नासत्यतिशयवति कार्ये भवितुमर्हतीति ।
ननु न कार्यस्यातिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चासत्यपि कार्ये कारणस्य सत्त्वात्सन्नेवेत्यत आहशक्तिश्चेति ।
नान्या कार्यकारणाभ्यां, नाप्यसती कार्यात्मनेति योजना ।
अपिच कार्यकारणयोरिति ।
यद्यपिऽभावाच्चोपलब्धेःऽइत्यत्रायमर्थ उक्तस्तथापि समवायदूषणाय पुनरवतारितः ।
अनभ्युपगम्यमाने चसमवायस्य समवायिभ्यां सम्बन्धे विच्छेदप्रसङ्गोऽवयवावयविद्रव्यगुणादीनां मिथः ।
नह्यसम्बद्धः समवायिभ्यां समवायः समवायिनौ सम्बन्धयोदिति ।
शङ्कतेअथ समवायः स्वयमिति ।
यथा हि सत्त्वायोगाद्रव्यगुणकर्माणि सन्ति, सत्त्वं तु स्वभावत एव सदिति न सत्त्वान्तरयोगमपेक्षते, तथा समवायः समवायिभ्यां सम्बद्धुं न
सम्बन्धान्तरयोगमपेक्षते, स्वयं सम्बन्धरूपत्वादिति ।
तदेतत्सिद्धान्तान्तरविरोधापादनेन निराकरोतिसंयोगोऽपि तर्हीति ।
नच संयोगस्य कार्यत्वात्कार्यस्य च समवायिकारणाधीनजन्मत्वातसमवाये च तदनुपपत्तेः समवायकल्पना संयोग इति वाच्यम् ।
अजसंयोगे तदभावप्रसङ्गात् ।
अपि च ।
सम्बन्ध्यधीननिरूपणः समवायो यथा सम्बन्धिद्वयभेदे न भिद्यते तन्नाशे च न नश्यत्यपि तु नित्य एक एवं संयोगोऽपि भवेत् ।
ततः को दोषः ।
अथैतत्प्रसङ्गभिया संयोगवत्समवायोऽपि प्रतिसम्बन्धिमिथुनं भिद्यते चानित्यश्चेत्यभ्युपेयते, तथा सति यथैकस्मान्निमित्तकारणादेव जायत एवं
संयोगोऽपि निमित्तकारणादेव जनिष्यत इति समानम् ।
तादात्म्यप्रतीतेश्चेति ।
सम्बन्धावगमे हि सम्बन्धकल्पनाबीजं न तादात्म्यावगमः, तस्य नानात्वैकाश्रयसम्बन्धविरोधादिति ।
वृत्तिविकल्पेनावयवातिरिक्तमवयविनं दूषयतिकथञ्च कार्यमिति ।
समस्तेति ।
मध्यपरभागयोरर्वाग्भागव्यवहितत्वात् ।
अथ समस्तावयवव्यासङ्ग्यपि कतिपयावयवस्थानो ग्रहीष्यत इत्यत आहनहि बहुत्वमिति ।
अथावयवश इति ।
बहुत्वसङ्ख्या हि स्वरूपेणैव व्यासज्य सङ्ख्येयेषु वर्तते इत्येकमसङ्ख्येयाग्रहणेऽपि न गृह्यते, समस्तव्यासङ्गित्वात्तद्रूपस्य ।
अवयवी तु न स्वरूपेणावयवान्व्याप्नोतिं, अपि त्ववयवशः ।
तेन यथा सूत्रमवयवैः कुसुमानि व्याप्नुवन्न समस्तकुसुमग्रहणमपेक्षते कतिपयकुसुमस्थानस्यापि तस्योपलब्धेः, एवमवयव्यपीति भावः ।
निराकरोतितदापीति ।
शङ्कतेगोत्वादिवदिति ।
निराकरोतिनेति ।
यद्यपि गोत्वस्य सामान्यस्य विशेषा अनिर्वाच्या न परमार्थसन्तस्तथा च क्वास्य प्रत्येकपरिसमाप्तिरिति, तथाप्यभ्युपेत्येदमुदितमिति मन्तव्यम् ।
अकर्तृका यतोऽतो निरात्मिका स्यात् ।
कारणाभावे हि कार्यमनुत्पन्नं किन्नाम भवेत् ।
अतो निरात्मकत्वमित्यर्थः ।
यद्युच्येत घटशब्दस्तदवयवेषु व्यापाराविष्टतया पूर्वापरीभावमापन्नेषु घटोपजनाभिमुखेषु तादर्थ्यनिमित्तादुपचारात्प्रयुज्यते, तेषां च सिद्धत्वेन
कर्तृत्वमस्तीत्युपपद्यते घटो भवतीति प्रयोग इत्यत आहघटस्य चोत्पत्तिरुच्यमानेति ।
उत्पादना हि सिद्धानां कपालकुलालादीनां व्यापारो नोत्पत्तिः ।
न चोत्पादनैवोत्पत्तिः,
प्रयोज्यप्रयोजकव्यापारयोर्भेदात् ।
अभेदे वा घटमुत्पादयतीतिवद्घटमुत्पद्यत इत्यपि प्रसङ्गात् ।
तस्मात्करोतिकारयत्योरिव घटगोचरयोर्भृत्यस्वामिसमवेतयोरुत्पत्त्युत्पादनयोरधिष्ठानभेदोऽभ्युपेतव्यः, तत्र कपासकुलालादीनां
सिद्धानामुत्पादनाधिष्ठानानां नोत्पत्त्यधिष्ठानत्वमस्तीति पारिशेष्याद्घट एव साध्य उत्पत्तेरधिष्ठानमेषितव्यः ।
न चासावसन्नधिष्ठानं भवितुमर्हतीति सत्त्वमस्याभ्युपेयम् ।
एवञ्च घटो भवतीति घटव्यापारस्य धातूपात्तत्वात्तत्रास्य कर्तृत्वमुपपद्यते, तण्डुलानामिव सतां विक्लित्तौ विक्लिद्यन्ति तण्डुला इति ।
शङ्कतेअथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरिति ।
एतदुक्तं भवतिनोत्पत्तिर्नाम कश्चिद्व्यापारः, येनासिद्धस्य कथमत्र कर्तृत्वमित्यनुयुज्येत, किन्तु स्वकारणसमवायः, स्वसत्तासमवायो वा, स
चासतोऽप्यविरुद्ध इति ।
सोऽप्यसतोऽनुपपन्न इत्याहकथमलब्धात्मकमिति ।
अपि च प्रागुत्पत्तेरसत्त्वं कार्यस्येति कार्याभावस्य भावेन मर्यादाकरणमनुपपन्नमित्याहअभावस्य चेति ।
स्यादेतत् ।
अत्यन्ताभावस्य बन्ध्यासुतस्य मा भून्मर्यादनुपाख्यो हि सः, घटप्रागभावस्य तु भविष्यता घटेनोपाख्येयस्यास्ति मर्यादेत्यत आहयदि वन्ध्यापुत्रः
कारकव्यापारादिति ।
उक्तमेतदधस्ताद्यथा न जातु घटः पटो भवत्येवमसदपि सन्न भवतीति ।
तस्मान्मृत्पिण्डे घटस्यासत्त्वेऽत्यन्तासत्त्वमेवेति ।
अत्रासत्कार्यवादी चोदयतिनन्वेवं सतीति ।
प्राक्प्रसिद्धमपि कार्यं कदाचित्कारणेन योजयितुं व्यापारोर्ऽथवान्मवेदित्यत आहतदनन्यत्वाच्चेति ।
परिहरतिनैष दोष इति ।
उक्तमेतद्यथा भुजङ्गतत्त्वं न रज्जोर्भिद्यते, रज्जुरेव हि तत्, काल्पनिकस्तु भेदः, एवं वस्तुतः कार्यतत्त्वं न कारणाद्भिद्यते कारणस्वरूपमेव हि
तत्, अनिर्वाच्यं तु कार्यरूपं भिन्नमिवाभिन्नमिव चावभासत इति ।
तदिदमुक्तम्वस्त्ववन्यत्वमिति ।
वस्तुतः परमार्थतोऽन्यत्वं न विशेषदर्शनमात्राद्भवति ।
सांव्यावहारिके तु कथञ्चित्तत्त्वान्यत्वे भवत एवोत्यर्थः ।
अनयैव हि दिशैष सन्दर्भो योज्यः ।
असत्कार्यवादिनं प्रति दूषणान्तरमाहयस्य पुनरिति ।
कार्यस्य कारणादभेदे सविषयत्वं कारकव्यापारस्य स्यान्नान्यथेत्यर्थः ।
मूलकारणम्ब्रह्म ।
शब्दान्तराच्चेति सूत्रावयवमवतार्य व्याचष्टेएवं युक्तेः कार्यस्येति ।
अतिरोहितार्थम् ॥१८॥



२,१.६.१९
पटवच्च । ब्रह्मसूत्र २,१.१९ । यथा च प्राणादि । ब्रह्मसूत्र २,१.२० ।
इति च सूत्रे निगदव्याख्यातेन भाष्येण व्याख्याते ॥१९॥



२,१.६.२०
२० ॥



२,१.७.२१
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः । ब्रह्मसूत्र २,१.२१ ।
यद्यपि शारीरात्परमात्मनो भेदमाहुः श्रुतयस्तथाप्यभेदमपि दर्शयन्ति श्रुतयो बह्वयः ।
नच भेदाभेदावेकत्र समवेतौ विरोधात्, नच भेदस्तात्त्विक इत्युक्तम् ।
तस्मात्परमात्मनः सर्वज्ञान्न शारीरस्तत्त्वतो भिद्यते ।
स एव त्वविद्योपधानभेदाद्घटकरकाद्याकाशवद्भेदेन प्रथते ।
उपहितं चास्य रूपं शारीरः, तेन मा नाम जीवाः परमात्मतामात्मनोऽनुभूवन्, परमात्मा तु तानात्मनोऽभिन्नाननुभवति ।
अननुभवे सार्वज्ञ्यव्याघातः ।
तथा चायं जीवान् बध्नन्नात्मानमेव बध्नीयात् ।
तत्रेदमुक्तम्नहि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशतिइत्यादि ।
तस्मान्न चेतनकारणं जगदिति पूर्वः पक्षः ॥२१॥



२,१.७.२२
अधिकं तु भेदनिर्देशात् । ब्रह्मसूत्र २,१.२२ ।
सत्यमयं परमात्मा सर्वज्ञत्वाद्यथा जीवान् वस्तुत आत्मनोऽभिन्नान् पश्यति, पश्यत्येवं न भावत एषां
सुखदुःखादिवेदनासङ्गोस्त्यविद्यावशात्त्वेषां तद्वदभिमान इति ।
तथा च तेषां सुखदुःखादिवेदनायामप्यहमुदासीन इति न तेषां बन्धनागारनिवेशेऽप्यस्तिक्षतिः काचिन्ममेति न हिताकरणादिदोषापत्तिरिति
राद्धान्तः ।
तदिदमुक्तमपिच यदा तत्त्वमसीति ।
अपिचेति चः पूर्वोपपत्तिसाहित्यं द्योतयति, नोपपत्त्यन्तरताम् ॥२२॥



२,१.७.२३
स्यादेतत् ।
यदि ब्रह्मविषर्तो जगत्, हन्त सर्वस्यैव जीववचैतन्यप्रसङ्ग इत्यत आह
अश्मादिवच्च तदनुपपत्तिः । ब्रह्मसूत्र २,१.२३ ।
अतिरोहितार्थेन भाष्येण व्याख्यातम् ॥२३॥



२,१.८.२४
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि । ब्रह्मसूत्र २,१.२४ ।
ब्रह्म खल्वेकमद्वितीयतया परानपेक्षं क्रमेणोत्पद्यमानस्य जगतो विविधविचित्ररूपस्योपादानमुपेयते तदनुपपन्नम् ।
नह्येकरूपात्कार्यभेदो भवितुमर्हति, तस्याकस्मिकत्वप्रसङ्गात् ।
कारणभेदो हि कार्यभेदहेतुः, क्षीरबीजादिभेदाद्दद्यङ्कुरादिकार्यभेददर्शनात् ।
न चाक्रमात्कारणात्कार्यक्रमो जुज्यतो, समर्थस्य क्षेपायोगादद्वितीयतया च क्रमवत्तत्सहकारिसमवधानापपत्तेः ।
तदिदमुक्तमिह हि लोक इति ।
एकैकं मृदादि कारकं तेषां तु सामग्र्यं साधनम्, ततो हि कार्यं साधयत्येव, तस्मान्नाद्वितीयं ब्रह्म जगदुपादानमिति प्राप्ते, उच्यतेक्षीरवद्धि ।
इदं तावद्भवान् पृष्टो व्याचष्टाङ्किं तात्त्विकमस्य रूपमपेक्ष्येदमुच्यते उतानादिनामरूपबीजसहितं काल्पनिकं सार्वज्ञ्यं सर्वशक्तित्वम् ।
तत्र पूर्वस्मिन् कल्पे किं नाम ततोऽद्वितीयादसहायादुपजायते ।
नहि तस्य शुद्धबुद्धमुक्तस्वभावस्य वस्तुसत्कार्यमस्ति ।
तथा च श्रुतिःऽन तस्य कार्यं करणं च विद्यतेऽइति ।
उत्तरस्मिंस्तु कल्पे यदि कुलालादिवदत्यन्तव्यतिरिक्तसहकारिकारणाभावादनुपादानत्वं साध्यते, ततः क्षीरादिभिर्व्यभिचारः ।
तेऽपि हि बाह्यचेतनादिकारणानपेक्षा एव कालपरिवशेन स्वत एव परिणामान्तरमासादयन्ति ।
अत्रान्तरकारणानपेक्षत्वं हेतुः क्रियते, तदसिद्धम्, अनिर्वाच्यनामरूपबीजसहायत्वात् ।
तथा च श्रुतिःऽमायां तु प्रकृतिं विद्यान्मायिनं ति महेश्वरम्ऽइति कार्यक्रमेण तत्परिपाकोऽपि क्रमवानुन्नेयः ।
एकस्मादपि च विचित्रशक्तेः कारणादनेककार्योत्पादो दृश्यते ।
यथैकस्माद्वह्नेर्दाहपाकावेकस्माद्वा कर्मणः संयोगविभागसंस्काराः ।
२४ ॥



२,१.८.२५
यदि तु चेतनत्वे सतीति विशेषणान्न क्षीरादिभिर्व्यभिचारः, दृष्टा हि कुलालादयो बाह्यमृदाद्यपेक्षाः, चेतनं च ब्रह्मेति, तत्रेदमुपतिष्ठते
देवादिवदपि लोके । ब्रह्मसूत्र २,१.२५ ।
लोक्यतेऽनेनेति लोकः शब्द एव तस्मिन् ॥२५॥



२,१.९.२६
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा । ब्रह्मसूत्र २,१.२६ ।
ननु न ब्रह्मणस्तत्त्वतः परिणामो येन कार्त्स्न्यभागविकल्पेनाक्षिप्येत ।
अविद्याकल्पितेन तु नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मना तत्त्वान्यत्वाभ्यामनिर्वचनीयेन परिणामादिव्यवहारास्पदत्वं ब्रह्म
प्रतिपद्यते ।
नच कल्पितं रूपं वस्तु स्पृशति ।
नहि चन्द्रमसि तैमिरिकस्य द्वित्वकल्पना चन्द्रमसो द्वित्वमावहति ।
तदनुपपत्त्या वा चन्द्रमसोऽनुपपत्तिः ।
तस्मादवास्तवी परिणामकल्पनानुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुपपत्तिमावहति ।
तस्मात्पूर्वपक्षाभावादनारभ्यमिदमधिकरणमिति, अत आहचेतनमेकम् ।
यद्यपि श्रुतिशतादैकान्तिकाद्वैतप्रतिपादनपरात्परिणामो वस्तुतो निषिद्धस्तथापि क्षीरादिदेवतादृष्टान्तेन पुनस्तद्वास्तवत्वप्रसङ्गं पूर्वपक्षोपपत्त्या
सर्वथायं पक्षो न घटयितुं शक्यत इत्यपबाध्यश्रुतेस्तु शब्दामूलत्वातात्मनि चैवं विचित्राश्च हिऽइति सूत्राभ्यां
विवर्तदृढीकरणेनैकान्तिकाद्वयलक्षणः श्रुत्यर्थः परिशोध्यत इत्यर्थः ।
तस्मादस्त्यविकृतं ब्रह्मतत्त्वतः ।
ननु शब्देनापीति चोद्यमविद्याकल्पितत्वोद्घटनाय ।
नहि निरवयवत्वसावयवत्वाभ्यां विधान्तरमस्त्येकनिषेधस्येतरविधानान्तरीयकत्वात् ।
तेन प्रकारान्तराभावान्निरवयवत्वसावयवत्वयोश्च प्रकारयोरनुपपत्तेर्ग्रावप्लवनाद्यर्थवादवदप्रमाणं शब्दः स्यादिति चोद्यार्थः ।
परिहारः सुगमः ॥२६॥



२,१.९.२७



२,१.९.२८
आत्मनि चैवं विचित्राश्च हि । ब्रह्मसूत्र २,१.२८ ।
अनेन स्फुटितो मायावादः ।
स्वप्नदृगात्मा हि मनसैव स्वरूपानुपमर्देन रथादीन् सृजति ॥२८॥



२,१.९.२९
स्वपक्षदोषाच्च । ब्रह्मसूत्र २,१.२९ ।
चोदयतिननु नैवेति ।
परहरतिनैवञ्जातीयकेनेति ।
यद्यपि समुदायः सावयवस्तथापि प्रत्येकं सत्त्वादयो निरवयवाः ।
नह्यस्ति सम्भवः सत्त्वमात्रं परिणमते न रजस्तमसी इति ।
सर्वेषां सम्भूयपरिणामाभ्युपगमात् ।
प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलोच्छेदप्रसङ्गः ।
एकदेशपरिणामे वा सावयवत्वमनिष्टं प्रसज्येत ।
तथागुणवादिनोऽपीति ।
वैशेषिकाणां ह्यणुभ्यां संयुज्य द्व्यणुकमेकमारभ्यते, तैस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया ।
तत्र द्वयोरण्वोरनवयवयोः संयोगस्तावणू व्याप्नुयात् ।
अव्याप्नुवन्वा तत्र न वर्तेत ।
नह्यस्ति सम्भवः स एव तदानीं तत्र वर्तते न वर्तते चेति ।
तथा चोपर्यधःपार्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथिमानुपपत्तेरणुमात्रः पिण्डः प्रसज्येत ।
अव्यापने वा षडवयवः परमाणुः स्यादित्यनवयवत्वव्याकोपः ।
अशक्यं च सावयवत्वमुपेतुं, तथा सत्यनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्गः ।
तस्मात्समानो दोषः ।
आपातमात्रेण साम्यमुक्तम्, परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्माकं
मायावादिनामित्याहपरिहृतस्त्विति ॥२९॥



२,१.१०.३०
विचित्रशक्तित्वमुक्तं ब्रह्मण, तत्र श्रुत्युपन्यासपरं सूत्रम्सर्वोपेता च तद्दर्शनात् ॥३०॥



२,१.१०.३१
एतदाक्षेपसमाधानपरं सूत्रम्
विकरणत्वान्नेति चेत्तदुक्तम् । ब्रह्मसूत्र २,१.३१ ।
कुलालादिभ्यस्तावद्बाह्यकरणापेक्षेभ्यो देवादीनां बाह्यनपेक्षाणामान्तरकरणापेक्षसृष्ठीनां प्रमाणेन दृष्टो यथा विशेषो नापह्नोतुं शक्यः, यथा तु
जाग्रत्सृष्टेर्बाह्यकरणापेक्षायास्तदनपेक्षान्तरकरणमात्रसाध्या दृष्टा स्वप्ने रथादिसृष्टिरशक्यापह्नोतुम्, एवं सर्वशक्तेः परस्या देवताया
आन्तरकरणानपेक्षाया जगत्सर्जनं श्रूयमाणं न सामान्यतो दृष्टमात्रेणापह्नवमर्हतीति ॥३१॥



२,१.११.३२
न प्रयोजनवत्त्वात् । ब्रह्मसूत्र २,१.३२ ।
न तावदुन्मत्तवदस्य मतिविभ्रमाज्जगत्प्रक्रिया, भ्रान्तस्य सर्वज्ञत्वानुपपत्तेः ।
तस्मात्प्रेक्षवतानेन जगत्कर्तव्यम् ।
प्रेक्षावतश्च प्रवृत्तिः स्वपरहिताहितप्राप्तिपरिहारप्रयोजना सती नाप्रयोजनाल्पायासापि सम्भवति, किं
पुनरपरिमेयानेकविधोच्चावचप्रपञ्चजगद्विभ्रमविरचना महाप्रयासा ।
अत एव लीलापि परास्ता ।
अल्पायाससाध्या हि सा ।
न चेयमप्यप्रयोजना, तस्या अपि सुखप्रयोजनवत्त्वात् ।
तादर्थ्येन वा प्रकृत्तौ तदभावे कृतार्थत्वानुपपत्तेः ।
परेषां चोपकार्याणामभावेन तदुपकाराया अपि प्रवृत्तेरयोगात् ।
तस्मात्प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता तदभावेऽनुपपन्ना ब्रह्मोपादानतां जगतः प्रतिक्षिपतीति प्राप्तम् ॥३२॥



२,१.११.३३
एवं प्राप्तेऽभिधीयते
लोकवत्तु लीलाकैवल्यम् । ब्रह्मसूत्र २,१.३३ ।
भवेदेतदेवं यदि प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता भवेत् ।
ततस्तन्निवृत्तौ निवर्तेत, शिंशापात्वमिव वृक्षतानिवृत्तौ, न त्वेतदस्ति, प्रेक्षावतामननुसंहितप्रयोजनानामपि यादृश्चिकीषु क्रियासु प्रवृत्तिदर्शनात् ।
अन्यथाऽन कुर्वीत वृथा चेष्टाम्ऽइति धर्मसूत्रकृतां प्रतिषेधो निर्विषयः प्रसज्येत ।
न चोन्मत्तान् प्रत्येतत्सूत्रमर्थवत्, तेषां तदर्थबोधतदनुष्ठानानुपपत्तेः ।
अपि चादृष्टहेतुकोत्पत्तिकी श्वासप्रश्वासलक्षणा प्रेक्षावतां क्रिया प्रयोजनानुसन्धानमन्तरेण दृष्टा ।
न चास्यां चेतनस्यापि चैतन्यमनुपयोगि, सम्प्रसादेऽपि भावादिति युक्तम्, प्राज्ञस्यापि चैतन्याप्रच्युतेः ।
अन्यथा मृतशरीरेऽपि श्वासप्रश्वासप्रवृत्तिप्रसङ्गात् ।
यथा च स्वार्थपरार्थसम्पदासादितसमस्तकामानां कृतकृत्यतयानाकूलमनसामकामानामेव लीलामात्रात्सत्यप्यनुनिष्पादिनि प्रयोजने नैव
तदुद्देशेन प्रवृत्तिरेवं ब्रह्मणोऽपि जगत्सर्जने प्रवृत्तिर्नानुपपन्ना ।
दृष्टं च यदल्पबलवीर्यबुद्धिनामशक्यमतिदुष्करं वा तदन्येषामनल्पबलवीर्यबुद्धीनां सुशकमीषत्करं वा ।
नहि वानरैर्मारुतिप्रभृतिभिर्नगैर्न बद्धो नीरनिधिरगाधो महासत्त्वानाम् ।
न चैष पार्थेन शिलीमुखैर्न बद्धः ।
न चायं न पीतः सङ्क्षिप्य चुलुकेन हेलयेव कलशयोनिना महामुनिना ।
न चाद्यापि न दृश्यन्ते लीलामात्रविनिर्मितानि महाप्रासादप्रमदवनानि श्रीमन्नृगनरेन्द्राणामन्येषां मनसापि दुष्कराणि नरेश्वराणम् ।
तस्मादुपपन्नं यदृच्छया वा स्वभावाद्वा लीलया वा जगत्सर्जनं भगवतो महेश्वरस्येति ।
अपि च नेयं पारमार्थिकी सृष्टिर्येनानुयुज्येत प्रयोजनम्, अपि त्वनाद्यविद्यानिबन्धना ।
अविद्या च स्वभावत एव कार्योन्मुखी न प्रयोजनमपेक्षते ।
नहि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति ।
नच तत्कार्या विस्मयभयकम्पादयः स्वोत्पत्तौ प्रयोजनमपेक्षन्ते ।
सा च चैतन्यच्छुरिता जगदुत्पादहेतुरिति चेतनो जगद्योनिराख्यायत इत्याहन चेयं परमार्थविषयेति ।
अपि च न ब्रह्म जगत्कारणमपि तत्तया विवक्षन्त्यागमा अपि तु जगति ब्रह्मात्मभावम् ।
तथा च सृष्टेरविवक्षायां तदाश्रयो दोषो निर्विषय एवेत्याशयेनाहब्रह्मात्मभावेति ॥३३॥



२,१.१२.३४
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति । ब्रह्मसूत्र २,१.३४ ।
अतिरोहितोऽत्र पूर्वः पक्षः ।
उत्तरस्तूच्यतेउच्चावचमध्यमसुखदुःखभेदवत्प्राणभृत्प्रपञ्चं च सुखदुःखकारणं सुधाविषादि चानेकविधं विरचयतः
प्राणभृद्भेदोपात्तपापपुण्यकर्माशयसहायस्यात्रभवतः परमेश्वरस्य न चैषम्यनैर्घण्ये प्रसज्येते ।
नहि सभ्यः सभायां नियुक्तो युक्तवादिनं युक्तवाद्यसीति चायुक्तवादिनमयुक्तवाद्यसीति ब्रुवाण, सभापतिर्वा युक्तवादिनमनुगृह्णन्नयुक्तवादिनं
च निगृह्णन्ननुक्तो द्विष्टो वा भवत्यपि तु मध्यस्थ इति वीतरागद्वेष इति चाख्यायते, तद्वदीश्वरः पुण्यकर्माणमनुगृह्णन्नपुण्यकर्माणं च
निगृह्णन्मध्यस्थ एव नामध्यस्थः ।
एवं ह्यसावमध्यस्थः स्याद्यकल्याणकारिणमनुगृह्णीयात्कल्याणकारिणं च निगृह्णीयात् ।
नत्वेतदस्ति ।
तस्मान्न वैषम्यदोषः ।
अत एव न नैर्घृण्यमपि संहरतः समस्तान् प्राणभृतः ।
स हि प्राणभृत्कर्माशयानां वृत्तिनिरोधसमयः, तमितलङ्घयन्नयमयुक्तकारी स्यात् ।
नच कर्मापेक्षायामीश्वरस्य ऐश्वर्यव्याघातः ।
नहि सेवादिकर्मभेदापेक्षः फलभेदप्रदः प्रभुरप्रभुर्भवति ।
न चऽएष ह्येव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषते एष एवासाधु कर्म कारयति तं यमधो निनिषतेऽइति श्रुतेरीश्वर एष
द्वेषपक्षपाताभ्यां साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा लोकं नयति, तस्माद्वैषम्यदोषप्रसङ्गान्नेश्वरः कारणमिति वाच्यम् ।
विरोधात् ।
यस्मात्कर्म कारयित्वेश्वरः प्राणिनः सुखदुःखिनः सृजति इति श्रुतेरवगम्यते, तस्मान्न सृजतीति विरुद्धमभिधीयते ।
नच वैषम्यमात्रमत्र ब्रूमो न त्वीश्वरकारणत्वं व्यासेधाम इति वक्तव्यम् ।
किमतो यद्येवम् ।
तस्मादीश्वरस्य सवासनक्लेशापरामर्शमभिवदन्तीनां भूयसीनां श्रुतीनामनुग्रहायोन्निनीषतेऽधो निनीषत इत्येतदपि
तज्जातीयपूर्वकर्माभ्यासवशात्प्राणिन इत्येवं नेयम् ।
यथाहुःऽजन्मजन्म यदभ्यस्तं दानममध्ययनं तपः ।
तेनैवाभ्यासयोगेन तच्चैवाभ्यसते नरः ॥
ऽइति ।
अभ्युपेत्य च सृष्टेस्तात्त्विकत्वमिदमुक्तम् ।
अनिर्वाच्या तु सृष्टिरिति न प्रस्मर्तव्यमत्रापि ।
तथा च मायाकारस्येवाङ्गसाकल्यवैकल्यभेदेन विचित्रान् प्राणिनो दर्शयतो न वैषम्यदोषः, सहसा संहरतो वा न नैर्धृण्यम्, एवमस्यापि भगवतो
विविधविचित्रप्रपञ्चमनिर्वाच्यं विश्वं दर्शयतः संहरतश्च स्वभावाद्वा लीलया वा न कश्चिद्दोषः ॥३४॥



२,१.१२.३५
इति स्थिते शङ्कापरिहारपरं सूत्रम्
न कर्माविभागादिति चेन्नानादित्वाद् । ब्रह्मसूत्र २,१.३५ ।
शङ्कोत्तरे अतिरोहितार्थेन भाष्यग्रन्थेन व्याख्याते ॥३५॥



२,१.१२.३६
अनादित्वादिति सिद्धवदुक्तं, तत्साधनार्थं सूत्रम्
उपपद्यते चाप्युपलभ्यते च । ब्रह्मसूत्र २,१.३६ ।
अकृते कर्मणि पुण्ये पापे वा तत्फलं भोक्तारमध्यागच्छेत्, तथा च विधिनिषेधशास्त्रमनर्थकं भवेत्प्रवृत्तिनिवृत्त्यभावादिति ।
मोक्षशास्त्रस्य चोक्तमानर्थक्यम् ।
न चाविद्या केवलेति ।
लयाभिप्रायम् ।
विक्षेपलक्षणाविद्यासंस्कारस्तु कार्यत्वात्स्वोत्पत्तौ पूर्वं विक्षेपमपेक्षते, विक्षेपश्च मिथ्याप्रत्ययो मोहापरनामा
पुण्यापुण्यप्रवृत्तिहेतुभूतरागद्वेषनिदानं, स च रागादिभिः सहितः स्वकार्यैर्न शरीरं सुखदुःखभोगायतनमन्तरेण सम्भवति ।
नच रागाद्वैषावन्तरेण कर्म ।
नच भोगसहितं मोहमन्तरेण रागद्वेषौ ।
नच पूर्वशरीरमन्तरेण मोहादिरिति पूर्वपूर्वशरीरापेक्षो मोहादिरेवं पूर्वपूर्वमोहाद्यपेक्षं पूर्वपूर्वशरीरमित्यनादितैवात्र भगवती चित्तमनाकुलयति ।
तदेतदाहरागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यादिति ।
रागाद्वेषमोहा रागादयस्त एव हि पुरुषं संसारदुःखमनुभाव्य क्लेशयन्तीति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ताभिराक्षिप्तानि
प्रवर्त्तितानि कर्माणि तदपेक्षा लयलक्षणा अविद्या ।
स्यादेतत् ।
भविष्यतापि व्यपदेशो दृष्टो यथाऽपुरोडाशकपालेन तुषानुपवपतिऽइति ।
अत आहनच धारयिष्यतीत्यत इति ।
तदेवमनादित्वे सिद्धेऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽइति प्राक्सृष्टेरविभागावधारणं समुदाचरद्रूपरागादिनिषेधपरं न
पुनरेतान्प्रसुप्तानप्यपाकरोतीति सर्वमवदातम् ॥३६॥



२,१.१३.३७
सर्वधर्मोपपत्तेश्च । ब्रह्मसूत्र २,१.३७ ।
अत्रसर्वज्ञमिति ।
दृश्यते सर्वस्य चेतनाधिष्ठितस्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः ।
सर्वशक्तीति ।
सर्वस्य जगत उपादानकारणं निमित्तकारणं चेत्युपपादितम्महामायमिति ।
सर्वानुपपत्तिशङ्का परास्ता ।
तस्माज्जगत्कारणं ब्रह्मेति सिद्धम् ॥३७॥
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरिकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य प्रथमः पादः ॥१॥
इति द्वितीयाध्यायस्य साङ्ख्यायोगकारणदादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहाराख्यः प्रथमः पादः ॥





द्वितीयाध्याये द्वितीयः पादः ।