०४

१,४.१.१
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च । ब्रह्मसूत्र १,४.१ ।
आनुमानिकमप्येकेषामितिचेन्न शारीररूपकविन्यस्तगृहीतेर्दर्शयति च ।
स्यादेतत् ।
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्ऽजन्माद्यस्य यतःऽइति ।
तच्चेदं लक्षणं न प्रधानादौ गतं, येन व्यभिचारादलक्षणं स्यात्, किन्तु ब्रह्मण्येवेतिऽईक्षतेर्नाशब्दम्ऽइति प्रतिपादितम् ।
गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितमधस्ततेन सूत्रसन्दर्भेण ।
तत्किमवशिष्यते तदर्थमुत्तरः सन्दर्भ आरभ्यते ।
नचऽमहतः परमव्यक्तम्ऽइत्यादीनां प्रधाने समन्वयेऽपि व्यभिचारः ।
नह्येते प्रधानकारणत्वं जगत आहुः, अपितु प्रधानसद्भावमात्रम् ।
नच तत्सद्भावमात्रेणऽजन्माद्यस्य यतःऽइति ब्रह्मलक्षणस्य किञ्चिद्धीयते ।
तस्मादनर्थक उत्तरः सन्दर्भ इत्यत आहब्रह्मजिज्ञासां प्रतिज्ञायेति ।
न प्रधानसद्भावमात्रं प्रतिपादयन्तिऽमहतः परमव्यक्तम्ऽऽअजामेकाम्ऽइत्यादयः, किन्तु जगत्कारणं प्रधानमिति ।
ऽमहतः परम्ऽइत्यत्र हि परशब्दोऽविप्रकृष्टपूर्वकालत्वमाह ।
तथा च कारणत्वम् ।
ऽअजामेकाम्ऽइत्यादीनां तु कारणत्वाभिधानमतिस्फुटम् ।
एवं च लक्षणव्यभिचारादव्यभिचाराय युक्त उत्तरसन्दर्भारम्भ इति ।
पूर्वपक्षयतितत्र य एवेति ।
साङ्ख्यप्रवादरूढिमाहतत्राव्यक्तमिति ।
साङ्ख्यस्मृतिप्रसिद्धेर्न केवलं रूढिः, अवयवप्रसिद्ध्याप्ययमेवार्थोऽवगम्यत इत्याहन व्यक्तमिति ।
शान्तघोरमूढशब्दादिहीनत्वाच्चेति ।
श्रुतिरुक्ता ।
स्मृतिश्च साङ्खीया ।
न्यायश्चऽभेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥
कारणमस्त्यव्यक्तम्ऽइति ।
नचऽमहतः परमव्यक्तम्ऽइति प्रकरणपरिशेषाभ्यामव्यक्तपदं शरीरगोचरम् ।
शरीरस्य शान्तघोरमूढरूपशब्दाद्यात्मकत्वेनाव्यक्तत्वानुपपत्तेः ।
तस्मात्प्रधानमेवाव्यक्तमुच्यत इति प्राप्ते, उच्यतेनैतदेवम् ।
न ह्येतत्काठकं वाक्यमिति ।
लौकिकी हि प्रसिद्धी रूढिर्वेदार्थनिर्णये निमित्तं, तदुपायत्वात् ।
यथाहुःऽय एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाःऽइति ।
नतु परीक्षकाणां पारिभाषिकी, पौरुषेयी हि सा न वेदार्थनिर्णयनिबन्धनसिद्धौ(यनिमित्तं पो?) षधादिप्रसिद्धिवत् ।
तस्माद्रूढितस्तावन्न प्रधानं प्रतीयते ।
योगस्त्वन्यत्रापि तुल्यः ।
तदेवमव्यक्तश्रुतावन्यथासिद्धायां प्रकरणपरिशेषाभ्यां शरीरगोचरोऽयमव्यक्तशब्दः ।
यथा चास्य तद्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यति ।
तेषु शरीरादिषु मध्ये विषयांस्तद्गेचरान् विद्धि ।
यथाश्वोऽध्वानमालम्ब्य चलत्येवमिन्द्रियहयाः स्वगोचरमालम्ब्येति ।
आत्मा भोक्तेत्याहुर्मनीषिणः ।
कथम्, इन्द्रियमनोयुक्तं योगो यथा भवति ।
इन्द्रियार्थमनः सन्निकर्षेण ह्यात्मा गन्धादीनां भोक्ता ।
प्रधानस्याकाङ्क्षावतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदाकाङ्क्षामवतारयतितैश्चेन्द्रियादिभिरसंयतैरिति ।
असंयमाभिधानं व्यतिरेकमुखेन संयमवदातीकरणम् ।
परशब्दः श्रेष्ठवचनः ।
नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाह्येभ्यो गन्धाहिभ्यः श्रेष्ठत्वं स्यादित्यत आहअर्था ये शब्दादय इति ।
नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनं, ग्रहेभ्यश्चेन्द्रियेभ्योऽतिग्रहतयार्थानां प्राधान्यं श्रुत्या विवक्षितमितीन्द्रियेभ्योर्ऽथानां
प्राधान्यात्परत्वं भवति ।
घ्राणजिह्वावाक्चक्षुः श्रोत्रमनोहस्तत्वचो हि इन्द्रियाणि श्रुत्याष्टौ ग्रहा उक्ताः ।
गृह्णन्ति वशीकुर्वन्ति खल्वेतानि पुरुषपशुमिति ।
न चैतनि स्वरूपवतो वशीकर्तुमीशते, यावदस्मै पुरुषपशवे गन्धरसनामरूपशब्दकामकर्मस्पर्शान्नोपहरन्ति ।
अत एव गन्धादयोऽष्टावतिग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः ।
तदिदमुक्तमिन्द्रियाणां ग्रहणं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेरिति ।
ग्रहत्वेनेन्द्रियैः साम्येऽपि मनसः स्वगतेन विशेषेणार्थेभ्यः परत्वमाहविषयेब्यश्च मनसः परत्वमिति ।
कस्मात्पुमान् रथित्वेनोपक्षिप्तो गृह्यत इत्यत आहआत्मशब्दादिति ।
तत्प्रत्यभिज्ञानादित्यर्थः ।
श्रेष्ठत्वे हेतुमाहभोक्तुश्चेति ।
तदनेन जीवात्मा स्वामितया महानुक्तः ।
अथवा श्रुतिस्मृतिभ्यां हैरण्यगर्भी बुद्धिरात्मशब्देनोच्यत इत्याहअथवेति ।
पूरिति ।
भोग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूः ।
तदेवं सर्वासां बुद्धीनां प्रथमजहिरण्यगर्भबुद्ध्येकनीडतया हिरण्यगर्भबुद्धेर्महत्त्वं चापनादा(चोपादाना?)त्मत्वं च ।
अत एव बुद्धिमात्रात्पृथक्करणमुपपन्नम् ।
नन्वेतस्मिन्पक्षे हिरण्यगर्भबुद्धेरात्मत्वान्न रथिन आत्मनो भोक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यतेऽपि तु रथवानपीत्यत आहएतस्मिंस्तु
पक्ष इति ।
यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यत इति परमात्मैव रथवानिहोपात्तस्तेन
रथमात्रं परिशिष्टमिति ।
अथ रथादिरूपककल्पनायाः शरीरादिषु किं प्रयोजनमित्यत आहशरीरेन्द्रियमनोबुद्धिविषयवदेनासंयुक्तस्य हीति ।
वेदना सुखाद्यनुभवः ।
प्रत्यर्थमञ्चतीति प्रत्यगात्मेह जीवोऽभिमतस्तस्य ब्रह्मावगतिः ।
नच जीवस्य ब्रह्मत्वं मानान्तरसिद्धं, येनात्र नागमोऽपेक्ष्येत्याहतथाचेति ।
वागिति छान्दसो द्वितीयालोपः ।
शेषमतिरोहितार्थम् ॥१॥



१,४.१.२
सूक्ष्मं तु तदर्हत्वात् । ब्रह्मसूत्र १,४.२ ।
पूर्वपक्षिणोऽनुशयबीजनिराकरणपरं सूत्रम्सूक्ष्मं तु तदर्हत्वात् ।
प्रकृतेर्विकारणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकार उपचर्यते ।
यथाऽगोभिः श्रीणीतऽइति गौशब्दस्ताद्विकारे पयसि ।
अव्यक्तात्कारणात्विकारणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाहतथाच श्रुतिरिति ।
अव्याकृतमव्यक्तमित्यनर्थान्तरम् ।
नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवम्भूतादेव कारणाद्भवितुमर्हति, कारणात्मकत्वात्कार्यस्य ।
यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् ।
यच्च तस्य दुःखात्मकत्वं तद्रजः ।
यच्च तस्य मोहात्मकत्वं तत्तमः ।
तथा चाव्यक्तं पधानमेवाभ्युपेतमिति ॥२॥



१,४.१.३
शङ्कानिराकरणार्थं सूत्रम्
तदधीनत्वादर्थवत् । ब्रह्मसूत्र १,४.३ ।
तदधीनत्वादर्थवत् ।
प्रधानं हि साङ्ख्यानां सेश्वराणामनीश्वराणां वेश्वरात्क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् ।
ब्रह्मणस्त्वियमविद्या शक्तिर्मायादिशब्दवाच्या न शक्या तत्त्वेनान्यत्वेन वा निर्वक्तुम् ।
इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम ।
सोऽयमव्याकृतवादस्य प्रधानवादाद्भेदः ।
अविद्याशक्तेश्चेश्वराधीनत्वं, तदाश्रयत्वात् ।
नच द्रव्यमात्रमशक्तं कार्यायालमिति शक्तेरर्थवत्त्वम् ।
तदिदमुक्तमर्थवदिति ।
स्यादेतत् ।
यदि ब्रह्मणोऽविद्याशक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तादवस्थ्यात् ।
तद्विनाशे वा समस्तसंसारोच्छेदः तन्मूलविद्याशक्तेः समुच्छेदादित्यत आहमुक्तानां च पुनः ।
बन्धस्य अनुत्पत्तिः ।
कुतः ।
विद्यया तस्या बीजशक्तेर्दाहात् ।
अयमभिसन्धिःन वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे, यैनेवमुपालभेमहि, किन्त्वियं प्रतिजीवं भिद्यते ।
तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य, भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात्, तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः ।
प्रधानवादिनां त्वेष दोषः ।
प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदोऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः ।
प्रधानाभेदेऽपि चैतदविवेकख्यातिलक्षणाविद्यासदसत्त्वनिबन्धनौ बन्धमोक्षौ, तर्हि कृतं प्रधानेन, अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः ।
न चाविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति साम्प्रतम् ।
अनादित्वाद्बीजाङ्कुरवदुभयसिद्धेः ।
अविद्यात्वमात्रेण चैकत्वोपचारोऽव्यक्तमिति चाव्याकृतमिति चेति ।
नन्वेवमविद्यैव जगद्बीजमिति कृतमीश्वरेणेत्यत आहपरमेश्वराश्रयेति ।
नह्यचेतनं चेतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया वाश्रये, प्रपञ्चविभ्रमस्य
हीश्वराधिष्ठानत्वमहिविभ्रमस्येव रज्ज्वधिष्ठानत्वम्, तेन यथाहिविभ्रमो रज्जूपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानः, तस्माज्जीवाधिकरणाप्यविद्या
निमित्ततया विषयतया चेश्वरमाश्रयत इतीश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति ।
अत एवाहयस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवा इति ।
यस्यामविद्यायां सत्यां शरते जीवाः ।
जीवानां स्वरूपं वास्तवं ब्रह्म, तद्बोधरहिताः शेरत इति लय उक्तः ।
संसारिण इति विक्षेप उक्तः ।
अव्यक्ताधीनत्वाज्जीवभावस्येति ।
यद्यपि जीवाव्यक्तयोरनादित्वेनानियतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षित्वैतदुक्तम् ।
सत्यपि शरीरवदिन्द्रियादीनामिति ।
गोबलीवर्दपदवेतद्द्रष्टव्यम् ।
आचार्यदेशीयमतमाहअन्ये त्विति ।
एतद्दूषयतितैस्त्विति ।
प्रकरणपारिशेष्ययोरुभयत्र तुल्यत्वान्नैकग्रहणनियमहेतुरस्ति ।
शङ्कते आम्नातस्यार्थमिति ।
अव्यक्तपदमेव स्थूलशरीरव्यावृत्तिहेतुर्व्यक्तत्वात्तस्येति शङ्कार्थः ।
निराकरोतिन ।
एकवाक्यताधीनत्वादिति ।
प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गेनैकवाक्यत्वे सम्भवति न वाक्यभेदो युज्यते ।
न चाकाङ्क्षां विनैकवाक्यत्वम्, उभयं च प्रकृतमित्युभयं ग्राह्यत्वेनेहाकाङ्क्षितमित्येकाभिधायकमपि पदं शरीरद्वपरम् ।
नच मुख्यया वृत्त्यातत्परमित्यौपचारिकं न भवति ।
यथोपहन्तृमात्रनिराकाङ्क्षायां काकपदं प्रयुज्यमानं श्वादिसर्वहन्तृपरं विज्ञायते ।
यथाहुःऽकाकेभ्यो रक्ष्यतामन्नमिति बालेऽपि नोदितः ।
उपघातप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥
ऽइति ।
ननु न शरीरद्वयस्यात्राकाङ्क्षा ।
किन्तु दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्य, नतु षाट्कौशिकस्य स्थूलस्य ।
एतद्धि दृष्टबीभत्सतया सुकरं वैराग्यविषयत्वेन शोधयितुमित्यत आहन चैवं मन्तव्यमिति ।
विष्णोः परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः ।
अलं वा विवादेन, भवतु सूक्ष्ममेव शरीरं परिशोध्यं, तथापि न साङ्ख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्याहसर्वथापि त्विति ॥३॥



१,४.१.४
ज्ञेयत्वावचनाच्च । ब्रह्मसूत्र १,४.४ ।
ज्ञेयत्वावचनाच्च ।
इतोऽपि नायमव्यक्तशब्दः साङ्ख्याभिमतप्रधानपरः ।
साङ्ख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते ।
न चेह जानीयादिति चोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रम् ।
न चैतावता साङ्ख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः ॥४॥



१,४.१.५
ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य तत्सिद्धिप्रदर्शनार्थं सूत्रम्
वदतीति चेन्न प्राज्ञो हि प्रकरणात् । ब्रह्मसूत्र १,४.५ ।
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।
निगदव्याख्यातमस्य भाष्यम् ॥५॥



१,४.१.६
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च । ब्रह्मसूत्र १,४.६ ।
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।
वरप्रदानोपक्रमा हि मृत्युनचिकेतः संवादवाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते ।
मृत्युः किल न चिकेतसे कुपितेन पित्रा प्रहिताय तुष्टस्त्रीन्वरान् प्रददौ ।
नचिकेतास्तु पथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम् ।
ऽवरणामेष वरस्तृतीयःऽइति वचनात् ।
ननु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नप्रतिवचने ।
तस्मात्कठवल्लीष्वग्निजीवपरमात्मपरैव वाक्यप्रवृत्तिर्न त्वनुपक्रान्तप्रधानपरा भवितुमर्हतीत्याहैतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वमिति ।
ऽहन्तः त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्ऽइत्यनेन व्यवहितं जीवविषयंऽयथा तु मरणं प्राप्यात्मा भवति गौतमऽइत्यादिप्रतिवचनमिति
योजना ।
अत्राह चोदकःकिं जीवपरमात्मनोरेक एव प्रश्नः, किं वान्यो जीवस्यऽयेयं प्रेतेऽमनुष्य इति प्रश्नः, अन्यश्च परमात्मनःऽअन्यत्र धर्मात्ऽइत्यादिः ।
एकत्वे सूत्रविरोधस्त्रयाणमिति ।
भेदे तु सौमनस्यावाप्त्यध्यात्मज्ञानविषयवरत्रयप्रदानानन्तभावोऽन्यत्र धर्मादित्यादेः प्रश्नस्य ।
तुरीयवरान्तरकल्पनायां वा तृतीय इति श्रुतिबाधप्रसङ्गः ।
वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत्प्रधानाख्यानमप्यनन्तर्भूतं वरप्रदानेऽस्तुऽमहतः परमव्यक्तऽमित्याक्षेपः ।
परिहरतिअत्रोच्यते, नैवं वयमिहेति ।
वस्तुतो जीवपरमात्मनोरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः ।
अत एव प्रतिवचनमप्येकम् ।
सूत्रं त्ववास्तवभेदाभिप्रायम् ।
वास्तवश्च जीवपरमात्मनोरभेदस्तत्र तत्र श्रुत्युपन्यासेन भगवता भाष्यकारेण दर्शितः ।
तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्येत्यादि ।
ऽयेयं प्रेतेऽइति हि नचिकेतसः प्रश्नमुपश्रुत्य तत्तत्कामविषयमलोभं चास्य प्रतीत्य मृत्युःऽविद्याभीप्सिनं नचिकेतसं मन्येऽइत्यादिना नचिकेतसं
प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मैवोत्तरमुवाचतं दुर्दर्शमिति ।
यदि पुनर्जीवात्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन सङ्गच्छेत ।
अपिच यद्विषयं प्रश्नमुपश्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छेत्तदुत्तरे चावदध्यात्ततः प्रशंसा दृष्टार्था स्यात्, प्रश्नान्तरे
त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याहयत्प्रश्नेति ।
यस्मिन् प्रश्नो यत्प्रश्नः ।
शेषमतिरोहितार्थम् ॥६॥



१,४.१.७
महद्वच्च । ब्रह्मसूत्र १,४.७ ।
महद्वच्च ।
अनेन साङ्ख्यप्रसिद्धेर्वैदिकप्रसिद्ध्या विरोधान्न साङ्ख्यप्रसिद्धिर्वेद आदर्तव्येत्युक्तम् ।
साङ्ख्यानां महत्तत्त्वं सत्तामात्रं, पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति ।
या या पुरुषार्थक्रिया शब्दाद्युपभोगलक्षणा च सत्त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्तामात्रमुच्यत
इति ॥७॥



१,४.२.८
चमसवदविशेषात् । ब्रह्मसूत्र १,४.८ ।
चमसवदविशेषात् ।
अजाशब्दो यद्यपि छागायां रूढस्तथाप्यध्यात्मविद्याधिकारान्न तत्र कर्तितुमर्हति ।
तस्माद्रूढेरसम्भवाद्योगेन वर्तयितव्यः ।
तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेनानूद्यतामुत पारमेश्वरी मायाशक्तिस्तेजोऽबन्नव्याक्रियाकारणमुच्यतां किं तावत्प्राप्तं, प्रधानमेवेति ।
तथाहियादृशं प्रधानं साङ्ख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते ।
सा हि प्रधानलक्षणा प्रकृतिर्न जायत इत्यजा च एका च लोहितशुक्लकृष्णा च ।
यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु सन्ति, तथापि लोहितं कुसुम्भादि रञ्जयति, रजोऽपि रञ्जयतीति लोहितम् ।
एवं प्रसन्नं पाथः शुक्लं, सत्त्वमपि प्रसन्नमिति शुक्लम् ।
एवमावरकं मेघादि कृष्णं,
तमोऽप्यावरकमिति कृष्णम् ।
परेणापि नाव्याकृतस्य स्वरूपेण लोहितत्वादियोग आस्थेयः, किन्तु तत्कार्यस्य तेजोऽबन्नस्य रोहित्वादिकारण उपचरणीयम् ।
कार्यसारूप्येण वा कारणे कल्पनीयं, तदस्माकमपि तुल्यम् ।
ऽअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यःऽइति त्वात्मभेदश्रवणात्साङ्ख्यस्मृतेरेवात्र मन्त्रवर्णे प्रत्यभिज्ञानं न
त्वव्याकृतप्रक्रियायाः ।
तस्यामैकात्म्याभ्युपगमेनात्मभेदाभावात् ।
तस्मात्स्वतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् ।
तेषां साम्यावस्थावयवधर्मैरिति ।
अवयवाः प्रधानस्यैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोहितत्वादयस्तैरिति ।
प्रजास्त्रैगुण्यान्विता इति ।
सुखदुःखमोहात्मिकाः ।
तथाहिमैत्रदारेषु नर्मदायां
मैत्रस्य्
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a6239”}, {“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a6240”}, {“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a6241”}, {“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a6242”}, {“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a6243”}, {“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a6244”}, अ सुखं, तत्कस्य हेतोः, तं प्रति सत्त्वस्य समुद्भवात् ।
तथाच तत्सपत्नीनां दुःखं, तत्कस्य हेतोः, ताः प्रति रजःसमुद्भवात्, तथा चैत्रस्य तामविन्दतो मोहो विषादः, स कस्य हेतोः, तं प्रति
तमःसमुद्भवात् ।
नर्मदया च सर्वे भावा व्याख्याताः ।
तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् ।
अनुशेत इति व्याचष्टेतामेवाविद्ययेति ।
विषया हि शब्दादयः प्रकृतिविकारस्त्रैगुण्येन सुखदुःखमोहात्मान इन्द्रियमनोऽहङ्कारप्रणालिकया बुद्धिसत्त्वमुपसङ्क्रामन्ति ।
तेन तद्बुद्धिसत्त्वं प्रधानविकारः सुखदुःखमोहात्मकं शब्दादिरूपेण परिणमते ।
चितिशक्तिस्त्वपरिणामिन्यप्रतिसङ्क्रमापि बुद्धिसत्त्वादात्मनो विवेकमबुध्यमाना बुद्धिवृत्त्यैव विपर्यासेनाविद्यया
बुद्धिस्थान्सुखादीनात्मन्यभिमन्यमाना सुखादिमतीव भवति ।
तदिदमुक्तम्सुखी दुःखी मूढोऽहमित्यविवेकतया संसरति ।
एकः ।
सत्त्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्त्वन्यो जहात्येनां प्रकृतिम् ।
तदिदमुक्तमन्यः पुनरिति ।
भुक्तभोगामिति व्याचष्टेकृतभोगापवर्गाम् ।
शब्दाद्युपलब्धिर्भोगः ।
गुणपुरुषान्यताख्यातिरपवर्गः ।
अपवृज्यते हि तया पुरुष इति ।
एवं प्राप्तेऽभिधीयतेन तावत्ऽअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यःऽइत्येतदात्मभेदप्रतिपादनपरमपि तु
सिद्धमात्मभेदमनूद्य बन्धमोक्षौ प्रतिपादयतीति ।
स चानूदितो भेदःऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी
सर्वभूतान्तरात्माऽइत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कल्पनिकोऽवतिष्ठते ।
तथाच न साङ्ख्यप्रक्रियाप्रत्यभिज्ञानमित्यजावाक्यं चमसवाक्यवत्परिप्लवमानं न स्वतन्त्रप्रधाननिश्चयाय पर्याप्तम् ।
तदिदमुक्तं सूत्रकृताऽचमसवदविशेषात्ऽ इति ॥८॥



१,४.२.९
उत्तरसूत्रमवतारयितुं शङ्कतेतत्र त्विदं तच्छिर इति ।
सूत्रमवतारयतिअत्र ब्रूमः ।
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । ब्रह्मसूत्र १,४.९ ।
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।
सर्वशाखाप्रत्ययमेकं ब्रह्मेति स्थितौ शाखान्तरोक्तरोहितादिगुणयोगिनी तेजोऽबन्नलक्षणा
जरायुजाण्डजस्वेदजद्भिज्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या,ऽरोहितशुक्लकृष्णाम्ऽइति रोहितादिरुपतया तस्या एव
प्रत्यभिज्ञानात् ।
न तु साङ्ख्यपरिकल्पिता प्रकृतिः ।
तस्या अप्रामाणिकतया श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्, रञ्जनादिना च रोहिताद्युपचारस्य सति मुख्यार्थसम्भवेऽयोगात् ।
तदिदमुक्तम्रोहितादीनां शब्दानामिति ।
अजापदस्य च समुदायप्रसिद्धिपरित्यागेन न जायत इत्यवयवप्रसिद्ध्याश्रयणे दोषप्रसङ्गात् ।
अत्र तु रूपककल्पनायां समुदायप्रसिद्धेरेवानपेक्षायाः स्वीकारात् ।
अपि चायमपि श्रुतिकलापोऽस्मद्दर्शनानुगुणो न साङ्ख्यस्मृत्यनुगुण इत्याहतथेहापीति ।
किं कारणं ब्रह्मेत्युपक्रम्येति ।
ब्रह्मस्वरूपं तावज्जगत्कारणं न भवति, विशुद्धत्वात्तस्य ।
यथाहुःऽपुरुषस्य तु शुद्धस्य नाशुद्धा विकृतिर्भवेत्ऽइत्याशयवतीव श्रुतिः पृच्छति ।
किङ्कारणम् ।
यस्य ब्रह्मणो जगदुत्पत्तिस्तत्किङ्कारणं ब्रह्मेत्यर्थः ।
ते ब्रह्मविदो ध्यानयोगेनात्मानं गताः प्राप्ता अपश्यन्निति योजना ।
यो योनिं योनिमिति ।
अविद्या शक्तिर्योनिः, सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना ।
शेषमतिरोहितार्थम् ॥९॥



१,४.२.१०
सूत्रान्तरमवतारयितुं शङ्कतेकथं पुनरिति ।
अजाकृतिर्जातिस्तेजोऽबन्नेषु नास्ति ।
नच तेजोऽबन्नानां जन्मश्रवणादजन्मनिमित्तोऽप्यजाशब्दः सम्भवतीत्याहनच तेजोऽबन्नानामिति ।
सूत्रमवतारयतिअत उत्तरं पठति ।
कल्पनोपदेशाच्च मध्वादिवदविरोधः । ब्रह्मसूत्र १,४.१० ।
कल्पनोपदेशाच्च मध्वादिवदविरोधः ।
ननु किं छागा लोहितशुक्लकृष्णैवान्यादृशीनामपि छागानामुपलम्भादित्यत आहयदृच्छयेति ।
बहुबर्करा बहुशावा ।
शेषं निगदव्याख्यातम् ॥१॥



१,४.३.११
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च । ब्रह्मसूत्र १,४.११ ।
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।
अवान्तरसङ्गतिमाहएवं परिहृतेऽपीति ।
पञ्चजना इति हि समासार्थः पञ्चसङ्ख्यया सम्बध्यते ।
नचऽदिक्सङ्ख्ये सञ्ज्ञायाम्ऽइति समासविधानान्मनुजेषु निरूढोऽयं पञ्चजनशब्द इति वाच्यम् ।
तथाहि सति पञ्चमनुजा इति स्यात् ।
एवं चात्मनि पञ्चमनुजानामाकाशस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् ।
तस्माद्रूढेरसम्भवात्तत्त्यागोनात्र योग आस्थेयः ।
जनशब्दश्च कथञ्चित्तत्त्वेषु व्याख्येयः ।
तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् ।
तत्र पौर्वापर्यपर्यालोचनया कण्वमाध्यन्दिनवाक्ययोर्विरोधात् ।
एकत्र हि ज्योतिषा पञ्चत्वमन्नेनेतरत्र ।
नच षोडशिग्रहणवद्विकल्पसम्भवः ।
अनुष्ठानं हि विकल्प्यते न वस्तु ।
वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् ।
तस्मात्कानिचिदेव तत्त्वानीह पञ्च प्रत्येकं पञ्चसङ्ख्यायोगीनि पञ्चविंशतितत्त्वानि भवन्ति ।
साङ्ख्यैश्च प्रकृत्यादीनि ।
पञ्चविंशतितत्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि ।
न चाधारत्वेनात्मनो व्यवस्थानात्स्वात्मनि चाधाराधेयभावस्य विरोधाताकाशस्य च व्यतिरेचनात्, त्रयोविंशतिर्जना इति स्यान्न पञ्च पञ्चजना इति
वाच्यम् ।
सत्यप्याकाशात्मनोर्व्यतिरेचने मूलप्रकृतिभागैः सत्त्वरजस्तमोभिः पञ्चविंशतिसङ्ख्योपपत्तेः ।
तथाच सत्यात्माकाशाभ्यां सप्तविंशतिसङ्ख्यायां पञ्चविंशतितत्त्वानीति स्वसिद्धान्तव्याकोप इति चेत्, न मूलप्रकृतित्वमात्रेणैकीकृत्य
सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वोपपत्तेः ।
हिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधः ।
तस्मान्नाशाब्दी साङ्ख्यस्मृतिरिति प्राप्तम् ।
मूलप्रकृतिः प्रधानम् ।
नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम्मूलेति ।
महदहङ्कारपञ्चतन्मात्राणि प्रकृतयश्च विकृतयश्च ।
तथाहिमहत्तत्त्वमहङ्कारस्य तत्त्वान्तरस्य प्रकृतिर्मूलप्रकृतेस्तु विकृतिः ।
एवमहङ्कारतत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत्पञ्चतन्मात्राणाम् ।
तदेव सात्त्विकं सत्प्रकृतिरेकादशेन्द्रियाणाम् ।
पञ्चतन्मात्राणि चाहङ्कारस्य विकृतिराकाशादीनां पञ्चानां प्रकृतिः ।
तदिदमुक्तम्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारः ।
षोडशसङ्ख्यावच्छिन्नो गणो विकार एव ।
पञ्चभूतान्यतन्मात्राण्येकादशेन्द्रियाणीति षोडशको गणः ।
यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः ।
तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं नोपादानमात्रत्वमित्यविरोधः ।
पुरुषस्तु कूटस्थनित्योऽपरिणामो न कस्यचित्प्रकृतिर्नापि विकृतिरिति ।
एवं प्राप्तेऽभिधीयते न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वाशङ्का कर्तव्या ।
कस्मात्नानाभावात् ।
नाना ह्येतानि पञ्चविंशतितत्त्वानि ।
नैषां पञ्चशः पञ्चशः साधारणधर्मोऽस्ति ।
न खलु सत्त्वरजस्तमोमहदहङ्काराणामेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति ।
नापि पृथिव्यप्तेजोवायुघ्राणानाम् ।
नापि रसनचक्षुस्त्वक्श्रोत्रवाचाम् ।
नापि पाणिपादपायूपस्थमनसां, येनैकेनासाधारणेनोपगृहीताः पञ्च पञ्चका भवितुमर्हन्ति ।
पूर्वपक्षैकदेशिनमुत्थापयतिअथोच्येत पञ्चविंशतिसङ्ख्यैवेयमिति ।
यद्यपि परस्यां सङ्ख्यायामवान्तरसङ्ख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः सम्भवात्पौर्वापर्यलक्षणया प्रत्यासत्त्या परसङ्ख्योपलक्षणार्थं
पूर्वसङ्ख्योपन्यस्यत इति दूषयतिअयमेवास्मिन्पक्षे दोष इति ।
नच पञ्चशब्दो जनशब्देन समस्तोऽसमस्तः शक्यो वक्तुमित्याहपरश्चात्र पञ्चशब्द इति ।
ननु भवतु समासस्तथापि किमित्यत आहसमस्तत्वाच्चेति ।
अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न साङ्ख्यस्मृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याहन च पञ्चकद्वयग्रहणं पञ्च पञ्चेति ।
न चैका पञ्चसङ्ख्या पञ्चसङ्ख्यान्तरेण शक्या विशेष्टुम् ।
पञ्चशब्दस्य सङ्ख्योपसर्जनद्रव्यवचनत्वेन सङ्ख्याया उपसर्जनतया विशेषणेनासंयोगादित्याहएकस्याः पञ्चसङ्ख्याया इति ।
तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयतिनन्वापन्नपञ्चसङ्ख्याका जना एवेति ।
अत्र तावद्रूढौ सत्यां न योगः सम्भवतीति वक्ष्यते ।
तथापि यौगिकं पञ्चजनशब्दमभ्युपेत्य दूषयतियुक्तं यत्पञ्चपूलीशब्दस्येति ।
पञ्चपूलीत्यत्र यद्यपि पृथक्त्वैकार्थसंवायिनी पञ्चसङ्ख्यावच्छेदिकास्ति तथापीह समुदायिनोऽवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन्
कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसङ्ख्या सम्बध्यते पञ्चेति ।
पञ्चजना इत्यत्र तु पञ्चसङ्ख्ययोत्पत्तिशिष्टया जनानामवच्छिन्नत्वात्समुदायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिहिता सङ्ख्या सम्बध्यते ।
स्यादेतत् ।
सङ्ख्येयानां जनानां मा भूच्छब्दान्तरवाच्यसङ्ख्यावच्छेदः ।
पञ्चसङ्ख्यायास्तु तयावच्छेदो भविष्यति ।
नहि साप्यवच्छिन्नेत्यत आहभवदपीदं विशेषणमिति ।
उक्तोऽत्र दोषः ।
नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव तावत्सङ्ख्येयोपसर्जनसङ्ख्यामाह विशेषतस्तु पञ्चजना इत्यत्र समासे ।
विशेषणापेक्षायां तु न समासः स्यात्, असामर्थ्यात् ।
नहि भवति ऋद्धस्य राजपुरुष इति समासोऽपि तु (पद) वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति ।
सापेक्षत्वेनासामर्थ्यादित्यर्थः ।
अतिरेकाच्चेति ।
अभ्युच्चयमात्रम् ।
यदि सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धान्तव्याकोपः ।
अथ तु सत्त्वरजस्तमांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तुतत्त्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यताम् ।
आधेयान्तरेभ्यस्त्वाकाशस्याधेयस्य व्यतिरेचनमनर्थकमिति गमयितव्यम् ।
कथं च सङ्ख्यामात्रश्रवणे सतीति ।
ऽदिक्सङ्ख्ये सञ्ज्ञायाम्ऽइति सञ्ज्ञायां समासस्मरणात्पञ्चजनशब्दस्तावदयं क्वचिन्निरूढः ।
नच रूढौ सत्यामवयवप्रसिद्धेर्ग्रहणं, सापेक्षत्वात्, निरपेक्षत्वाच्च रूढेः ।
तद्यदि रूढौ मुख्योर्ऽथः प्राप्यते ततः स एव ग्रहीतव्योऽथ त्वसौ न वाक्ये सम्बन्धार्हः पूर्वापरवाक्यविरोधी वा ।
ततो रूढ्यपरित्यागेनैव वृत्त्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमुपपादनीयम् ।
यथाऽश्येनेनाभिचरन् यजेतऽइति श्येनशब्दः शकुनिविशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसादृश्येनार्थवादिकेन क्रतुविशेषे वर्तते,
तथा पञ्चजनशब्दोऽवयवार्थयोगानपेक्ष एकस्मिन्नपि वर्तते ।
यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते ।
न चैष तत्त्वेषु रूढः ।
पञ्चविंशतिसङ्ख्यानुरोधेन तत्त्वेषु वर्तयितव्यः ।
रूढौ सत्यां प्चविंशतेरेव सङ्ख्याया अभावात्कथं तत्त्वेषु वर्तते ॥११॥



१,४.३.१२
एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्चविंशतिस्तत्त्वानीति विशये तत्त्वानामप्रामाणिकत्वात्, प्राणादीनां
च वाक्यशेषे श्रवणात्तत्परित्यागे श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजनाः ।
नच काण्डवमाध्यन्दिनयोर्विरोधान्न प्राणादीनां वाक्यशेषगतानामपि ग्रहणमिति साम्प्रतम्, विरोधेऽपि तुल्यबलवतया
षोडशिग्रहणवद्विकल्पोपपत्तेः ।
न चेयं वस्तुस्वरूपकथा, अपितूपासनानुष्ठानविधिः,ऽमनसैवानुद्रष्टव्यम्ऽइति विधिश्रवणात् ।
कथं पुनः प्रणादिषु जनशब्दप्रयोग इति ।
जनवाचकः शब्दो जनशब्दः ।
पञ्चजनशब्द इति यावत् ।
तस्य कथं प्राणादिष्वजनेषु प्रयोग इति व्याख्येयम् ।
अन्यथा तु प्रत्यस्तमितावयवार्थे समुदायशब्दार्थे जनशब्दार्थो नास्तीत्यपर्यनुयोग एव ।
रूढ्यपरित्यागेनैव वृत्त्यन्तरं दर्शयतिजनसम्बन्धाच्चेति ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।
ननु सत्यामवयवप्रसिद्धौ समुपायशक्तिकल्पनमनुपपन्नं, सम्भवति च पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिरित्यत आहसमासबलाच्चेति ।
स्यादेतत् ।
समासबलाच्चेद्रूढिरास्थीयते हन्त न दृष्टस्तर्हि तस्य प्रयोगोऽश्वकर्णादिवद्वृक्षादिषु ।
तथाच लोकप्रसिद्ध्यभावान्न रूढिरित्याक्षिपतिकथं पुनरसतीति ।
जनेषु तावत्पञ्चजनशब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधायाभ्युपेत्य प्रथमप्रयोगाभावं
समाधत्तेशक्योद्भिदादिवदिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्तत्त्वानि सिध्यन्ति ।
परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाहकैश्चित्त्विति ।
शेषमतिरोहितार्थम् ॥१२॥



१,४.३.१३
ज्योतिषैकेषामसत्यन्ने । ब्रह्मसूत्र १,४.१३ ।
॥ १३ ॥



१,४.४.१४
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ब्रह्मसूत्र १,४.१४ ।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
अथ समन्वयलक्षणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता हि तस्याः स्थानमविरोधलक्षणमित्यत आहप्रतिपादितं ब्रह्मण इति ।
अयमर्थः नानेकशाखागततत्तद्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तरविरोधेन
वाक्यार्थागतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः ।
प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः ।
तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते ।
इह तुवाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योनौ न समन्वयः सेद्धुमर्हति ।
तथाच न जगत्कारणत्वं ब्रह्मणो लक्षणं, नच तत्र गतिसामान्यं, नच तत्सिद्धये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां
विरोधाविरोधाभ्यामुक्तार्थाक्षेपसमाधानाभ्यां समन्वयः एवोपपाद्यत इति समन्वयलक्षणे सङ्गतमिदमधिकरणम् ।
ऽवाक्यानां कारणे कार्ये परस्परविरोधतः ।
समन्वयो जगद्योनौ न सिध्यति परात्मनि ॥
ऽऽसदेव सोम्येदमग्र आसीत्ऽइत्यादीनां कारणविषयाणां,ऽअसद्वा इदमत्र आसीत्ऽइत्यादिभिर्वाक्यैः कारणविषयैर्विरोधः ।
कार्यविषयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः ।
तथाहिकानिचिदन्यकर्तृका जगदुत्पत्तिमाचक्षते वाक्यानि ।
कानिचित्स्वयङ्कर्तृकाम् ।
सृष्ट्या च कार्येण तत्कारणतया ब्रह्म लक्षितम् ।
सृष्टिविप्रतिपत्तौ तत्कारणतायां ब्रह्मलक्षणे विप्रतिपत्तौ सत्यां भवति तल्लक्ष्ये ब्रह्मण्यपि विप्रतिपत्तिः ।
तस्माद्ब्रह्मणि समन्वयाभावान्न समन्वयागम्यं ब्रह्म ।
वेदान्तास्तु कर्त्रादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति प्राप्तम् ।
क्रमादीति ।
आदिग्रहणेनाक्रमो गृह्यते ।
एवं प्राप्त उच्यतेऽसर्गक्रमविवादेऽपि न स सृष्टरि विद्यते ।
सतस्त्वसद्वचो भक्त्या निराकार्यतया क्वचित् ॥
ऽन तावदस्ति सृष्टिक्रमे विगानं, श्रुतीनामविरोधात् ।
तथाहिअनेकशिल्पपर्यवदातो देवदत्तः प्रथमं चक्रदण्डादि करोति, अथ तदुपकरणः कुम्भं, कुम्भोपकरणश्चाहरत्युदकं, उदकोपकरणश्च
संयवनेन गोधूमकणिकानां करोति पिण्डं, पिण्डोपकरणस्तु पटति घृतपूर्णं, तदस्य देवदत्तस्य सर्वत्रैतास्मिन् कर्तृत्वाच्छक्यं वक्तुं
देवदत्ताच्चक्रादि सम्भूतं तस्माच्चक्रादेः कुम्भादीति ।
शक्यं च देवदत्तात्कुम्भः समुद्भूतस्तस्मादुदकाहरणादीत्यादि ।
नह्यस्त्यसम्भवः सर्वत्रास्मिन् कार्यजाते क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात् ।
तथेहापि यद्यप्याकाशादिक्रमेणैव सृष्टिस्तथाप्याकाशानलानिलादौ तत्र तत्र साक्षात्परमेश्वरस्य कर्तृत्वाच्छक्यं वक्तुं परमेश्वरादाकाशः सम्भूत
इति ।
शक्यं च वक्तुं परमेश्वरादनलः सम्भूत इत्यादि ।
यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधः ।
न चैतदस्ति ।
तस्मादमूषामविवादः श्रुतीनाम् ।
एवंऽस इमांल्लोकानसृजतऽइत्युपक्रमाभिधायिन्यपि श्रुतिरविरुद्धा ।
एषा हि स्वव्यापारमभिधानक्रमेण कुर्वती नाभिधेयानां क्रमं निरुणद्धि ।
ते तु यथाक्रमावस्थिता एवाक्रमेणोच्यन्तेयथा क्रमवन्ति ज्ञानानि जानातीति ।
तदेवमविगानम् ।
अभ्युपेत्य तु विगानमुच्यतेसृष्टौ खल्वेतद्विगानम् ।
स्रष्टा तु सर्ववेदान्तवाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते ।
नात्र श्रुतिविगानं मात्रयाप्यस्ति ।
नच सृष्टिविगानं स्रष्टरि तदधीननिरूपणे विगानमावहतीति वाच्यम् ।
नह्येष स्रष्टृत्वमात्रेणोच्यतेऽपि तुऽसत्यं ज्ञानमनन्तं ब्रह्मऽइत्यादिना रूपेणोच्यते स्रष्टा ।
तच्चास्य रूपं सर्ववेदान्तवाक्यानुगतम् ।
तज्ज्ञानं च फलवत् ।
ऽब्रह्मविदाप्नोति परम्ऽऽतरति शोकमात्मवित्ऽइत्यादि श्रुतेः ।
सृष्टिज्ञानस्य तु न फलं श्रूयते ।
तेनऽफलवत्सन्निधावफलं तदङ्गम्ऽइति सृष्टिविज्ञानं स्रष्टृब्रह्मविज्ञानाङ्गं तदनुगुणं सद्ब्रह्मज्ञानावतारोपायतया व्याख्येयम् ।
तथाच श्रुतिःऽअन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छऽइत्यादिका ।
शुङ्गेनाग्रेण ।
कार्येणेति यावत् ।
तस्मान्न सृष्टिविप्रतिपत्तिः स्रष्टरि विप्रतिपत्तिमावहति ।
अपि तुऽगुणे त्वन्यायकल्पनाऽइति तदनुगुणतया व्याख्येया ।
यच्च कारणे विगानम्ऽअसद्वा इदमत्र असीत्ऽइति, तदपिऽतदप्येष श्लोको भवतिऽइति पूर्वप्रकृतं सद्ब्रह्मणाकृष्यऽअसदेवेदमत्र
आसीत्ऽइत्युच्यमानं त्वसतोऽभिधानेऽसम्बद्धं स्यात् ।
श्रुत्यन्तरेण च मानान्तरेण च विरोधः ।
तस्मादौपचारिकं व्याख्येयम् ।
ऽतद्धैक आहुरसदेवेदमत्र आसीत्ऽइति तु निराकार्यतयोपन्यस्तमिति न कारणे विवाद इति सूत्रे चशब्दस्त्वर्थः ।
पूर्वपक्षं निवर्तयति ।
आकाशादिषु सृज्यमानेषु क्रमविगानेऽपि न स्रष्टरि विगानम् ।
कुतः ।
यथैकस्यां श्रुतौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरेषूक्तेः, केन रूपेण, कारणत्वेन, अपरः कल्पो यथा व्यपदिष्टः क्रम
आकाशादिषु,ऽआत्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवीऽइति, तस्यैव
क्रमस्यानपबाधनेनऽतत्तेजोऽसृजतऽइत्यादिकाया अपि सृष्टेरुक्तेर्न सृष्टावपि विगानम् ॥१४॥



१,४.४.१५
समाकर्षात् । ब्रह्मसूत्र १,४.१५ ।
नन्वेकत्रात्मन आकाशकारणत्वेनोक्तिरन्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति ।
अत आहकारणत्वेति ।
हेतौ तृतीया ।
सर्वत्राकाशानलानिलादौ साक्षात्कारणत्वेनात्मनः ।
प्रपञ्चितं चैतदधस्तात् ।
व्याक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनमतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति ।
नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति ।
अपि तूपस्थापयत्येव ।
तस्मात्सर्वमवदातम् ॥१५॥



१,४.५.१६
जगद्वाचित्वात् । ब्रह्मसूत्र १,४.१६ ।
जगद्वाचित्वात् ।
ननुऽब्रह्म ते ब्रवाणिऽइति ब्रह्माभिधानप्रकरणात्, उपसंहारे चऽसर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यं पर्येति य एवं
वेदऽइति निरतिशयफलश्रवणाद्ब्रह्मवेदनादन्यत्र तदसम्भवात्, आदित्यचन्द्रादिगतपुरुषकर्तृत्वस्य चऽयस्य वैतत्कर्मऽइति
चास्यासत्यवच्छेदे सर्वनाम्ना प्रत्यक्षसिद्धस्य जगतः परामर्शेन, जगत्कर्तृत्वस्य च ब्रह्मणोऽन्यत्रासम्भवात्कथं जीवमुख्यप्राणाशङ्का ।
उच्यतेब्रह्म ते ब्रवाणीति बालाकिना गार्ग्येण ब्रह्माभिधानं प्रतिज्ञाय तत्तदादित्यादिगताब्रह्मपुरुषाभिधानेन न तावद्ब्रह्मोक्तम् ।
यस्य चाजातशत्रोः
ऽयो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्मऽइति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् ।
न चान्यदीयेनोपक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम् ।
तस्मादजातशत्रोर्वाक्यसन्दर्भपौर्वापर्यपर्यालोचनया योऽस्यार्थः प्रतिभाति स एव ग्राह्यः ।
अत्र च कर्मशब्दस्तावद्व्यापारे नेरूढवृत्तिः ।
कार्ये तु क्रियत इति व्युत्पत्त्या वर्तते ।
नच रूढौ सत्यां व्युत्पत्तिर्युक्ताश्रयितुम् ।
नच ब्रह्मण उदासीनस्यापरिणामिनो व्यापारवत्ता ।
वाक्यशेषे चऽअथास्मिन् प्राण एवैकधा भवतिऽइति श्रवणात्परिस्पन्दलक्षणस्य च कर्मणो यत्रोपपत्तिः स एव वेदितव्यतयोपदिश्यते ।
आदित्यादिगतपुरुषकर्तृत्वं च प्राणस्योपपद्यते, हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादादित्यादिदेवतानाम् ।
ऽकतम एको देवः प्राणःऽइति श्रुतेः ।
उपक्रमानुरोधेन चोपसंहारे सर्वशब्दः सर्वान् पाप्मन इति च सर्वेषां भूतानामिति चापेक्षिकवृत्तिर्बहून् पाप्मनो बहूनां भूतानामित्येवम्परो द्रष्टव्यः ।
एकस्मिन् वाक्ये उपक्रमानुरोधादुपसंहारो वर्णनीयः ।
यदि तु दृप्तबालाकिमब्रह्मणि ब्रह्माभिधायिनमपोद्याजातशत्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्ताद्विशेषं विवक्षोरब्रह्माभिधानमसम्बद्धं
स्यादिति मन्यते, तथापि नैतद्ब्रह्माभिधानं भवितुमर्हति, अपितु जीवाभिधानमेव, यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं
बालकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामान्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध्य
यष्टिघातोत्थानात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं स्वामिनं प्रतिबोधयति ।
परस्तादपिऽतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनमात्मानं भुञ्जन्तिऽइति
श्रवणात् ।
यथा श्रेष्ठी प्रधानः पुरुषः स्वैर्भृत्यैः करणभूतैर्विषयान् भुङ्क्ते, यथा वा स्वा भृत्याः श्रेष्ठिनं भुञ्जन्ति ।
ते हि श्रेष्ठिनमशनाच्छादनादिग्रहणेन भुञ्जन्ति ।
एवमेवैष प्रज्ञात्मा जीव एतैरादित्यादिगैतरात्मभिर्विषयान् भुङ्क्ते ।
ते ह्यादित्यादय आलोकवृष्ट्यादिना साचिव्यमाचरन्तो जीवात्मानं भोजयन्ति, जीवात्मानमपि यजमानं तदुत्सृष्टहविरादानादादित्यादयो
भुञ्जन्ति, तस्माज्जीवात्मैव ब्रह्मणोऽभेदाद्ब्रह्मेह वेदितव्यतयोपदिश्यते ।
यस्य वैतत्कर्म इति ।
जीवप्रत्युक्तानां देहेन्द्रियादीनां कर्म जीवस्य भवति ।
कर्मजन्यत्वाद्वा धर्माधर्मयोः कर्मशब्दवाच्यत्वं रूढ्यनुसारात् ।
तौ च धर्माधर्मौ जीवस्य ।
धर्माधर्माक्षिप्तत्वाच्चादित्यादीनां भोगोपकरणानां तेष्वपि जीवस्य कर्तृत्वमुपपन्नम् ।
उपपन्नं च प्राणभृत्त्वाज्जीवस्य प्राणशब्दत्वम् ।
ये च प्रश्नप्रतिवचनेऽक्वैष एतद्बालाके पुरुषोऽशयिष्ट यदा सुप्तः स्वप्नं न कञ्चन पश्यतिऽइति ।
अनयोरपि न स्पष्टं ब्रह्माभिधानमुपलभ्यते ।
जीवव्यतिरेकश्च प्राणात्मनो हिरण्यगर्भस्याप्युपपद्यते ।
तस्माज्जीवप्राणयोरन्यतर इह ग्राह्यो न रपरमेश्वर इति प्राप्तम् ।
एवं प्राप्ते उच्यतेऽमृष्टावादिनमापोद्य बालाकिं ब्रह्मवादिनम् ।
राजा कथमसम्बद्धं मिथ्या वा वक्तुमर्हति ॥
ऽयथा हि केनचिन्मणिलक्षणज्ञमानिना काचे मणिरेव वेदितव्य इत्युक्ते परस्य काचोऽयं मणिर्न तल्लक्षणायोगादित्यभिधाय आत्मनो विशेषं
जिज्ञापयिषोस्तत्त्वाभिधानमसम्बद्धम् ।
अमणौ मण्यभिधानं न पूर्ववादिनो विशेषमापादयति स्वयमपि मृषाभिधानात् ।
तस्मादनेनोत्तरवादिना पूर्ववादिनो विशेषमापादयता मणितत्त्वमेव वक्तव्यम् ।
एवमजातशत्रुणा दृप्तबालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता जीवप्राणाभिधाने असम्बद्धमुक्तं स्यात् ।
तयोर्वाब्रह्मणोर्ब्रह्माभिधाने मिथ्याभिहितं स्यात् ।
तथा च न कश्चिद्विशेषो बालाकेर्गार्ग्यादजातशत्रोर्भवेत् ।
तस्मादनेन ब्रह्मतत्त्वमभिधातव्यम् ।
तथा सत्यस्य न मिथ्यावद्यम् ।
तस्मात्ऽब्रह्म ते ब्रवाणिऽइति ब्रह्मणोपक्रमात्, सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वराज्यं पर्येति य एवं वेदऽइति च सति सम्भवे
सर्वश्रुतेरसङ्कोचान्निरतिशयेन फलेनोपसंहारात्, ब्रह्मवेदनादन्यतश्च तदनुपपत्तेः, आदित्यादिपुरुषकर्तृत्वस्य च स्वातन्त्र्यलक्षणस्य मुख्यस्य
ब्रह्मण्येव सम्भवादन्येषां हिरण्यगर्भादीनां तत्पारतन्त्र्यात्,ऽक्वौष एतद्बालाकेऽइत्यादेर्जीवाधिकरणभवनापादनप्रश्नस्यऽयदा सुप्तः स्वप्नं न
कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवतिऽइत्यादेरुत्तरस्य च ब्रह्मण्येवोपपत्तेर्ब्रह्मविषयत्वं निश्चीयते ।
अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्नोत्तरे, तथा च नैताभ्यां ब्रह्मविषयत्वसिद्धिरित्येतन्निराचिकीर्षुः पठतिएतस्मादात्मनः प्राणा यथा
यथायतनं प्रतिष्ठन्त इति ।
एतदुक्तं भवतिआत्मैव भवति जीवप्राणादीनामधिकरणं नान्यदिति ।
यद्यपि च जीवो नात्मनो भिद्यते तथाप्युपाध्यवच्छिन्नस्य परमात्मनो जीवत्वेनोपाधिभेदाद्भेदमारोप्याधाराधेयभावो द्रष्टव्यः ।
एवं च जीवभवनाधारत्वमपादानत्वं च परमात्मन उपपन्नम् ।
तदेवं बालाक्यजातशत्रुसंवादवाक्यसन्दर्भस्य ब्रह्मपरत्वे स्थिते यस्य वैतत्कर्मैति व्यापाराभिधाने न सङ्गच्छत इति कर्मशब्दः कार्याभिधायी
भवति, एतदितिसर्वनामपरामृष्टं च तत्कार्यं, सर्वनाम चेदं सन्निहितपरामर्शि, नच किञ्चिदिह शब्दोक्तमस्ति सन्निहितम् ।
न चादित्यादिपुरुषाः सन्निहिता अपि परामर्शार्हाः बहुत्वात्पुंलिङ्गत्वाच्च ।
एतदिति चैकस्य नपुंसकस्याभिधानात्ऽएतेषां पुरुषाणां कर्ताऽइत्यनेनैव गतार्थत्वाच्च ।
तस्मादशब्दोक्तमपि प्रत्यक्षसिद्धं सम्बन्धार्हं जगदेव पराम्रष्टव्यम् ।
एतदुक्तं भवति ।
अत्यल्पमिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सूच्यते ।
जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मोपलक्षणपरत्वात् ।
न पुनर्ब्रह्मशब्दो जीवोपलक्षणपरः ।
तथा सति हि वह्नसमञ्जनं स्यादित्युक्तम् ।
न चानधिगतार्थावबोधनस्वरसस्य शब्दस्याधिगतबोधनं युक्तम् ।
नाप्यनधिगतेनाधिगतोपलक्षणमुपपन्नम् ।
नच सम्भवत्येकवाक्यत्वे वाक्यभेदो न्याय्यः ।
वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रयविधाने वाक्यत्रयं भवेत् ।
पौर्वापर्यपर्यालोचनया तु ब्रह्मोपासनपरत्वे एकवाक्यतैव ।
तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मपरत्वमेवेति सिद्धम् ।
स्यादेतत् ।
निर्दिश्यन्तां पुरुषाः कार्यास्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्योत्पत्तिस्ति यस्येदं कर्मेति निर्देक्ष्येते, ततः कुतः पौनरुक्त्यमित्यत
आहनापि पुरुषविषयस्येति ।
एतदुक्तं भवतिकर्तृशब्देनैव कर्तारमभिदधत्ता तयोरुपात्तत्वादाक्षिप्तत्वात् ।
नहि कृतिं विना कर्ता भवति ।
नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः ।
ननु यदीदमा जगत्परामृष्टं ततस्तदन्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमित्यत आहएतदुक्तं भवति ।
य एषां पुरुषाणामिति ॥१६॥



१,४.५.१७
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् । ब्रह्मसूत्र १,४.१७ ।
॥ १७ ॥



१,४.५.१८
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके । ब्रह्मसूत्र १,४.१८ ।
ननुऽप्राण एवैकधा भवतिऽइत्यादिकादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठतिएतस्मादात्मनः प्राणा इति ।
अपि च सर्ववेदान्तसिद्धमेतदित्याहसुषुप्तिकाले चेति ।
वेदान्तप्रक्रियायामेवोपपत्तिमुपसंहारव्याजेनाहतस्माद्यत्रास्यआत्मनो यतो निःसम्बोधोऽतः स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु
स्वच्छतैव ।
लयविक्षेपसंस्कारयोस्तत्र भावात् ।
समुदाचरद्वृत्तिविक्षेपाभावमात्रेणोपमानम् ।
एतदेव विभजतेउपाधिभिः अन्तःकरणादिभिः जनितं यद्विशेषविज्ञानं घटपटादिविज्ञानं तद्रहितं स्वरूपमात्मनः यदि विज्ञानमित्येवोच्येत
ततस्तदविशिष्टमनवच्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रिहितं स्वरूपं ब्रह्मस्वभावस्याप्रहाणात् ।
अत उक्तम्विशेषेति ।
यदा तु लयलक्षणाविद्योपबृंहितो विक्षेपसंस्कारः समुदाचरति तदा विशेषविज्ञानोत्पादात्स्वप्नजागरावस्थातः परमात्मनो
रूपाद्भ्रंशरूपमागमनमिति ।
न केवलं कौषीतकिब्राह्मणे, वाजसनेयेऽप्येवमेव प्रश्नोत्तरयोर्जीवव्यतिरिक्तमामनन्ति परमात्मानमित्याहअपिचैवमेक इति ।
नन्वत्राकाशं शयनस्थानं तत्कुतः परमात्मप्रत्यय इत्यत आहआकाशशब्दश्चेति ।
न तावन्मुख्यस्याकाशस्यात्माधारत्वसम्भवः ।
यदपि च द्वासप्ततिसहस्रहिताभिधाननाडीसञ्चारेण सुषुप्त्यवस्थायां पुरीतदवस्थानमुक्तं तदप्यन्तःकरणस्य ।
तस्मात्ऽदहरोऽस्मिन्नन्तराकाशःऽइतिवदाकाशशब्दः परमात्मनि मन्तव्य इति ।
प्रथमं भाष्यकृता जीवनिराकरणाय सूत्रमिदमवतारितम् ।
तत्र मन्दधियां नेदं प्राणनिराकरणायेति बुद्धिर्मा भूदित्याशयवानाहप्राणनिराकरणस्यापीति ।
तौ हि बालाक्यजातशत्रू सुप्तं पुरुषमाजग्मतुः ।
तमजातशत्रुर्नामभिरामन्त्रयाञ्चक्रेऽबृहत्पाण्डुरवासः सोमराजन्ऽइति ।
स आमन्त्र्यमाणो नोत्तस्थौ ।
तं पाणिनापेषं बोधयाञ्चकार ।
स होत्तस्थौ ।
ऽस होवाचजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्ऽइत्यादि ।
सोऽयं सुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेश इति ॥१८॥



१,४.६.१९
वाक्यान्वयात् । ब्रह्मसूत्र १,४.१९ ।
वाक्यान्वयात् ।
ननु मैत्रेयीब्राह्मणोपक्रमे याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्तमाश्रमं यियासता मैत्रैय्या भार्यायाः कात्यायन्या सहार्थसंविभागकरण उक्ते मैत्रेयी
याज्ञवल्क्यं पतिममृतत्वार्थिनी पप्रच्छ, यन्नु म इयं भगोः सर्वा पृथ्वी वित्तेन पूर्णा स्यात्किमहं तनामृता स्यामुत नेति ।
तत्र नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन ।
एवं वित्तेनामृतत्वाशा भवेद्यदि वित्तसाध्यानि कर्माण्यमृतत्वे उपयुज्येरन् ।
तदेव तु नास्ति, ज्ञानसाध्यत्वादमृतत्वस्य कर्मणां च ज्ञानविरोधिनां तत्सहभावित्वानुपपत्तेरिति भावः ।
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेनं कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि ।
अमृतत्वसाधनमिति शेषः ।
तत्रामृतत्वसाधनज्ञानोपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्योऽन वा अरे पत्युः
कामायऽइत्यादिवाक्यसन्दर्भमुवाच ।
आत्मौपाधिकं हि प्रियत्वमेषां न तु साक्षात्प्रियाण्येतानि ।
तस्मादेतेभ्यः पतिजायादिभ्यो विरभ्य यत्र साक्षात्प्रेम स एवआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।
वाशब्दोऽवधारणे ।
आत्मैव द्रष्टव्यः साक्षात्कर्तव्यः ।
एतत्साधनानि च श्रवणादीनि विहितानि श्रोतव्य इत्यादिना ।
कस्मात् ।
आत्मनो वा अरे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वंविदितं भवतीति वाक्यशेषः ।
यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुः ।
तस्मादात्मनि विदिते सर्वमिदं जगत्तत्त्वं विदितं भवति, रज्ज्वामिव विदितायां समारोपितस्य भुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव
द्रष्टव्यो न तु तदतिरिक्तं जगत्स्वरूपेण द्रष्टव्यम् ।
कुतः ।
यतोऽब्रह्म तं परादात्ऽब्राह्मणजातिर्ब्राह्मणोऽहमित्येवमभिमान इति यावत् ।
परादात्पराकुर्यादमृतत्वपदात् ।
कं, योऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद ।
एवं क्षत्रियादिष्वपि द्रष्टव्यम् ।
आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं किञ्चित्तदिति ।
अत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्तप्रबन्धेनाह ।
यत्खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते ।
यथा रजतं शुक्तिकायाः, भुजङ्गो वा रज्जोः,
दुन्दुभ्यादिशब्दसामान्याद्वा तत्तच्छब्दभेदः ।
न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि ।
तस्मान्न चिदात्मनो भिद्यन्ते ।
तदिदमुक्तम्स यथा दुन्दुभेर्हन्यमानस्येति ।
दुन्दुभिग्रहणेन तद्गतं शब्दसामान्यमुपलक्षयति ।
न केवलं स्थितिकाले नामरूपप्रपञ्चश्चिदात्मातिरेकेणाग्रहेणाच्चिदात्मनो न व्यतिरिच्यतेऽपि तु नामरूपोत्पत्तेः प्रागपि
चिद्रूपावस्थानात्तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तदनतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरनतिरेक इत्येतद्दृष्टान्तेन साधयति भगवती
श्रुतिःऽस यथार्द्रैधोऽग्रेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽइत्यादिना चतुर्विधो मन्त्र उक्तः ।
इतिहास इत्यादिनाष्टविधं ब्राह्मणमुक्तम् ।
एतदुक्तं भवतियथाग्निमात्रं प्रथममवगम्यते क्षुद्राणां विस्फुलिङ्गानामुपादानाम् ।
अथ ततो विस्फुलिङ्गा व्युच्चरन्ति ।
न चैतेऽग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वुक्तम् ।
एवमृग्वेदादयोऽप्यल्पप्रयत्नाद्ब्रह्मणो व्युच्चरन्तो न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते ।
ऋगादिभिर्नामोपलक्ष्यते ।
यदा च नामधेयस्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः ।
न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तदनुप्रवेशात्ततो न व्यतिरिच्यते ।
यथा सामुद्रमेवाम्भः पृथिवीतेजः सम्पर्कात्काठिन्यमुपगतं सैन्धवं खिल्यः, स हि स्वाकारे समुद्रे क्षिप्तोऽम्भ एव भवति, एवं चिदम्भोधौ लीनं
जगच्छिदेव भवति न तु ततोऽतिरिच्यत इति ।
एतद्दृष्टान्तप्रबन्धेनाहस यथा सर्वासामपामित्यादि ।
दृष्टान्तप्रबन्धमुक्त्वा दार्ष्टान्तिके योजयतिएवं वा अरे इदं महदिति ।
बहुत्त्वेन ब्रह्मोक्तम् ।
इदं ब्रह्मेत्यर्थः ।
भूतं सत्यम् ।
अनन्तं नित्यम् ।
अपारं सर्वगतम् ।
विज्ञानघनः ।
विज्ञानैकरस इति यावत् ।
एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय ।
कार्यकारणसङ्घातस्य ह्यवच्छेदाद्दुःखित्वशोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विपरीतेऽपि प्रतीयन्ते, यथोदकप्रतिबिम्बिते चन्द्रमसि
तोयगताः कम्पादयः ।
तदिदं साम्येनोत्थानम् ।
यदा त्वागमाचार्योपदेशपूर्वकमनननिदिध्यासनप्रकर्षपर्यन्तजोऽस्य ब्रह्मस्वरूपसाक्षात्कार उपावर्तते तदा
निर्मृष्टनिखिलसवासनाविद्यामलस्य कार्यकारणसङ्घातभूतस्य विनाशे तान्येव भूतानि नश्यन्त्यनु तदुपाधिश्चिदात्मनः खिल्यभावो विनश्यति ।
ततो न प्रेत्य कार्यकारणभूतनिवृत्तौ रूपगन्धादिसञ्ज्ञास्तीति ।
न प्रेत्य सञ्ज्ञास्तीति सञ्ज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भगवानमूमुहन्मोहितवान्न प्रेत्य सञ्ज्ञास्तीति ।
स होवाच याज्ञवल्क्यः स्वाभिप्रायं, द्वैते हि रूपादिविशेषसञ्ज्ञानिबन्धनो दुःखित्वाद्यभिमानः ।
आनन्दज्ञानैकरसब्रह्माद्वयानुभवे तु तत्केन कं पश्येत्, ब्रह्म वा केन विजानीयात् ।
नहि तदास्य कर्भावोऽस्ति स्वप्रकाशत्वात् ।
एतदुक्तं भवतिन सञ्ज्ञामात्रं मया व्यासेधि, किन्तु विशेषसञ्ज्ञेति ।
तदेवममृतत्वफलेनोपक्रमात्, मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात्, उपसंहारे च महद्भूतमनन्तमित्यादिना च
ब्रह्मरूपाभिधानात्, द्वैतनिन्दया चाद्वैतगुणकीर्तनाद्ब्रह्मैव मैत्रेयीब्राह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्यनारभ्यमेवेदमधिकरणम् ।
अत्रोच्यतेभोक्तृत्वज्ञातृताजीवरूपोत्थानसमाधये मैत्रेयीब्राह्मणे पूर्वपक्षेणोपक्रमः कृतः ।
पतिजायादिभोग्यसम्बन्धो नाभोक्तुर्ब्रह्मणो युज्यते, नापिज्ञानकर्तृत्वमकर्तुः साक्षाच्च महतो भूतस्य विज्ञानात्मभावेन समुत्तानाभिधानं
विज्ञानात्मन एव द्रष्टव्यत्वमाह ।
अन्यथा ब्रह्मणो द्रष्टव्यत्वपरेऽस्मिन् ब्राह्मणे तस्य विज्ञानात्मत्वेन समुत्थानाभिधानमनुपयुक्तं स्यात्तस्य तु द्रष्टव्यमुपयुज्यत इत्युपक्रममात्रं
पूर्वपक्षः कृतः ।
भोक्त्रर्थत्वाच्च भोग्यजातस्येतितदुपोद्बलमात्रम् ।
सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥१९॥



१,४.६.२०
तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममाचार्यदेशीयमतेन तावत्समाधत्ते सूत्रकारः
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । ब्रह्मसूत्र १,४.२० ।
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरध्यः ।
यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते, तद्रूपनिरूपणत्वात्, नापि ततोऽत्यन्तमभिन्नाः, वह्नेरिव
परस्परव्यावृत्त्यभावप्रसङ्गात्, तथा जीवात्मनोऽपि ब्रह्मविकार न ब्रह्मणोऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभावप्रसङ्गात् ।
नाप्यत्यन्तं न भिद्यन्ते, परस्परं व्यावृत्त्यभावप्रसङ्गात्, सर्वज्ञं प्रत्युपदेशवैयर्थ्याच्च ।
तस्मात्कथञ्चिद्भेदो जीवात्मनामभेदश्च ।
तत्र तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये विज्ञानात्मपरमात्मनोरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनोपक्रम इत्याश्मरध्य आचार्यो
मेने ॥२०॥



१,४.६.२१
आचार्यदेशीयान्तरमतेन समाधत्ते
उत्क्रमिष्यत एवं भावादित्यौडुलोमिः । ब्रह्मसूत्र १,४.२१ ।
उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ।
जीवो हि परमात्मनोऽत्यन्तं भिन्न एव सन् देहेन्द्रियमनोबुद्ध्युपधानसम्पर्कात्सर्वदा कलुषः, तस्य च ज्ञानध्यानादिसाधनानुष्ठानात्सम्प्रसन्नस्य
देहेन्द्रियादिसङ्घातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणम् ।
एतदुक्तं भवतिभविष्यन्तमभेदमुपादाय भेदकालेऽप्यभेद उक्तः ।
यथाहुः पाञ्चरात्रिकाःऽआमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च ।
मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ॥
ऽइति ।
अत्रैव श्रुतिमुपन्यस्यतिश्रुतिश्चैवमिति ।
पूर्वं देहेन्द्रियाद्युपाधिकृतं कलुषत्वमात्मन उक्तम् ।
सम्प्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानामणूनामिव श्यामत्वं केवलं पाकेनेव ।
ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याहक्वचिच्च जीवाक्षयमपीति ।
नदीनिदर्शनम्ऽयथा सोम्येमा नद्यःऽइति ॥२१॥



१,४.६.२२
तदेवमाचार्यदेशीयमतद्वयमुक्त्वात्रापरितुष्यन्नाचार्यमतमाह सूत्रकारः
अवस्थितेरिति काशकृत्स्नः । ब्रह्मसूत्र १,४.२२ ।
अविस्थितेरिति काशकृत्स्नः ।
एतद्व्याचष्टेअस्यैव परमात्मन इति ।
न जीव आत्मनोऽन्यः ।
नापि तद्विकारः किन्त्वात्मैवाविद्योपाधानकल्पितावच्छेदः ।
आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तद्विकारो वा ।
ततश्च जीवात्मनोपक्रमः परामात्मनैवोपक्रमस्तस्य ततोऽभेदात् ।
स्थूलदर्शिलोकप्रतीतिसौकर्यायौपाधिकेनात्मरूपेणोपक्रमः कृतः ।
अत्रैव श्रुतिं प्रमाणयतितथाचेति ।
अथ विकारः परमात्मनो जीवः कस्मान्न भवत्याकाशादिवदित्याहनच तेजःप्रभृतीनामिति ।
नहि यथा तेजःप्रभृतीनामात्मविकारत्वं श्रूयते एवं जीवस्येति ।
आचार्यत्रयमतं विभजतेकाशकृत्स्नस्याचार्यस्येति ।
आत्यन्तिके सत्यभेदे कार्यकारणभावाभावादनात्यन्तिकोऽभेद आस्थेयः, तथाच कथञ्चिद्भेदोऽपीति तमास्थाय कार्यकारणभाव इति
मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयतितत्र तेषु मध्ये ।
काशकृत्स्नीयं मतमिति ।
आत्यन्तिके हि जीवपरमात्मनोरभेदे तात्त्विकेऽनाद्यविद्योपाधिकल्पितो भेदस्तत्त्वमसीति जीवात्मनो
ब्रह्मभावतत्त्वोपदेशश्रवणमनननिदिध्यासनप्रकर्षपर्यन्तजन्म्ःना साक्षात्कारेण विद्यया शक्यः समूलकाषं कषितुं, रज्ज्वामहिविभ्रम इव
रज्जुतत्त्वसाक्षात्कारेण, राजपुत्रस्येव च म्लेच्छकुले वर्धमानस्यात्मनि समारोपितो म्लेच्छभावो राजपुत्रोऽसीति आप्तोपदेशेन ।
न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मृदिति चिन्त्यमानस्तज्जन्मना मृद्भावसाक्षात्कारेण शक्यो निवर्तयितुं, तत्कस्य हेतोः, तस्यापि मृदो
भिन्नाभिन्नस्य तात्त्विकत्वात्, वस्तुतस्तु ज्ञानेनोच्छेत्तुमशक्यत्वात्, सोऽयं प्रतिपादयिषितार्थानुसारः ।
अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठानात्स्वप्रकृतावप्यये सति
नामृतत्वस्याशास्तीत्यपुरुषार्थत्वममृतत्वप्राप्तिश्रुतिविरोधश्च ।
काशकृत्स्नमते त्वेतदुभयं नास्तीत्याहएवं च सतीति ।
ननु यदि जीवो न विकारः किन्तु ब्रह्मैव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः, कथञ्चऽयथाग्नेः श्रुद्रा विस्फुलिङ्गाऽइति
ब्रह्मविकारश्रुतिरित्याशङ्कामुपसंहारव्याजेन निराकरोतिअतश्च स्वाश्रयस्येति ।
यतः प्रतिपिपादयिषितार्थानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न सम्भवतः, अतश्चेति योजना ।
द्वितीयपूर्वपक्षबीजमनस्यैव त्रिसूत्र्यापाकरोतियदप्युक्तमिति ।
शेषमतिरोहितार्थं व्याख्यातार्थं च ।
तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् ।
ऐकान्तिके ह्याद्वैते आत्मनोऽन्यकर्मकरणेऽकेन कं पश्येत्ऽइति आत्मनश्च कर्मत्वंऽविज्ञातारमरे केन विजानीयात्ऽइति शक्यं निषेद्धुम् ।
भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः ।
न केवलं काशकृत्स्नीयदर्शनाश्रयणेन भूतपूर्वगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याहअपि च यत्र हीति ।
कस्मात्पुनः काशकृत्स्नस्य मतमास्थीयते नेतरेषामाचार्याणामित्यत आहदर्शितं तु पुरस्तादिति ।
काशकृत्स्नीयस्य मतस्य श्रुतिप्रबन्धोपन्यासेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोपसंहारोपक्रममाहअतश्चेति ।
क्वचित्पाठ आतश्चेति ।
तस्यावश्यं चेत्यर्थः ।
जननजरामरणभीतयो विक्रियास्तासां सर्वासांऽमहानजःऽइत्यादिना प्रतिषेधः ।
परिणामपक्षेऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनपराःऽएकमेवाद्वितीयम्ऽइत्यादयः,
द्वैतदर्शननिन्दापराश्चऽअन्योऽसावन्योऽहमस्मिऽइत्यादयः, जन्मजरादिविक्रियाप्रतिषेधपराश्चऽएष महानजःऽइत्यादयः श्रुतयः उपरुध्येरन् ।
अपिच यदि जीवपरमात्मनोर्भेदाभेदावास्थीयेयातां ततस्तयोर्मिथो विरोधात्समुच्चयाभावादेकस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं
जायेत, बलीयसैकेन दुर्बलपक्षावलम्बिनो ज्ञानस्य बाधनात् ।
अथ त्वगृह्यमाणविशेषतया न बलाबलावधारणं, ततः संशये सति न सुनिश्चितार्थमात्मनि ज्ञानं भवेत् ।
सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयतेऽवेदान्तविज्ञानसुनिश्चितार्थाःऽइति ।
तदेतदाहअन्यथा मुमुक्षूणामिति ।
ऽएकत्वमनुपश्यतःऽइति श्रुतिर्न पुनरेकत्वानेकत्वे अनुपश्यत इति ।
ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः
संसारिता ।
अविद्याकृतनामरूपोपाधिवशादिति चेत् ।
कस्येयमविद्या ।
न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् ।
नापि परमात्मनः, तस्य विद्यैकरसस्याविद्याश्रयत्वानुपपत्तेः ।
तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धधर्मसंसर्गाद्बुद्धिव्यप्ःदेशभेदाच्चास्ति जीवेश्वरयोर्भेदोऽपि भाविक इत्यत आहस्थिते
च परमात्मक्षेत्रज्ञात्मैकत्वेति ।
न तावद्भेदाभेदावेकात्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे ।
द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपादनपराः पौर्वापर्यालोचनया सर्वे वेदान्तः प्रतीयन्ते ।
तत्र यथा बिम्बादवदतात्तात्त्विके प्रतिबिम्बानामभेदेऽपि नीलमणिकृपाणकाचाद्युपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदौ
वर्तयति, इदं बिम्बमवदातमिमानि च प्रतिबिम्बानि नीलोत्पलपलाशश्यामलानि वृत्तदीर्घादिभेदभाञ्जि बहूनीति, एवं परमात्मनः
शुद्धस्वभावाज्जीवानमभेद ऐकान्तिकेऽप्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदावयं च परमात्मा
शुद्धविज्ञानानन्दस्वभाव इमे च जीवा अविद्याशोकदुःखाद्युपद्रवभाज इति वर्तयति ।
अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवद्वारेण परस्मिन्नुच्यते ।
न चैवमन्योन्याश्रयो जीवविभागाश्रयाविद्या, अविद्याश्रयश्च जीवविभाग इति, बीजाङ्कुरवदनादित्वात् ।
अत एव कानुद्दिश्यैष ईश्वरो मायामारचयत्यनार्थिकां, उद्देश्यानां सर्गादौ जीवानामभावात्, कथं चात्मानं संसारिणं विविधवेदनाभाजं
कुर्यादित्याद्यनुयोगो निरवकाशः ।
न खल्वादिमान् संसारः, नाप्यादिमानविद्याजीवविभागः, येनानुयुज्येतेति ।
अत्र च नामग्रहणेनाविद्यामुपलक्षयति ।
स्यादेतत् ।
यदि न जीवात्ब्रह्म भिद्यते, हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात्, तथा चऽनिहितं गुहायाम्ऽइति नोपपद्यत इत्यत आहनहि सत्यमिति ।
यथाहि बिम्बस्य मणिकृपाणादयो गुहा एवं ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति ।
यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् ।
अस्तु तर्हि ब्रह्मणोऽन्यद्गुह्यमित्यत आहनच ब्रह्मणोऽन्य इति ।
ये तुआश्मरथ्यप्रभृतयःनिर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति ।
ब्रह्मणः सर्वात्मना भागशो वा परिणामाभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षोऽपि तथा स्यात् ।
यदि त्वेवमपि मोक्षं नित्यङ्कृतकं ब्रूयुस्तत्राहन्यायेनेति ।
एवं ये नदीसमुद्रनिदर्शनेनामुक्तेर्भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासङ्गतिः ।
नो जातु घटः पटो भवति ।
ननूक्तं यथा नदी समुद्रो भवतीति ।
का पुनर्नद्यभिमता आयुष्मतः ।
किं पाथः परमाणव उतैषां संस्थानभेद आहोस्वित्तदारब्धोऽवयवी ।
तत्र संस्थानभेदस्य वावयविनो वा समुद्रनिवेशे विनाशात्कस्य समुद्रेणैकता ।
नदीपाथः परमाणूनां तु समुद्रपाथः परमाणुभ्यः पूर्ववस्थितेभ्यो भेद एव नाभेदः ।
एवं समुद्रादपि तेषां भेद एव ।
ये तु काशकृत्स्नीयमेव मतमास्थाय जीवं परमात्मनोंऽशमाचख्युस्तेषां कथंऽनिष्कलं निष्क्रियं शान्तम्ऽइति न श्रुतिविरोधः ।
निष्कलमिति सावयवत्वं व्यासेधि न तु सांशत्वम्, अंशश्च जीवः परमात्मनो नभस इव कर्णनेमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं,
वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् ।
न तावन्नभो नभसोंशः, तस्य तत्त्वात् ।
कर्णनेमिमण्डलावच्छिन्नमंश इति चेत्, हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति ।
नच कर्णनेमिमण्डलं तस्यांशः, तस्य ततो भेदात् ।
तत्संयोगो नभोधर्मत्वात्तस्यांश इति चेत् ।
न ।
अनुपपत्तेः ।
नभोधर्मत्वे हि तदनवयवं सर्वत्राभिन्नमिति तत्संयोगः सर्वत्रा प्रथेत ।
नह्यस्ति सम्भवोऽनवयवमव्याप्यवर्तत इति ।
तस्मात्तत्रास्ति चेद्व्याप्यैव ।
न चेद्व्याप्नोति तत्र नास्त्येव ।
व्याप्यैवास्ति केवलं प्रतिसम्बध्यधीननिरूपणतया न सर्वत्र निरूप्यत इति चेत्, न नाम निरूप्यताम् ।
तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवणप्रसङ्गः ।
नच भेदाभेदयोरन्यतरेणांशः शक्यो निर्वक्तुं न चोभाभ्यां, विरुद्धयोरेकत्रासमवायादित्युक्तम् ।
तस्मादनिर्वचनीयानाद्यविद्यापरिकल्पित एवांशो नभसो न भाविक इति युक्तम् ।
नच काल्पनिको ज्ञानमात्रायत्तजीवितः कथमविज्ञायमानोऽस्ति, असंश्चांशः कथं शब्दश्रवणलक्षणाय कार्याय कल्पते, न जातु रज्ज्वामज्ञायमान
उरगो भयकम्पादिकार्याय पर्याप्त इति वाच्यम् ।
अज्ञातत्वासिद्धेः कार्यव्यङ्गत्वादस्य ।
कार्योत्पादात्पूर्वमज्ञातं कथं कार्योत्पादाङ्गमिति चेत् ।
न ।
पूर्वपूर्वकार्योत्पादव्यङ्ग्यत्वादसत्यपि ज्ञाने तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना तत्संस्कारप्रवाहस्य ।
अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् ।
अनुपपत्तिर्हि मायामुपोद्बलयत्यनुपपद्यमानार्थत्वान्यमायायाः ।
अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोच्छेत्तुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् ।
तदेवमकाशांश इव श्रोत्रमनिर्वचनीयम् ।
एवं जीवो ब्रह्मणोंऽश इति काशकृत्स्नीयं मतमिति सिद्धम् ॥२२॥



१,४.७.२३
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । ब्रह्मसूत्र १,४.२३ ।
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।
स्यादेतत् ।
वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत इति शङ्कां निराकर्तुं सङ्गतिं
दर्शयन्नवशेषमाहयथाभ्युदयेति ।
अत्र च लक्षणस्य सङ्गतिमुक्त्वा लक्षणेनास्याधिकरणस्य सङ्गतिरुक्ता ।
एतदुक्तं भवतिसत्यं जगत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयः ।
तत्र कारणभावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्तत्वेनैव, उतोपादानत्वेनापि ।
तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसारणे साङ्ख्यस्मृतिसिद्धं प्रधानमभ्युपेयम् ।
तथा चऽजन्माद्यस्य यतःऽइति ब्रह्मलक्षणमसाधु, अतिव्याप्तेः प्रधानेऽपि गतत्वात् ।
असम्भवाद्वा ।
यदि तूत्तरः पक्षस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् ।
सोऽयमवशेषः ।
तत्रऽईक्षापूर्वकर्तृत्वं प्रभुत्वमसरूपता ।
निमित्तकारणेष्वेव नोपादानेषु कर्हिचित् ॥
ऽतदिदमाहतत्र निमित्तकारणमेव तावदिति ।
आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनियममागमो न प्रतिक्षिपत्यपि त्वनुमन्यत एवेत्याहपारिशेष्याद्ब्रह्मणोऽन्यदिति ।
ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधेऽन्यत्राप्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धमानुमानिकं प्रधानं शिष्यत इति ।
एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानम्ऽउत तमादेशम्ऽइत्यादिना,ऽयथा सोम्यैकेन मृत्पिण्डेनऽइति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः ।
यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति ।
एवं प्राप्त उच्यते प्रकृतिश्च ।
न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रतिज्ञादृष्टान्तयोरनुपरोधात् ।
निमित्तकारणत्वमात्रे तु तावुपरुध्येयाताम् ।
तथाहिःऽन मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यते ।
न चानुमानिकं युक्तमागमेनापबाधितम् ॥
सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः ।
ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः ॥
ऽतदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तुऽयजमानः प्रस्तरःऽइतिवद्गुणकल्पनया नेतव्यौ, तस्यार्थवादस्यातत्परत्वात् ।
प्रतिज्ञादृष्टान्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः ।
निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति ।
अतो ब्रह्मोपादानकारणं जगतः ।
नच ब्रह्मणोऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् ।
प्रतिज्ञादृष्टान्तोपरोधादेव ।
नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति ।
जगन्निमित्तकारणस्य ब्रह्मणोऽन्यस्य सर्वमध्यपातिनस्तज्ज्ञानेनाविज्ञानात् ।
यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ,ऽजनिकर्तुः प्रकृतिःऽइति ।
ततोऽपि प्रकृतित्वमवगच्छामः ।
दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम् ॥२३॥



१,४.७.२४
अभिध्योपदेशाच्च । ब्रह्मसूत्र १,४.२४ ।
अनागतेच्छासङ्कल्पोऽभिध्या ।
एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् ।
ऽबहु स्याम्ऽइति च स्वविषयतयोपादानत्वमुक्तम् ॥२४॥



१,४.७.२५
साक्षाच्चोभयाम्नानात् । ब्रह्मसूत्र १,४.२५ ।
आकाशादेव ।
ब्रह्मण एवेत्यर्थः ।
साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टेआकाशादेवेति ।
श्रुतिर्ब्रह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं साक्षादेव दर्शयतीतिसाक्षादितिसूत्रावयवेन दर्शितमिति योजना ॥२५॥



१,४.७.२६
आत्मकृतेः परिणामात् । ब्रह्मसूत्र १,४.२६ ।
आत्मकृतेः परिणामात् ।
प्रकृतिग्रहणमुपलक्षणं, निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपादानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात् ।
कथं पुनरिति ।
सिद्धसाध्ययोरेकत्रासमवायो विरोधादिति ।
परिणामादिति ब्रूम इति ।
पूर्वसिद्धस्याप्यनिर्वचनीयविकारात्मना परिणामोऽनिर्वचनीयत्वाद्भेदेनाभिन्न इवेति सिद्धस्यापि साध्यत्वमित्यर्थः ।
एकवाक्यत्वेन व्याख्याया परिणामादित्यवच्छिद्य व्याचष्टेपरिणामादिति वेति ।
सच्चत्यच्चेति द्वे ब्रह्मणो रूपे ।
सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं, पृथिव्यप्तेजोलक्षणम् ।
त्यच्च परोक्षमत एवानिर्वाच्यमिदन्तया वाय्वाकाशलक्षणं, कथं च तद्ब्रह्मणो रूपं यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद्ब्रह्म भूतानां
प्रकृतिरिति ॥२६॥



१,४.७.२७
योनिश्च हि गीयते । ब्रह्मसूत्र १,४.२७ ।
पूर्वपक्षिणोऽनुमानमनुभाष्यागमविरोधेन दूषयतियत्पुनरिति ।
एतदुक्तं भवतिईश्वरो जगतो निमित्तकारणमेव ईक्षापूर्वकजगत्कर्तृत्वात्, कुम्भकर्तुकुलालवत् ।
अत्रेश्वरस्यासिद्धेराश्रयासिद्धो हेतुः पक्षश्चाप्रसिद्धविशेषः ।
यथाहुःऽनानुपलब्धे न्यायः प्रवर्ततेऽइति ।
आगमात्तत्सिद्धिरिति चेत्, हन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशोऽभ्युपगन्तव्यः स च निमित्तकारणं चोपादानकारणं चेश्वरमवगमयति ।
विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुदेतुमर्हतीति कुतस्तेन निमित्तत्वावधारणेत्यर्थः ।
इयं चोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु तथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् ।
न खलु नित्यस्य निष्कलस्य ब्रह्मणः सर्वात्मनैकदेशेन वा परिणामः सम्भवति, नित्यत्वादनेकदेशत्वादित्युक्तम् ।
नच मृदः शरवादयो भिद्यन्ते, न चाभिन्नाः, न वा भिन्नाभिन्नाः किन्त्वनिर्वचनीया एव ।
यथाह श्रुतिःऽमृत्तिकेत्येव सत्यम्ऽइति ।
तस्मादद्वैतोपक्रमादुपसंहाराच्च सर्व एव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क्वचिदद्वैतमाहुः, क्वचिद्द्वैतनिषेधेन,
क्वचिद्ब्रह्मोपादानत्वेन जगतः ।
एतावतापि तावद्भेदो निषिद्धो भवति, न तूपादानत्वाभिधानमात्रेण विकारग्रह आस्थेयः ।
नहि वाक्यैकदेशस्यार्थोऽस्तीति ॥२७॥



१,४.८.२८
एतेन सर्वे व्याख्याता व्याख्याताः । ब्रह्मसूत्र १,४.२८ ।
स्यादेतत् ।
मा भूत्प्रधानं जगदुपादानं तथापि न ब्रह्मोपादानत्वं सिध्यति, परमाण्वादीनामपि तदुपादानानामुपप्लवमानत्वात्, तेषामपि हि
किञ्चिदुपोद्बलकमस्ति वैदिकं लिङ्गमित्याशङ्कामपनेतुमाह सूत्रकारःेतेन सर्वे व्याख्याता व्याख्याताः ।
निगदव्याख्यातेन भाष्येण व्याख्यातं सूत्रम् ।
ऽप्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम् ॥२८॥
ऽइति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्यविभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥४॥
॥ इति प्रथमाध्यायेऽव्यक्तादिसन्दिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥
अवदातम् ॥१५॥
अथ द्वितीयोऽध्यायः ।