१,३.१.१
द्युभ्वाद्यायतनं स्वशब्दात् । ब्रह्मसूत्र १,३.१ ।
द्युभ्वाद्यायतनं स्वशब्दात् ।
इह ज्ञेयत्वेन ब्रह्मोपक्षिप्यते ।
तत्रऽपारवत्त्वेन सेतुत्वाद्भेदे षष्ठ्याः प्रयोगतः ।
द्युभ्वाद्यायतनं युक्तं नामृतं ब्रह्म कर्हिचित् ॥
ऽपारावारमथ्यपाती हि सेतुः ताभ्यामवच्छिद्यमानो जलविधारको लोके दृष्टः, नतु बन्धनहेतुमात्रम् ।
हडिनिगडादिष्वपि प्रयोगप्रसङ्गात् ।
न चानवच्छिन्नं ब्रह्म सेतुभावमनुभवति ।
न चामृतं सद्ब्रह्मामृतस्य सेतुरिति युज्यते ।
नच ब्रह्मणोऽन्यदमृतमस्ति, यस्य तत्सेतुः, स्यात् ।
न चाभेदे षष्ठ्याः प्रयोगो दृष्टपूर्वः ।
तदिदमुक्तममृतस्यैष सेतुरिति श्रवणादिति ।
अमृतस्येति श्रवणात्, इति योजना ।
तत्रामृतस्येति श्रवणादिति विशब्दतया न व्याख्यातम् ।
सेतुरिति श्रवणादिति व्याचष्टेपारवानिति ।
तथाच पारवत्यमृतव्यतिरिक्ते सेतावनुश्रियमाणे प्रधानं वा साङ्ख्यपरिकल्पितं भवेत् ।
तत्खलु स्वकार्योपहितमर्यादतया पुरुषं यावदगच्छद्भवतीति पारवत्, भवति च द्युभ्वाद्यायतनं, तत्प्रकृतित्वात्, प्रकृत्यायतनत्वाच्च विकाराणां,
भवति चात्मात्मशब्दस्यस्वभाववचनत्वात्, प्रकाशात्मा प्रदीप इतिवत् ।
भवति चास्य ज्ञानमपवर्गोपयोगि, तदभावे प्रधानाद्विवेकेन पुरुषस्यानवधारणादपवनुपर्गापत्तेः ।
यदि त्वस्मिन्प्रमाणाभावेन न परितुष्यसि, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं द्युभ्वाद्यायतनं, तस्मिन् प्रामाणिके
सर्वस्योक्तस्योपपत्तेः ।
एतदपि प्रधानोपन्यासेन सूचितम् ।
अथ तु साक्षाच्छुत्युक्तं द्युभ्वाद्यायतनमाद्रियसे, ततो वायुरेवास्तु ।
ऽवायुना वै गौतम सूत्रेणाय च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तिऽइति श्रुतेः ।
यदि त्वात्मशब्दाभिधेयत्वं न विद्यत इति न परितुष्यसि, भवतु तर्हि शारीरः, तस्य भोक्तुर्भोग्यान् द्युप्रभृतीन्प्रत्यायतनत्वात् ।
यदि पुनरस्य द्युभ्वाद्यायतनस्य सार्वज्ञ्यश्रुतेरत्रापि न परितुष्य, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वज्ञः सूत्रात्मा द्युभ्वाद्यायतनम् ।
तस्य हि कार्यत्वेन पारवत्त्वं चामृतात्परब्रह्मणो भेदश्चेत्यादि सर्वमुपपद्यते ।
अयमपिऽवायुना वै गौतम सूत्रेणऽइति श्रुतिमुपन्यस्यता सूचितः ।
तस्मादयं द्युपर्भृतीनामायतनमित्येवं प्राप्तेऽभिधीयते ।
द्युभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृतवायुशारीरहिरण्गर्भाः ।
कुतः, स्वशब्दात् ।
ऽधारणाद्वामृतत्वस्य साधनाद्वास्य सेतुता ।
पूर्वपक्षेऽपि मुख्यार्थः सेतुशब्दो हि नेष्यते ॥
ऽनहि मृद्दारुमयो मूर्तः पारावारमध्यवर्ती पाथसां विधारको लोकसिद्धः सेतुः प्रधानं वाव्याकृतं वा वायुर्वा जीवो वा सूत्रात्मा वाभ्युपेयते ।
किन्तु पारवत्तामात्रपरो लक्षणिकः सेतुशब्दोऽभ्युपेयः ।
सोऽस्माकं पारवत्तावर्जं विधरणत्वमात्रेण योगमात्राद्रूढिं परित्यज्य प्रवर्त्स्यति ।
जीवानाममृतत्वपदप्राप्तिसाधनत्वं वात्मज्ञानस्य पारवत एव लक्षयिष्यति ।
अमृतशब्दश्च भावप्रधानः ।
यथाऽद्व्येकयोर्द्विवचनैकवचनेऽइत्यत्र द्वित्वैकत्वे द्व्येकशब्दार्थौ, अन्यथा द्व्येकेष्विति स्यात् ।
तदिदमुक्तं भाष्यकृताअमृतत्वसाधनत्वादिति ।
तथा चामृतस्येति च सेतुरिति च ब्रह्मणि द्युभ्वाद्यायतने उपपत्स्येते ।
अत्र च स्वशब्दादिति तन्त्रोच्चरिततमात्मशब्दादिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च सूचयति ।
सर्वे ह्येतेऽस्य स्वशब्दाः ।
स्यादेतत् ।
आयतनायतनवद्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिरण्यगर्भेप्युपपद्यते ।
तथाच सःेवात्रास्त्वमृतत्वस्य सेतुरित्याशङ्क्य श्रुतिवाक्येन सावधारणेनोत्तरमाहतत्रायतनायतनवद्भावश्रवणादिति ।
विकाररूपेऽनृतेऽनिर्वाच्यऽभिसन्धानं यस्याभिसन्धानपुरुषस्य स तथोक्तः ।
भेदप्रपञ्चं सत्यमभिमन्यमान इति यावत् ।
तस्यापवादो दोषः श्रूयते मृत्योरिति ।
सर्वं ब्रह्मेति त्विति ।
यत्सर्वमविद्यारोपितं तत्सर्वं परमार्थतो ब्रह्म ।
न तु यद्ब्रह्म तत्सर्वमित्यर्थः ।
अपर आहेति ।
नात्र
द्युभ्वाद्याय
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4354”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4355”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4356”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4357”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4358”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4359”},
तनस्य सेतुतोच्यते येन पारवत्ता स्यात् ।
किन्तुऽजानथऽइति यज्ज्ञानं कीर्तितं, यश्चऽवाचो विमुञ्चथऽइति वाग्विमोकः, तस्यामृतत्वसाधनत्वेन सेतुतोच्यते ।
तच्चोभयमपि पारवदेव ।
नच प्राधान्यादेष इति सर्वनाम्ना द्युभ्वाद्यायतनमात्मैव परामृश्यते, न तु तज्ज्ञानवाग्विमोचने इति साम्प्रतम् ।
वाग्विमोचनात्मज्ञानभावनयोरेव विधेयत्वेन प्राधान्यात् ।
आत्मनस्तु द्रव्यस्याव्यापारतयाविधेयत्वात् ।
विधेयस्य व्यापारस्यैव व्यापारवतोऽमृतत्वसाधनत्वात्न चेदमैकान्तिकं यत्प्रधानमेव सर्वनाम्ना परामृश्यते ।
क्वचिदयोग्यतया प्रधानमुसृज्य योग्यतया गुणोऽपि परामृश्यते ॥१॥
१,३.१.२
मुक्तोपसृप्यव्यपदेशाच्च । ब्रह्मसूत्र १,३.२ ।
मुक्तोपसृप्यव्यपदेशात् ।
द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यतेऽभिद्यते हृदयग्रन्थिःऽइत्यादिना ।
तेन तत्द्युभ्वाद्यायतनविषयमेव ।
ब्रह्मणश्च मुक्तोपसृप्यत्वंऽयदा सर्वे प्रमुच्यन्तेऽइत्यादौ श्रुत्यन्तरे प्रसिद्धम् ।
तस्मान्मुक्तोपसृप्यत्वात् ।
द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते ।
हृदयग्रन्थिश्चाविद्यारागाद्वेषभयमोहाः ।
मोहश्च विषादः, शोकः ।
परं हिरण्यगर्भाद्यवरं यस्य तद्ब्रह्म तथोक्तम् ।
तस्मिन्ब्रह्मणि यद्दृष्टं दर्शनं तस्मिंस्तदर्थमिति यावत् ।
यथाऽचर्मणि द्वीपिनं हन्तिऽइति चर्मार्थमिति गम्यते ।
नामरूपादित्याप्यविद्याभिप्रायम् ।
कामा येऽस्य हृदि श्रिता इति ।
कामा इत्यविद्यामुपलक्षयति ॥२॥
१,३.१.३
नानुमानमतच्छब्दात् । ब्रह्मसूत्र १,३.३ ।
नानुमानमतच्छब्दात् ।
नानुमानमित्युपलक्षणम् ।
नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥३॥
१,३.१.४
प्राणभृच्च । ब्रह्मसूत्र १,३.४ ।
प्रणभृच्च ।
चेनातच्छब्दत्वं हेतुरनुकृष्यते ।
स्वयं च भाष्यकृदत्र हेतुमाहन चोपाधिपरिच्छिन्नस्येति ।
न सम्यक्सम्भवति ।
नाञ्जसमित्यर्थः ।
भोग्यत्वेन हि आयतनत्वमिति क्लिष्टम् ।
स्यादेतत् ।
यद्यतच्छब्दत्वादित्यत्रापि हेतुरनुक्रष्टव्यः, हन्त कस्मात्पृथग्योगकरणं, यावताऽन प्राणभृदनुमानेऽइत्येक एव योगः कस्मान्न कृत इत्यत
आहपृथगिति ।
ऽभेदव्यपदेशात्ऽइत्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति ॥४॥
१,३.१.५
भेदव्यपदेशात् । ब्रह्मसूत्र १,३.५ ।
॥ ५ ॥
१,३.१.६
प्रकरणात् । ब्रह्मसूत्र १,३.६ ।
प्रकरणात् ।
न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति ॥६॥
१,३.१.७
स्थित्यदनाभ्यां च । ब्रह्मसूत्र १,३.७ ।
स्थित्यदनाभ्यां च ।
यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत्, ततस्तत्प्रकृत्याऽअनश्नन्नन्योऽअभिचाकशीतिऽइति परमात्माभिधानमाकस्मिकं प्रसज्येत ।
नच हिरण्यगर्भ उदासीनः, तस्यापि भोक्तृत्वात् ।
नच जीवात्मैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते, तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धान्तेऽपि जीवात्मकथनमाकस्मिकं
स्यादिति वाच्यम् ।
यतोऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्माधिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोध्यत इति सुभाषितम्यदापि
पैङ्ग्युपनिषत्कृतेन व्याख्यानेनेति ।
तत्र हिऽअनश्नन्नन्योऽअभिचाकशीतिऽइति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः ।
तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् ।
तथा चेत्थम्भूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति ।
न पैङ्गिब्राह्मणविरोध इत्यर्थः ।
प्रपञ्चार्थमिति ।
तन्मध्ये न पठितमिति कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमित्यर्थः ॥७॥
१,३.२.८
भूमा सम्प्रसादादध्युपदेशात् । ब्रह्मसूत्र १,३.८ ।
भूमा सम्प्रसादादध्युपदेशात् ।
नारदः खलु देवर्षिः कर्मविदनात्मवित्तया शोच्यमात्मानं मन्यमानो भगवन्तमात्मज्ञमाजानसिद्धं महायोगिनं सनत्कुमारमुपससाद ।
उपसद्य चोवाच्, भगवन्, अनात्मज्ञताजनितशोकसागरपारमुत्तारयतु मां भगवानिति ।
तदुपश्रुत्य सनत्कुमारेणऽनाम ब्रह्मेत्युपाःस्वऽइत्युक्ते नारदेन पृष्टं किन्नाम्नोऽस्ति भूय इति ।
तत्र सनत्कुमारस्य प्रतिवचनम्ऽवाग्वाव नाम्नो भूयसीऽइति ।
तदेवं नारदसनत्कुमारयोर्भूयसी ।
प्रश्नोत्तरे वागिन्द्रियमुपक्रम्य मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नतोयवायुसहिततेजोनभःस्मराशाप्राणेषु पर्यवसिते ।
कर्तव्याकर्तव्यविवेकः सङ्कल्पः, तस्य कारणं पूर्वापरविषयनिमित्तप्रयोजननिरूपणं चित्तम् ।
स्मरः स्मरणम् ।
प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभिदृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणभूयस्त्वदर्शिनोऽतिवादित्वेन च
नामादिप्रपञ्चादाशान्ताद्भूयस्त्वमुक्त्वापृष्ट एव नारदेन सनत्कुमार एकग्रन्थेनऽएष तु वा अतिवदति यः सत्येनातिवदतिऽइति
सत्यादीन्कृतिपर्यन्तानुक्त्वोपदिदेशऽसुखं त्वेव विजिज्ञासितव्यम्ऽइति ।
तदुपश्रुत्य नारदेनऽसुखं त्वेव भगवो विजिज्ञासेऽइत्युक्ते सनत्कुमारःऽयो वै भूमा तत्सुखम्ऽइत्युपक्रम्य भूमानं व्युत्पादयाम्बभूवऽयत्र
नान्यत्पश्यतिऽइत्यादिना ।
तदिदृशे विषये विचार आरभ्यते ।
तत्र संशयःकिं प्राणो भूमा स्यादाहो परमात्मेति ।
भावभवित्रोस्तादात्मविवक्षया सामानाधिकरण्यं संशयस्य बीजमुक्तं भाष्यकृता ।
तत्रऽएतस्मिन् ग्रन्थसन्दर्भे यदुक्ताद्भूयसोऽन्यतः ।
उच्यमानं तु तद्भूय उच्यते प्रश्नपूर्वकम् ॥
ऽनच प्राणात्किं भूय इति पृष्टम् ।
नापि भूमा वास्माद्भूयानिति प्रत्युक्तम् ।
तस्मात्प्राणभूयस्त्वाभिधानानन्तरमपृष्ठेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति ।
अपिच भूमेति भावो न भवितारमन्तरेण शक्यो निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुद्धिसन्निधानात्तमेव भवितारं प्राप्य
निर्वृणोति ।
ऽयस्योभयं हविरार्तिमार्च्छेत्ऽइत्यत्रार्तिरिवार्तं हविः ।
यथाहुःऽमृष्यामहे हविषा विशेषणम्ऽइति ।
न चात्मनः प्रकरणादात्मैव बुद्धिस्थ इति तस्यैव भूमा स्यादिति युक्तम् ।
सनत्कुमारस्यऽनाम ब्रह्मेत्युपाःस्वऽइति ।
प्रतीकोपदेशरूपेणोत्तरेण नारदप्रश्नस्यापि तद्विषयत्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् ।
अतद्विषयत्वे चोत्तरस्य प्रश्नोत्तरयोर्वैयधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रसङ्गात् ।
तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् ।
तदेतत्संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् ।
नच भूयोभूयः प्रश्नात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् ।
प्राणोपदेशानन्तरं तस्योपरमात् ।
तदेवं प्राण एव भूमेति स्थिते यद्यत्तद्विरोधितया वचः प्रतिभाति तत्तदनुगुणतया नेयम् ।
नीतं च भाष्यकृता ।
स्यादेतत् ।
ऽएष तु वा अतिवदतिऽइति तुशब्देन प्राणदर्शिनोऽतिवादिनो व्यवच्छिद्य सत्येनातिवादित्वं वदन् कथं प्राणस्य भूमानमभिदधीतेत्यत
आहप्राणमेव त्विति ।
प्राणदर्शिनश्चातिवादित्वमिति ।
नामाद्याशान्तमतीत्य वदनशीलत्वमित्यर्थः ।
एतदुक्तं भवतिनायं तुशब्दः प्राणातिवादित्वाद्वयवच्छिनत्ति, अपितु तदतिवादित्वमपरित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य
श्रवणमननश्रद्धानिष्ठाकृतिभिर्विज्ञानाय निश्चयाय सत्येनातिवदतीति प्राणव्रतमेवातिवादित्वमुच्यते ।
तुशब्दो नामाद्यतिवादित्वद्व्यवच्छिनत्ति ।
न नामाद्याशान्तवाद्यतिवादि, अपितु सत्यप्राणवाद्यतिवादित्यर्थः ।
अत्र चागमाचार्योपदेशाभ्यां सत्यस्य श्रवणम् ।
अथागमाविरोधिन्यायनिवेशनं मननं, मत्वा च गुरुशिष्यसब्रह्मचारिभिरनुसूयुभिः सह संवाद्य तत्त्वं श्रद्धत्ते ।
श्रद्धानन्तरं च विषयान्तरदर्शी विरक्तस्ततो व्यावृत्तस्तत्त्वज्ञानाभ्यासं करोति, सेयमस्य कृतिः प्रयत्नः ।
अथ तत्त्वज्ञानाभ्यासनिष्ठा भवति, यदनन्तरमेव तत्त्वविज्ञानमनुभवः प्रादुर्भवति ।
तदेतद्बाह्या ।
अप्याहुःऽभूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम्ऽइति भावनाप्रकर्षस्य पर्यन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति ।
तस्मात्प्राण एव भूमेति प्राप्तेऽभिधीयतेऽएष तु वा अतिवदति यः सत्येनातिवदतिऽइत्युक्त्वा भूमोच्यते ।
तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह ।
परमार्थश्च परमात्मैव ।
ततो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथञ्चित्सत्यमुच्यते ।
तथाचऽएष तु वा अतिवदति यः सत्येनातिवदतिऽइति ब्रह्मणोऽतिवादित्वं श्रुत्यान्यनिरपेक्षया लिङ्गादिभ्यो बलीयस्यावगमितं कथमिव
सन्निधानमात्रात्श्रुत्याद्यपेक्षादतिदुर्बलात्कथं चित्प्राणविषयत्वेन शक्यं व्याख्यातुम् ।
एवं च प्राणादूर्ध्वं ब्रह्मणि भूमावगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव ।
एवं चानात्मविद आत्मानं विविदिषोर्नारदस्य प्रश्ने परमात्मानमेवास्मै व्याख्यास्यामीत्यभिसन्धिमान्सनत्कुमारः सोपानारोहणन्यायेन
स्थूलादारभ्य तत्तद्भूमव्युत्पादनक्रमेण भूमानमतिदुर्ज्ञानतया परमसूक्ष्मं व्युत्पादयामास ।
नच प्रश्नपूर्वताप्रवाहपतितेनोत्तरेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति नियमोऽस्तीत्यादिसुगमेन भाष्येण व्युत्पादितम् ।
विज्ञानादिसाधनपरम्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रकरणसमाप्तेर्न प्राणस्यान्यायत्ततोच्येत ।
तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत ।
तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।
शङ्कते प्रकरणान्त इति ।
प्राणप्रकरणसमाप्तावित्यर्थः ।
निराकरोतिन ।
स भगव इति ।
सन्दंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद्भूमा प्राणः, प्राणस्यैतत्प्रकरणं भवेत् ।
तच्चायुक्तमित्युक्तम् ॥८॥
१,३.२.९
न केवलं श्रुतेर्भूमात्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः
धर्मोपपत्तेश्च । ब्रह्मसूत्र १,३.९ ।
यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयतियोऽप्यसौ सुषुप्तावस्थायामिति ।
सुषुप्तावस्थायामिन्द्रियाद्यसंयोग्यात्मैव ।
न प्राणः ।
परमात्मप्रकरणात् ।
अन्यदार्तम् ।
विनश्वरमित्यर्थः ।
अतिरोहितार्थमन्यत् ॥९॥
१,३.३.१०
अक्षरमम्बरान्तधृतेः । ब्रह्मसूत्र १,३.१० ।
अक्षरमम्बरान्तधृतेः ।
अक्षरशब्दः समुदायप्रसिद्ध्या वर्णेषु रूढः ।
परमात्मनि चावयवप्रसिद्ध्या यौगिकः ।
अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसीति वर्णा एवाक्षरम् ।
नच वर्णेष्वाकाशस्योतत्वप्रोतत्वे नोपपद्येते, सर्वस्यैव रूपधेयस्यनामधेयात्मकत्वात् ।
सर्वं हि रूपधेयं नामधेयसम्भिन्नमनुभूयते, गौरयं वृक्षोऽयमिति ।
न चोपायत्वात्तत्सम्भेदसम्भवः ।
नहि धूमोपाया वह्निधीर्धूमसम्भिन्नं वह्निमवगाहते धूमोऽयं वह्निरिति, किन्तु वैयधिकरण्येन धूमाद्विह्निरिति ।
भवति तु नामधेयसम्भिन्नो रूपधेयप्रत्ययो डित्थोऽयमिति ।
अपिच शब्दानुपायेऽपि रूपधेयप्रत्यये लिङ्गेन्द्रियजन्मनि नामसम्भेदो दृष्टः ।
तस्मान्नामसम्भिन्ना पृथिव्यादयोऽम्बरान्ता नाम्ना ग्रतिताश्च विद्धाश्च, नामानि च ओङ्कारात्मकानि तद्व्याप्तत्वात् ।
ऽतद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्ऽइति श्रुतेः ।
अत ओङ्कारात्मकाः पृथिव्यादयोऽम्बरान्ता इति वर्णा एवाक्षरं न परमात्मेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेअक्षरं परमात्मैव, न तु वर्णाः ।
कुतः ।
अम्बरान्तधृतेः ।
न खल्वम्बरान्तानि पृथिव्यादीनि वर्णा धारयितुमर्हन्ति, किन्तु परमात्मैव ।
तेषां परमात्मविकारत्वात् ।
नच नामधेयात्मकं रूपधेयमिति युक्तं, स्वरूपभेदात्, उपायभेदात्, अर्थक्रियाभेद ।
तथाहिशब्दत्वसामान्यात्मकानि श्रोत्रग्राह्याण्यभिधेयप्रत्ययार्थक्रियाणि नामधेयान्यनुभूयन्ते ।
रूपधेयानि तु घटपटादीनि घटत्वपटत्वादिसामान्यात्मकानि चक्षुरादीन्द्रियाग्राह्याणि मधुधारणप्रावरणाद्यर्थक्रियाणि च भेदेनानुभूयन्ते इति
कुतो नामसम्भेदः ।
नच डित्थोऽयमिति शब्दसामानाधिकरण्यप्रत्ययः ।
न खलु शब्दात्मकोऽयं पिण्ड इत्यनुभवः, किन्तु यो नानादेशकालसम्प्लुतः पिण्डः सोऽयं सन्निहितदेशकाल इत्यर्थः ।
सञ्ज्ञा तु गृहीतसम्बन्धैरत्यन्ताभ्यासात्पिण्डाभिनिवेशिन्येव संस्कारोद्बोधसम्पातायाता स्मर्यते ।
यथाहुःऽयत्सञ्ज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन्सञ्ज्ञां स्मारयितुं क्षमः ॥१॥
सञ्ज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
सञ्ज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥२॥
ऽ
इति ।
नच वर्णातिरिक्ते स्फोटात्मनि अलौकिकेऽक्षरपदप्रसिद्धिरस्ति लोके ।
न चैष प्रामाणिक इत्युपरिष्टात्प्रवेदयिष्यते ।
निवेदितं चास्माभिस्तत्त्वबिन्दौ ।
तस्माच्छ्रोत्रग्राह्याणां वर्णानामम्बरान्तधृतेरनुपपत्तेः समुदायप्रसिद्धिबाधनावयवप्रसिद्ध्या परमात्मैवाक्षरमिति सिद्धम् ।
ये तु प्रधानं पूर्वपक्षयित्वानेन सूत्रेण परमात्मैवाक्षरमिति सिद्धान्तयन्ति तैरम्बरान्तरधृतेरित्यनेन कथं प्रधानं निराक्रियत इति वाच्यम् ।
अथ नाधिकरणत्वमात्रं धृतिः अपि तु प्रशासनाधिकरणता ।
तथा च श्रुतिःऽएतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽइति ।
तथाप्यम्बरान्तधृतेरित्यनर्थकम् ।
एतावद्वक्तव्यमक्षरं प्रशासनादिति ।
एतावतैव प्रधाननिराकरणसिद्धेः ।
तस्माद्वर्णाक्षरतानिराक्रियैवास्यार्थः ।
नच स्थूलादीनां वर्णेष्वप्राप्तेरस्थूलमित्यादिनिषेधानुपपत्तेर्वर्णेषु शङ्कैव नास्तीति वाच्यम् ।
नह्यवश्यं प्राप्तिपूर्वका एव प्रतिषेधा भवन्ति, अप्राप्तेष्वपि नित्यानुवादानां दर्शनात् ।
यथा नान्तरिक्षे न दिवीत्यग्निचयननिषेधानुवादः ।
तस्मात्यत्किञ्चिदेतत् ॥१०॥
१,३.३.११
सा च प्रशासनात् । ब्रह्मसूत्र १,३.११ ।
सा च प्रशासनात् ।
प्रशासनमाज्ञा चेतनधर्मो नाचेतने प्रधाने वाव्याकृते वा सम्भवति ।
नच मुख्यार्थसम्भवे कूलं पिपतिषतीतिवद्भाक्तत्वमुचितमिति भावः ॥११॥
१,३.३.१२
अन्यभावव्यावृत्तेश्च । ब्रह्मसूत्र १,३.१२ ।
अन्यभावव्यावृत्तेश्च ।
अम्बरान्तविधरणस्याक्षरस्येश्वरागद्यदन्यद्वर्णा वा प्रधानं वाव्याकृतं वा तेषामन्येषां भावोऽन्यभावस्तमत्यन्तं व्यावर्तयति श्रुतिःऽतद्वा
एतदक्षरं गार्गिऽइत्यादिका ।
अनेनैव सूत्रेण जीवस्याप्यक्षरता निषिद्धेत्यत आहतथेति ।
ऽनान्यत्ऽइत्यादिकया हि श्रुत्यात्मभेदः प्रतिषिध्यते ।
तथा चोपाधिभेदाद्भिन्ना जीवा निषिद्धा भवन्त्यभेदाभिधानादित्यर्थः ।
इतोऽपि न शारीरस्याक्षरशब्दतेत्याहअचक्षुष्कमिति ।
अक्षरस्य चक्षुराद्युपाधिं वारयन्ती श्रुतिरौपाधिकस्य जीवस्याक्षरतां निषेधतीत्यर्थः ।
तस्माद्वर्णप्रधानाव्याकृतजीवानामसम्भवात्, सम्भवाच्च परमात्मनः, परमात्मैवाक्षरमिति सिद्धम् ॥१२॥
१,३.४.१३
ईक्षतिकर्मव्यपदेशात्सः । ब्रह्मसूत्र १,३.१३ ।
ईक्षतिकर्मव्यपदेशात्सः ।
ऽकार्यब्रह्मजनप्राप्तिफलत्वादर्थभेदतः ।
दर्शनध्यानयोर्ध्येयमपरं ब्रह्म गम्यते ॥
ऽऽब्रह्म वेद ब्रह्मैव भवतिऽइति श्रुतेः सर्वगतपरब्रह्मवेदने तद्भावापत्तौऽस सामभिरुन्नीयते ब्रह्मलोकमिति न देशविशेषप्राप्तिरुपपद्यते ।
तस्मादपरमेव ब्रह्मेह ध्येयत्वेन चोद्यते ।
न चेक्षणस्य लोके तत्त्वविषयत्वेन प्रसिद्धेः परस्यैव ब्रह्मणस्तथाभावात्, ध्यायतेश्च तेन समानविषयत्वात्, परब्रह्मविषयमेव ध्यानमिति साम्प्रतम्,
समानविषयत्वस्यैवासिद्धेः ।
परो हि पुरुषो ध्यानविषयः,
परात्परस्तु दर्शनविषयः ।
नच तत्त्वविषयमेव सर्वं दर्शनं, अनृतविषयस्यापि तस्य दर्शनात् ।
नच मननं दर्शनं, तच्च तत्त्वविषयमेवेति साम्प्रतम् ।
मननाद्भेदेन तत्र तत्र दर्शनस्य निर्देशात् ।
नच मननमपि तर्कापरनामावश्यं तत्त्वविषयम् ।
यथाहुःऽतर्कोऽप्रतिष्ठःऽइति ।
तस्मादपरमेव ब्रह्मेह ध्येयम् ।
तस्य च परत्वं शरीरापेक्षयेति ।
एवं प्राप्त उच्यतेऽईक्षणध्यानयोरेकःकार्यकारणभूतयोः ।
अर्थ औत्सर्गिकं तत्त्वविषयत्वं यथेक्षतेः ॥
ऽध्यानस्य हि साक्षात्कारः फलम् ।
साक्षात्कारश्चोत्सर्गतस्तत्त्वविषयः ।
क्वचित्तु बाधकोपनिपाते समारोपितगोचरो भवेत् ।
न चासत्यपवादे शक्य उत्सर्गस्त्यक्तुम् ।
तथा चास्य तत्त्वविषयत्वात्तत्कारणस्य ध्यानस्यापि तत्त्वविषयत्वम् ।
अपिच वाक्यशेषेणैकवाक्यत्वसम्भवे न वाक्यभेदो युज्यते ।
सम्भवति च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात्समभिव्याहाराच्चैकवाक्यता ।
तदनुरोधेन च परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् ।
तस्मात्तु परः पुरुषो ध्यातव्यश्च द्रष्टव्यश्च भवति ।
तदिदमुक्तम्न चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते ।
किन्तु जीवघनात्परात्परो यो ध्यातव्यो द्रष्टव्यश्च तमेव कथयितुं जीवघनो जीवः ।
खिल्यभावमुपाधिवशादापन्नः स उच्यते ।
ऽस सामभिरुन्नीयते ब्रह्मलोकम्ऽइत्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा जीवघनः ।
स हि समस्तकरणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवासभूमितया करणपरिवृतानां जीवानां सङ्घात इति भवति जीवघनः ।
तदेवं त्रिमात्रोङ्कारायतनं परमेव ब्रह्मोपास्यम् ।
अत एव चास्य देशविशेषाधिगतिः फलमुपाधिमत्त्वात्, क्रमेण च सम्यग्दर्शनोत्पत्तौ मुक्तिः ।
ऽब्रह्म वेद ब्रह्मैव भवतिऽइति तु निरुपाधिब्रह्मवेदनविषया श्रुतिः ।
अपरं तु ब्रह्मैकैकमात्रायतनमुपास्यमिति मन्तव्यम् ॥१३॥
१,३.५.१४
दहर उत्तरेभ्यः । ब्रह्मसूत्र १,३.१४ ।
दहर उत्तरेभ्यः ।
ऽअथ यदिदमस्मिन् ब्रह्मपुरे दहरम्ऽसूक्ष्मं गुहाप्रायं पुण्डरीकसन्निवेशं
वेश्मऽदहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्ऽआगमाचार्योपदेशाभ्यां श्रवणं च, तदविरोधिना तर्केण मननं च, तदन्वेषणम् ।
तत्पूर्वकेण चादरनैरन्तर्यदीर्घकालासेवितेन ध्यानाभ्यासपरिपाकेन साक्षात्कारो विज्ञानम् ।
विशिष्टं हि तज्ज्ञानं पूर्वभ्यः ।
तदिच्छा विजिज्ञासनम् ।
अत्र संशयमाहतत्रेति ।
तत्र प्रथमं तावदेवं संशयःकिं दहराकाशादन्यदेव किञ्चिदन्वेष्टव्यं विजिज्ञासितव्यं च उत दहराकाश इति ।
यदापि दहराकाशोऽन्वेष्टव्यस्तदापि किं भूताकाश आहो शारीर आत्मा किं वा परमात्मेति ।
संशयहेतुं पृच्छतिकुत इति ।
तद्धेतुमाहआकाशब्रह्मपुरशब्दाभ्यामिति ।
तत्र प्रथमं तावद्भूताकाश एव दहर इति पूर्वपक्षयतितत्राकाशशब्दस्य भूताकाशे रूढत्वादिति ।
एष तु बहुतरोत्तरसन्दर्भविरोधात्तुच्छः पूर्वपक्ष इत्यपरितोषेण पक्षान्तरमालम्बते पूर्वपक्षीअथवा जीवो दहर इति प्राप्तम् ।
युक्तमित्यर्थः ।
तत्रऽआधेयत्वाद्विशेषाच्च पुरं जीवस्य युज्यते ।
देहो न ब्रह्मणो युक्तो हेतुद्वयवियोगतः ॥
ऽअसाधारण्येन हि व्यपदेशता भवन्ति ।
तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माप्यङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति ।
नतु क्षित्यादिभिः, तेषां कार्यान्तरेष्वपि साधारण्यात् ।
तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम्,
ब्रह्मणः सर्वविकारकारणत्वेनातिसाधारण्यात् ।
जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तम् ।
अपिच ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन सम्बद्धव्यम् ।
नच ब्रह्मणः स्वे महिम्नि व्यवस्थितस्यानाधेयस्याधारसम्बन्धः कल्पते ।
जीवस्त्वाराग्रमात्र इत्याधेयो भवति ।
तस्माद्ब्रह्मशब्दो रूढिं परित्यज्य देहादिबृंहणतया जीवे यौगिके वा भाक्तो वा व्याख्येयः ।
चैतन्यं च भक्तिः ।
उपाधानानुपधाने तु विशेषः ।
वाच्यत्वं गम्यत्वम् ।
स्यादेतत् ।
जीवस्य पुरं भवतु शरीरं, पुण्डरीकदहरगोचरता त्वन्यस्य भविष्यति, वत्सराजस्य पुर इवोज्जयिन्यां मैत्रस्य सज्ञ्मेत्यत आहतत्र पुरस्वामिन इति ।
अयमर्थःवेश्म खल्वधिकरणमनिर्दिष्ठाधेयमाधेयविशेषापेक्षायां पुरस्वामिनः प्रकृतत्वात्तेनैवाधेयेन सम्बद्धं सदनपेक्षं नाधेयान्तरेण सम्बन्धं
कल्पयति ।
ननु तथापि शरीरमेवास्य भोगायतनमिति को हृदयपुण्डरीकस्य विशेषो यत्तदेवास्य सज्ञ्मेत्यत आहमनौपाधिकश्च जीव इति ।
ननु मनोऽपि चलतया सकलदेहवृत्ति पर्यायेणेत्यत आहमनश्च प्रायेणेति ।
आकाशशब्दश्चारूपत्वादिना सामान्येन जीवे भाक्तः ।
अस्तु वा भूताकाश एवायमाकाशशब्दोऽदहरोऽस्मिन्नन्तराकाशःऽइति, तथाप्यदोष इत्याहन चात्र दहरस्याकाशस्यान्वेष्यत्वमिति ।
एवं प्राप्त उच्यतेभूताकाशस्य तावन्न दहरत्वं,ऽयावन्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशःऽइत्युपमानविरोधात् ।
तथाहिऽतेन तस्योपमेयत्वं रामरावणयुद्धवत् ।
अगत्या भेदमारोप्य गतौ सत्यां न युज्यते ॥
ऽअस्ति तु दहराकाशस्य ब्रह्मत्वेन भूताकाशाद्भेदेनोपमानस्य गतिः ।
न चानवच्छिन्नपरिमाणमवच्छिन्नं भवति ।
तथा सत्यवच्छेदानुपपत्तेः ।
न भूताकाशमानत्वं ब्रह्मणोऽत्र विधीयते, येनऽज्यायानाकाशवत्ऽइति श्रुतिविरोधः स्यात्, अपि तु भूताकाशोपमानेन पुण्डरीकोपाधिप्राप्तं
दहरत्वं निवर्त्यते ।
अपिच सर्व एवोत्तरे हेतवो दहराकाशस्य भूताकाशत्वं व्यासेधन्तीत्याहनच कल्पितभेद इति ।
नापि दहराकाशो जीव इत्याहयद्यप्यात्मशब्द इति ।
ऽउपलब्धेरधिष्ठानं ब्रह्मणो देह इष्यते ।
तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत् ॥
ऽदेहे हि ब्रह्मोपलभ्यत इत्यसाधारणतया देहो ब्रह्मपुरमिति व्यपदिश्यते, न तु ब्रह्मविकारतया ।
तथाच ब्रह्मशब्दार्थो मुख्यो भवति ।
अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य पुरे उज्जयिन्यां मैत्रस्य सज्ञ्म भवति, एवं जीवस्य पुरे हृत्पुण्डरीकं ब्रह्मसदनं भविष्यति,
उत्तरेभ्यो ब्रह्मलिङ्गेभ्यो ब्रह्मणोऽवधारणात् ।
ब्रह्मणो हि बाधके प्रमाणे बलीयसि जीवस्य च साधके प्रमाणे सति ब्रह्मलिङ्गानि कथञ्चिदभेदविवक्षया जीवे व्याख्यायन्ते ।
न चेह ब्रह्मणो बाधकं प्रमाणं, साधकं वास्ति जीवस्य ।
ब्रह्मपुरव्यपदेशश्चोपपादितो ब्रह्मोपलब्धिस्थानतया ।
अर्भकौकस्त्वं चोक्तम् ।
तस्मात्सति सम्भवे ब्रह्मणि, तल्लिङ्गानां नाब्रह्मणि व्याख्यानमुचितमिति ब्रह्मैव दहराकाशो न जीवभूताकाशाविति ।
श्रवणमननमनुविद्य ब्रह्मानुभूय चरणं चारस्तेषां कामेषु चरणं भवतीत्यर्थः ।
स्यादेतत् ।
दहराकाशस्यान्वेष्यत्वे सिद्धे तत्र विचारो युज्यते, नतु तदन्वेष्टव्यम्, अपितु तदाधारमन्यदेव किञ्चिदित्युक्तमित्यनुभाषतेयदप्येतदिति ।
अनुभाषितं दूषयतिअत्र ब्रूम इति ।
यद्याकाशाधारमन्यदन्येष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयं, आकाशव्युत्पादनं तु क्वोपयुज्यत इत्यर्थः ।
चोदयतिनन्वेतदपीति ।
आकाशकथनमपि तदन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव ।
अथाकाशपरमेव कस्मान्न भवतीत्यत आहतं चेद्ब्रूयरिति ।
आचार्येण हिऽदहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्ऽइत्युपदिष्टेऽन्तेवासिनाक्षिप्तम्ऽकिं तदत्र विद्यते
यदन्वेष्टव्यम्ऽ ।
पुण्डरीकमेव तावत्सूक्ष्मतरं, तदवरुद्धमाकाशं सूक्ष्मतमम् ।
तस्मिन्सूक्ष्मतमे किमपरमस्ति ।
नास्त्येवेत्यर्थः ।
तत्किमन्वेष्टव्यमिति ।
तदस्मिन्नाक्षेपे परिसमाप्ते समाधानावसर आचार्यस्याकाशोपमानोपक्रमं वचःऽउभे अस्मिन्द्यावापृथिवी समाहितेऽइति ।
तस्मात्पुण्डरीकावरुद्धाकाशाश्रये द्यावापृथिव्यावेवान्वेष्टव्ये उपदिष्टे, नाकाश इत्यर्थः ।
परिहरतिनैतदेवम् ।
एवं हीति ।
स्यादेतत् ।
एवमेवैतत् ।
नो खल्वभ्युपगमा एव दोषत्वेन चोद्यन्त इत्यत आहतत्र वाक्यशेष इति ।
वाक्यशेषो हि दहराकाशात्मवेदनस्य फलवत्त्वं ब्रूते, यच्च फलवत्तत्कर्तव्यतया चोद्यते, यच्च कर्तव्यं तदिच्छितीतिऽतदन्वेष्टव्यं तद्वाव
विजिज्ञासितव्यम्ऽइति तद्दहराकाशविषयमवतिष्ठते ।
स्यादेतत् ।
द्यावापृथिव्यावेवात्मानौ भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते, आकाशशब्दवत् ।
ततश्चाकाशाधारौ तावेव परामृश्यते इत्यत आहअस्मिन्कामाः समाहिताःप्रतिष्ठिताः ।
एष आत्मापहतपाप्मेति ।
अनेनप्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ।
द्यावापृथिव्यभिधानव्यवहितमपीति शेषः ।
ननु सत्यकामज्ञानस्यैतत्फलं, तदनन्तरं निर्देशात्, न तु दहराकाशवेदनस्येत्यत आहसमुच्चयार्थेन चशब्देनेति ।
ऽअस्मिन्कामाःऽइति चऽएषःऽइति चैकवचनान्तं न द्वे द्यावापृथिव्यौ पराम्नष्टुमर्हतीति दहराकाश एव पराम्रष्टव्य इति समुदायार्थः ।
तदनेन क्रमेणऽतस्मिन्यदन्तःऽइत्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलङ्घ्य हृत्पुण्डरीकं परामृशतत्युक्तं भवति ।
तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थः ॥१४॥
१,३.५.१५
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ब्रह्मसूत्र १,३.१५ ।
गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।
उत्तरेभ्य इत्यस्य प्रपञ्चः एतमेव दहराकाशं प्रक्रम्य बताहो कष्टमिदं वर्तते जन्तूनां तत्त्वावबोधविकलानां, यदेभिः स्वाधीनमपि ब्रह्म न प्राप्यते ।
तद्यथा चिरन्तननिरूढनिबिडमलपिहितानां कलधौतशकलानां पथि पतितानामुपर्यपरि सञ्चरद्भिरपि
पान्थैर्धनायद्भिर्ग्रावख्ण्डनिवहविभ्रमेणैतानि नोपादियन्त इत्यभिसन्धिमती साद्भुतमिव सखेदमिव श्रुतः प्रवर्ततेऽइमाः सर्वाः प्रजा
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तिऽइति ।
स्वापकाले हि सर्व एवायं विद्वानविद्वांश्च जीवलोको हृत्पुण्डरीकाश्रयं दहराकाशाख्यं ब्रह्मलोकं प्राप्तोऽप्यनाद्यविद्यातमः पटलपिहितदृष्टितया
ब्रह्मभूयमापन्नोऽहमस्मीति न वेद ।
सोऽयं ब्रह्मलोकशब्दस्तद्गतिश्च प्रत्यहं जीवलोकस्य दहराकाशस्यैव ब्रह्मरूपलोकतामाहतुः ।
तदेतदाह भाष्यकारःितश्च परमेश्वर एव दहरो यस्माद्दहरवाक्यशेष इति ।
तदनेन गतिशब्दौ व्याख्यातौ ।
ऽतथाहि दृष्टम्ऽइति सूत्रावयवं व्याचष्टेतथाह्यहरहर्जीवानामिति ।
वेदे च लोके च दृष्टम् ।
यद्यपि सुषुप्तस्य ब्रह्मभावे लौकिकं न प्रमाणान्तरमस्ति, तथापि वैदिकीमेव प्रसिद्धिं स्थापयितुमुच्यते, ईदृशी नामेयं वैदिकी
प्रसिद्धिर्यल्लोकेऽपि गीयत इति ।
यथा श्रुत्यन्तरे यथा च लोके तथेह ब्रह्मलोकशब्दोऽपीति योजना ।
ऽलिङ्गं चऽइति सूत्रावयवव्याख्यानं चोद्यमुखेनावतारयतिननु कमलासनलोकमपीति ।
परिहरतिगमयेद्यदि ब्रह्मणो लोक इति ।
अत्र तावन्निषादस्थपतिन्यायेन षष्ठीसमासात्कर्मधारयो बलीयानिति स्थितमेव, तथापीह षष्ठिसमासनिराकरणेन कर्मधारयसमासस्थापनाय
लिङ्गमप्यधिकमस्तीति तदप्युक्तं सूत्रकारेण ।
तथाहिलोकवेदप्रसिद्धाहरहर्ब्रह्मलोकप्राप्त्यभिधानमेव लिङ्गं कमलासनलोकप्राप्तेर्विपक्षादसम्भवाद्व्यावर्तमानं षष्ठीसमासाशङ्कां
व्यावर्तयद्दहराकाशप्राप्तावेवावतिष्ठते, नच दहराकाशो ब्रह्मणो लोकः किन्तु तद्ब्रह्मेति ब्रह्म च तल्लोकश्चेति कर्मधारयः सिद्धो भवति ।
लोक्यत इति लोकः ।
हृत्पुण्डरीकस्थः खल्वयं लोक्यते ।
यत्खलु पुण्डरीकस्थमन्तःकरणं तस्मिन्विशुद्धे प्रत्याहृतेतरकरणानां योगिनां निर्मल इवोदके चन्द्रमसो बिम्बमतिस्वच्छं चैतन्यं ज्योतिःस्वरूपं
ब्रह्मावलोक्यत इति ॥१५॥
१,३.५.१६
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः । ब्रह्मसूत्र १,३.१६ ।
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।
सौत्रो धृतिशब्दो भाववचनः ।
धृतेश्च परमेश्वर एव दहराकाशः ।
कुतः, अस्य धारणलक्षणस्य महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूपलब्धेः ।
निगदव्याख्यानमस्य भाष्यम् ॥१६॥
१,३.५.१७
प्रसिद्धेश्च । ब्रह्मसूत्र १,३.१७ ।
प्रसिद्धेश्च ।
न चेयमाकाशशब्दस्य ब्रह्मणि लक्ष्यमाणविभुत्वादिगुणयोगाद्वृत्तिः साम्प्रतिकी, यथा रथाङ्गनामा चक्रवाक इति लक्षणा,
किन्त्वत्यन्तनिरूढेति सूत्रार्थः ।
ये त्वाकाशशब्दो ब्रह्मण्यपि मुख्य एव नभोवदित्याचक्षते, तैःऽअन्यायश्चानेकार्थत्वम्ऽइति चऽअनन्यलभ्यः शब्दार्थःऽइति च मीमांसकानां
मुद्राभेदः ।
कृतः ।
लभ्यते ह्याकाशशब्दाद्विभुत्वादिगुणयोगेनापि ब्रह्म ।
नच ब्रह्मण्येव मुख्यो नभसि तु तेनैव गुणयोगेन वर्त्स्यतीति वाच्यम् ।
लोकाधीनावधारणत्वेन शब्दार्थसम्बन्धस्य वैदिकपदार्थप्रत्ययस्य तत्पूर्वकत्वात् ।
ननुऽयावन्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःऽइति व्यतिरेकनिर्देशान्न लक्षणा युक्ता ।
नहि भवति गङ्गायाः कूलमिति विवक्षिते गङ्गाया गङ्गेति प्रयोगः तत्किमिदानींऽपौर्णमास्यां पौर्णमास्या
यजेतऽऽअमावस्यायाममावास्ययाऽइत्यसाधुर्वैदिकः प्रयोगः ।
नच पौर्णमास्यामावास्याशब्दावग्नेयादिषु मुख्यौ ।
यच्चोक्तंयत्र शब्दार्थप्रतीतिस्तत्र लक्षणाऽयत्र पुनरन्यार्थे निश्चिते शब्दाप्रयोगस्तत्र वाचकत्वमेवेति, तदयुक्तम् ।
उभयस्यापि व्यभिचारात् ।
ऽसोमेन यजेतऽइति शब्दादर्थः प्रतीयते ।
न चात्र कस्यचिल्लाक्षणिकत्वमृते वाक्यार्थात् ।
नचऽय एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्याम्ऽइत्यत्र पौर्णमास्यमावास्याशब्दौ न लाक्षणिकौ ।
तस्माद्यत्किञ्चिदेतदिति ॥१७॥
१,३.५.१८
इतरपरामर्शात्स इति चेन्नासम्भवात् । ब्रह्मसूत्र १,३.१८ ।
इतरपरामर्शात्स इति चेन्नासम्भवात् ।
सम्यक्प्रसीदत्यस्मिन् जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषुप्तिः सम्प्रसादो जीवस्यावस्थाभेदः न ब्रह्मणः तथा
शरीरात्समुत्थानमपि शरीराश्रयस्य जीवस्य, नत्वनाश्रयस्य ब्रह्मणः ।
तस्माद्यथा पूर्वोक्तैर्वाक्यशेषगतैर्लिङ्गैर्ब्रह्मावगम्यते दहाराकाशः, एवं वाक्यशेषगताभ्यामेव सम्प्रसादसमुत्थानाभ्यां दहराकाशो जीवः
कस्मान्नावगम्यते ।
तस्मान्नास्ति विनिगमनेति शङ्कार्थः ।
ऽनासम्भवात्ऽ ।
सम्प्रसादसमुत्थनाभ्यां हि जीवपरामर्शो न जीवपरः, किन्तु तदीयतात्त्विकरूपब्रह्मभावपरः ।
तथा चैष परामर्शो ब्रह्मण एवेति न सम्प्रसादसमुत्थाने जीवलिङ्गम्, अपि तु ब्रह्मण एव तादर्थ्यादित्यग्रे वक्ष्यते ।
आकाशोपमानादयस्तु ब्रह्माव्यभिचारिणश्च ब्रह्मपराश्चेत्यस्ति विनिगमनेत्यर्थः ॥१८॥
१,३.५.१९
उत्तराच्चेदाविर्भूतस्वरूपस्तु । ब्रह्मसूत्र १,३.१९ ।
उत्तराच्चेदाविर्भूतस्वरूपस्तु ।
दहराकाशमेव प्रकृत्योपाख्यायतेयमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्, तमात्मानं विविदिषन्तौ सुरासुरराजविन्द्रविरोचनौ
समित्पाणी प्रजापतिं वरिवसितुमाजग्मतुः ।
आगत्य च द्वात्रिंशतं वर्षाणि तत्परिचरणपरौ ब्रह्मचर्यमूषतुः ।
अथैतौ प्रजापतिरुवाच, किङ्कामाविहस्थौ युवामिति ।
तावूचतुः, य आत्मापहतपाप्मा तमावां विविदिषाव इति ।
ततः प्रजापतिरुवाच, य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मापहतपाप्मत्वादिगुणः, यद्विज्ञानात्सर्वलोककामावाप्तिः ।
एतदमतृतमभयम् ।
अथैतच्छुत्वैतावप्रक्षीणकल्मषावरणतया छायापुरुषं जगृहतुः ।
प्रजापतिं च पप्रच्छतुः, अथ योऽयं भगवोऽप्सु दृश्यते, यश्चादर्शे, यश्च स्वङ्गादौ कतम एतेष्वसौ अतवैक एव सर्वेष्विति ।
तमेतयोः श्रुत्वा प्रश्नं प्रजापतिर्बताहो सुदूरमुद्भ्रान्तावेतौ, अस्माभिरक्षिस्थान आत्मोपदिष्टः, एतौ च छायापुरुषं प्रतिपन्नौ, तद्यदि वयं भ्रान्तौ स्थ
इति ब्रूमस्ततः स्वात्मनि समारोपितपाण्डित्यबहुमानौ विमानितौ सन्तौ दौर्मनस्येन यथावदुपदेशं न गृह्णीयाताम्, इत्यनयोराशयमनुरुध्य यथार्थं
ग्राहयिष्याम इत्यभिसन्धिमान्प्रत्युवाच, उदशराव आत्मानमवेक्षेथामस्मिन्यत्पश्यथस्तद्ब्रूतमिति ।
तौ च दृष्ट्वा सन्तुष्टहृदयौ नाब्रूताम् ।
अथ प्रजापितिरेतौ विपरीतग्राहिणौ मा भूतामित्याशयवान्पप्रच्छ, किमत्रापश्यतामिति ।
तौ होचतुः, यथैवावमतिचिरब्रह्मचर्यचरणसमुपजातायतनखलोमादिमन्तावेवमावयोः प्रतिरूपकं नखलोमादिमदुदशरावेऽपश्यावेति ।
पुनरेतयोश्छायात्मविभ्रममपनिनीषुर्यथैव हि छायापुरुष उपजनापायधर्माभेदेनावगम्यमान आत्मलक्षणविरहान्नात्मैवेवमेवेदं शरीरं नात्मा,
किन्तु ततो भिन्नमित्यन्वयव्यतिरेकाभ्यामेतौ जानीयातामित्याशयवान् प्रजापतिरुवाच, साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा पुनरुदशरावे
पश्यतमाक्मानं, यच्चात्र पश्यथस्तद्ब्रूतमिति ।
तौ च साध्वलङ्कृतौ सुवसनौ छिन्ननखलोमानौ भूत्वा तथैव चक्रतुः ।
पुनश्च प्रजापतिनापृष्टौ तामेव छायामात्मानमूचतुः ।
तदुपश्रुत्य प्रजापतिरहो बताद्यापि न प्रशान्त एनयोर्विभ्रमः, तद्यथाभिमतमेवात्मतत्त्वं कथयामि तावत् ।
कालेन कल्मषे क्षीणेऽस्मद्वचनसन्दर्भपौर्वापर्यलोचनयात्मतत्त्वं प्रतिपत्स्येते स्वयमेवेति मत्वोवाच, एष आत्मैतदमृतमभयमेतद्ब्रह्मेति ।
तयोर्विरोचनो देहानुपातित्वाच्छायाया देह एवात्मतत्त्वमिति मत्वा निजसदनमागत्य तथैवासुरानुपदिदेश ।
देवेन्द्रस्त्वप्राप्तनिजसदनोऽध्वन्येव किञ्चिद्वरलकल्मषतया छायात्मनि शरीरगुणदोषानुविधायिनि तं तं दोषं परिभावयन्नाहमत्र छायात्मदर्शने
भोग्यं पश्यामीति प्रजापतिसमीपं समित्पाणिः पुनरेवेवायमागतश्च प्रजापतिनागमनकारणं पृष्टः पथि परिभावितं जगाद ।
प्रजापतिस्तु सुव्याख्यातमप्यात्मतत्त्वमक्षीणकल्मषावरणतया नाग्रहीः, तत्पुनरपि तत्प्रक्षयाया चरापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यं, अथ
प्रक्षीणकल्मषाय ते अहमेतमेवात्मानं भूयोऽनुव्याख्यास्यामीत्यवोचत् ।
स च तथा चरितब्रह्मचर्यः सुरेन्द्रः प्रजापतिमुपससाद ।
उपपन्नाय चास्मै प्रजापतिर्व्यचष्टे, य आत्मापहतपाप्मादिलक्षणोऽक्षण दर्शितः सोऽयं य एष स्वप्ने महीयमानो वनितादिभिरनेकधा
स्वप्नोपभोगान् भुञ्जानो विरहतीति ।
अस्मिन्नपि देवेन्द्रो भयं ददर्श ।
यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शोकभयादिविविधबाधानुभवान्न तत्राप्यस्ति स्वस्तिप्राप्तिरित्युक्तवति मधवति
पुनरपराणि चर द्वात्रिंशतं वर्षाणि स्वच्छं ब्रह्मचर्यमिदानीमप्यक्षीणकल्मषोऽसीत्यूचे प्रजापतिः ।
अथास्मिन्नेवङ्कारमुपसन्ने मधवति प्रजापतिरुवाच, य एष आत्मापहतपाप्मादिगुणो दर्शितोऽक्षिणि च स्वप्ने च स एष यो
विषयेन्द्रियसंयोगविरहात्प्रसन्नः सुषुप्तावस्थायामिति ।
अत्रापि नेन्द्रो निर्ववार ।
यथा हि जाग्रद्वा स्वप्नगतो वायमहमस्मीति इमानि भूतामनि चेति विजानाति नैवं सुषुप्तः किञ्चिदपि वेदयते, तदा खल्वयमचेतयमानोऽभावं
प्राप्त इव भवति ।
तदिह का निर्वृत्तिरिति ।
एव मुक्तवति मधवति बताद्यापि न ते कल्मषक्षयोऽभूत् ।
तत्पुनरपराणि चर पञ्च वर्षाणि ब्रह्मचर्यमित्यवोचत्प्रजापतिः ।
तदेवमस्य मधोनस्त्रिभिः पर्यायैर्व्यतीयुः षण्णवतिवर्षाणि ।
चतुर्थे च पर्याये पञ्च वर्षाणीत्येकोत्तरं शतं वर्षाणि ब्रह्मचर्यं चरतः
स्
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4850”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4851”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4852”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4853”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4854”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a4855”},
अहस्राक्षस्य सम्पेदिरे ।
अथास्मै ब्रह्मचर्यसम्पदुन्मृदितकल्मषाय मधवते य एषोऽक्षिणि यश्च स्वप्ने यश्च सुषुप्ते अनुस्यूत एष आत्मापहतपाप्मादिगुणको दर्शितः,
तमेवऽमधवन्मर्त्यं वै शरीरम्ऽइत्यादिना विस्पष्टं व्याचष्टे प्रजापतिः ।
अयमस्याभिसन्धिःयावत्किञ्चित्सुखं दुःखमागमापायि तत्सर्वं शरीरेन्द्रियान्तःकरणसम्बन्धि, न त्वात्मनः ।
स पुनरेतानेव शरीरादीननाद्यविद्यावासनावशादात्मत्वेनाभिप्रतीतस्तद्गतेन सुखदुःखेन तद्वन्तमात्मानमभिमन्यमानोऽनुतप्यते ।
यदा त्वयमपहतपाप्मत्वादिलक्षणमुदासीनमात्मानं देहादिभ्यो विविक्तमनुभवति, अथास्य शरीरवतोऽप्यशरीरस्य न
देहादिधर्मसुखदुःखप्रसङ्गोऽस्तीति नानुतप्यते, केवलमयं निचे चैतन्यानन्दघने रूपे व्यवस्थितः समस्तलोककामान् प्राप्तो भवति ।
एतस्यैव हि परमानन्दस्य मात्राः सर्वे कामाः ।
दुःखं त्वविद्यानिर्माणमिति न विद्वानाप्नोति ।
ऽअशीलितोपनिषदां व्यामोह इह जायते ।
तेषामनुग्रहायेदमुपाख्यानमवर्तयम् ॥
ऽएवं व्यवस्थित उत्तराद्वाक्यसन्दर्भात्प्राजापत्यातक्षिणि च स्वप्ने सुषुप्ते च चतुर्थो च पर्यायेऽएष सम्प्रसादोऽस्माच्छरीरात्समुत्थायऽइति
जीवात्मैवोपहतपाप्मादिगुणः श्रुत्योच्यते ।
नो खलु परस्याक्षिस्थानं सम्भवति ।
नापि स्वप्नाद्यवस्थायोगः ।
नापि शरीरात्समुत्थानम् ।
तस्माद्यस्यैतत्सर्वं सोऽपहतपाप्मादिगुणः श्रुत्योक्तः ।
जीवस्य चैतत्सर्वमिति स एवापहतपाप्मादिगुणः श्रुत्योक्त इति नापहतपाप्मादिभिः परं ब्रह्म गम्यते ।
ननु जीवस्यापहतपाप्मत्वादयो न सम्भवन्तीत्युक्तम् ।
वचनाद्भविष्यति ।
किमिव वचनं न कुर्यात् ।
नास्ति वचनस्यातिभारः ।
नच मानान्तरविरोधः ।
नहि जीवः पाप्मादिस्वभावः, किन्तु वाग्बुद्धिशरीरारम्भसम्भवोऽस्य पाप्मादिः शरीराद्यभावे न भवति धूम इव धूमध्वजाभाव इति शङ्कार्थः ।
निराकरोतितं प्रति ब्रूयाताविर्भूतस्वरूपस्तु ।
अयमभिसन्धिःपौर्वापर्यालोचनया तावदुपनिषदां शुद्धबुद्धमुक्तमेकमप्रपञ्चं ब्रह्म तदतिरिक्तं च सर्वं तद्विवर्तो रज्जोरिव भुजङ्ग इत्यत्र
तात्पर्यमवगम्यते ।
तथाच जीवोऽप्यविद्याकल्पितदेहेन्द्रियाद्युपहितं रूपं ब्रह्मणो न तु स्वाभाविकः ।
एवं च नापहतपाप्मत्वादयस्तस्मिन्नविद्योपाधौ सम्भविनः ।
आविर्भूतब्रह्मरूपे तु निरुपाधौ सम्भवन्तो ब्रह्मण एव न जीवस्य ।
एवं च ब्रह्मैवापहतापाप्मादिगुणं श्रुत्युक्तमिति तदेव दहराकाशो न जीव इति ।
स्यादेतत् ।
स्वरूपाविर्भावे चेद्ब्रह्मैव न जीवः, तर्हि विप्रतिषिद्धमिदमभिधीयते जीव आविर्भूतस्वरूप इति, अत आहभूतपूर्वगत्येति ।
उदशरावब्राह्मणेनेति ।
यथैव हि मधोनः प्रतिबिम्बान्युदशरव उपजनापायधर्मकाण्यात्मलक्षणविरहान्नात्मा, एवं देहेन्द्रियाद्यप्युपजनापायधर्मकं
नात्मेत्युदशरावदृष्टान्तेन शरीरात्मताया व्युत्थानं बाध इति ।
चोदयतिकथं पुनः स्वं च रूपमिति ।
द्रव्यान्तरसंसृष्टं हि तेनाभिभूतं तस्माद्विविच्यमानं व्यज्यते हेमतारकादि ।
कूटस्थनित्यस्य पुनरन्येनासंसृष्टस्य कुतो विवेचनादभिव्यक्तिः ।
नच संसारावस्थायां जीवोऽनभिव्यक्तः ।
दृष्ट्यादयो ह्यस्य स्वरूपं, ते च संसारावस्थायां भासन्त इति कथं जीवरूपं न भासत इत्यर्थः ।
परिहरतिप्राग्विवेकज्ञानोत्पत्तेरिति ।
अयमर्थःयद्यप्यस्य कूटस्थनित्यस्यान्यसंसर्गो न वस्तुतोऽस्ति, यद्यपि च संसारावस्थायामस्य दृष्ट्यादिरूपं चकास्ति,
तथाप्यनिर्वाच्यानाद्यविद्यावशादविद्याकल्पितैरेव देहेन्द्रियादिभिरसंसृष्टमपि संसृष्टमिव विविक्तमप्यविविक्तमिव दृष्ट्यादिरूपमस्य प्रथते ।
तथाच देहेन्द्रियादिगतैस्तापादिभिस्तापादिमदिव भवतीति ।
उपपादितं चैतद्विस्तरेणाध्यासभाष्य इति नेहोपपाद्यते ।
यद्यपि स्फटिकादयो जपाकुसुमादिसन्निहिताः, सन्निधानं च संयुक्तसंयोगात्मकं, तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुसुमसंयोगिन
इत्येतावता दृष्टान्तिता इति ।
वेदना हर्षभयशोकादयः ।
दार्ष्टान्तिके योजयतितथा देहादीति ।
ऽसम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेऽइत्येतद्विभजतेश्रुतिकृतं विवेकविज्ञानमिति ।
तदनेन श्रवणमननध्यानाभ्यासाद्विवेकविज्ञानमुक्त्वा तस्य विवेकविज्ञानस्य फलं केवलात्मरूपसाक्षात्कारः स्वरूपेणाभिनिष्पत्तिः, स च
साक्षात्कारो वृत्तिरूपः प्रपञ्चमात्रं प्रविलापयन् स्वयमपि प्रपञ्चरूपत्वात्कतकफलवत्प्रविलीयते ।
तथाच निर्मृष्टनिखिलप्रपञ्चजालमनुपसर्गमपराधीनप्रकाशमात्मज्योतिः सिद्धं भवति ।
तदिदमुक्तम्परं ज्योतिरुपसम्पद्येति ।
अत्र चोपसम्पत्तावुत्तरकालायामपि क्त्वाप्रयोगो मुखं व्यादाय स्वपितीतीवन्मन्तव्यः ।
यदा च विवेकसाक्षात्कारः शरीरात्समुत्थानं, न तु शरीरापादानकं गमनम्, तदा तत्सशरीरस्यापि सम्भवति प्रारब्धकार्यकर्मक्षयस्य
पुरस्तादित्याहतथा विवेकाविवेकमात्रेणेति ।
न केवलंऽस योह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽइत्यादिश्रुतिभ्यो जीवस्य परमात्मनोऽभेदः, प्राजापत्यवाक्यसन्दर्भपर्यालोचनयप्येवमेव
प्रतिपत्तव्यमित्याहकुतश्चैतदेवं प्रतिपत्तव्यमिति ।
स्यादेतत् ।
प्रतिच्छायात्मवज्जीवं परमात्मनो वस्तुतो भिन्नमप्यमृताभयात्मत्वेन ग्राहयित्वा पश्चात्परमात्मानमृताभयादिमन्तं प्रजापतिर्ग्राह्यति, न त्वयं
जीवस्य परमात्मभावमाचष्टे छायात्मन इवेत्यत आहनापि प्रतिच्छायात्मायमक्षिलक्षित इति ।
अक्षिलक्षितोऽप्यात्मैवोपदिश्यते न छायात्मा ।
तस्मादसिद्धो दृष्टान्त इत्यर्थः ।
किञ्च द्वितीयादिष्वपि पर्यायेषुऽएतं त्वेव ते भूयोऽनुव्याख्यायस्यामिऽइत्युपक्रमात्प्रथमपर्यायनिर्दिष्टो न छायापुरुषः, अपि तु ततोऽन्यो
दृष्टात्मेति दर्शयति, अन्यथा प्रजापतेः प्रतारकत्वप्रसङ्गादित्यत आहतथा द्वितीयेऽपीति ।
अथ छायापुरुष एव जीवः कस्मान्न भवति ।
तथाच छायापुरुष एवैतमिति परामृश्यत इत्यत आहकिञ्चाहमद्य स्वप्ने हस्तिनमिति ।
किञ्चेति समुच्चयाभिधानं पूर्वोपपत्तिसाहित्यं ब्रूते, तच्च शङ्कानिराकरणद्वारेण ।
छायापुरुषोऽस्थायी, स्थायी चायमात्मा चकास्ति, प्रत्यभिज्ञानादित्यर्थः ।
नहि खल्वयमेवमिति ।
अयं सुषुप्तः ।
सम्प्रति सुषुप्तावस्थायाम् ।
अहमात्मानमहङ्कारास्पदमात्मानम् ।
न जानाति ।
केन प्रकारेण न जानातीत्यत आहअयमहमस्मीमानि भूतानि चेति ।
यथा जागृतौ स्वप्ने चेति ।
ऽनहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्ऽइत्यनेनाविनाशित्वं सिद्धवद्धेतुकुर्वता सुप्तोत्थितस्यात्मप्रत्यभिज्ञानमुक्तम्, य एवाहं
जागरित्वा सुप्तः स एवैतर्हि जागर्मीति ।
आचार्यदेशीयमतमाहकेचित्त्विति ।
यदि ह्येतमित्यनेनानन्तरोक्तं चक्षुरधिष्ठानं पुरुषं परामृश्य तस्यात्मत्वमुच्येत ततो न भवेच्छायापुरुषः ।
न त्वेतदस्ति ।
वाक्योपक्रमसूचितस्य परात्मनः परामर्शात् ।
न खलु जीवात्मनोऽपहतपाप्मत्वादिगुणसम्भव इत्यर्थः ।
तदेतद्दूषयतितेषामेतमिति ।
सुबोधम् ।
मतान्तरमाहअपरेतु वादिन इति ।
यदि न जीवः ।
कर्ता भोक्ता च वस्तुतो भवेत्, ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् ।
सूत्रकारवचनं चऽनासम्भवात्ऽइति कुप्येत ।
तत्खलु ब्रह्मणो गुणानां जीवेऽसम्भवमाह ।
न चाभेदे ब्रह्मणो जीवानां ब्रह्मगुणानामसम्भवो जीवेष्विति तेषामभिप्रायः ।
तेषां वादिनां शारीरकेणैवोत्तरं दत्तम् ।
तथाहिपौर्वापर्यपर्यालोचनया वेदान्तानामेकमद्वयमात्मतत्त्वं, जीवास्त्वविद्योपधानकल्पिता इत्यत्र तात्पर्यमवगम्यते ।
नच वस्तुसतो ब्रह्मणो गुणाः समारोपितेषु जीवेषु सम्भवन्ति ।
नो खलु वस्तुसत्या रज्ज्वा धर्माः सेव्यत्वादयः समारोपिते भुजङ्गे सम्भविनः ।
नच समारोपितो भुजङ्गो रज्ज्वा भिन्नः ।
तस्मान्न सूत्रव्याकोपः ।
अविद्याकल्पितं च कर्तृत्वभोक्तृत्वं यथालोकसिद्धमुपाश्रित्य कर्मविधयः प्रवृत्ताः, श्येनादिविधय इव निषिद्धेऽपिऽन हिंस्यात्सर्वा भूतानिऽ
इति साध्यांशेऽभिचारेऽतिक्रान्तनिषेधं पुरुषमाश्रित्याविद्यावत्पुरुषाश्रयत्वाच्छास्त्रस्येत्युक्तम् ।
तदिदमाहतेषां सर्वेषामिति ॥१९॥
१,३.५.२०
ननु ब्रह्मचेदत्र वक्तव्यं कृतं जीवपरामर्शेनेत्युक्तमित्यत आह
अन्यार्थश्च परामर्शः । ब्रह्मसूत्र १,३.२० ।
अन्यार्थश्च परामर्शः ।
जीवस्योपाधिकल्पितस्य ब्रह्मभाव उपदेष्टव्यः, न चासौ जीवमपरामृश्य शक्य उपदेष्टुमिति तिसृष्ववस्थासु जीवः परामृष्टः ।
तद्भावप्रविलयनं तस्य पारमार्थिकं ब्रह्मभावं दर्शयितुमित्यर्थः ॥२०॥
१,३.५.२१
अल्पश्रुतेरिति चेत्तदुक्तम् । ब्रह्मसूत्र १,३.२१ ।
अल्पश्रुतेरिति चेत्तदुक्तम् ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥२१॥
१,३.६.२२
अनुकृतेस्तस्य च । ब्रह्मसूत्र १,३.२२ ।
अनुकृतेस्तस्य च ।
ऽअभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः ।
तेजोधात्वन्तरं तस्मादनुकाराच्च गम्यते ॥
ऽबलीयसा हि सौरेण तेजसा मन्दं तेजश्चन्द्रतारकाद्यभिभूयमानं दृष्टं, न तु तेजसोऽन्येन ।
येऽपि पिधायकाः प्रदीपस्य गृहघटादयो न ते स्वभासा प्रदीपं भासयितुमीशते ।
श्रूयते चऽतस्य भासा सर्वमिदं विभातिऽइति ।
सर्वशब्दः प्रकृतसूर्याद्यपेक्षः ।
न चातुल्यरूपेऽनुभानमित्यनुकारः सम्भवति ।
नहि गावो वराहमनुधावन्तीति कृष्णविहङ्गानुधावनमुपपद्यते गवाम्, अपि तु तादृशसूकरानुधावनम् ।
तस्माद्यद्यपिऽयस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम्ऽइति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामर्थ्यलक्षणेन लिङ्गेन प्रकरणबाधया
तेजोधातुरवगम्यते, न तु ब्रह्म, लिङ्गानुपपत्तेः ।
तत्र तं तस्येति च सर्वनामपदानि प्रदर्शनीयमेवावम्रक्ष्यन्ति ।
नच तच्छब्दः पूर्वोक्तपरामर्शीति नियमः समस्ति ।
नहिऽतेन रक्तं रागात्ऽऽतस्यापत्यम्ऽइत्यादौ पूर्वोक्तं किञ्चिदस्ति ।
तस्मात्प्रमाणान्तराप्रतीतमपि तेजोऽन्तरमलौकिकं शब्दादुपास्यत्वेन गम्यत इति प्राप्ते उच्यतेऽब्रह्मण्येव हि तल्लिङ्गं न तु तेजस्यलौकिके ।
तस्मान्न तदुपास्यत्वे ब्रह्म ज्ञेयं तु गम्यते ॥
ऽऽतमेव भान्तत्ऽइत्यत्र किमलौकिकं तेजः कल्पयित्वा सूर्यादीनामनुभानमुपपद्यताम्, किंवाऽभारूपः सत्यसङ्कल्पःऽइति श्रुत्यन्तरप्रसिद्धेन
ब्रह्मणो भानेन सूर्यादीनां भानमुपपाद्यतामिति विशये न श्रुतसम्भवेऽश्रुतस्य कल्पना युज्यत इत्यप्रसिद्धं नालौकिकमुपास्यं तेजो युज्यते, अपि तु
श्रुतिप्रसिद्धं ब्रह्मैव ज्ञेयमिति ।
तदेतदाहप्राज्ञ एवात्मा भवितुमर्हति ।
विरोधमाहसमत्वाच्चेति ।
ननु स्वप्रतिभाने सूर्यादयश्चाक्षुषं तेजोऽपेक्षन्ते ।
न ह्यन्धेनैते दृश्यन्ते ।
तथा तदेव चाक्षुषं तेजो बाह्यसौर्यादितेजःाप्यायितं रूपादि प्रकाशयति नानाप्यायितम्, अन्धकारेऽपि रूपदर्शनप्रसङ्गादित्यत आहयं
भान्तमनुभायुरिति ।
नहि तेजोन्तरस्य तेजोऽन्तरापेक्षां व्यासेधामः, किन्तु तद्भानमनुभानम् ।
नच लोचनभानमनुभान्ति सूर्यादयः ।
तदिदमुक्तम्नहि प्रदीप इति ।
पूर्वपक्षमनुभाष्य व्यभिचारमाहयदप्युक्तमिति ।
एतदुक्तं भवतियदि स्वरूपसाम्याभावमभिप्रेत्यानुकारो निराक्रियते, तदा व्यभाचिरः ।
अथ क्रियासाम्याभावं, सोऽसिद्धः ।
अस्ति हि वायुरजसोः स्वरूपविसदृशयोरपि नियतदिग्देशवहनक्रियासाम्यम् ।
वन्ह्ययः पिण्डयोस्तु यद्यपि दहनक्रिया न भिद्यते तथापि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासादृश्यं व्याख्येयम् ।
तदेवमनुकृतेरिति विभज्य तस्य चेति सूत्रावयवं विभजतेतस्य चेति चतुर्थमिति ।
ज्योतिषां सूर्यादीनां ब्रह्म ज्योतिःप्रकाशकमित्यर्थः ।
तेजोऽन्तरेणानिन्द्रियभावमापन्नेन सूर्यादितेजो विभातीत्यप्रसिद्धम् ।
सर्वशब्दस्य हि स्वरसतो निःशेषाभिधानं वृत्तिः ।
सा तेजेधातावलौकिके रूपमात्रप्रकाशके सङ्कुचेत् ।
ब्रह्मणि तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः सङ्कुचतीतितत्रशब्दमाहरन्निति ।
सर्वत्र खल्वयं तत्रशब्दः पूर्वोक्तपरामर्शी ।
ऽतेन रक्तं रागात्ऽइत्यादावपि प्रकृतेः परस्मिन्प्रत्ययेर्ऽथभेदेऽन्वाख्यायमाने प्रातिपदिकप्रत्यर्थस्य पूर्ववृत्तत्वमस्तीति तेनेति तत्परामर्शान्न
व्यभाचिरः ।
तथाच सर्वनामश्रुतिरेव ब्रह्मोपस्थापयति ।
तेन भवतु नाम प्रकरणाल्लिङ्गं बलीयः, श्रुतिस्तु लिङ्गाद्बलीयसीति श्रौतमिह ब्रह्मैव गम्यत इति ।
अपि चापेक्षितानपेक्षिताभाधानयोरपेक्षिताभिधानं युक्तं, दृष्टार्थत्वादित्याहअनन्तरं च हिरण्मये परे कोश इति ।
अस्मिन्वाक्ये ज्योतिषां ज्योतिरित्युक्तं, तत्र कथं तत्ज्योतिषां ज्योतिरित्यपेक्षायामितदमुपतिष्ठतेन तत्र सूर्य इति ।
स्वातन्त्र्येण तूच्यमानेऽनपेक्षितं स्याददृष्टार्थमिति ।
ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पत इति ।
अयमभिप्रायःऽन तत्र सूर्यो भातिऽइति नेयं सतिसप्तमी, यतः सूर्यादीनां तस्मिन् सत्यभिभवः प्रतीयेत ।
अपि तु विषयसप्तमी ।
तेन न तत्र ब्रह्मणि प्रकाशयितव्ये सूर्यादयः प्रकाशकतया भान्ति, किन्तु ब्रह्मैव सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति ।
तच्च स्वयम्प्रकाशम्,अगृह्यो नहि गृह्यत इत्यादिश्रुतिभ्य इति ॥२२॥
१,३.६.२३
अपि च स्मर्यते । ब्रह्मसूत्र १,३.२३ ।
अपि च स्मर्यते ।
न तद्भासयत इतिब्रह्मणोऽग्राह्यत्वमुक्तम् ।
यदादित्यगतमित्यनेन तस्यैव ग्राहकत्वमुक्तमिति ॥२३॥
१,३.७.२४
शब्दादेव प्रमितः । ब्रह्मसूत्र १,३.२४ ।
शब्दादेव प्रमितः ।
ऽनाञ्जसा मानभेदोऽस्ति परस्मिन्मानवर्जिते ।
भूतभव्येशिता जीवे नाञ्जसी तेन संशयः ॥
ऽकिमङ्गुष्ठमात्रश्रुत्यनुग्रहाय जीवोपासनापरमेतद्वाक्यमस्तु, तदनुरोधेन चेशानश्रुतिः कथञ्चिद्वायाख्यायताम्, आहोस्विदीशानश्रुत्यनुग्रहाय
ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथञ्चिन्नीयताम् ।
तत्रान्यतरस्यान्यतरानुरोधविषये प्रथमानुरोधो न्याय्य इत्यङ्गुष्ठश्रुत्यनुरोधेनेशानश्रुतिर्नेतव्या ।
अपिच युक्तं हृत्पुण्डरीकदहरस्थानत्वं परमात्मानः, स्थानभेदनिर्देशात् ।
तद्धि तस्योपलब्धिस्थानं, शालग्राम इव कमलनाभस्य भगवतः ।
नच तथेहाङ्गुष्ठमात्रश्रुत्या स्थानभेदो निर्दिष्टः परिमाणमात्रनिर्देशात् ।
नचऽमध्य आत्मनिऽइत्यत्र स्थानभेदोऽवगम्यते ।
आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मवचनो वा स्यात् ।
तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य च भवितुरनिर्देशान्न ज्ञायते कस्य मध्य इति ।
नच जीवपरयोरस्ति मध्यमञ्जसेति नैष स्थाननिर्देशो विस्पष्टः ।
स्पष्टस्तु परिमाणनिर्देशः ।
परिमाणभेदश्च परस्मिन्न सम्भवतीति जीवात्मैवाङ्गुष्ठमात्रः ।
स खल्वन्तःकरणाद्युपाधिकल्पितो भागः परमात्मनः ।
अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानं, हृत्कमलकोशश्च मनुष्याणामङ्गुष्ठमात्र इति तदवच्छिन्नो जीवात्माप्यङ्गुष्ठमात्रः, नभ इव
वंशपर्वावच्छिन्नमरत्रिमात्रम् ।
अपि च जीवात्मनः स्पष्टमङ्गुष्ठमात्रत्वं स्मर्यतेऽअङ्गुष्ठमात्रं पुरुषं निशिचकर्ष यमो बलात्ऽइति ।
नहि सर्वेशस्य ब्रह्मणो यमेन बलान्निष्कर्षः कल्पते ।
यमो हि जगौऽहरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुःऽइति ।
तेनाङ्गुष्ठमात्रत्वस्य जीवे निश्छयादापेक्षिकं किञ्चिद्भूतभव्यं प्रति जीवस्येशानत्वं व्याख्येयम् ।
ऽ एतद्वै तत्ऽइति च प्रत्यक्षजीवरूपं परामृशति ।
तस्माज्जीवात्मैवात्रोपास्य इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेऽप्रश्नोत्तरत्वादीशानश्रवणस्याविशेषतः ।
जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः ॥
ऽइह हि भूतभव्यमात्रं प्रति निरङ्कुशमीशानत्वं प्रतीयते ।
प्राक्पृष्टं चात्र ब्रह्मऽअन्यत्र धर्मादन्यत्राधर्मात्ऽइत्यादिना ।
तदनन्तरस्य सन्दर्भस्य तत्प्रतिवचनतोचितेतिऽएतद्वै तत्ऽइति ब्रह्माभिधानं युक्तम् ।
तथा चाङ्गुष्ठमात्रतया यद्यपि जीवेऽवगम्यते तथापि न तत्परमेतद्वाक्यं, किन्त्वङ्गुष्ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम् ।
एवं निरङ्कुशमीशानत्वं न सङ्कोचयितव्यम् ।
नच ब्रह्मप्रश्नोत्तरता हातव्या ।
तेन यथाऽतत्त्वमसिऽइति विज्ञानात्मनस्त्वम्पदार्थस्य तदिति परमात्मनैकत्वं प्रतिपाद्यते, तथेहाप्यङ्गुष्ठपरिमितस्य विज्ञानात्मन ईशानश्रुत्या
ब्रह्मभावः प्रतिपाद्य इति युक्तम् ॥२४॥
१,३.७.२५
हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ब्रह्मसूत्र १,३.२५ ।
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।
सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्येतिजीवाभिप्रायम् ।
न चान्यः परमात्मान इह ग्रहणमर्हतीति न जीवपरमेतद्वाक्यमित्यर्थः ।
मनुष्यानेवेति ।
त्रैवर्णिकानेव ।
अर्थित्वादिति ।
अन्तःसञ्ज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधतिशक्तत्वादिति तिर्यग्देवर्षीणामशक्तानामधिकारं निवर्तयति ।
उपनयनादिशास्त्राच्चेतिशूद्राणामनधिकारितां दर्शयति ।
यदप्युक्तं परिमाणोपदेशात्स्मृतेश्चेति ।
यद्येतत्परमात्मपरं किमिति तर्हि जीव इहोच्यते ।
ननु परमात्मैवोच्यताम् ।
उच्यते च जीवः, तस्माज्जीवपरमेवेति भावः ।
परिहरतितत्प्रत्युच्यत इति ।
जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम्, नच तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥२५॥
१,३.८.२६
तदुपर्यपि बादरायणः सम्भवात् । ब्रह्मसूत्र १,३.२६ ।
तदुपर्यपि बादरायणः सम्भवात् ।
देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वयलक्षणेऽसङ्गतेत्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं प्रसङ्गमाहअङ्गुष्ठमात्रश्रुतिरिति ।
स्यादेतत् ।
देवादीनां विविधविचित्रानन्दभोगभोगिनां वैराग्याभावान्नार्थित्वं ब्रह्मविद्यायामित्यत आहतत्रार्थित्वं तावन्मोक्षविषयमिति ।
क्षयातिशययोग्यस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः ।
ननु देवादीनां विग्रहाद्यभावेन्द्रियार्थसन्निकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्वत्तया सामर्थ्याभावेन नाधिकार इत्यत आहतदा सामर्थ्यमिति
तेषामिति ।
यथा च मन्त्रादिभ्यस्तदवगमस्तथोपरिष्टादुपपादयिष्यते ।
ननु शूद्रवदुपनयनासम्भवेनाध्ययनाभावात्तेषामनधिकार इत्यत आहन चोपनयनशास्त्रेणेति ।
न खलु विधिवत्गुरुमुखाद्गृह्यमाणो वेदः फलवत्कर्मब्रह्मावबोधहेतुः, अपि त्वध्ययनोत्तरकालं
निगमनिरुक्तव्याकरणादिविदितपदतर्थसङ्गतेरधिगतशाब्दन्यायतत्त्वस्य पुंसः स्मर्यमाणः ।
स च मनुष्याणामिह जन्मनीव देवदीनां प्राचि भवे विधिवधीत आम्नाय इह जन्मनि स्मर्यमाणः ।
अत एव स्वयं प्रतिभातो वेदः सम्भवतीत्यर्थः ।
नच कर्मानधिकारे ब्रह्मविद्यानधिकारो भवतीत्याहयदपि कर्मस्वनधिकारकारणमुक्तमिति ।
वस्वादीनां हि न वस्वाद्यान्तरमस्ति ।
नापि भृग्वादीनां भृग्वाद्यन्तरमस्ति ।
प्राचां वसुभृगुप्रभृतीनां क्षीणाधिकारत्वेनेदानीं देवर्षित्वाभावादित्यर्थः ॥२६॥
१,३.८.२७
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । ब्रह्मसूत्र १,३.२७ ।
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।
मन्त्रादिपदसमन्वयात्प्रतीयमानोर्ऽथः प्रमाणान्तराविरोधे सत्युपेयः न तु विरोधे ।
प्रमाणान्तरविरुद्धं चेदं विग्रहवत्त्वादि देवतायाः ।
तस्मात्ऽयजमानः प्रस्तरःऽइत्यादिवदुपचरितार्थो मन्त्रादिर्व्याख्येयः ।
तथाच विग्रहाद्यभावाच्छब्दोपहितार्थोर्ऽथोपहितो वा शब्दो देवतेत्यचेतनत्वान्न तस्याः क्वचिदप्यधिकार इति शङ्कार्थः ।
निराकरोतिन ।
कस्मात् ।
अनेकरूपप्रतिपत्तेः ।
सैव कुत इत्यत आहदर्शनात्श्रुतिषु स्मृतिषु च ।
तथाहिएकस्यानेककायनिर्माणमदर्शनाद्वा न युज्यते, बाधदर्शनाद्वा ।
तत्रादर्शनमसिद्धं, श्रुतिस्मृतिभ्यां दर्शनात् ।
नहि लौकिकेन प्रमाणेनादृष्टत्वादागमेन दृष्टमदृष्टं भवति, मा भूद्यागादीनामपि स्वर्गादिसाधनत्वमदृष्टमिति मनुष्यशरीरस्य
मातापितृसंयोगजत्वनियमादसति पित्रोः संयोगे कुतः सम्भवः, सम्भवे वानग्नितोऽपि धूमः स्यादिति बाधदर्शनमिति चेत् ।
हन्त किं शरीरत्वेन हेतुना देवादिशरीरमपि मातापितृसंयोगजं सिषाधयिषसि ।
तथा चानेकान्तो हेत्वाभासः, स्वेदजोद्भिज्जानां शरीराणामतद्भेतुत्वात् ।
इच्छामात्रनिर्माणत्वं देहादीनामदृष्टचरमिति चेत्, न ।
भूतोपादानत्वेनेच्छामात्रनिर्माणत्वासिद्धेः ।
भूतवशिनां हि देवादीनां नानाकायचिकीर्षावशाद्भूतक्रियोत्पत्तौ भूतानां परस्परसंयोगेन नानाकायमसुत्पादात् ।
दृष्टा च वशिन इच्छावशाद्वश्ये क्रिया, यथा विषविद्याविद इच्छामात्रेण विषशकलप्रेरणम् ।
नच विषविद्याविदो दर्शनेनाधिष्ठानदर्शनाद्व्यवहितविप्रकृष्टभूतादर्शनाद्देवादीनां कथमधिष्ठानमिति वाच्यम् ।
काचाभ्रपटलपिहितस्य विप्रकृष्टस्य च भौमशनैश्चरादेर्दर्शनेन व्यभाचिरात् ।
असक्ताश्च दृष्टयो देवादीनां काचाभ्रपटलादिवन्महीमहीधरादिभिर्न व्यवधीयन्ते ।
न चास्मदादिवत्तेषां शरीरित्वेन व्यवहिताविप्रकृष्टादिदर्शनासम्भवोऽनुमीयत इति वाच्यम्, आगमविरोधिनोऽनुमानस्योत्पादायोगात् ।
अन्तर्धानं चाञ्जनादिना मनुजानामिव तेषां प्रभवतामुपपद्यते, तेन सन्निहितानामपि न क्रतुदेशे दर्शनं भविष्यति ।
तस्मात्सूक्तमनेकप्रतिपत्तेरितितथाहि कति देवा इत्युपक्रम्येति ।
वैश्वदेवशस्त्रस्य हि निविदिऽकति देवाःऽइत्युपक्रम्य निविदैवोत्तरं दत्तं शाकल्याय याज्ञवल्क्येनत्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
विविन्नाम शस्यमानदेवतासङ्ख्यावाचकानि मन्त्रपदानि ।
एतदुक्तं भवतिवैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रसङ्ख्याता इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरंऽत्रयश्च त्री च शताऽइत्यादि ।
यावत्सङ्ख्याका वैश्वदेवनिविदि सङ्ख्याता देवास्त एतावन्त इति ।
पुनश्च शाकल्येनऽकतमे तेऽइति सङ्ख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरम्महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रयस्त्रिंशद्देवाः ।
तत्राग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः ।
एते हि प्राणिनां कर्मफलाश्रयेण कार्यकारणसङ्घातरूपेण परिणमन्तो जगदिदं सर्वं वासयन्ति, तस्माद्वसवः ।
कतमे रुद्रा इति दशेमे पुरुषे प्राणाः बुद्धिकर्मेन्द्रियाणि दश, एकादशं च मन इति ।
तदेतानि प्राणः, तद्वृत्तित्वात् ।
ते हि प्रायणकाल उत्क्रामन्तः पुरुषं रोदयन्तीति रुद्राः ।
कतम आदित्या इति द्वादशमासाः संवत्सरस्यावयवाः पुनः पुनः परुवर्तमानाः प्राणभृतामायूंषि च कर्मफलोपभोगं चादापयन्तीत्यादित्याः ।
अशनिरिन्द्रः, सा हि बलं, सा हीन्द्रस्य परमा ईशता, तया हि सर्वान्प्राणिनः प्रमापयति, तेन स्तनयित्नुरशनिरिन्द्रः ।
यज्ञः प्रजापितिरिति, यज्ञसाधनं च यज्ञरूपं च पशवः प्रजापतिः ।
एत एव त्रयस्त्रिंशद्देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यादिवां महिमानो न ततो भिद्यन्ते ।
षडेव तु देवाः ।
ते तु षडग्निं पृथिवीं चैकीकृत्यान्तरिक्षं वायुं चैकीकृत्य दिवं चादित्यं चैकीकृत्य त्रयो लोकास्त्रय एव देवा भवन्ति ।
एत एव च त्रयोऽन्नप्राणयोरन्तर्भवन्तोऽन्नप्राणौ द्वौ देवौ भवतः ।
तावप्यध्यर्धो देव एकः ।
कतमोऽध्यर्धः, योऽयं वायुः पवते ।
कथमयमेक एवाध्यर्धः, यदस्मिन्सति सर्वमिदमध्यर्धं वृद्धिं प्राप्नोति तेनाध्यर्ध इति ।
कतम एक इति, स एवाध्यर्धः प्राण एको ब्रह्म ।
सर्वदेवात्मत्वेन बृहत्त्वाद्ब्रह्म तदेव स्यादित्याचक्षते परोक्षाभिधायकेन शब्देन ।
तस्मादेकस्यैव देवस्य महिमवशाद्युगपदनेकदेवरूपतामाह श्रुतिः ।
स्मृतिश्च निगव्याख्याता ।
अपि च पृथग्जनानामप्युपायानुष्ठानवशात्प्राप्ताणिमद्यैश्वर्याणां युगपन्नानाकायनिर्माणं श्रूयते, तत्र कैव कथा देवानां
स्वभावसिद्धानामित्याहप्राप्ताणिमाद्यैश्वर्याणां योगिनामिति ।
अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायितेत्यैश्वर्याणि ।
अपरा व्याख्येति ।
अनेकत्र कर्मणि युगपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दर्शनात् ।
तदेव परिस्फुटं दर्शयितुं व्यतिरेकं तावदाहक्वचिदेक इति ।
न खलु बहुषु श्राद्धेष्वेको ब्राह्मणो युगपदङ्गभावं गन्तुमर्हति ।
एकस्यानेकत्र युगपदङ्गभावमाहक्वचिच्चैक इति ।
यथैकं ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रियते बहुभिस्तथा स्वस्थानस्थितामेकां देवतामुद्दिश्य
बहुभिर्यजमानैर्नानादेशावस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च तत्रासन्निहिताया अप्यङ्गभावो भवति ।
अस्ति हि तस्या युगपद्विप्रकृष्टानेकार्थोपलम्भसामर्थ्यमित्युपपादितम् ॥२७॥
१,३.८.२८
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् । ब्रह्मसूत्र १,३.२८ ।
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ।
गोत्वादिवत्पूर्वावमर्शाभावादुपाधेरप्येकस्याप्रतीतेः पाचकादिवदाकाशदिशब्दवद्व्यक्तिवचना एव वस्वादिशब्दाः तस्याश्च नित्यत्वात्तया सह
सम्बन्धो नित्यो भवेत् ।
विग्रहादियोगे तु सावयवत्वेन वस्वादीनामनित्यत्वात्ततः पूर्वं वस्वादिशब्दो न स्वार्थेन सम्बद्ध आसीत्, स्वार्थस्यैवाभावात् ।
ततश्चोत्पन्ने वस्वादौ वस्वादिशब्दसम्बन्धः प्रादुर्भवन्देवदत्तादिशब्दसम्बन्धवत्पुरुषबुद्धिप्रभव इति तत्पूर्वको वाक्यार्थप्रत्ययोऽपि पुरुषबुद्ध्यधीनः
स्यात् ।
पुरुषबुद्धिश्च मानान्तराधीनजन्मेति मानान्तरापेक्षया प्रामाण्यं वेदस्य व्याहन्येतेति शङ्कार्थः ।
उत्तरम्न ।
अतः प्रभवात् ।
वसुत्वादिजातिवाचकाच्छब्दात्तज्जातीयां व्यक्तिं चिकीर्षितां बुद्धिवासिख्य तस्याः प्रभवनम् ।
तदिदं तत्प्रभवत्वम् ।
एतदुक्तं भवतियद्यपि न शब्द उपादानकारणं वस्वादीनां ब्रह्मोपादानत्वात्, तथापि निमित्तकारणमुक्तेन क्रमेण ।
न चैतावता शब्दार्थसम्बन्धस्यानित्यत्वं, वस्वादिजातेर्वा तदुपाधेर्वा यया कयाचिदाकृत्यावच्छिन्नस्य नित्यत्वादिति ।
इममेवार्तमाक्षेपसमाधानाभ्यां विभजतेननु जन्माद्यस्य यत इति ।
ते निगदव्याख्याते ।
तत्किमिदानीं स्वयम्भुवा वाङ्निर्मिता कालिदासादिभिरिव कुमारसम्भवादि, तथाच तदेव प्रमाणान्तरापेक्षवाक्यत्वादप्रामाण्यमापतितमित्यत
आहौत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मक इति ।
सम्प्रदायो गुरुशिष्यपरम्परयाध्ययनम् ।
एतदुक्तं भवतिस्वयम्भुवो वेदकर्तृत्वेऽपि न कालिदासादिवत्स्वतन्त्रत्वमपि तु पूर्वसृष्ट्यनुसारेण ।
एतच्चास्माभिरुपपादितम् ।
उपपादयिष्यति चाग्रे भाष्यकारः ।
अपि चाद्यत्वेऽप्येतद्दृश्यते ।
तद्दर्शनात्प्राचामपि कर्तॄणां तथाभावोऽनुमीयत इत्याहअपिच चिकीर्षितमिति ।
आक्षिपतिकिमात्मकं पुनरिति ।
अयमभिसन्धिःवाचकशब्दप्रभवत्वं हि देवानामभ्युपेतव्यं, अवाचकेन तेषां बुद्धावनालेखनात् ।
तत्र न तावद्वस्वादीनां वकारादयो वर्णा वाचकाः, तेषां प्रत्युच्चारणमन्यत्वेनाशक्यसङ्गतिग्रहत्वात्,
अगृहीतसङ्गतेश्च वाचकत्वेऽतिप्रसङ्गात् ।
अपि चैते प्रत्येकं वा वाक्यार्थमभिदधीरन्मिलिता वा ।
न तावत्प्रत्येकम्, एकवर्णोच्चारणानन्तरमर्थप्रत्ययादर्शनात्, वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाच्च ।
नाप मिलिताः, तेषामेकवक्तृप्रयुज्यमानानां रूपतो व्यक्तितो वा प्रतिक्षणमपवर्गिणां मिथः साहित्यसम्भवाभावात् ।
नच प्रत्येकसमुदायाभ्यामन्यः प्रकारः सम्भवति ।
नच स्वरूपसाहित्याभावेऽपि वर्णानामाग्नेयादीनामिव संस्कारद्वारकमस्ति साहित्यमिति साम्प्रतं, विकल्पासहत्वात् ।
को नु खल्वयं संस्कारोऽभिमतः, किमपूर्वमाग्नेयादिजन्यमिव, किंवा भावनापरनामा स्मृतिप्रसवबीजम् ।
न तावत्प्रथमः कल्पः ।
नहि शब्दः स्वरूपतोऽङ्गतो वाविदितोऽविदितसङ्गतिरर्थधीहेतुरिन्द्रियवत् ।
उच्चरितस्य बधिरेणागृहीतस्य गृहीतस्य वागृहीतसङ्गतेरप्रत्यायकत्वात् ।
तस्माद्विदितो विदितसङ्गतिर्विदितसमस्तज्ञापनाङ्गश्च शब्दो धूमादिवत्प्रत्यायकोऽभ्युपेयः ।
तथाचापूर्वाभिधानोऽस्य संस्कारः प्रत्यायनाङ्गमित्यर्थप्रत्ययात्प्राग्वगन्तव्यः ।
नच तदा तस्यावगमोपायोऽस्ति ।
अर्थप्रत्ययात्तु तदवगमं समर्थयमानो दुरुत्तरमितरेतराश्रयमाविशति, संस्कारावसायादर्थप्रत्ययः, ततश्च तदवसाय इति ।
भावनाभिधानस्तु संस्कारः स्मृतिप्रसवसामर्थ्यमात्मनः ।
नच तदेवार्थप्रत्ययप्रसवसामर्थ्यमपि भवितुमर्हति ।
नापि तस्यैव सामर्थ्यस्य सामर्थ्यान्तरम् ।
नहि यैव वह्नेर्दहनशक्तिः सैव तस्य प्रकाशनशक्तिः ।
नापि दहनशक्तेः प्रकाशनशक्तिः अपिच व्युत्क्रमेणोच्चरितेभ्यो वर्णेभ्यः सैवास्ति स्मृतिबीजं वासनेत्यर्थप्रत्ययः प्रसज्येत ।
न चास्ति ।
तस्मान्न कथञ्चिदपि वर्णा अर्थवीहेतवः ।
नापि तदतिरिक्तः स्फोटात्मा ।
तस्यानुभवानारोहात् ।
अर्थधियस्तु कार्यात्तदवगमे परस्पराश्रयप्रसङ्ग इत्युक्तप्रायम् ।
सत्तामात्रेण तु तस्य नित्यस्यार्थधीहेतुभावे सर्वदार्थप्रत्ययोत्पादप्रसङ्गः, निरपेक्षस्य हेतोः सदातनत्वात् ।
तस्माद्वाचकाच्छब्दाद्वाच्योत्पाद इत्यनुपपन्नमिति ।
अत्राचार्यदेशीय आहस्फोटमित्याहेति ।
मृष्यामहे न वर्णाः प्रत्यायका इति ।
न स्फोट इति तु न मृष्यामः ।
तदनुभवानन्तरं विदितसङ्गतेरर्थधीसमुत्पादात् ।
नच वर्णातिरिक्तस्य तस्यानुभावो नास्ति ।
गौरित्येकं पदं, गामानय शुक्लमित्येकं वाक्यमिति नानावर्णपदातिरिक्तैकपदवाक्यावगतेः सर्वजनीनत्वात् ।
न चायमसति बाधके एकपदवाक्यानुभवः शक्यो मिथ्येतिवक्तुम् ।
नाप्यौपाधिकः ।
उपाधिः खल्वेकधीग्राह्यता वा स्यात्, एकार्थधीहेतुता वा ।
न तावदेकधीगोचराणां धवखदिरपलाशानामेकनिर्भासः प्रत्ययः समस्ति ।
तथा सति धवखदिरपलाशा इति न जातु स्यात् ।
नाप्येकार्थधीहेतुता ।
तद्धेतुत्वस्य वर्णेषु व्यासेधात् ।
तद्धेतुत्वेन तु साहित्यकल्पनेऽन्योन्याश्रयप्रसङ्गः ।
साहित्यात्तद्धेतुत्वं तद्धेतुत्वाच्च साहित्यमिति ।
तस्मादयमबाधितोऽनुपाधिश्च पदवाक्यगोचर एकनिर्भासानुभवो वर्णातिरिक्तं वाचकमेकमवलम्बते स स्फोट इति तं च ध्वनयः प्रत्येकं
व्यञ्जयन्तोऽपि न द्रागित्वेव विशदयन्ति, येन द्रागार्थधीः स्यात् ।
अपि तु रत्नतत्त्वज्ञानवद्यथास्वं द्वित्रिचतुष्पञ्चषड्दर्शनजनितसंस्कारपरिपाकसचिवचेतोपलब्धजन्मनि चरमे चेतसि चकास्ति विशदं
पदवाक्यतत्त्वमिति प्रागनुत्पन्नायास्तदनन्तरमर्थधिय उदय इति नोत्तरेषामानर्थक्यं ध्वनीनाम् ।
नापि प्राचां, तदभावे तज्जनितसंस्कारतत्परिपाकाभावेनानुग्रहाभावात् ।
अन्त्यस्य चेतसः केवलस्याजनकत्वात् ।
नच पदप्रत्ययवत्, प्रत्येकमव्यक्तामर्थधियमाधास्यन्ति प्राञ्चो वर्णाः, चरमस्तु तत्सचिवः स्फुटतरामिति युक्तम् ।
व्यक्ताव्यक्तावभासितायाः प्रत्यक्षज्ञाननियमात् ।
स्फोटज्ञानस्य च प्रत्यक्षत्वात् ।
अर्थधियस्त्वप्रत्यक्षाया मानान्तरजन्मनो व्यक्त एवोपजनो न वा स्यान्न पुनरस्फुट इति न समः समाधिः ।
तस्मान्नित्यः स्फोट एव वाचको न वर्णा इति ।
तदेतदाचार्यदेशीयमतं स्वमतमुपपादयन्नपाकरोतिवर्णा एव तु न शब्द इति ।
एवं हि वर्णातिरिक्तः स्फोटोऽब्युपेयेत, यदि वर्णानां वाचकत्वं न सम्भवेत्, स चानुभवपद्धतिमध्यासीत ।
द्विधा च वाचकत्वं वर्णानां, क्षणिकत्वेनाशक्यसङ्गतिग्रहत्वाद्वा व्यस्तसमस्तप्रकारद्वयाभावाद्वा ।
न तावत्प्रथमः कल्पः ।
वर्णानां क्षणिकत्वे मानाभावात् ।
ननु वर्णानां प्रत्युच्चारणमन्यत्वं सर्वजनप्रसिद्धम् ।
न ।
प्रत्यभिज्ञायमानत्वात् ।
न चासत्यप्येकत्वे ज्वालादिवत्सादृश्यनिबन्धनमेतत्, प्रत्यभिज्ञानमिति साम्प्रतम् ।
सादृश्यनिबन्धनत्वमस्य बलवद्बाधकोपनिपाताद्वास्थीयेत, क्वचिज्ज्वालादौ व्यभिचारदर्शनाद्वा ।
तत्र क्वचिद्व्यभिचारदर्शनेन तदुत्प्रेक्षायामुच्यते वृद्धेः स्वतःप्रामाण्.वादिभिःऽउत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥
ऽइति ।
प्रपञ्चितं चैतदस्माभिर्न्यायकणिकायाम् ।
न चेदं प्रत्यभिज्ञानं गत्वादिजातिविषयं न गादिव्यक्तिविषयं, तासां प्रतिनरं भेदोपलम्भादत एव शब्दभेदोपलम्भाद्वक्तृभेद
उन्नीयतेऽसोमशर्माधीते न विष्णुशर्माऽइति युक्तम् ।
यतो बहुषु गकारमुच्चारयत्सु निपुणमनुभवः परीक्ष्यताम् ।
यथा कालाक्षीं च स्वस्तिमतीं चेक्षमाणस्य व्यक्तिभेदप्रथायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेदेन प्रथमानेष्वेव
गत्वमेकं तदनुगतं चकास्ति, किंवा यथा गोत्वमाजानत एकं भिन्नदेशपरिमाणसंस्थानव्यक्त्युपधानभेदाद्भिन्नदेशमिवाल्पमिव महदिव दीर्घमिव
वामनमिव तथागव्यक्तिराजानत एकापि व्यञ्जकभेदात्तधर्मानुपातिनीव प्रथत इति भवन्त एव विदाङ्कुर्वन्तु ।
तत्र गव्यक्तिभेदमङ्गीकृत्यापि यो गत्वस्यैकस्य परोपधानभेदकल्पनाप्रयासः स वरं गव्यक्तावेवास्तु किमन्तर्गडुना गत्वेनाभ्युपेतेन ।
यथाहुःऽतेन यत्प्रार्त्यते जातेस्तद्वर्णादेव लप्स्यते ।
व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीर्वृथाः ॥
ऽनच स्वस्तिन्त्यादिवत्गव्यक्तिभेदप्रत्ययः स्फुटः प्रत्युच्चारणमस्ति ।
तथा सति दश गकारानुदचारयच्चैत्र इति हि प्रत्ययः स्यात् ।
न स्याद्दशकृत्व उदचारयद्गकारमिति ।
न चैष जात्यभिप्रायोऽभ्यासो यथा शतकृत्वस्तित्तिरीनुपायुङ्क्त देवदत्त इति ।
अत्र हि सोरस्ताडं क्रन्दतोऽपि गकारादिव्यक्तौ लोकस्योच्चारणाभ्यासप्रत्ययस्य विनिर्वृत्तिः ।
चोदकः प्रत्यभिज्ञानबाधकमुत्थापयतिङ्कथं ह्येकस्मिन्काले बहूनामुच्चारयतामिति ।
यत्युगपद्विरुद्धधर्मसंसर्गवत्तत्नाना, यथा गवाश्वादिर्द्विशफैकशफकेशरगलकम्बलादिमान् ।
युगपदुदात्तानुदात्तादिविरुद्धधर्मसंसर्गवांश्चायं वर्णः ।
तस्मान्नाना भवितुमर्हति ।
न चोदात्तादयो व्यञ्जकधर्माः, न वर्णधर्मा इति साम्प्रतम् ।
व्यञ्जका ह्यस्य वायवः ।
तेषामश्रावणत्वे कथं तद्धर्माः श्रावणाः स्युः ।
इदं तावदत्र वक्तव्यम् ।
नहि गुणगोचरमिन्द्रियं गुणिनमपि गोचरयति, मा भूवन् घ्राणरसनश्रोत्राणां गन्धरसशब्दगोचराणां तद्वन्तः पृथिव्युदकाकाशा गोचराः ।
एवं च मा नाम भूद्वायुगोचरं श्रोत्रम्, तद्गुणांस्तूदात्तादीन् गोचरयिष्यति ।
ते च शब्दसंसर्गग्रहात्शब्दधर्मत्वेनाध्यवसीयन्ते ।
नच शब्दस्य प्रत्यभिज्ञानावधृतैकत्वस्य स्वरूपत उदात्तादयो धर्माः परस्परविरोधिनोऽपर्यायेण सम्भवन्ति ।
तस्माद्यथा मुखस्यैकस्य मणिकृपाणदर्पणाद्युपधानवशान्नानादेशपरिमाणसंस्थानभेदविभ्र्ःमः, एवमेकस्यापि वर्णस्य व्यञ्जकध्वनिनिबन्धनोऽयं
विरुद्धनानाधर्मसंसर्गविभ्रमः, न तु भाविको नानाधर्मसंसर्ग इति स्थितेऽभ्युपेत्य परिहारमाह भाष्यकारःथवा ध्वनिकृत इति ।
अथवेति पूर्वपक्षं व्यावर्तयति ।
भवेतां नाम गुणगुणिनावेकेन्द्रियग्राह्यौ, तथाप्यदोषः ।
ध्वनीनामपि शब्दवच्छ्रावणत्वात् ।
ध्वनिस्वरूपं प्रश्नपूर्वकं वर्णेभ्यो निष्कर्षयतिकः पुनरयमिति ।
न चायमनिर्धारितविशेषवर्णत्वसामान्यमात्रप्रत्ययो न तु वर्णातिरिक्तदभिव्यञ्जकध्वनिप्रत्यय इति साम्प्रतम् ।
तस्यानुनासिकत्वादिभेदभिन्नस्य गादिव्यक्तिवत्प्रत्यभिज्ञानाभावात्, अप्रत्यभिज्ञायमानस्य चैकत्वाभावेन सामान्यभावानुपपत्तेः ।
तस्मादवर्णात्मको वैष शब्दः, शब्दातिरिक्तो वा ध्वनिः, शब्दव्यञ्जकः श्रावणोऽभ्युपेयः उभयथापि चाक्षु व्यञ्जनेषु च
तत्तद्ध्वनिभेदोपधानेनानुनासिकत्वादयोऽवगम्यमानास्तद्धर्मा एव शब्दे प्रतीयन्ते न तु स्वतः शब्दस्य धर्माः ।
तथा च येषामनुनासिकत्वादयो धर्माः परस्परविरुद्धा भासन्ते भवतु तेषां ध्वनीनामनित्यता ।
नहि तेषु प्रत्यभिज्ञानमस्ति ।
येषु तु वर्णेषु प्रत्यभिज्ञानं न तेषामनुनासिकत्वादयो धर्मा इति नानित्याः ।
एवं च सति सालम्बना इति ।
यद्येष परस्याग्रहो धर्मिण्यगृह्यमाणे तद्धर्मा न शक्या ग्रहीतुमिति, एवं नामास्तु तथा तुष्यतु परः ।
तथाप्यदोष इत्यर्थः ।
तदनेन प्रबन्धेन क्षणिकत्वेन वर्णानामशक्यसङ्गतिग्रहतया यदवाचकत्वमापादितं वर्णानां तदपाकृतम् ।
व्यस्तसमस्तप्रकारद्वयासम्भवेन तु यदासञ्जितं तन्निराचिकीर्षुराहवर्णेभ्यश्चार्थप्रतीतेरिति ।
कल्पनाममृष्यमाण एकदेश्याहन कल्पयामीति ।
निराकरोतिन ।
अस्या अपि बुद्धेरिति ।
निरूपयतु तावद्गौरित्येकं पदमिति धियमायुष्मान् ।
किमियं पूर्वानुभूतान्गकारादीनेव सामस्त्येनावगाहते किंवा गकाराद्यतिरिक्तं, गवयमिव वराहादिभ्यो विलक्षणम् ।
यदि गकारादिविलक्षणमवभासयेत्, गकारादिरूषितः प्रत्ययो न स्यात् ।
नहि वराहधीर्महिषरूषितं वराहमवगाहते ।
पदतत्त्वमेकं प्रत्येकमभिव्यञ्जयन्तो ध्वनयः प्रयत्नभेदभिन्नास्तुल्यस्थानकरणनिष्पाद्यतयान्योन्यविसदृशतत्तत्पद्ःव्यञ्जकध्वनिसादृश्येन
स्वव्यञ्जनीयस्यैकस्य पदतत्त्वस्य मिथो विसदृशानेकपदसादृश्यान्यापादयन्तः सादृश्योपधानभेदादेकमप्यभागमपि नानेव भागवदिव
भासयन्ति, मुख्यमिवैकं नियतवर्णपरिमाणस्थानसंस्थानभेदमपि मणिकृपाणदर्पणादयोऽनेकवर्णपरिमाणसंस्थानभेदम् ।
एवं च कल्पिता एवास्य भागा वर्णा इति चेत्, तत्किमिदानीं वर्णभेदानसत्यपि बाधके मिथ्येति वक्तुमध्यवसितोऽसि ।
एकधीरेव नानात्वस्य बधिकेति चेत्, हन्तास्यां नाना वर्णाः प्रथन्त इति नानात्वावभास एकैकत्वं कस्मान्न बाधते ।
अथवा वनसेनादिबुद्धिवदेकत्वनानात्वे न विरुद्धे ।
नो खलु सेनावनबुद्धी गजपदातितुरगादीनां चम्पकाशोककिंशुकादीनां च भेदमपबाधमाने उदीयेते, अपि तु भिन्नानामेव सतां
केनचिदेकेनोपाधिनावच्छिन्नानामेकत्वामापादयतः ।
नच परोपाधिकेनैकत्वेन स्वाभाविकं नानात्वं विरुध्यते ।
नह्यौपचारिकमग्नित्वं माणवकस्य स्वाभाविकनरत्वविरोधि ।
तस्मात्प्रत्येकवर्णानुभवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगाहिनि स्मृतिज्ञान एकस्मिन्भासमानानां वर्णानां तदेकविज्ञानविषयतया
वैकार्थधीहेतुतया वैकत्वमौपचारिकमवगन्तव्यम् ।
न चैकार्थधीहेतुत्वेनैकत्वमेकत्वेन चैकार्थधीहेतुभाव इति परस्पराश्रयम् ।
नह्यर्थप्रत्ययात्पूर्वमेतावन्तो वर्णा एकस्मृतिसमारोहिणो न प्रथन्ते ।
न च तत्प्रथनानन्तरं वृद्धस्यार्थधीर्नोन्नीयते, तदुपन्नयनाच्च तेषामेकार्थधियं प्रति कारकत्वमेकमवगम्यैकपदत्वाध्यवसानमिति नान्योन्याश्रयम् ।
न चैकस्मृतिसमारोहिणां क्रमाक्रमविपरीतक्रमप्रयुक्तानामभेदो वर्णानामिति यथाकथञ्चित्प्रयुक्तेभ्य एतेभ्योर्ऽथप्रत्ययप्रसङ्ग इति वाच्यम् ।
उक्तं हिऽयावन्तो यादृशा ये च पदार्थप्रतिपादने ।
वर्णाः प्रज्ञातसामर्थ्यस्ते तथैवावबोधकाः ॥
ऽइति ।
ननु पङ्क्तिबुद्धावेकस्यामक्रमायामपि वास्तवी शालादीनामस्ति पङ्गिरिति तथैव प्रथा युक्ता, नच तथेह वर्णानां नित्यानां विभूनां चास्ति
वास्तवः क्रमः, प्रत्ययोपाधिस्तु भवेत्, सचैक इति, कुतस्त्यः क्रम एषामिति चेत्, ।
न एकस्यामपि स्मृतौ वर्णरूपवत्क्रमवत्पूर्वानुभूततापरामर्शात् ।
तथाहिजाराराजेति पदयोः प्रथयन्त्योः स्मृतिधियोस्तत्त्वेऽपि वर्णानां क्रमभेदात्पदभेदः स्फुटतरं चकास्ति ।
तथाच नाक्रमविपरीतक्रमप्रयुक्तानामविशेषः स्मृतिबुद्धावेकस्यां वर्णानां क्रमप्रयुक्तानाम् ।
यथाहुःऽपदावधारणोपायान्बहूनिच्छन्ति सूरयः ।
क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतिः ॥
ऽइति ।
शेषमतिरोहितार्थम् ।
दिङ्मात्रमत्र सूचितं, विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इति ।
अलं वा नैयायिकैर्विवादेन ।
सन्त्वनित्या एव वर्णास्तथापि गत्वाद्यवच्छेदेनैव सङ्गतिग्रहोऽनादिश्च व्यवहारः सेत्स्यतीत्याहअथापि नामेति ॥२८॥
१,३.८.२९
अत एव च नित्यत्वम् । ब्रह्मसूत्र १,३.२९ ।
अत एव च नित्यत्वम् ।
ननु प्राच्यामेव मीमांसायां वेदस्य नित्यत्वं सिद्धं तत्किं पुनः साध्यत इत्यत आहस्वतन्त्रस्य कर्तुरस्मरणादेव हि स्थिते वेदस्य नित्यत्व इति ।
नह्यनित्याज्जगदुत्पत्तुमर्हति, तस्याप्युत्पत्तिमत्त्वेन सापेक्षत्वात् ।
तस्मान्नित्यो वेदः जगदुत्पत्तिहेतुत्वात्, ईश्वरवदिति सिद्धमेव नित्यत्वमनेन दृढीकृतम् ।
शेषमतिरोहितार्थम् ॥२९॥
१,३.८.३०
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च । ब्रह्मसूत्र १,३.३० ।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।
शङ्कापदोत्तरत्वात्सूत्रस्य शङ्कापदानि पठतिअथापि स्यादिति ।
अभिधानाभिधेयाविच्छेदे हि सम्बन्धनित्यत्वं भवेत् ।
एवमध्यापकाध्येतृपरम्पराविच्छेदे वेदस्य नित्यत्वं स्यात् ।
निरन्वयस्य तु जगतः प्रविलयेऽत्यन्तासतश्चापूर्वस्योत्पादेऽभिधानाभिधेयावत्यन्तमुच्छिन्नाविति किमाश्रयः सम्बन्धः स्यात् ।
अध्यापकाध्येतृसन्तानविच्छेदे च किमाश्रयो वेदः स्यात् ।
नच जीवास्तद्वासनावासितः सन्तीति वाच्यम् ।
अन्तःकरणाद्युपाधिकल्पिता हि ते तद्विच्छेदे न स्थातुमर्हन्ति ।
नच ब्रह्मणस्तद्वासना, तस्य विद्यात्मनः शुद्धस्वभावस्य तदयोगात् ।
ब्रह्मणश्च सृष्ट्यादावन्तःकरणानि तदवच्छिन्नाश्छ जीवाः प्रादुर्भवन्तो नपूर्वकर्माविद्यावासनावन्तो भवितुमर्हन्ति, अपूर्वत्वात् ।
तस्माद्विरुद्धमिदं शब्दार्थसम्बन्धवेदनित्यत्वं सृष्टिप्रलयाभ्युपगमेनेति ।
अभिधातृग्रहणेनाध्यापकाध्येतारावुक्तौ ।
शङ्कां निराकर्तुं सूत्रमवतारयतितत्रेदमभिधीयते समाननामरूपत्वादिति ।
यद्यपि महाप्रलयसमये नान्तःकरणादयः समुदाचरद्वृत्तयः सन्ति तथापि स्वकारणेऽनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण
कर्मविक्षेपकाविद्यावासनाभिः सहावतिष्ठन्त एव ।
तथा च स्मृतिःऽआसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥
ऽइति ।
ते चावधिं प्राप्य परमेश्वरेच्छाप्रचोदिता यथा कूर्मदेहे निलीनान्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्तमृद्भावानि मण्डूकशरीराणि
तद्वासनावासिततया घनघनाघनासारावसेकसुहितानि पुनर्मण्डूकदेहभावमनुभवन्ति, तथा पूर्ववासनावशात्पूर्वसमाननामरूपाण्युत्पद्यन्ते ।
एतदुक्तं भवतियद्यपीश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्राणभृत्कर्माविद्यासहकारी तदनुरूपमेव सृजति ।
नच सर्गप्रलयप्रवाहस्यानादितामन्तरेणैतदुपपद्यत इति सर्गप्रलयाभ्ययुपगमेऽपि संसारानादिता न विरुध्यत इति ।
तदिदमुक्तमुपपद्यते चाप्युपलभ्यते च ।
आगमत इति ।
स्यादेतत् ।
भवत्वनादिता संसारस्य, तथापि महाप्रलयान्तरिते कुतः स्मरणं वेदानामित्यत आहअनादौ च संसारे यथा स्वापप्रबोधयोरिति ।
यद्यपिप्राणामात्रावशेषतातन्निः शेषते सुषुप्तप्रलयावस्थयोर्विशेषः, तथापि कर्मविक्षेपसंस्कारसहितलयलक्षणा विद्यावशेषतासाम्येन
स्वापप्रलयावस्थयोरभेद इति द्रष्टव्यम् ।
ननु नापर्यायेण सर्वेषां सुषुप्तावस्था, केषाञ्चित्तदा प्रबोधात्, तेभ्यश्च सुप्तोत्थितानां ग्रहणसम्भवात्, प्रायणकालविप्रकर्षयोश्च
वासनोच्छेदकारणयोरभावेन सत्यां वासनायां स्मरणोपपत्तेः शब्दार्थसम्बन्धवेदव्यहारानुच्छेदो युज्यते ।
महाप्रलयस्त्वपर्यायेण प्राणभृन्मात्रवर्ती, प्रायणकालविप्रकर्षौ च तत्र संस्कारमात्रोच्छेदहेतू स्त इति कुतः
सुषुप्तवत्पूर्वप्रबोधव्यवहारवदुत्तरप्रबोधव्यवहार इति चोदयतिस्यादेतत् ।
स्वाप इति ।
परिहरतिनैष दोषः ।
सत्यपि व्यवहारोच्छेदिनीति ।
अयमभिसन्धिःन तावत्प्रायणकालविप्रकर्षौ सर्वसंस्कारोच्छेदकौ, पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेरनुपपत्तेः ।
मनुष्यजन्मवासनानां चानेकजात्यन्तरसहस्रव्यवहितानां पुनर्मनुष्यजातिसंवर्तकेन कर्मणाभिव्यक्त्यभावप्रसङ्गात् ।
तस्मान्निकृष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकर्षादौ पूर्ववासनानुवृत्तिः, तत्र कैव कथा परमेश्वरानुग्रहेण
धर्मज्ञानवैराग्यैश्वर्यातिशयसम्पन्नानां हिरण्यगर्भप्रभृतीनां महाधियाम् ।
यथावा आ च मनुष्येभ्य आ च कृमिभ्यो ज्ञानादीनामनुभूयते निकर्षः, एवमा मनुष्येभ्य एव आ च भगवतो हिरण्यगर्भज्ज्ञानादीनां प्रकर्षेऽपि
सम्भाव्यते ।
तथाच तदभिवदन्तो वेदस्मृतिवादाः प्रामाण्यमप्रत्यूहमश्रुवते ।
एवं चात्रभवतां हिरण्यगर्भादीनां परमेश्वरानुगृहीतानामुपपद्यते कल्पान्तरसम्बन्धिनिखिलव्यवहारानुसन्धानमिति ।
सुगममन्यत् ।
स्यादेतत् ।
अस्तु कल्पनान्तरव्यवहारानुसन्धानं तेषाम् ।
अस्यां तु सृष्टावन्य एव वेदाः, अन्य एव चैषामर्थाः, अन्य एव वर्णाश्रमाः, धर्माच्चानर्थोर्ऽथश्चाधर्मात्, अनर्थश्चेप्सितोर्ऽथश्चानीप्सितः
अपूर्वत्वात्सर्गस्य ।
तस्मात्कृतमत्र कल्पान्तरव्यवहारानुसन्धानेन, अकिञ्चित्करत्वात् ।
तथाच पूर्वव्यवहारोच्छेदाच्छब्दार्थसम्बन्धश्च वेदश्चानित्यौ प्रसज्येयातामित्यत आहप्राणिनां च सुखप्राप्तय इति ।
यथावस्तुस्वभावसामर्थ्यं हि सर्गः प्रवर्तते, नतु स्वभावसामर्थ्यमन्यथयितुमर्हति ।
नहि जातु सुखं तत्त्वेन जिहास्यते, दुःखं चोपादित्स्यते ।
नच जातु धर्माधर्मयोः सामर्थ्याविपर्ययो भवति ।
नहि मृत्पिण्डात्पटः, घटश्च तन्तुभ्यो जायते ।
तथा सति वस्तुसामर्थ्यनियमाभावात्सर्वं सर्वस्माद्भवेदिति पिपासुरपि दहनमाहृत्य पिपासामुपशमयेत्, शीतार्तो वा तोयमाहृत्य शीतार्तिमिति ।
तेन सृष्ट्यन्तरेऽपि ब्रह्महत्यादिरनर्थहेतुरेवार्थहेतुश्च यागादिरित्यानुपूर्व्यं सिद्धम् ।
एवं य एव वेदा अस्मिन्कल्पे त एव कल्पान्तरे, त एव चैषामर्था त एव च वर्णाश्रमाः ।
दृष्टसाधर्म्यसम्भवे तद्वैधर्म्यकल्पनमनुमानागमविरुद्धम् ।
ऽआगमाश्चेह भूयांसो भाष्यकारेण दर्शिताः ।
श्रुतिस्मृतिपुराणाख्यास्तद्व्याकोपोऽन्यथा भवेत् ॥
ऽतस्मात्सुष्ठूक्तम्समाननामरूपत्वाच्चावृत्तावप्यविरोध इति ।
ऽअग्निर्वा अकामयतऽइति ।
भाविनीं वृत्तिमाश्रित्य यजमान एवाग्निरुच्यते ।
नह्यग्नेर्देवतान्तरमग्निरस्ति ॥३०॥
१,३.८.३१
मध्वादिष्वसम्भवादनधिकारं जैमिनिः । ब्रह्मसूत्र १,३.३१ ।
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ।
ब्रह्मविद्यास्वधिकारं देवर्षीणां ब्रूवाणः प्रष्टव्यो जायते, किं सर्वासु ब्रह्मविद्या स्वविशेषेण सर्वेषां किंवा कासुचिदेव केषाञ्चित् ।
यद्यविशेषेण सर्वासु, ततो मध्वादिविद्यास्वसम्भवः ।
कथम् ।
असौ वा आदित्यो देवमध्वित्यत्र हि मनुष्या आदित्यं मध्वध्यासेनोपासीरन् ।
उपास्योपासकभावो हि भेदाधिष्ठानो न स्वात्मन्यादित्यस्य देवतायाः सम्भवति ।
न चादित्यान्तरमस्ति ।
प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वात् ।
पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्युपक्रम्येति ।
अयमर्थःऽअसौ वा आदित्यो देवमधुऽइति देवानां मोदहेतुत्वान्मध्विव मधु ।
भ्रामरमधुसारूप्यमाहास्य श्रुतिःऽतस्य मधुनो द्यौरेव तिरश्चीनवंशः ।
अन्तरिक्षं मध्वपूपः ।
आदित्यस्य हि मधुनोऽपूपः पटलमन्तरिक्षमाकाशं, तत्रावस्थानात् ।
यानि च सोमाज्यपयःप्रभृतीन्यग्नौ हूयते तान्यादित्यरश्मिभिरग्निसंवलितैरूत्पन्नपाकान्यमृतीभावमापन्नान्यदित्यमण्डलमृङ्मन्त्रमधुपैर्नीयन्ते ।
यथा हि भ्रमराः पुष्पेभ्य आहृत्य मकरन्दं स्वस्थानमानयन्त्येवमृङ्मन्त्रभ्रमराः प्रयोगसमवेतार्थस्मरणादिभिरृग्वेदविहितेभ्यः कर्मकुसुमेभ्य
आहृत्य तन्निष्पन्नं मकरन्दमादित्यमण्डलं लोहिताभिरस्य प्राचीभी रश्मिनाडीभिरानयन्ति, तदमृतं वसव उपजीवन्ति ।
अथास्यादित्यमधुनो दक्षिणाभी रश्मिनाडीभिः शुक्लाभिर्यजुर्वेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं
यजुर्वेदमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति, तदेतमृतं रुद्रा उपजीवन्ति ।
अथास्यादित्यमधुनः प्रतीचीभी रश्मिनाडीभिः कृष्णाभिः सामवेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं
साममन्त्रस्तोत्रभ्रमरा आदित्यमण्डलमानयन्ति, तदमृतमादित्या उपजीवन्ति ।
अथास्यादित्यमधुन उदीचिभिरतिकृष्णाभी रश्मिनाडीभिरथवेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि
पूर्ववदमृतभावमापन्नमथर्वाङ्गिरसमन्त्रभ्रमराः, तथाश्वमेधवाचःस्तोमकर्मकुसुमातितिहासपुराणम्नत्रभ्रमरा आदित्यमण्डलमानयन्ति ।
अश्वमेधे वाचःस्तोमे च पारिप्लवं शंसन्ति इति श्रवणादितिहासपुराणमन्त्राणामप्यस्ति प्रयोगः ।
तदमृतं मरुत उपजीवन्ति ।
अथास्य या आदित्यमधुन ऊर्ध्वा रश्मिनाड्यो गोप्यास्ताभिरुपासनभ्रमराः प्रणवकुसुमादाहृत्यादित्यमण्डलमानयन्ति, तदमृतमुपजीवन्ति
साध्याः ।
ता एता आदित्यव्यपाश्रयाः पञ्च रोहितादयो रश्मिनाड्य ऋगादिसम्बद्धाः क्रमेणोपदिश्येति योजना ।
एतदेवामृतं दृष्ट्वोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेजैन्द्रियसाकल्यवीर्यान्नाद्यान्यमृतं तदुपलभ्यादित्ये तृप्यति ।
तेन खल्वमृतेन देवानां वस्वादीनां मोदनं विदधदादित्यो मधु ।
एतदुक्तं भवतिन केवलमुपास्योपासकभाव एकस्मिन्विरुध्यते, अपि तु ज्ञातृज्ञेयभावश्च प्राप्यप्रापकभावश्चेति ।
तथाग्निः पाद इति ।
अधिदैवतं खल्वाकाशे ब्रह्मदृष्टिविधानार्थमुक्तम् ।
आकाशस्य हि सर्वगतत्वं रूपादिहीनत्वे च ब्रह्मणा सारूप्यं, तस्य चैतस्याकाशस्य ब्रह्मणश्चत्वारः पादा अग्न्यादयःऽअग्निः पादःऽइत्यादिना
दर्शिताः ।
यथा हि गोः पादा न गवा वियुज्यन्त, एवमग्न्यादयोऽपि नाकाशेन सर्वगतेनेत्याकाशस्य पादाः ।
तदेवमाकाशस्य चतुष्पदो ब्रह्मदृष्टिं विधाय स्वरूपेण वायुं संवर्गगुणकमुपास्यं विधातुं महीकरोतिवायुर्वाव संवर्गः ।
तथा स्वरूपेणैवादित्यं ब्रह्मदृष्ट्योपास्यं विधातुं महिकरोतिआदित्यो ब्रह्मेत्यादेशःुपदेशः ।
अतिरोहितार्थमन्यत् ॥३१॥
१,३.८.३२
यद्युच्येत नाविशेषण सर्वेषां देवर्षीणां सर्वासु ब्रह्मविद्यास्वधिकारः, किन्तु यथासम्भवमिति ।
तन्नेदमुपतिष्ठते
ज्योतिषि भावाच्च । ब्रह्मसूत्र १,३.३२ ।
ज्योतिषि भावाच्च ।
लौकिकौ ह्यादित्यादिशब्दप्रयोगप्रत्ययौ ज्योतिर्मण्डलादिषु दृष्टौ ।
न चैतेषामस्ति चैतन्यम् ।
नह्येतेषु देवदत्तादिवत्तदनुरूपा दृश्यन्ते चेष्टाः ।
स्यादेतत् ।
मन्त्रार्थवादेतिहासपुराणलोकेभ्य इति ।
तत्रऽजगृभ्माते दक्षिणमिन्द्रहसतम्ऽइति च,ऽकाशिरिन्द्र इत्ऽइति च ।
काशिर्मुष्टिः ।
तथाऽतुविग्रीवो वपोदरः सुबाहुरन्धसो मदे ।
इन्द्रो वृत्राणि जिघ्नतेऽइति विग्रहवत्त्वं देवताया मन्त्रार्थवादा अभिवदन्ति ।
तथा हविर्भोजनं देवताया दर्शयन्तिऽअद्धीन्द्र पिब चप्रस्थितस्यऽइत्यादयः ।
तथेशनम्ऽइन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् ।
इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रःऽइति, तथाऽईशानमस्यजगतः स्वर्दृशमीशानमिन्द्र सत्थुषःऽइति ।
तथा वरिवसितारं प्रति देवतायाः प्रसादं प्रसन्नायाश्च फलदानां दर्शयतिऽआहुतिभिरेव देवान् हुतादः प्रीणाति तस्मै प्रीता इषमूर्जं च
यच्छन्तिऽइति,ऽतृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयतिऽइति च ।
धर्मशास्त्रकारा अप्याहुःऽते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
ऽइति पुराणवचांसि च भूयांसि देवताविग्रहादिपञ्चकप्रपञ्चमापक्षते ।
लौकिका अपि देवताविग्रहादिपञ्चकं स्मरन्ति चोपरचरन्ति च ।
तथाहियमं दण्डहस्तमालिखन्ति, रुणं पाशहस्तम्, इन्द्रं वज्रहस्तम् ।
कथयन्ति च देवता हविर्भुज इति ।
तथेशनमिमामाहुःदेवग्रामो देवक्षेत्रमिति ।
तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाहुःप्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य जातः ।
प्रसन्नोऽस्य धनदो धनमनेन लब्धमिति ।
तदेतत्पूर्वपक्षी दूषयतिनेत्युच्यते ।
नहि तावल्लोको नामेति ।
न खलुप्रत्यक्षादिव्यतिरिक्तो लोको नाम प्रमाणान्तरमस्ति, किन्तु प्रत्यक्षादिमूला लोकप्रसिद्धिः सत्यतामश्रुते, तदभावे
त्वन्धपरम्परावन्मूलाभावाद्विपल्वते ।
नच विग्रहादौ प्रत्यक्षादीनामन्यतममस्ति प्रमाणम् ।
न चेतिहासादि मूलं भवितुमर्हति, तस्यापि पौरिषेयत्वेन प्रत्यक्षाद्यपेक्षणात् ।
प्रत्यक्षादीनां चात्राभावादित्याहैतिहासपुराणमपीति ।
ननूक्तं मन्त्रार्थवादेभ्यो विग्रहादिपञ्चकप्रसिद्धिरिति, अत आहअर्थवादा अपीति ।
विध्युद्देशेनैकवाक्यतामापद्यमाना अर्थवादा विधिविषयप्राशस्त्यलक्षणापरा न स्वार्थे प्रमाणं भवितुमर्हन्ति ।
ऽयत्परः शब्दः स शब्दार्थःऽइति हि शाब्दन्यायविदः ।
प्रमाणान्तरेण तु यत्र स्वार्थेऽपि समर्थ्यते, यथा वायोः क्षेपिष्टत्वम्, तत्र प्रमाणान्तरवशात्सोऽभ्युपेयते न तु शब्दसामर्थ्यात् ।
यत्र तु न प्रमाणान्तरमस्ति, यथा विग्रहादिपञ्चके, सोर्ऽथः शब्दादेवावगन्तव्यः ।
अतत्परश्च शब्दो न तदवगमयुतिमलमिति ।
तदवगमपरस्य तत्रापि तात्पर्यमभ्युपेतव्यम् ।
न चैकं वाक्यमुभयपरं भवतीति वाक्यं भिद्येत ।
नच सम्भवत्येकवाक्यत्वे वाक्यभेदो युज्यते ।
तस्मात्प्रमाणान्तरानधिगता विग्रहादिमत्ता अन्यपराच्छब्दावगन्तव्येति मनोरथमात्रमित्यर्थः ।
मन्त्राश्च व्रीह्यादिवच्छुत्यादिभिस्तत्र तत्र विनियुज्यमानाः प्रमाणभावाननुप्रवेशिनः कथमुपयुज्यन्तां तेष तेषु कर्मस्वित्यपेक्षायां दृष्टे प्रकारे
सम्भवति नादृष्टकल्पनोचिता ।
दृष्टश्च प्रकारः प्रयोगसमवेतार्थस्मारणं, स्मृत्या चानुतिष्ठन्ति खल्वनुष्ठातारः पदार्थान् ।
औत्सर्गिकी चार्थपरता पदानामित्यपेक्षितप्रयोगसमवेतार्थस्मरणतात्पर्याणां मन्त्राणां नानधिगते विग्रहादावपि तात्पर्यं युज्यत इति न
तेभ्योऽपि तत्सिद्धिः ।
तस्माद्देवताविग्रहवत्तादिभावग्रहप्रमाणाभावात्प्राप्ता षष्ठप्रमाणगोचरतास्येति प्राप्तम् ॥३२॥
१,३.८.३३
एवं प्राप्तेऽभिधीयते
भावं तु बादरायणोऽस्ति हि । ब्रह्मसूत्र १,३.३३ ।
भावं तु बादरायणोऽस्ति हि ।
तुशब्दः पूर्वपक्षं व्यावर्तयतिइत्यादिभूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यतेइत्यन्तमतिरोहितार्थम् ।
मन्त्रार्थवादादिव्यवहारादिति ।
आदिग्रहणेनेतिहासपुराणधर्मशास्त्राणि गृह्यन्ते ।
मन्त्रादीनां व्यवहारः प्रवृत्तिस्तस्य दर्शनादिति ।
पूर्वपक्षमनुभाषतेयदप्युक्तमिति ।
एकदेशिमतेन तावत्परिहरतिअत्र ब्रूम इति ।
तदेतत्पूर्वपक्षिणमुत्थाप्य दूषयतिअत्राहपूर्वपक्षी ।
शाब्दौ खल्वियं गतिः, यत्तात्पर्याधीनवृत्तित्वं नाम ।
नह्यन्यपरः शब्दोऽन्यत्र प्रमाणं भवितुमर्हति ।
नहि श्वित्रिनिर्णेजनपरं श्वेतो धावतीति वाक्यमितः सारमेयगमनं गमयितुमर्हति ।
नच नञ्वति महावाक्येऽवान्तरवाक्यार्थो विधिरूपः शक्योऽवगन्तुम् ।
नच प्रत्ययमात्रात्सोऽप्यर्थोऽस्य भवति, तत्प्रत्ययस्य भ्रान्तित्वात् ।
न पुनः प्रत्यक्षादीनामियं गतिः ।
नह्युदकाहरणार्थिना घटदर्शनायोन्मीलितं चक्षुर्घटपटौ वा पटं वा केवलं नोपलभते ।
तदेवमेकदेशिनि पूर्वपक्षिणा दूषिते परमसिद्धान्तवाद्याहअत्रोच्यते विषम उपन्यास इति ।
अयमभिसन्धिःलोके विशिष्टार्थप्रत्यायनाय पदानि प्रयुक्तानि तदन्तरेण न स्वार्थमात्रस्मारणे पर्यवस्यन्ति ।
नहि स्वार्थस्मारणमात्राय लोके पदानां प्रयोगो दृष्टपूर्वः ।
वाक्यार्थे तु दृश्यते ।
न चैतान्यस्मारितस्वार्थानि साक्षाद्वाक्यार्थं प्रत्याययितुमीशते इति स्वार्थस्मारणं वाक्यार्थमितयेऽवान्तरव्यापारः कल्पितः पदानाम् ।
नच यदर्थं यत्तत्तेन विना पर्यवस्यतीति न स्वार्थमात्रभिधाने पर्यवसानं पदानाम् ।
नच नञ्वति वाक्ये विधानपर्यवसानम् ।
तथा सति नञ्पदमनर्थकं स्यात् ।
यथाहुःऽसाक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् ।
वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥
ऽइति ।
सेयमेकस्मिन्वाक्ये गतिः ।
यत्र तु वाक्यस्यैकस्य वाक्यान्तरेण सम्बन्धस्तत्र लोकानुसारतो भूतार्थव्युत्पत्तौ च सिद्धायमेकैकस्य वाक्यस्य तत्तद्विशिष्टार्थप्रत्यायनेन
पर्यवसितवृत्तिनः पश्चात्कुतश्चिद्धेतोः प्रयोजनान्तरापेक्षायामन्वयः कल्प्यते ।
यथाऽवायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति वायव्यं श्वेतमालभेतऽइत्यत्र ।
इह हि यदि न स्वाध्यायाध्यायनविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थतामनेष्यत्ततो भूतार्थमात्रपर्यवसिता नार्थवादा
विध्युद्देशेनैकवाक्यतामागमिष्यन् ।
तस्मात्स्वाध्यायविधिवशात्कैमर्थ्याकाङ्क्षायां वृत्तान्तादिगोचराः सन्तस्तत्प्रत्यायनद्वारेण विधेयप्राशस्त्यं लक्षयन्ति, न पुनरविवक्षितस्वार्था एव
तल्लक्षणे प्रभवन्ति, तथा सति लक्षणैव न भवेत् ।
अभिधेयाविनाभावस्य तद्बीजस्याभावात् ।
अत एव गङ्गायां घोष इत्यत्र गङ्गाशब्दः स्वार्थसम्बद्धभेव तीरं लक्षयति न तु समुद्रतीरं, तत्कस्य हेतोः, स्वार्थप्रत्यासत्त्याभावात् ।
न चैतत्सर्वं स्वार्थाविवक्षायां कल्पते ।
अत एव यत्र प्रमाणान्तरविरुद्धार्ता अर्थवादा दृश्यन्ते, यथाःऽआदित्यो वै यूपःऽऽयजमानः प्रस्तरःऽइत्येवमादयः, तत्र यथा
प्रमाणान्तराविरोधः, यथा च स्तुत्यर्थता, तदुभयसिद्ध्यर्थंऽगुणवादस्तुऽइति चऽतत्सिद्धिःऽइति चासूत्रयज्जैमिनिः ।
तस्माद्यत्र सोर्ऽथोर्थवादानां प्रमाणान्तरविरुद्धस्तत्र गुणवादेन प्राशस्त्यलक्षणेति लक्षितलक्षणा ।
यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोर्ऽथः प्रसिध्यति, द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकत्रार्थे प्रवृत्तेः ।
प्रमात्रपेक्षया त्वनुवादकत्वम् ।
प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्योर्ऽथमवगच्छति न तथाम्नायतः, तत्र व्युत्पत्त्याद्यपेक्षत्वात् ।
नतु प्रमाणापेक्षया, द्वयोः स्वार्थेऽनपेक्षत्वादित्युक्तम् ।
नन्वेवं मानान्तरविरोधेऽपि कस्माद्गुणवादो भवति, यावता शब्दविरोधे मानान्तरमेव कस्मान्न बाध्यते, वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षादयः
प्रपञ्चगोचराः, कस्माद्वार्ऽथवादवद्वेदान्ता अपि गुणवादेन न नीयन्ते ।
अत्रोच्यतेलोकानुसारतो द्विविधो हि विषयः शब्दानाम्, द्वारतश्च तात्पर्यतश्च ।
यथैकस्मिन्वाक्ये पदानां पदार्था द्वारतो वाक्यार्थश्च तात्पर्यतो विषयः एवं वाक्यद्वयैकवाक्यतायामपि ।
यथेयं देवदत्तीया गौः क्रेतव्येत्येकं वाक्यम्, एषा बहुक्षीरेत्यपरं तदस्य बहुक्षीरत्वप्रतिपादनं द्वारम् ।
तात्पर्यं तु क्रेतव्येति वाक्यान्तरार्थे ।
तत्र यद्द्वारतस्तत्प्रमाणान्तरविरोधेऽन्यथा नीयते ।
यथा विषं भक्षयेति वाक्यं मा अस्य गृहे भुङ्क्ष्वेति वाक्यान्तरार्थपरं सत् ।
यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पौरुषेयप्रमाणमेव भवति ।
वेदान्तास्तु पौर्वापर्यपर्यालोचनया निरस्तसमस्तभेदप्रपञ्चब्रह्मप्रतिपादनपरा अपौरुषेयता स्वतःसिद्धतात्त्विकप्रमाणभावाः
सन्तस्त्तात्त्विकप्रमाणभावाद्प्रत्यक्षादीनि प्रच्याव्य सांव्यवहारिके तस्मिन्व्यवस्थापयन्ते ।
न चऽआदित्यो वै यूपःऽइति वाक्यमादित्यस्य यूपत्वप्रतिपादनपरमपि तु यूपस्तुतिपरम् ।
तस्मात्प्रमाणान्तरविरोधे द्वारीभूतो विषयो गुणवादेन नीयते ।
यत्र तु प्रमाणान्तरं विरोधकं नास्ति, यथा देवताविग्रहादौ, तत्र द्वारतोऽपि विषयः प्रतीयमानो न शक्यस्त्यक्तुम् ।
नच गुणवादेन नेतुं, को हि मुख्ये सम्भवति गौणमाश्रयेदतिप्रसङ्गात् ।
तथा सत्यनधिगतं विग्रहादि प्रतिपादयत्वाक्यं भिद्येतेति चेतद्धा ।
भिन्नमेवैतद्वाक्यम् ।
तथा सति तात्पर्यभेदोऽपीति चेत् ।
न ।
द्वारतोऽपि तदवगतौ तात्पर्यान्तरकल्पनायोगात् ।
नच यस्य यत्र न तात्पर्यं तस्य तत्राप्रामाण्यं, तथा, सति विशिष्टपरं वाक्यं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात्, विशेषणाविषयत्वात् ।
विशिष्टविषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम् ।
आक्षेपाद्विशेषणप्रतिपत्तौ सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः ।
तस्माद्विशिष्टप्रत्ययपरेभ्योऽपि विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विषयत्वेनानिच्छताप्यभ्युपेयानि यथा,
तद्यान्यपरेभ्योऽप्यर्थवादवाक्येभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमाणान्तरविरोधे न युक्तास्त्यक्तुम् ।
नहि मुख्यार्थसम्भवे गुणवादो युज्यते ।
नच भूतार्थमप्यपौरुषेयं वचो मानान्तरापेक्षं स्वार्थे, येन मानान्तरासम्भवे भवेदप्रमाणमित्युक्तम् ।
स्यादेतत् ।
तात्पर्यैक्येऽपि यदि वाक्यभेदः, कथं तर्ह्यर्थैकत्वादेकं वाक्यम् ।
न ।
तत्र तत्र यथास्वं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिपर्यवसानसम्भवात् ।
स तु पदार्थान्तरविशिष्टः पदार्थ एकः क्वचिद्द्वारभूतः क्वचिद्द्वारीत्येतावान् विशेषः ।
नन्वेवं सति ओदनं भुक्त्वा ग्रामं गच्छतीत्यत्रापि वाक्यभेदप्रसङ्गः ।
अन्यो हि संसर्गः ओदनं भुक्त्वेति, अन्यस्तु ग्रामं गच्छतीति ।
न ।
एकत्र प्रतीतेरपर्यवसानात् ।
भुक्त्वेति हि समानकर्तृकता पूर्वकालता च प्रतीयते ।
न चेयं प्रतीतिरपरकालक्रियान्तरप्रत्ययमन्तरेण पर्यवस्यति ।
तस्माद्यावति पदसमूहे पदाहिताः पदार्थस्मृतयः पर्यवसन्ति तावदेकं वाक्यम् ।
अर्थवादवाक्ये चैताः पर्यवस्यन्ति विनैव विधिवाक्यं विशिष्टार्थप्रतीतेः ।
न च द्वाभ्यां द्वाभ्यां पदाभ्यां विशिष्टार्थप्रत्ययपर्यवसानात्पञ्चषट्पदवति वाक्ये एकस्मिन्नानात्वप्रसङ्गः ।
नानात्वेऽपि विशेषाणानां विशेष्यस्यैकत्वात्, तस्य च सकृच्छुतस्य प्रधानभूतस्य गुणभूतविशेषणानुरोधेनावर्तनायोगात् ।
प्रधानभेदे तु वाक्यभेद एव ।
तस्माद्विधिवाक्यादर्थवादवाक्यमन्यदिति वाक्ययोरेव स्वस्ववाक्यार्थप्रत्ययावसितव्यापारयोः पश्चात्कुतश्चिदपेक्षायां परस्परान्वय इति सिद्धम् ।
अपि च विधिभिरेवेन्द्रादिदैवत्यानीति ।
देवतामुद्दिश्य हविरवमृश्य च तद्विषयस्वत्वत्याग इति यागशरीरम् ।
नच चेतस्यानलिखिता देवतोद्देष्टुं शक्या ।
नच रूपरहिता चेतसि शक्यत आलेखितुमिति यागविधिनैव तद्रूपापेक्षिणा यादृशमन्यपरेभ्योऽपि मन्त्रार्थवादेभ्यस्तद्रूपमवगतं तदभ्युपेयते,
रूपान्तरकल्पनायां मानाभावात् ।
मन्त्रार्थवादयोरत्यन्तपरोक्षवृत्तिप्रसङ्गाच्च ।
यथा हिऽव्रात्यो व्रात्यस्तोमेन यजतेऽइति व्रात्यस्वरूपापेक्षायां यस्य पिता पितामहो वा सोमं न पिबेत्स व्रात्य इति व्रात्यस्वरूपमवगतं
व्रात्यस्तोमविध्यपेक्षितं सद्विधिप्रमाणकं भवति, यथा वा स्वर्गस्य रूपमलौकिकंऽस्वर्गकामो यजेतऽ
इति विधिनापेक्षितं सदर्थवादतोऽवगम्यमानं विधिप्रमाणकम्, तथा देवतारूपमपि ।
ननूद्देशो रूपज्ञानमपेक्षते न पुना रूपसत्तामपि, देवतायाः समारोपेणापि च रूपज्ञानमुपपद्यत इति समारोपितमेव रूपं देवताया
मन्त्रार्थवादैरुच्यते ।
सत्यं, रूपज्ञानमपेक्षते ।
तच्चान्यतोऽसम्भवान्मन्त्रार्थवादेभ्य एव ।
तस्य तु रूपस्यासति बाधकेऽनुभवारूढं तथाभावं परित्यज्यान्यथात्वमननुभूयमानमसाम्प्रतं कल्पयितुम् ।
तस्माद्विध्ययपेक्षितमन्त्रार्थवादैरन्यपरैरपि देवतारूपं बुद्धावुपनिधीयमानं विधिप्रमाणकमेवेति युक्तम् ।
स्यादेतत् ।
विध्यपेक्षायामन्यपरादपि वाक्यादवगतोर्ऽथः स्वीक्रियते, तदपेक्षैव तु नास्ति, शब्दरूपस्य देवताभावात्, तस्य च मानान्तरवेद्यत्वादित्यत
आहनच शब्दमात्रमिति ।
न केवलम्मन्त्रार्थवादतो विग्रहादिसिद्धिः, अपि तु इतिहासपुराणलोकस्मरणेभ्यो मन्त्रार्थवादमूलेभ्यो वा प्रत्यक्षादमूलेभ्यो वेत्याहैतिहासेति ।
श्लिष्यतेयुज्यते ।
निगदमात्रव्याख्यातमन्यत् ।
तदेवं मन्त्रार्थवादादिसिद्धे देवताविग्रहादौ गुर्वादिपूजावद्देवतापूजात्मको यागो देवताप्रसादादिद्वारेण सफलोऽवकल्पते ।
अचेतनस्य तु पूजामप्रतिपद्यमानस्य तदनुपपत्तिः ।
न चैवं यज्ञकर्मणो देवतां प्रति गुणभावाद्देवतातः फलोत्पादे यागभावनायाः श्रुतं फलवत्त्वं यागस्य च तां प्रति तत्फलांशं वा प्रति श्रुतं करणत्वं
हातव्यम् ।
यागभावनाया एव हि फलवत्या यागलक्षणस्वकरणावान्तरव्यापारत्वाद्देवताभोजनप्रसादादीनाम्, कृषिकर्मण इव तत्तदवान्तरव्यापारस्य
सस्याधिगमसाधनत्वम् ।
आग्नेयादीनामिवोत्पत्तिपरमापूर्वावान्तरव्यापाराणां भवन्मते स्वर्गसाधनत्वम् ।
तस्मात्कर्मणोऽपूर्वावान्तरव्यापारस्य वा देवताप्रसादावान्तरव्यापारस्य वा फलवत्त्वात्प्रधानत्वमुभयस्मिन्नपि पक्षे समानं, नतु देवताया
विग्रहादिमत्याः प्राधान्यमिति न धर्ममीमांसायाः सूत्रम्ऽअपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं गुणत्वे देवताश्रुतिःऽइति विरुध्यते ।
तस्मात्सिद्धो देवतानां प्रायेण ब्रह्मविद्यास्वधिकार इति ॥३३॥
१,३.९.३४
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि । ब्रह्मसूत्र १,३.३४ ।
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ।
अवान्तरसङ्गतिं कुर्वन्नधिकरणतात्पर्याहयथा मनुष्याधिकारेति ।
शङ्काबीजमाहतत्रेति ।
निर्मृष्टनिखिलदुःखानुषङ्गे शाश्वतिक आनन्दे कस्य नाम चेतनस्यार्थिता नास्ति, येनार्थिताया अभावाच्छूद्रो नाधिक्रियेत ।
नाप्यस्य ब्रह्मज्ञाने सामर्थ्याभावः ।
द्विविधं हि सामर्थ्यं निजं चागन्तुकं च ।
तत्र द्विजातीनामिव शूद्राणां श्रवणादिसामर्थ्यं निजमप्रतिहतम् ।
अध्ययनाभावादागन्तुकसामर्थ्याभावे सत्यनधिकार इति चेत्, हन्त, आधानाभावे सत्यग्न्यभावादग्निसाध्ये कर्मणि मा भूदधिकारः ।
नच ब्रह्मविद्यायामग्निः साधनमिति किमित्यनाहिताग्नये नाधिक्रियन्ते ।
न चाध्ययनाभावात्तत्साधनायामनधिकारो ब्रह्मविद्यायामिति साम्प्रतम् ।
यतो युक्तंऽयदाहवनीये जुहोतिऽइत्याहवनीयस्य होमाधिकरणतया
विधानात्तद्रूपस्यालौकिकतानारभ्याधीतवाक्यविहितादाधानादन्यतोऽनधिगमादाधानस्य च द्विजातिसम्बन्धितया
विधानात्तत्साध्योऽग्निरलौकिको न शूद्रस्यास्तीति नाहवनीयादिसाध्ये कर्मणि शूद्रस्याधिकार इति ।
नच तथा ब्रह्मविद्यायामलौकिकमस्ति साधनं यच्छूद्रस्य न स्यात् ।
अध्ययननियम इति चेत् ।
न ।
विकल्पासहत्वात् ।
तदध्ययनं पुरुषार्थे वा नियम्येत्, यथा धनार्जने प्रतिग्रहादि ।
क्रत्वर्थे वा, यथाऽव्रीहीनवहन्तिऽइत्यवघातः ।
न तावत्क्रत्वर्थे ।
नहिऽस्वाध्यायोऽध्येतव्यःऽइति कञ्चित्क्रतुं प्रकृत्य पठ्यते, यथा दर्शपूर्णमासं प्रकृत्यऽव्रीहीनवहन्तिऽ
इति ।
न चानारभ्याधीतमप्यव्यभाचिरितक्रतुसम्बन्धितया क्रतुमुपस्थापयति, येन वाक्येनैव क्रतुना सम्बध्येताध्ययनम् ।
नहि यथा जुह्वादि अव्यभिचारितक्रतुसम्बद्धमेवं स्वाध्याय इति ।
तस्मान्नैव क्रत्वर्थे नियमः ।
नापि पुरुषार्थे ।
पुरुषेच्छाधीनप्रवृत्तिर्हि पुरुषार्थो भवति, यथा फलं तदुपायो वा ।
तदुपायेऽपि हि विधितः प्राक्सामान्यरूपा प्रवृत्तिः पुरुषेच्छानिबन्धनैव ।
इतिकर्तव्यतासु तु सामान्यतो विशेषतश्च प्रवृत्तिर्विधिपराधीनैव ।
नह्यनधिगतकरणभेद इतिकर्तव्यतासु घटते ।
तस्माद्विध्यधीनप्रवृत्तितयाङ्गानां क्रत्वर्थता ।
क्रतुरिति हि विधिविषयेण विधिं परामृशति विषयिणम् ।
तेनार्थ्यते विषयीक्रियत इति क्रत्वर्थः ।
न चाध्ययनं वा स्वाध्यायो वा तदर्थज्ञानं वा प्राग्विधेः पुरुषेच्छाधीनप्रवृत्तिः, येन पुरुषार्थः स्यात् ।
यदि चाध्ययनेनैवार्थावबोधरूपं नियम्येत ततो मानानान्तरविरोधः ।
तद्रूपस्य विनाप्यध्ययनं पुस्तकादिपाठेनाप्यधिगमात् ।
तस्मात्ऽसुवर्णं भार्यंऽइतिवदध्ययनादेव फलं कल्पनीयम् ।
तथा चाध्ययनविधेरनियामकत्वाच्छूद्रस्याध्ययनेन वा पुस्तकादिपाठेन वा सामर्थ्यमस्तीति सोऽपि ब्रह्मविद्यायामधिक्रियेत ।
मा भूद्वाध्ययनाभावात्सर्वत्र ब्रह्मविद्यायामधिकारः, संवर्गविद्यायां तु भविष्यति ।
ऽअह हारेत्वा शूद्रऽइति शूद्रं सम्बोध्य तस्याः प्रवृत्तेः ।
न चैष शूद्रशब्दः कयाचिदवयवव्युत्पत्त्याशूद्रे वर्तनीयः, अवयवप्रसिद्धितः समुदायप्रसिद्धेरनपेक्षतया बलीयस्त्वात् ।
तस्माद्यथानधीयानस्येष्टौ निषादस्थपतेरधिकारो वचनसामर्थ्यादेवं संवर्गविद्यायां शूद्रस्याधिकारो भविष्यतीति प्राप्तम् ।
एवं प्राप्ते ब्रूमःन शूद्रस्याधिकारः वेदाध्ययनाभावादिति ।
अयमभिसन्धिःयद्यपिऽस्वाध्यायोऽध्येतव्यःऽइत्यध्ययनविधिर्न किञ्चित्फलवत्कर्मारभ्याम्नातः, नाप्यव्यभिचरितक्रतुसम्बन्धपदार्थगतः, नहि
जुह्वादिवत्स्वाध्यायोऽव्यभिचरितक्रतुसबन्धः, तथापि स्वाध्यायस्याध्यनसंस्कारविधिरध्ययनस्यापेक्षितोपायतानवगमयन् किं
पिण्डपितृयज्ञवत्स्वर्गं वा, सुवर्णं भार्यमितिवदार्थवादिकं वा फलं कल्पयित्वा विनियोगभङ्गेन स्वाध्यायेनाधीयीतेत्येवमर्थः कल्पतां, किंवा
परम्परयाप्यन्यतोऽपेक्षितमधिगम्य निर्वृणोत्विति विषये, न दृष्टद्वारेण परम्परयाप्यन्यतोऽपेक्षितप्रतिलम्भे च यथाश्रुतिविनियोगोपपत्तौ च
सम्भवन्त्यां श्रुतिविनियोगभङ्गेनाध्ययनादेवाश्रुतादृष्टफलकल्पनोचिता ।
दृष्टश्च स्वाध्यायाध्ययनसंस्कारः ।
तेन हि पुरुषेण स प्राप्यते, प्राप्तश्च फलवत्कर्मब्रह्मावबोधनमभ्युदयनिःश्रेयसप्रयोजनमुपजनयत्ःि, नतु सुवर्णधारणादौ दृष्टद्वारेण
किञ्चित्परम्परयाप्यस्त्यपेक्षितं पुरुषस्य, तस्माद्विपरिवृत्य साक्षाद्धारणादेव विनियोगभङ्गेन फलं कल्प्यते ।
यदा चाध्यनसंस्कृतेन स्वाध्यायेन फलवत्कर्मब्रह्मावबोधे भाव्यमानोऽब्युदयनिःश्रेयसप्रयोजन इति स्थापितं तदा यस्याध्ययनं तस्यैव
कर्मब्रह्मावबोधोऽभ्युदयनिःश्रेयसप्रयोजनो नान्यस्य, यस्य चोपनयनसंस्कारस्तस्यैवाध्ययनं, स च
द्विजातीनामेवेत्युपनयनाभावेनाध्ययनसंस्काराभावात्पुस्तकादिपठितस्वाध्यायजन्योर्ऽथावबोधः शूद्राणां न फलाय कल्पत इति
शास्त्रीयसामर्थ्याभावान्न शूद्रो ब्रह्मविद्यायामधिक्रियत इति सिद्धम् ।
यज्ञेऽनवकॢप्त इति ।
यज्ञग्रहणमुपलक्षणार्थम् ।
विद्यायामनवकॢप्तः इत्यपि द्रष्टव्यम् ।
सिद्धवदभिधानस्य न्यायपूर्वकत्वान्न्यायस्य चोभयत्र साम्यात् ।
द्वितीयं पूर्वपक्षमनुभाषतेयत्पुनः संवर्गविद्यायामिति ।
दूषयतिन तल्लिङ्गम् ।
कुतः ।
न्यायाभावात् ।
न तावच्छूद्रः संवर्गविद्यायां साक्षाच्चोद्यते, यथाऽएतया निषादस्थपतिं याजयेत्ऽइति निषादस्थपतिः ।
किन्त्वर्थवादगतोऽयं शूद्रशब्दः, स चान्यतः सिद्धमर्थवद्योतयति न तु प्रापयतीत्यध्वरमीमांसकाः ।
अस्माकं तु अन्यपरादपि वाक्यादसति बाधके प्रमाणान्तरेणार्थावगम्यमानो विधिना चापेक्षितः स्वीक्रियत एव ।
न्यायश्चास्मिन्नर्थे उक्तो बाधकः ।
नच विध्यपेक्षास्ति, द्विजात्यधिकारप्रतिलम्भेन विधेः पर्यवसानात् ।
विध्युद्देशगतत्वे त्वयं न्यायोऽपोद्यते वचनबलान्निषादस्थपतिवन्न त्वेष विध्युद्देशगत इत्युक्तम् ।
तस्मान्नार्थवादमात्राच्छूद्राधिकारसिद्धिरिति भावः ।
अपिच किमर्थवादबलाद्विद्यामात्रेऽधिकारः शूद्रस्य कल्पते संवर्गविद्यायां वा न तावद्विद्यामात्र इत्याहकामं चायमिति ।
नहि संवर्गविद्यायामर्थवादः श्रुतो विद्यामात्रेऽधिकारिणमुपनयत्यतिप्रसङ्गात् ।
अस्तु तर्हि संवर्गविद्यायामेव शूद्रस्याधिकार इत्यत आहअर्थवादस्थत्वादिति ।
तत्किमेतच्छूद्रपदं प्रमत्तगीतं, न चैत्यद्युक्तं, तुल्यं हि साम्प्रदायिकमित्यत आहशक्यते चायं शूद्रशब्द इति ।
एवं किलात्रोपाख्यायतेजानश्रुतिः पौत्रायणो बहुदायी श्रद्धादेयो बहुपाक्यः प्रियातिथिर्बभूव ।
स च तेषु तेषु ग्रामनगरशृङ्गाटकेषु विविधानामन्नपानानां पूर्णानतिथिभ्य आवसथान् कारयामास ।
सर्वत एत्यैतेष्वावसथेषु ममान्नपानमर्थिन उपयोक्ष्यन्त इति ।
अथास्य राज्ञो दानशौण्डस्य गुणगरिमसन्तोषिताः सन्तो देवर्षयो हंसरूपमास्थाय तदनुग्रहाय तस्य निदाधसमये दोषा हर्म्यतलस्थस्योपरि
मालामाबध्याजग्मुः ।
तेषामग्रेसरं हंसं सम्बोध्य पृष्ठतः पतन्नेकतमो हंसः साद्भुतमभ्युवाद ।
भो भो भल्लाक्ष भल्लाक्ष, जानश्रुतेरस्य पौत्रायणस्य द्युनिशं द्युलोक आयतं ज्योतिस्तन्मा प्रसाङ्क्षीर्मैतत्त्वा धाक्षीदिति ।
तमेवमुक्तवन्तग्रगामी हंसः प्रत्युवाच ।
कं वरमेनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ ।
अयमर्थःवर इति सोपहासमवरमाह ।
अथवा वरो वराकोऽयं जानश्रुतिः ।
कमित्याक्षेपे ।
यस्मादयं वराकस्तस्मात्कमेनं किम्भूतमेतं सन्तं प्राणिमात्रं रैक्वमिव सयुग्वानमात्थ ।
युग्वा गन्त्री शकटी तया सह वर्तता इति स युग्वा रैक्वस्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ ।
रैक्वस्य हि ज्योतिरसह्यं नत्वेतस्य प्राणिमात्रस्य ।
तस्य हि भगवतः पुण्यज्ञानसम्भारसम्भृतस्य रैक्वस्य ब्रह्मविदो धर्मे त्रैलोक्योदरवर्तिप्राणभृन्मात्रधर्मोऽन्तर्भवति न पुना रैक्वधर्मकक्षां
कस्यचिद्धर्मोऽवगाहत इति ।
अथैष
हंसवचनादात्मनोऽत्यन्तनिकर्षमु
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5749”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5750”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5751”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5752”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5753”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5754”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5755”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5756”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5757”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5758”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a5759”},
त्कर्षकाष्ठां च रैक्वस्योपश्रुत्य विषण्णमानसो जानश्रुतिः कितव इवाक्षपराजितः पौनःपुन्येन
निःश्वसन्नुद्वेलं कथं कथमपि निशीथमतिवाहयाम्बभूव ।
ततो निशावसानपिशुनमनिभृतवन्दारुवृन्दप्रारब्धस्तुतिसहस्रसंवलितं मङ्गलतूर्यनिर्घोषमाकर्ण्य तल्पतलस्थ एव राजा एकपदे
यन्तारमाहूयादिदेश, वयस्य, रैक्वाह्वयं ब्रह्मविदमेकरतिं सयुग्वानमतिविविक्तेषु तेषु तेषु वेपिननगनिकुञ्जनदीपुलिनादिप्रदेशेष्वन्विष्य
प्रयत्नतोऽस्मभ्यमाचक्ष्वेति ।
स च तत्र तत्रान्विष्यन् क्वचिदतिविवेक्ते देशे शकटस्याधस्तात्पामानं कण्डूयमानं ब्राह्मणायनमद्राक्षीत् ।
तं च दृष्ट्वा रैक्वोऽयं भवितेति प्रतिभावानुपविश्य सविनयमप्राक्षीत्, त्वमसि हे भगवन्, सयुग्वा रैक्व इति ।
तस्य च रैक्वभावानुमतिं च तैस्तैरिङ्गितैर्गार्हस्थ्येच्छां धनायां चोन्नीय यन्ता राज्ञे निवेदयामास ।
राजा तु तं निशम्य गवां षट्शतानि निष्कं च हारं चाश्वतरीरथं चादाय सत्वरं रैक्वं प्रतिचक्रमे ।
गत्वा चाभ्युवाद ।
है रैक्व, गवां षट्शतानीमानि निष्कश्च हार श्चायमश्वतरीरथः, एतदादत्स्व, अनुशाधि मां भगवन्निति ।
तमेवमुक्तवन्तं प्रति साटोपं च सस्पृहं चोवाच रैक्वः ।
अह हारेत्वा शूद्र, तवैव सह गोभिरस्त्विति ।
अहेति निपातः साटोपमामन्त्रणे ।
हारेण युक्ता इत्वा गन्त्री रथो हारेत्वा स गोभिः सह तवैवास्तु, किमेतन्मात्रेण मम धनेनाकल्पवर्तिनो गार्हस्थ्यस्य निर्वाहानुपयोगिनेति भावः ।
आहरेत्वेति तु पाठोनर्थकतया च गोभिः सहेत्यत्र प्रतिसम्बन्ध्यनुपादानेन चाचार्यैर्दूषितः ।
तदस्यामाख्यायिकायां शक्यः शूद्रशब्देन जानश्रुती राजन्योऽप्यवयवव्युत्पत्त्या वक्तुम् ।
स हि रैक्वः परोक्षज्ञतां चिख्यापयिषुरात्मनो जानश्रुतेः शूद्रेति शुचं सूचयामास ।
कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति ।
उच्यतेतदाद्रवणात् ।
तद्व्याचष्टेशुचमभिदुद्राव जानश्रुतिः ।
शुचं प्राप्तवानित्यर्थः ।
शुचा वा जानश्रुतिः दुद्रुवे ।
शुचा प्राप्त इत्यर्थः ।
अथवा शुचा रैक्वं जानश्रुतिर्दुद्राव गतवान् ।
तस्मात्तदाद्रवणादिति तच्छब्देन शुग्वा जानश्रुतिर्वा रैक्वो वा परामृश्यत इत्युक्तम् ॥३४॥
१,३.९.३५
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् । ब्रह्मसूत्र १,३.३५ ।
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ।
इतश्च न जातिशूद्रो जानश्रुतिः यत्कारणम्प्रकरणनिरूपणे क्रियमाणे क्षत्रियत्वमस्य जानश्रुतेरवगम्यते चैत्ररथेन लिङ्गादिति व्याचक्षाणः प्रकरणं
निरूपयतिउत्तरत्र हि संवर्गविद्यावाक्यशेषे ।
चैत्ररथेनाभिप्रतारिणा निश्चितक्षत्रियत्वेन समानायां संवर्गविद्यायां समभिव्याहाराल्लिङ्गात्सन्दिग्धक्षत्रियभावो जानश्रुतिः क्षत्रियो निश्चीयते ।
ऽअथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षेऽइति प्रसिद्धयाजकत्वेन कापेयेनाभिप्रतारिणो
योगः प्रतीयते ।
ब्रह्मचारिभिक्षया चास्याशूद्रत्वमवगम्यते ।
नहि जातु ब्रह्मचारी शूद्रान् भिक्षते ।
याजकेन च कापेयेन योगाद्याज्योऽभिप्रतारी ।
क्षत्रियत्वं चास्य चैत्ररथित्वात् ।
ऽतस्माच्चैत्ररथी नामैकः क्षत्रपतिरजायतऽइति वचनात् ।
चैत्ररथित्वं चास्य कापेयेन याजकेन योगात् ।
एतेन वै चित्ररथं कापेया अयाजयन्नितिछन्दोगानां द्विरात्रे श्रूयते ।
तेन चित्ररथस्य याजकाः कापेयाः ।
एष चाभिप्रतारि चित्ररथादन्यः सन्नेव कापेयानां याज्यो भवति ।
यदि चैत्ररथिः स्यात्समानान्वयानां हि प्रायेण समानान्वया याजका भवन्ति ।
तस्माच्चैत्ररथित्वादभिप्रतारी काक्षसेनिः क्षत्रियः ।
तत्समभिव्याहाराच्च जानश्रुतिरपि क्षत्रियः सम्भाव्यते ।
इतश्च क्षत्रियो जानश्रुतिरित्याहक्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च ।
क्षत्तृप्रेषणे चार्थसम्भवे च तादृशस्य वदान्यप्रष्ठस्यैश्वर्यं प्रायेण क्षत्रियस्य दृष्टं युधिष्ठिरादिवदिति ॥३५॥
१,३.९.३६
संस्कारपरामर्शात्तदभावाभिलापाच्च । ब्रह्मसूत्र १,३.३६ ।
संस्कारपरामर्शात्तदभावाभिलापाच्च ।
न केवलमुपनीताध्ययनविधिपरामर्शेन न शूद्रस्याधिकारः किन्तु तेषु तेषु विद्योपदेशेषूपनयनसंस्कारपरामर्शात्शूद्रस्य
तदभावाभिधानाद्ब्रह्मविद्यायामनधिकार इति ।
नन्वनुपनीतस्यापि ब्रह्मोपदेशः श्रूयतेऽतान्हानुपनीयैवऽइति ।
तथा शूद्रस्यानुपनीतस्यैवाधिकारो भवीष्यतीत्यत आहतान्हानुपनीयैवेत्यपि प्रदर्शितैवोपनयनप्राप्तिः ।
प्राप्तिपूर्वकत्वात्प्रतिषेधस्य येषामुपनयनं प्राप्तं तेषामेव तन्निषिध्यते ।
तच्च द्विजातीनामिति द्विजातय एव निषिद्धोपनयना अधिक्रियन्ते न शूद्र इति ॥३६॥
१,३.९.३७
तदभावनिर्धारणे च प्रवृत्तेः । ब्रह्मसूत्र १,३.३७ ।
तदभावनिर्धारणे च प्रवृत्तेः ।
सत्यकामो ह वै जाबालः प्रमीतपितृकः स्वां मातरं जबालां पप्रच्छ, अहमाचार्यकुले ब्रह्मचर्यं चरिष्यामी, तद्ब्रवीतु भवती किङ्गोत्रोऽहमिति ।
साब्रवीत् ।
त्वज्जनकपरिचरणपरतया नाहमज्ञासिषं गोत्रं तवेति ।
स त्वाचार्यं गौतममुपससाद ।
उपसद्योवाच, हे भगवन्, ब्रह्मचर्यमुपेयां त्वयीति ।
स होवाच, नाविज्ञातगोत्र उपनीयत इति किङ्गोत्रोऽसीति ।
अथोवाच सत्यकामो नाहं वेद स्वं गोत्रं, स्वां मातरं जबालामपृच्छं, सापि न वेदेति ।
तदुपश्रुत्याभ्यधाद्गौतमः, नाद्विजन्मन आर्जवयुक्तमीदृशं वचः, तेनास्मिन्न शूद्रत्वसम्भावनास्तीति त्वां द्विजातिजन्मानमुपनेष्य
इत्युपनेतमनुशासितुं च जाबालं गौतमः प्रवृत्तः ।
तेनापि शूद्रस्य नाधिकार इति विज्ञायते ।
न सत्यादगा इति ।
न सत्यमतिक्रान्तवानसीति ॥३७॥
१,३.९.३८
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च । ब्रह्मसूत्र १,३.३८ ।
श्रवणाध्ययनार्थप्रतिषेधात्समृतेश्च ।
निगदव्याख्यानेन भाष्येण व्याख्यातम् ।
अतिरोहितार्थमन्यत् ॥३८॥
१,३.१०.३९
कम्पनात् । ब्रह्मसूत्र १,३.३९ ।
कम्पनात् ।
प्राणवज्रश्रुतिबलाद्वाक्यं प्रकरणं च भङ्क्त्वा वायुः पञ्चवृत्तिराध्यात्मिको बाह्यश्चात्र प्रतिपाद्यः ।
तथाहिप्राणशब्दो मुख्यो वायावाध्यात्मिके, वज्रशब्दश्चाशनौ ।
अशनिश्च वायुपरिणामः ।
वायुरेव हि बाह्यो धूमज्योतिःसलिलसंवलितः पर्जन्यभावेन परिणतो विद्युत्स्तनयित्नुवृष्ट्यशनिभावेन विवर्तते ।
यद्यपि च सर्वं जगदिति सवायुकं प्रतीयते तथापि सर्वशब्द आपेक्षिकोऽपि न स्वाभिधेयं जहाति किन्तु सङ्कुचद्वृत्तिर्भवति ।
प्राणवज्रशब्दौ तु ब्रह्मविषयत्वे स्वार्थमेव त्यजतः ।
तस्मात्स्वार्थत्यागाद्वरं वृत्तिसङ्कोचः, स्वार्थलेशावस्थानात् ।
अमृतशब्दोऽपि मरणाभाववचनो न सार्वकालिकं तदभावं ब्रूते, ज्योतिर्जीवितयापि तदुपपत्तेः ।
यथा अमृता देवा इति ।
तस्मात्प्राणवज्रश्रुत्यनुरोधाद्वायुरेवात्र विवक्षितो न ब्रह्मेति प्राप्तम् ।
एवं प्राप्त उच्यतेकम्पनात् ।
सवायुकस्य जगतः कम्पनात्, परमात्मैव शब्दात्प्रमित इति मण्डूकप्लुत्यानुषज्जते ।
ब्रह्मणोहि बिभ्यदेतज्जगत्कृत्स्नं स्वव्यापारे नियमेन प्रवर्तते न तु मर्यादामतिवर्तते ।
एतदुक्तं भवतिन श्रुतिसङ्कोचमात्रं श्रुत्यर्थपरित्यागे हेतुः, अपि तु पूर्वापरवाक्यैकवाक्यताप्रकरणाभ्यां संवलितः श्रुतिसङ्कोचः ।
तदिदमुक्तम्पूर्वापरयोर्ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे ।
इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहीति ।
तदनेन वाक्यैकवाक्यता दर्शिता ।
प्रकरणादपिइति भाष्येण प्रकरणमुक्तम् ।
यत्खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम् ।
पृष्टादन्यस्मिंस्तूच्यमाने शास्त्रमप्रमाणं भवेदसम्बद्धप्रलापित्वात् ।
यतु वायुविज्ञानात्क्वचिदमृतत्वमभिहितमापेक्षिकं तदिति ।
ऽअपपुनर्मृत्युं जयतिऽइति श्रुत्या ह्यपमृत्योर्विजय उक्तो नतु परममृत्युविजय इत्यापेक्षिकत्वं, तच्च तत्रैव प्रकरणान्तरकरणेन हेतुना ।
न केवलमपश्रुत्या तदापेक्षिकमपि तु परमात्मानमभिधायऽअतोऽन्यदार्तम्ऽइति वाय्वादेरार्तत्वाभिधानात् ।
नह्यार्ताब्यासादनार्तो भवतीति भावः ॥३९॥
१,३.११.४०
ज्योतिर्दर्शनात् । ब्रह्मसूत्र १,३.४० ।
ज्योतिर्दर्शनात् ।
अत्र हि ज्योतिःशब्दस्य तेजसि मुख्यत्वात्, ब्रह्मणि जघन्यत्वात्, प्रकरणाच्च श्रुतेर्बलीयस्त्वात्, पूर्ववच्छुतिसङ्कोचस्य चात्राभावात्, प्रत्युत
ब्रह्मज्योतिःपक्षे क्त्वाश्रुतेः पूर्वकालार्थायाः पीडनाप्रसङ्गात्, समुत्थानश्रुतेश्च तेज एव ज्योतिः ।
तथाहिसमुत्थनामुद्गमनमुच्यते, न तु विवेकविज्ञानम् ।
उद्गमनं च तेजःपक्षेऽर्चिरादिमार्गेणोपपद्यते ।
आदित्यश्चार्चिराद्यपेक्षया परं ज्योतिर्भवतीति तदुपसम्पद्य तस्य समीपे भूत्वा स्वेन रूपेणाभिनिष्पद्यते, कार्यब्रह्मलोकप्राप्तौ क्रमेण मुच्यते ।
ब्रह्मज्योतिःपक्षे तु ब्रह्म भूत्वा का परा स्वरूपनिष्पत्तिः ।
नच देहादिविविक्तब्रह्मस्वरूपसाक्षात्कारो वृत्तिरूपोऽभिनिष्पत्तिः ।
सा हि ब्रह्मभूयात्प्राचीना न तु पराचीना ।
सेयमुपसम्पद्येति क्त्वाश्रुतेः पीडा ।
तस्मात्तिसृभिः श्रुतिभिः प्रकरणबाधनात्तेज एवात्र ज्योतिरिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेपरमेव ब्रह्म ज्योतिःशब्दम् ।
कस्मात् ।
दर्शनात् ।
तस्य हीह प्रकरणे अनुवृत्तिर्दृश्यते ।
यत्खलु प्रतिज्ञायते, यच्च मध्ये परामृश्यते,
यच्चोपसंह्रियते, स एव प्रधानं प्रकरणार्थः ।
तदन्तःपातिनस्तु सर्वे तदनुगुणतया नेतव्याः, नतु श्रुत्यनुरोधमात्रेण प्रकरणादपक्रष्टव्या इति हि लोकस्थितिः ।
अन्यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे च तदन्तः पातिनोऽविष्णुरुपांशु यष्टव्यःऽइत्यादयो विधिश्रुत्यनुरोधेन
पृथग्विधयः प्रसज्येरन् ।
तत्किमिदानींऽतिस्र एव साह्नस्योपसदः कार्या द्वादशाहीनस्यऽइति प्रकरणानुरोधात्सामुदायप्रसिद्धिबललब्धमहर्गणाभिधानं
परित्यज्याहीनशब्दः कथमप्यवयवव्युत्पत्त्या सान्नं ज्योतिष्टोममभिधाय तत्रैव द्वादशोपसत्तां विधत्ताम् ।
स हि कृत्स्नविधानान्न कुतश्चिदपि हीयते क्रतोरित्यहीनः शक्यो वक्तुम् ।
मैवम् ।
अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति श्रुत्या प्रकरणबाधनान्न द्वादशोपसत्तामहीनगुणयुक्ते ज्योतिष्टोमे शक्नोति विधातुम् ।
नाप्यतोऽपकृष्टं सदहर्गणस्य विधत्ते ।
परप्रकरणेऽन्यधर्मविधेरन्याय्यत्वात् ।
असम्बद्धपदव्यवायविच्छिन्नस्य प्रकरणस्य पुनरनुसन्धानक्लेशात् ।
तेनानपकृष्टेनैव द्वादशाहीनस्येतिवाक्येन साह्नस्य तिस्र उसपदः कार्या इति विधिं स्तोतुं द्वादशाहविहिता द्वादशोपसत्ता तत्प्रकृतित्वेन च
सर्वाहीनेषु प्राप्ता निवीतादिवदनूद्यते ।
तस्मादहीनश्रुत्या प्रकरणबाधेऽपि न द्वादशाहीनस्येति वाक्यस्य प्रकरणादपकर्ष ।
ज्योतिष्टोमप्रकरणाम्नातस्य पूषाद्यनुमन्त्रणमन्त्रस्य यल्लिङ्गबलात्प्रकरणबाधेनापकर्षस्तदगत्या ।
पौष्णादौ च कर्मणि तस्यार्थवत्त्वात् ।
इह त्वपकृष्टस्यार्चिरादिमार्गोपदेशे फलस्योपायमार्गप्रतिपादकेऽतिविशदेऽएष सम्प्रसादःऽइति वाक्यस्याविशदैकदेशमात्रप्रतिपादकस्य
निष्प्रयोजनत्वात् ।
नच द्वदशाहीनस्येतिवद्यथोक्तात्मध्यानसाधनानुष्ठानं स्तोतुमेष सम्प्रसाद इति वचनमर्चिरादिमार्गमनुवदतीति युक्तम्, स्तुतिलक्षणायां
स्वाभिधेयसंसर्गतात्पर्यपरित्यागप्रसङ्गात्द्वादशाहीनस्येति तु वाक्ये स्वार्थसंसर्गतात्पर्ये प्रकरणविच्छेदस्य प्राप्तानुवदमात्रस्या
चाप्रयोजनत्वमिति स्तुत्यर्थो लक्ष्यते ।
न चैतद्दोषभयात्समुदायप्रसिद्धिमुल्लङ्घयावयवप्रसिद्धिमुपाश्रित्य साह्नस्यैव द्वादशोपसत्तां विधातुमर्हति, त्रित्वद्वादशत्वयोर्विकल्पप्रसङ्गात् ।
नच सत्यां गतौ विकल्पो न्याय्यः ।
साह्नाहीनपदयोश्च प्रकृतज्योतिष्टोमाभिधायिनोरानर्थक्यप्रसङ्गात् ।
प्रकरणादेव तदवगतेः ।
इह तु स्वार्थसंसर्गतात्पर्ये नोक्तदोषप्रसङ्ग इति पौर्वापर्यालोचनया प्रकरणानुरोधाद्रूढिमपि पूर्वकालतामपि परित्यज्य प्रकरणानुगुण्येन ज्योतिः
परं ब्रह्म प्रतीयते ।
यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति ।
नासावात्यन्तिको मोक्षः, किन्तु कार्यब्रह्मलोकप्राप्तिः ।
नच क्रममुक्त्यभिप्रायं स्वेन रूपेणाभिनिष्पद्यत इति वचनम् ।
नह्येतत्प्रकरणोक्तब्रह्मतत्त्वविदुषो गत्युत्क्रान्ती स्तः ।
तथा च श्रुतिःऽन तस्मात्प्राणा उत्क्रामन्ति अत्रैव समनीयन्तेऽइति ।
नच तद्द्वारेण क्रममुक्तिः ।
अर्चिरादिमार्गस्य हि कार्यब्रह्मलोकप्रापकत्वं न तु ब्रह्मभूयहेतुभावः ।
जीवस्य तु निरूपाधिनित्यशुद्धबुद्धब्रह्मभावसाक्षात्कारहेतुके मोक्षे कृतमर्चिरादिमार्गेण कार्यब्रह्मलोकप्राप्त्या ।
अत्रापि ब्रह्मविदस्तदुपपत्तेः ।
तस्मान्न ज्योतिरादित्यमुपसम्पद्य सम्प्रसादस्य जीवस्य स्वेन रूपेण पारमार्थिकेन ब्रह्मणाभिनिष्पत्तिराञ्जसीति श्रुतेरत्रापि क्लेशः ।
अपिच परं ज्योतिः स उत्तमपुरुष इतिहैवोपरिष्टाद्विशेषणात्तेजसो व्यावर्त्य पुरुषविषयत्वेनावस्थापनाज्ज्योतिःपदस्य, परमेव ब्रह्म ज्योतिः न तु
तेज इति सिद्धम् ॥४०॥
१,३.१२.४१
आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ब्रह्मसूत्र १,३.४१ ।
आकाशोर्ऽथान्तरत्वादिव्यपदेशात् ।
यद्यपिऽआकाशस्तल्लिङ्गात्ऽइत्यत्र ब्रह्मलिङ्गदर्शनादाकाशः परमात्मेति व्युत्पादितं, तथापि तद्वदत्र
परमात्मलिङ्गदर्शनाभावान्नामरूपनिर्वहणस्य भूताकाशेऽप्यवकाशदानेनोपपत्तेरकस्माच्च रूढिपरित्यागस्यायोगात्, नामरूपे अन्तरा
ब्रह्मेति च नाकाशस्य नामरूपयोर्निर्वहितुरन्तरालत्वमाह, अपि तु ब्रह्मणः, तेन भूताकाशो नामरूपयोर्निर्वहिता ।
ब्रह्म चैतयोरन्तरालं मध्यं सारमिति यावत् ।
न तु निर्वोडैव ब्रह्म, अन्तरालं वा निर्वाढृ ।
तस्मात्प्रसिद्धेर्भूताकाशो न तु ब्रह्मेति प्राप्तम् ।
एवं प्राप्त उच्यतेपरमेवाकाशं ब्रह्म,कस्मात्, अर्थान्तरत्वादिव्यपदेशात् ।
नामरूपमात्रनिर्वाहकमिहाकाशमुच्यते ।
भूताकाशं च विकारत्वेन नामरूपान्तःपाति सत्कथमात्मानमुद्वहेत् ।
नहि सुशिक्षितोऽपि विज्ञानी स्वेन स्कन्धेनात्मानं वोढुमुत्सहते ।
नच नामरूपश्रुतिरविशेषतः प्रवृत्ता भूताकाशवर्जं नामरूपान्तरे सङ्कोचयितुं सति सम्भवे युज्यते ।
नच निर्वाहकत्वं निरङ्कुशमवगतं ब्रह्मलिङ्गं कथञ्चित्क्लेशेन परतन्त्रे नेतुमुचितम्ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽइति च
स्रष्टृत्वमतिस्फुटं ब्रह्मलिङ्गमत्र प्रतीयते ।
ब्रह्मरूपतया च जीवस्य व्याकर्तृत्वे ब्रह्मण एव व्याकर्तृत्वमुक्तम् ।
एवं च निर्वहितुरेवनातरालतोपपत्तेरन्यो निर्वहितान्यच्चान्तरालमित्यर्थभेदकल्पनापि न युक्ता ।
तथा च ते नामरूपे यदन्तरेत्ययमर्थान्तरव्यपदेश उपपन्नो भवत्याकाशस्य ।
तस्मादर्थान्तरव्यपदेशात्, तथाऽतद्ब्रह्म तदमृतम्ऽइति व्यपदेशाद्ब्रह्मैवाकाशमिति सिद्धम् ॥४१॥
१,३.१३.४२
सुषुप्त्युत्क्रान्त्योर्भेदेन । ब्रह्मसूत्र १,३.४२ ।
सुषुप्त्युत्क्रान्त्योर्भेदेन ।
ऽआदिमध्यावसानेषु संसारिप्रतिपादनात् ।
तत्परे ग्रन्थसन्दर्भे सर्वं तत्रैव योज्यते ॥
ऽसंसार्येव तावदात्माहङ्कारास्पदप्राणादिपरीतः सर्वजनसिद्धः ।
तमेव चऽयोऽयं विज्ञानमयः प्राणेषुऽइत्यादिश्रुतिसन्दर्भ आदिमध्यावसानेष्वामृशतीति तदनुवादपरो भवितुमर्हति ।
एवं च संसार्यात्मैव किञ्चिदपेक्ष्य महान्, संसारस्य चानादित्वेनानादित्वादज उच्यते, न तु तदतिरिक्तः कश्चिदत्र नित्यशुद्धबुद्धमुक्तस्वभावः
प्रतिपाद्यः ।
यत्तु सुषुप्त्युत्क्रान्त्योः प्राज्ञेनात्मना सम्परिष्वक्त इति भेदं मन्यसे, नासौ भेदः किन्त्वयमात्मशब्दः स्वभाववचनः, तेन सुषुप्त्युत्क्रान्त्यवस्थायां
विशेषविषयाभावात्सम्पिण्डितप्रज्ञेन प्राज्ञेनात्मना स्वभावेना परिष्वक्तो न किञ्चिद्वेदेत्यभेदेऽपि भेदवदुपचारेण योजनीयम् ।
यथाहुःऽप्राज्ञः सम्पिण्डितप्रज्ञःऽइति ।
प्रत्यादयश्च शब्दाः संसारिण्येव कार्यकरणसङ्घातात्मकस्य जगतो जीवकर्मार्जिततया तद्भोग्यतया च योजनीयाः ।
तस्मात्संसार्येवानूद्यते न तु परमात्मा प्रतिपाद्यत इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेऽसुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशादित्यनुवर्तते ।
अयमभिसन्धिःकिं संसारिणोऽन्यः परमात्मा नास्ति, तस्मात्संसार्यात्मपरंऽयोऽयं विज्ञानमयः प्राणेषुऽइति वाक्यम्, आहोस्विदिह
संसारिव्यतिरेकेण परमात्मनोऽसङ्कीर्तनात्संसारिणश्चादिमध्यावसानेष्ववमर्शनात्संसार्यात्मपरं, न तावत्संसार्यतिरिक्तस्य तस्याभावः ।
तत्प्रतिपादका हि शतश आगमाःऽईक्षतेर्नाशब्दम्ऽऽगतिसामान्यात्ऽइत्यादिः सूत्रसन्दर्भैरुपपादिताः ।
न चात्रापि संसार्यतिरिक्तपरमात्मसङ्कीर्तनाभावः, सुषुप्त्युत्क्रान्त्योस्तत्सङ्कीर्तनात् ।
नच प्राज्ञस्य परमात्मनो जीवाद्भेदेन सङ्कीर्तनं सति सम्भवे राहोः शिर इतिवदौपचारिकं युक्तम् ।
नच प्राज्ञशब्दः प्रज्ञाप्रकर्षशालिनि निरूढवृत्तिः कथञ्चिदज्ञविषयो व्याख्यातुमुचितः ।
नच प्रज्ञाप्रकर्षोऽसङ्कुचद्वृत्तिर्विदितसमस्तवेदितव्यात्सर्वविदोऽन्यत्र सम्भवति ।
न चेत्थम्भूतो जीवात्मा ।
तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन जीवात्प्राज्ञस्य परमात्मनो व्यपदेशात्ऽयोऽयं विज्ञानमयःऽइत्यादिना जीवात्मानं लोकसिद्धमनूद्य तस्य
परमात्मभावोऽननधिगतः प्रतिपाद्यते ।
नच जीवात्मनुवादमात्रपराण्येतानि वचांसि ।
अनधिगतार्थावबोधनपरं हि शाब्दं प्रमाणं, न त्वनुवादमात्रनिष्ठं भवितुमर्हति ।
अतःेव च संसारिणः परमात्मभावविधानायादिमध्यावसानेष्वनुवाद्यतयावमर्श उपपद्यते ।
एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्यात्मनः सम्भवान्नापेक्षिकं कल्पयिष्यते ।
यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासादिति ।
नानेनावस्थावत्त्वं विवक्ष्यते ।
अपि त्ववस्थानामुपजनापायधर्मकत्वेन तदतिरिक्तमवस्थारहितं परमात्मानं विवक्षति, उपरितनवाक्यसन्दर्भालोचनादिति ॥४२॥
१,३.१३.४३
पत्यादिशब्देभ्यः । ब्रह्मसूत्र १,३.४३ ।
पत्यादिशब्देभ्यः ।
सर्वस्य वशी ।
वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम्, व्यूहावस्थानसमर्थ इति ।
अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदिच्छानुविधानाज्जगतः ।
अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता ।
अन्तर्यामीति यावत् ।
किञ्च स एवम्भूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भवतीत्येवमाद्याः श्रुतयोऽसंसारिणं परमात्मानमेव
प्रतिपादयन्ति ।
तस्माज्जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपादनपरोऽयोऽयं विज्ञानमयःऽइत्यादिवाक्यसन्दर्भ इति सिद्धम् ॥४३॥
इति श्रीमद्वाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥३॥
॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पाजः ॥
प्रथमाध्याये चतुर्थः पादः ।