१,२.१.१
अथ द्वितीयं पादमारिप्सुः पूर्वोक्तमर्थं स्मारयति वक्ष्यमाणोपयोगितयाप्रथमे पाद इति ।
उत्तरत्र हि ब्रह्मणो व्यापित्वनित्यत्वादयः सिद्धवद्धेतुतयोपदेक्ष्यन्ते ।
न चैते साक्षात्पूर्वमुपपादिता इति कथं हेतुभावेन न शक्या उपदेष्टुमित्यत उक्तम्समस्तजगत्कारणस्येति ।
यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणो जगज्जन्मादिकारणत्वोपपदानेनाधिकरणसिद्धान्तन्यायेनोपक्षिप्ता इत्युपपन्नस्तेषामुत्तरत्र
हेतुभावेनोपन्यास इत्यर्थः ।
अर्थान्तरप्रसिद्धानां चेति ।
यत्रार्थान्तरप्रसिद्धा एवाकाशप्राणज्योतिरादयो ब्रह्मणि व्याख्यायन्ते, तदव्यभिचारिलिङ्गश्रवणात् ।
तत्र कैव कथा मनोमयादीनामर्थान्तरे प्रसिद्धानां पदानां ब्रह्मगोचरत्वनिर्णयं प्रतीत्यभिप्रायः ।
पूर्वपक्षाभिप्रायं त्वग्रे दर्शयिष्यामः ।
सर्वत्र प्रसिद्धोपदेशात् । ब्रह्मसूत्र १,२.१ ।
सर्वत्र प्रसिद्धोपदेशात् ।
इदमाम्नायते ।
सर्वं खल्विदं ब्रह्मः ।
कुतः,तज्जलानिति ।
यतस्तस्माद्ब्रह्मणो जायत इति तज्जं, तस्मिंश्च लीयत इति तल्लं, तस्मिंश्चानिति स्थितिकाले चेष्टत इति तदनं जगत्तस्मात्सर्वं खल्विदं जगद्ब्रह्म ।
अतः कः कस्मिन्रज्यते कश्च कं द्वेष्टीति
रागद्वेषरहितः शान्तः सन्नुपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीर इत्यादि ।
तत्र संशयःकिमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते आहोस्विद्ब्रह्मेति ।
किं तावत्प्राप्तम् ।
शारीरो जीव इति ।
कुतः ।
ऽक्रतुम्ऽइत्यादिवाक्येन विहितां क्रतुभावनामनूद्यऽसर्वम्ऽइत्यादिवाक्यं शमगुणे विधिः ।
तथा चऽसर्वं खल्विदं ब्रह्मऽइति वाक्यं प्रथमपठितमप्यर्थालोचनया परमेव, तदर्थोपजीवित्वात् ।
एवं च सङ्कल्पविधिः प्रथमो निर्विषयः सन्नपर्यवस्यन्विषयापेक्षः स्वयमनिर्वृत्तो न विध्यन्तरेणोपजीवितुं शक्यः, अनुपपदाकत्वात् ।
तस्माच्छान्ततागुणविधानात्पूर्वमेवऽमनोमयः प्राणशरीरःऽइत्यादिभिर्विषयोपनायकैः सम्बध्यते ।
मनोमयत्वादि च कार्यकारणसङ्घातात्मनो जीवात्मन एव निरूढमिति जीवात्मनोपास्येनोपरक्तोपासना न पश्चात्ब्रह्मणा सम्बद्धुमर्हति,
उत्पत्तिशिष्टगुणावरोधात् ।
नचऽसर्वं खल्विदम्ऽइति वाक्यं ब्रह्मपरमपि तु शमहेतुवन्निगदार्थवादः शान्तताविधिपरः,ऽशूर्पेण जुहोतिऽऽतेन ह्यन्नं क्रियतेऽइतिवत् ।
न चान्यपरादपि ब्रह्मापेक्षिततया स्वीक्रियत इति युक्तं, मनोमयत्वादिभिर्धर्मैर्जीवे सुप्रसिद्धैर्जीवविषयसमर्पणेनानपेक्षितत्वात् ।
सर्वकर्मत्वादि तु जीवस्य पर्यायेण भविष्यति ।
एवं चाणीयस्त्वमप्युपपन्नम् ।
परमात्मनस्त्वपरिमेयस्य तदनुपपत्तिः ।
प्रथमावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् ।
व्याख्यां च भाष्यकृता ।
एवं कर्मकर्तृव्यपदेशः सप्तमीप्रणमान्तता चाभेदेऽपि जीवात्मनि कथञ्चिद्भेदोपचारेण राहोः शिर इतिवद्द्रष्टव्या ।
ऽएतद्ब्रह्मऽइति च जीवविषयं, जीवस्यापि देहादिबृंहणत्वेन ब्रह्मात्वात् ।
एवं सत्यसङ्कल्पत्वादयोऽपि परमात्मवर्तिनो जीवेऽपि सम्भवन्ति, तदव्यतिरेकात् ।
तस्माज्जीव एवोपास्यत्वेनात्र विवक्षितः, न परमात्मेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेऽसमासः सर्वनामार्थः सन्निकृष्टमपेक्षते ।
तद्धितार्थोऽपि सामान्यं नापेक्षाया निवर्तकः ॥
तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि ।
तथा च सत्यसङ्कल्पप्रभृतीनां यथार्थता ॥
ऽभवेदेतदेवं यदि प्राणशरीर इत्यदीनां साक्षाज्जीववाचकत्वं भवेत् ।
न त्वेतदस्ति ।
तथा हि प्राणः शरीरमस्येति सर्वनामार्थो बहुव्रीहिः सन्निहितं च सर्वनामार्थं सम्प्राप्य तदभिधानं पर्यवस्येत् ।
तत्र मनोमयपदं पर्यमसिताभिधानं तदभिधानपर्यवसानायालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किमर्थमित्यद्यापि न विज्ञायते ।
तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः ।
न चैष जीव एव समवेतार्थो न ब्रह्मणीति, तस्यऽअप्राणो ह्यमनाःऽइत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम्, तस्यापि सर्वविकारकारणतया,
विकाराणां च स्वकारणादभेदात्तेषां च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः ।
स्यादेतत् ।
जीवस्य साक्षान्मनोमयत्वादयः, ब्रह्मणस्तु तद्द्वारा ।
तत्र प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु, न पुनर्जघन्यं ब्रह्म ।
ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणोऽभेदाज्जीवेऽप्युपपत्स्यन्ते ।
तदेतदत्र सम्प्रधार्यङ्किं ब्रह्मलिङ्गैर्जीवानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथममवगमात्तस्यैवोपास्यत्वं, उत न जीवस्य
ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि ।
जीवलिङ्गैस्तु ब्रह्म तद्वत, तथाच ब्रह्मलिङ्गानां दर्शनात्, तेषां च जीवेऽनुपपत्तेर्ब्रह्मैवोपास्यमिति ।
वयं तु पश्यामःऽसमारोप्यस्य रूपेण विषयो रूपवान्भवेत् ।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥
ऽसमारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जूरूपेणाभिगम्यत्वादिना भुजङ्गो रूपवान् ।
तदा भुजङ्गस्यैवाभावात्किं रूपवत् ।
भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः ।
तदिह समारोपितजीवरूपेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्मरूपैर्नित्यत्वादिभिर्जीवस्तद्वान्भवितुमर्हति, तस्य तदानीमसम्भवात् ।
तस्माद्ब्रह्मलिङ्गदर्शनाज्जीवे च तदसम्भवाद्ब्रह्मैवोपास्यं न जीव इति सिद्धम् ।
एतदुपलक्षणाय चऽसर्वं खल्विदं ब्रह्मऽइति वाक्यमुपन्यस्तमिति ॥१॥
१,२.१.२
विवक्षितगुणोपपत्तेश्च । ब्रह्मसूत्र १,२.२ ।
यद्यप्यपौरुषेय इति ।
शास्त्रयोनित्वेऽपीश्वरस्य पूर्वपूर्वसृष्टिरचितसन्दर्भापेक्षरचनत्वेनास्वातन्त्र्यादपौरुषेयत्वाभिधानं, तथा चास्वातन्त्र्येण विवक्षा नास्तीत्युक्तम् ।
परिग्रहपरित्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव ।
अन्यथोद्देश्यतयानपपादेयस्य ग्रहादेरविवक्षितत्वेन चमसादावपि सम्मार्गप्रसङ्गात् ।
तस्मादनुपादेयत्वेऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः ।
तद्गतं त्वेकत्वमवच्छेदकत्वेन वर्जितमविवक्षितम् ।
इच्छानिच्छे च भक्तितः ।
तदिदमुक्तम्वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते इति ।
यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम्, अतत्परेण चानुपात्तमविवक्षितमित्यर्थः ॥२॥
१,२.१.३
अनुपपत्तेस्तु न शारीरः । ब्रह्मसूत्र १,२.३ ।
कर्मकर्तृव्यपदेशाच्च । ब्रह्मसूत्र १,२.४ ।
शब्दविशेषात् । ब्रह्मसूत्र १,२.५ ।
यथा सत्यसङ्कल्पत्वादयो ब्रह्मण्युपपद्यन्ते, एवं शारीरेऽप्युपपत्स्यन्ते, शारीरस्य ब्रह्मणोऽभेदात् ।
शारीरगुणा इव मनोमयत्वादयो ब्रह्मणीत्यत आह सूत्रकारःनुपपत्तेस्तु न शारीरः ॥३ ॥ ॥४ ॥ ॥५॥
१,२.१.६
स्मृतेश्च । ब्रह्मसूत्र १,२.६ ।
अर्भकौस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च । ब्रह्मसूत्र १,२.७ ।
यत्तदवोचाम समारोप्यधर्माः समारोपविषये सम्भवन्ति, नतु विषयधर्माः समारोप्य इति ।
तस्येत उत्थानम् ।
अत्राह चोदकःकः पुनरयं शारीरो नामेति ।
न तावद्भेदप्रतिषेधाद्भेदव्यपदेशाच्च भेदाभेदावेकत्र तात्त्विकौ भवितुमर्हतो विरोधादित्युक्तम् ।
तस्मादेकमिह तात्त्विकमतात्त्विकं चेतरत्, तत्र पौर्वापर्येणाद्वैतप्रतिपादनपरत्वाद्वेदान्तानां द्वैतग्राहिणश्च मानान्तरस्याभावात्तद्बाधनाच्च
तेनाद्वैतमेव परमार्थः ।
तथा चऽअनुपपत्तेस्तुऽइत्याद्यसङ्गतार्थमित्यर्थः ।
परिहरतिसत्यमेवैतत् ।
पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिरविच्छिद्यमानो बालैः शारीर इत्युपचर्यते ।
अनाद्यविद्यावच्छेदलब्धजीवभावः पर एवात्मा स्वतो भेदेनावभासते ।
तादृशां च जीवानामविद्या, नतु निरूपाधिनो ब्रह्मणः ।
न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदाश्रयाविद्येत्यन्योन्याश्रयमिति साम्प्रतम् ।
अनादित्वेन जीवाविद्ययोर्बीजाङ्कुरवदनवकॢप्तेरयोगात् ।
नच सर्वज्ञस्य सर्वशक्तेश्च स्वतः कुतोऽकस्मात्संसारिता, यो हि परतन्त्रः सोऽन्येन बन्धनागारे प्रवेश्येत, नतु स्वतन्त्र इति वाच्यम् ।
नहि तद्भागस्य जीवस्य सम्प्रतितनी बन्धनागारप्रवेशिता, येनानुयुज्येत, किन्त्वियमनादिः पूर्वपूर्वकर्माविद्यासंस्कारनिबन्धना नानुयोगमर्हति ।
न चैतावता ईश्वरस्यानीशता न ह्युपकरणाद्यपेक्षिता कर्तुः स्वातन्त्र्यं विहन्ति ।
तस्माद्यत्किञ्चेदितदपीति ॥६ ॥ ॥७॥
१,२.१.८
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् । ब्रह्मसूत्र १,२.८ ।
विशेषादिति वक्तव्ये वैशेष्याभिधानमात्यन्तिकं विशेषं प्रतिपादयितुम् ।
तथाह्यविद्याकल्पितः सुखादिसङ्गोऽविद्यात्मन एव जीवस्य युज्यते ।
नतु निर्मृष्टनिखिलाविद्यातद्वासनस्य शुद्धबुद्धमुक्तस्वभावस्य परमात्मन इत्यर्थः ।
शेषमतिरोहितार्थम् ॥८॥
१,२.२.९१०
अत्ता चराचरग्रहणात् । ब्रह्मसूत्र १,२.९ ।
प्रकरणाच्च । ब्रह्मसूत्र १,२.१० ।
अत्ता चराचरग्रहणात् ।
कठवल्लीषु पठ्यतेयस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इति ।
अत्र चादनीयौदानोपसेचनसीचितः कश्चिदत्ता प्रतीयते ।
अत्तृत्वं च भोक्तृता वा सहर्न्तृता वा स्यात् ।
नच प्रस्तुतस्य परमात्मनो भोक्तृतास्ति,
ऽअनश्रन्नन्योऽअभिचाकशीतिऽइति श्रुत्या भोक्तृताप्रतिषेधात् ।
जीवात्मनश्च भोक्तृताविधानात्ऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽइति ।
तद्यदि भोक्तृत्वमत्तृत्वं ततो मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः ।
ब्रह्मक्षत्रादि चास्य कार्यकारणसङ्घातो भोगायतनतया वा साक्षाद्वा ।
सम्भवति भोग्यम् ।
अथ तु संहर्तृता भोक्तृता, ततस्त्रयाणामग्निजीवपरमात्मनां प्रश्नोपन्यासोपलब्धेः संहर्तृत्वस्याविशेषाद्भवति संशयःकिमत्ता अग्निराहो जीव
उताहो परमात्मेति ।
तत्रौदनस्य भोग्यत्वेन लोके प्रसिद्धेर्भोक्तृत्वमेव प्रथमं बुद्धौ विपरिवर्तते, चरमं तु संहर्तृत्वमिति भोक्तैवात्ता ।
तथा च जीव एव ।
ऽन जायते म्रियतेऽइति च तस्यैव स्तुतिः ।
यदि तु संहारकालेऽपि संस्कारमात्रेण तस्यावस्थानात् ।
दुर्ज्ञानत्वं च तस्य सूक्ष्मत्वात् ।
तस्माज्जीव एवात्तेहोपास्यत इति प्राप्तम् ।
यदि तु संहर्तृत्वमत्तृत्वं तथाप्यग्निरत्ता,ऽअग्निरन्नादःऽइति श्रुतिप्रसिद्धिभ्याम् ।
एवं प्राप्तेभिधीयतेअत्तात्र परमात्मा, कुतः, चराचरग्रहणात् ।
ऽउभे यस्योदनःऽइतिऽमृत्युर्यस्योपसेचनम्ऽइति च श्रूयते ।
तत्र यदि जीवस्य भोगायतनतया तत्साधनतया च कार्यकारणसङ्घातः स्थितः, न तर्ह्येदनः ।
नह्योदनो भोगायतनं, नापि भोगसाधनं, अपि तु भोग्यः ।
नच भोगायतनस्य भोगसाधनस्य वा भोग्यत्वं मुख्यम् ।
न चात्र मृत्युरुपसेचनतया कल्प्यते ।
नच जीवस्य कार्यकारणसङ्घातो ब्रह्मक्षत्रादिरूपो भक्ष्यः, कस्यचित्क्रूरसत्त्वस्य व्याघ्रादेः कश्चिद्भवेत्न तु सर्वथा सर्वजीवस्य ।
तेन ब्रह्मक्षत्रविषयमपि सर्वजीवस्यात्तृत्वं न व्याप्नोति, किमङ्ग पुनर्मृत्यूपसेचनव्याप्तं चराचरम् ।
न चौदनपदात्प्रथमावगतभोग्यत्वानुरोधेन यथासम्भवमत्तृत्वं योज्यत इति युक्तम् ।
नह्योदनपदं श्रुत्या भोग्यत्वमाह, किन्तु लक्षणया ।
नच लाक्षणिकभोग्यत्वानुरोधेनऽमृत्युर्यस्योपसेचनम्ऽइति,ऽब्रह्म च क्षत्रं चऽइति च श्रुती सङ्कोचमर्हतः ।
नच ब्रह्मक्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राणभृन्मात्रोपस्थापनात् ।
प्राणिषु प्रधानत्वेन च ब्रह्मक्षत्रोपन्यासस्योपपत्तेः, अन्यनिवृत्तेरशाब्दत्वातनर्थत्वाच्च ।
तथाच चराचरसंहर्तृत्वं परमात्मन एव ।
नाग्नेः ।
नापि जीवस्य ।
तथाचऽन जायते म्रियते वा विपश्चित्ऽइति ब्रह्मणः प्रकृतस्य न हानं भविष्यति ।
ऽक इत्था वेद यत्र सःऽइति च दुर्ज्ञानतोपपत्स्यते ।
जीवस्य तु सर्वलोकप्रसिद्धस्य न दुर्ज्ञानता ।
तस्मादत्ता परमात्मैवेति सिद्धम् ॥९॥ ॥१०॥
१,२.३.११
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् । ब्रह्मसूत्र १,२.११ ।
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।
संशयमाहतत्रेति ।
पूर्वपक्षे प्रयोजनमाहयदि बुद्धिजीवाविति ।
सिद्धान्ते प्रयोजनमाहअथ जीवपरमात्मनाविति ।
औत्सर्गिकस्य मुख्यताबलात्पूर्वसिद्धान्तपक्षासम्भवेन पक्षान्तरं कल्पयिष्यत इति मन्वानः संशयमाक्षिपतिअत्राहाक्षेप्तेति ।
ऋतं सत्यम् ।
अवश्यम्भावीति यावत् ।
समाधत्तेअत्रोच्यत इति ।
अध्यात्माधिकारादन्यौ तावत्पातारावशक्यौ कल्पयितुम् ।
तदिह बुद्धेरचैतन्येन परमात्मनश्च भोक्तृत्वनिषेधेन जीवात्मैवैकः पाद परिशिष्यत इतिऽसृष्टीरुपदधातिऽइतिवद्विवचनानुरोधादपिबत्संसृष्टतां
स्वार्थस्य पिबच्छब्दो लक्षयन्स्वार्थमजहन्नितरेतरयुक्तपिबदपिबत्परो भवतीत्यर्थः ।
अस्तु वा मुख्य एव, तथापि न दोष इत्याहयद्वेति ।
स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सोऽपि कर्ता ।
अत एव चाहुःऽयः कारयति स करोत्येवऽइति ।
एवं करणस्यापि स्वातन्त्र्यविवक्षया कथञ्चित्कर्तृत्वं, यथा काष्ठानि पचन्तीति ।
तस्मान्मुख्यत्वेऽप्यविरोध इति ।
तदेवं संशयं समाधाय पूर्वपक्षं गृह्णातिबुद्धिक्षेत्रज्ञाविति ।
ऽनियताधारता बुद्धिजीवसम्भविनी नहि ।
क्लेशात्कल्पयितुं युक्ता सर्वगे परमात्मनि ॥
ऽनच पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिकं युक्तं, सति मुख्यार्थत्वे लाक्षणिकार्थत्वायोगात्, बुद्धिजीवयोश्च गुहाप्रवेशोपपत्तेः ।
अपिचऽसुकृतस्य लोकेऽइति सुकृतलोकव्यवस्थानेन कर्मगोचरानतिक्रम उक्तः ।
बुद्धिजीवौ च कर्मगोचरम्मनतिक्रान्तौ ।
जीवो हि भोक्तृतया बुद्धिश्च भोगसाधनतया धर्मस्य गोचरे स्थितौ, न तु ब्रह्म, तस्य तदायत्तत्वात् ।
किञ्च छायातपाविति तमःप्रकाशावुक्तौ ।
नच जीवः परमात्मनोऽभिन्नस्तमः प्रकाशरूपत्वात्बुद्धिस्तु जडतया तम इति शक्योपदेष्टुम् ।
तस्माद्बुद्धिजीवावत्र कथ्येते इति तत्रापि प्रेते विचिकित्सापनुत्तये बुद्धेर्भेदेन परलोकी जीवो दर्शनीय इति बुद्धिरुच्यते ।
एवम्प्राप्तेभिधीयते
ऽऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता ।
ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया ॥१॥
प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति ।
गुह्याश्रयत्वं चरमं व्याख्येयमविरोधतःऽ ॥२॥
गौः सद्वितीयेत्युक्ते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना ।
तदिह चेतनो जीवः सरूपेण चेतनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया विरूपया बुद्ध्या ।
तदेवम्ऽऋतं पिबन्तौऽइत्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितिवद्व्याख्येयम् ।
बहुलं हि गुहाश्रयत्वं ब्रह्मणः श्रुतय आहुः ।
तदिदमुक्तम्तद्दर्शनादिति ।
तस्य ब्रह्मणो गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति ।
एवञ्च प्रथमावगतब्रह्मानुरोधेन सुकृतलोकवर्तित्वमपि तस्य लक्षणया छत्रिन्यायेन गमयितव्यम् ।
छायातपत्वमपि जीवस्याविद्याश्रयतया ब्रह्मणश्च शुद्धप्रकाशस्वभावस्य तदनाश्रयतया मन्तव्यम् ॥११॥
१,२.३.१२
विशेषणाच्च । ब्रह्मसूत्र १,२.१२ ।
इममेव न्यायंऽद्वा सुपर्णाऽइत्यत्राप्युदाहरणे कृत्वाचिन्तया योजयतिएष एव न्याय इति ।
अत्रापि किं बुद्धिजीवौ उत जीवपरमात्मानाविति संशय्य करणरूपाया अपि बुद्धेरेधांसि पचन्तीतिवत्कर्तृत्वोपचाराद्बुद्धिजीवाविह
पूर्वपक्षयित्वा सिद्धान्तयितव्यम् ।
सिद्धान्तश्च भाष्यकृता स्फोरितः ।
तद्दर्शनादिति चऽसमाने वृक्षे पुरुषो निमग्नःऽइत्यत्र मन्त्रे ।
न खलु मुख्ये कर्तृत्वे सम्भवति करणे कर्तृत्वोपचारो युक्त इति कृत्वाचिन्तामुद्धाटयतिअपर आह ।
सत्त्वं बुद्धिः ।
शङ्कतेसत्त्वशब्द इति ।
सिद्धान्तार्थं ब्राह्मणं व्याचष्ट इत्यर्थः ।
निराकरोतितन्नेति ।
येन स्वप्नं पश्यतीति ।
येनेति करणमुपदिशति ।
ततश्च भिन्नं कर्तारं क्षेत्रज्ञम् ।
योऽयं शारीर उपद्रष्टेति ।
अस्तु तर्ह्यस्याधिकरणस्य पूर्वपक्षे एव ब्राह्मणार्थः, वचनविरोधे न्यायस्याभासत्वादित्यत आहनाप्यस्याधिकरणस्य पूर्वपक्षं भजत इति ।
एवं हि पूर्वपक्षमस्य भजेत, यदि हि क्षेत्रज्ञे संसारिणि पर्यवस्येत ।
तस्य तु ब्रह्मरूपतायां पर्यवस्यन्न पूर्वपक्षमपि स्वीकरोतीत्यर्थः ।
अपिच ।
तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसत इति ।
रजोऽविद्या नाध्वंसनं संश्लेषमेवंविदि करोतीति ।
एतावतैव विद्योपसंहाराज्जीवस्य ब्रह्मात्मतापरतास्य लक्ष्यत इत्याहतावता चेति ।
चोदयतिकथं पुनरिति ।
निराकरोतिउच्यतेनेयं श्रुतिरिति ।
अनश्नन् जीवो ब्रह्माभिचाकशीतीत्युक्ते शङ्केत, यदि जीवो ब्रह्मात्मना नाश्नाति, कथं तर्ह्यस्मिन्भोक्तृत्वावगमः, चैतन्यसमानाधिकरणं हि
भोक्तृत्वमवभासत इति ।
तन्निरासायाह श्रुतिःऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽइति ।
एतदुक्
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3789”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3790”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3791”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3792”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3793”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3794”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3795”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3796”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3797”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3798”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3799”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3800”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3801”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3802”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3803”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3804”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3805”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3806”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3807”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3808”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3809”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3810”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3811”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3812”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3813”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3814”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3815”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3816”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3817”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3818”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3819”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3820”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3821”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3822”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3823”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3824”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3825”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3826”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3827”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3828”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3829”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3830”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3831”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3832”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3833”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3834”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3835”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3836”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3837”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3838”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3839”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3840”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3841”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3842”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3843”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3844”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3845”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3846”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3847”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3848”},
{“title”:“भामती”,“text”:"",“url”:“vedanta/bhamati.html#a3849”},
तं भवतिनेदं भोक्तृत्वं जीवस्य तत्त्वतः, अपितु बुद्धिसत्त्वं मुखादिरुपपरिणतं चितिच्छायापत्त्योपपन्नचैतन्यमिव भुङ्क्ते नतु तत्त्वतो जीवः
परमात्मा भुङ्क्ते ।
तदेतदध्यासाभाष्ये कृतव्याख्यानम् ।
तदनेन कृत्वाचिन्तोद्धाटिता ॥१२॥
१,२.४.१३
अन्तर उपपत्तेः । ब्रह्मसूत्र १,२.१३ ।
अन्तर उपपत्तेः ।
ननुऽअन्तस्तद्धर्मोपदेशात्ऽइत्यनेनैवैतद्गतार्थम् ।
सन्ति खल्वत्राप्यमृतत्वाभयत्वादयो ब्रह्मधर्माः प्रतिबिम्बजीवदेवतास्वसम्भविनः ।
तस्माद्ब्रह्मधर्मोपदेशाद्ब्रह्मैवात्र विवक्षितम् ।
साक्षाच्च ब्रह्मशब्दोपादानात् ।
उच्यते
ऽएष दृश्यत इत्येतत्प्रत्यक्षेर्ऽथे प्रयुज्यते ।
परोक्षं ब्रह्म न तथा प्रतिबिम्बे तु युज्यते ॥१॥
उपक्रमवशात्पूर्वमितरेषां हि वर्णनम् ।
कृतं न्यायेन येनैव स खल्वत्रानुषज्यतेऽ ॥२॥
ऽऋतं पिबन्तौ इत्यत्र हि जीवपरमात्मानौ प्रथममवगताविति तदनुरोधेन गुहाप्रवेशादयः पश्चादवगता व्याख्याताः, तद्वदिहापिऽय एषोऽक्षिणि
पुरुषो दृश्यतेऽइति प्रत्यक्षाभिधानात्प्रथममवगते छायापुरुषे तदनुरोधेनामृतत्वाभयत्वादयः स्तुत्या कथञ्चिद्व्याख्येयाः ।
तत्र चामृतत्वं कतिपयक्षणावस्थानात्, अभयत्वमचेतनत्वात्, पुरुषत्वं पुरुषाकारत्वात्, आत्मत्वं कनीनिकायतनत्वात्,
ब्रह्मरूपत्वमुक्तरूपामृतत्वादियोगात् ।
एवं वामनीत्वादयोऽप्यस्य स्तुत्यैव कथञ्चिन्नेतव्याः ।
कं च खं चेत्यादि तु वाक्यमग्नीनां नाचार्यवाक्यं नियन्तुमर्हति ।
ऽआचार्यस्तु ते गतिं वक्ताऽइति च गत्यन्तराभिप्रायं, न तूक्तपरिशिष्टाभिप्रायम् ।
तस्माच्छायापुरुष एवात्रोपास्य इति पूर्वः पक्षः ।
सम्भवमात्रेण तु जीवदेवते उपन्यस्ते, बाधकान्तरोपदर्शनाय चैष दृश्यत इत्यस्यात्राभावात् ।
ऽअन्तस्तद्धर्मोपदेशाऽदित्यनेन निराकृतत्वात् ।
एवं प्राप्त उच्यतेय एष इति ।
ऽअनिष्पन्नाभिधाने द्वे सर्वनामपदे सती ।
प्राप्य सन्निहितस्यार्थं भवेतामभिधातृणी ॥
ऽसन्निहिताश्च पुरुषात्मादिशब्दास्ते च न यावत्स्वार्थमभिदधति तावत्सर्वनामभ्यां नार्थतुषोऽप्यभिधीयत इति कुतस्तदर्थस्यापरोक्षता ।
पुरुषात्मशब्दौ च सर्वनामनिरपेक्षौ स्वरसतो जीवे वा परमात्मनि वा वर्तेते इति ।
नच तयोष्चक्षुषि प्रत्यक्षदर्शनमिति निरपेक्षपुरुषपदप्रत्यायितार्थानुरोधेन य एष इति दृश्यत इति च यथासम्भवं व्याख्येयम् ।
व्याख्यातं च सिद्धवदुपादानं शास्त्राद्यपेक्षंविद्वद्विषयं प्ररोचनार्थम् ।
विदुषः शास्त्रत उपलब्दिरेव दृढतया प्रत्यक्षवदुपर्यते प्रशंसार्थमित्यर्थः ।
अपि च तदेव चरमं प्रथमानुगुणतया नीयते यन्नेतुं शक्यम्, अल्पं च ।
इह त्वमृतत्वादयो बहवश्चाशक्याश्च नेतुम् ।
नहि स्वसत्ताक्षणावस्थानमात्रममृतत्वं भवति ।
तथा सति किं नाम नामृतं स्यादिति व्यर्थममृतपदम् ।
भयाभये अपि चेतनधर्मौ नाचेतने सम्भवतः ।
एवं वामनीत्वादयोऽप्यन्यत्र ब्रह्मणो नेतुमशक्याः ।
प्रत्यक्षव्यपदेशश्चोपपादितः ।
तदिदमुक्तमुपपत्तेरिति ।
ऽएतदमृतमभयमेतद्ब्रह्मऽइत्युक्ते स्यादाशङ्का ।
ननु सर्वगतस्येश्वरस्य कस्माद्विशिषेण चक्षुरेव स्थानमुपदिश्यत इति, तत्परिहरति, श्रुतिःऽतद्यद्यप्यस्मिन्सार्पिर्वोदकं वा सिञ्चति वर्त्मनी एव
गच्छतिऽइति ।
वर्त्मनी पक्षस्थाने ।
एतदुक्तं भवतिनिर्लेपस्येश्वरस्य निर्लेपं चक्षुरेव स्थानमनुरूपमिति ।
तदिदमुक्तम्तथा परमेश्वरानुरूपमिति संयद्वामादिगुणोपदेशश्च तस्मिन्ब्रह्मणिकल्पतेघटते, समवेतार्थत्वात् ।
प्रतिबिम्बादिषु त्वसंवेतार्थः ।
वामनीयानि सम्भजनीयानि शोभनीयानि पुण्यफलानि वामानि ।
संयन्ति सङ्गच्छमानानि वामान्यनेनेति संयद्वामः परमात्मा ।
तत्कारणत्वात्पुण्यफलोत्पत्तेस्तेन पुण्यफलानि सङ्गच्छन्ते ।
स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः ।
एष एव भामनीः ।
भामानी भानानि नयति लोकमिति भामनीः ।
तदुक्तं श्रुत्याऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽइति ॥१३॥
१,२.४.१४
स्थानादिव्यपदेशाच्च । ब्रह्मसूत्र १,२.१४ ।
स्थानादिव्यपदेशाच्च ।
आशङ्कोत्तरमिदं सूत्रम् ।
आशङ्कामाहकथं पुनरिति ।
स्थानिनो हि स्थानं महद्वृष्टं, यथा यादसामब्धिः ।
तत्कथमत्यल्पं चक्षुरधिष्ठानं परमात्मनः परममहत इति शङ्कार्थः ।
परिहरतिअत्रोच्यत इति ।
स्थानान्यादयो येषां ते स्थानादयो नामरूपप्रकरास्तेषां व्यपदेशात्सर्वगतस्यैकस्थाननियमो नावकल्पते ।
नतु नानास्थानत्वं नभस इव नानासूचीपाशादिस्थानत्वम् ।
विशेषतस्तु ब्रह्मणस्तानि तान्युपासनास्थानानीति तैरस्य युक्तो व्यपदेशः ॥१४॥
१,२.४.१५
सुखविशिष्टाभिधानादेव च । ब्रह्मसूत्र १,२.१५ ।
अपिच प्रकृतानुसारादपि ब्रह्मैवात्र प्रत्येतव्यं, नतु प्रतिबिम्बजीवदेवता इत्याह सूत्रकारःसुखविशिष्टाभिधानादेव च ।
एवं खलूपाख्यायतेउपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास ।
तस्याचार्यस्य द्वादश वर्षाण्यग्नीनुपचचार ।
स चाचार्योऽन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयामास ।
तमेवैकमुपकोसलं न समावर्तयति स्म ।
जायया च तत्समावर्तनायार्थितोऽपि तद्वचनमवधीर्याचार्यः प्रोषितवान् ।
ततोऽतिदूनमानसमग्निपरिचरणकुशलमुपकोसलमुपेत्य त्रयोऽग्नयः करुणापराधीनचेतसः श्रद्दधानायास्मै दृढभक्तये समेत्य
ब्रह्मविद्यामूचिरेऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽइति ।
अथोपकोसल उवाच, विजानाम्यहं प्राणो ब्रह्मेति, स हि सूत्रात्मा विभूतिमत्तया ब्रह्मरूपाविर्भावाद्ब्रह्मेति ।
किन्तु कं च खं च ब्रह्मेत्येतन्न विजानामि ।
नहि विषयेन्द्रियसम्पर्कजं सुखमनित्यं लोकसिद्धं खं च भूताकाशमचेतनं ब्रह्म भवितुमर्हति ।
अथैनमग्नयः प्रत्यूचुःऽयद्वाव कं तदेव खं यदेव खं तदेव कम्ऽइति ।
एवं सम्भूयोक्त्वा प्रत्येकं च स्वविषयां विद्यामूचुःऽपृथिव्यग्निरन्नमादित्यःऽइत्यादिना ।
पुनस्त एनं सम्भूयोचुः, एषा सोम्य तेऽस्मद्विद्या प्रत्येकमुक्ता स्वविषया विद्या, आत्मविद्या चास्माभिः सम्भूय पूर्वमुक्ता प्राणो ब्रह्म कं ब्रह्म खं
ब्रह्मेति, आचार्यस्तु ते गतिं वक्ता, ब्रह्मविद्येयमुक्तास्माभिर्गतिमात्रं त्ववशिष्टं नोक्तं, तत्तु विद्याफलप्राप्तये जाबालस्तवाचार्यो
वक्ष्यतीत्युक्त्वाग्नय उपरेमिरे ।
एवं व्यवस्थितेऽयद्वाव कं तदेव खं यदेव खं तदेव कम्ऽइत्येतद्व्याचष्टे भाष्यकारःतत्र खंशब्द इति प्रतीकाभिप्रायेणेति ।
आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीकः ।
यथा ब्रह्मशब्दः परमात्मविषयो नामादिषु क्षिप्यते ।
इदमेव तद्ब्रह्म ज्ञेयं यन्नामेति ।
तथेदमेव तद्ब्रह्म यद्भूताकाशमिति प्रतीतिः स्यात् ।
न चैतत्प्रतीकत्वमिष्टम् ।
लौकिकस्य सुखस्य साधनपारतन्त्र्यं क्षयिष्णुता चामयस्तेन सह वर्तत इति सामयं सुखम् ।
तदेवं व्यतिरेके दोषमुक्त्वोभयान्वये गुणमाहैतचरेतविशेषितौ त्विति ।
तदर्थयोर्विशेषितत्वाच्छब्दावपि विशेषितावुच्येते ।
सुखशब्दसमानाधिकरणो हि खंशब्दो भूताकाशमर्थं परित्यज्य ब्रह्मणि गुणयोगेन वर्तते ।
तादृशा च खेन सुखं विशिष्यमाणं सामयाद्व्यावृत्तं निरामयं भवति ।
तस्मादुपपन्नमुभयोपादानम् ।
ब्रह्मशब्दाभ्यासस्य प्रयोजनमाहतत्र द्वितीय इति ।
ब्रह्मपदं कम्पदस्योपरि प्रयुज्यमानं शिरः, एवं खम्पदस्यापि ब्रह्मपदं शिरो ययोः कङ्खम्पदयोस्ते ब्रह्मशिरसी, तयोर्भावो ब्रह्मशिरस्त्वम् ।
अस्तु प्रस्तुते किमायातमित्यत आहतदेवं वाक्योपक्रम इति ।
नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म,ऽय एषोऽक्षिणिऽइत्याचार्यवाक्येऽपि तदेवानुवर्तनीयमिति तु कुत इत्याहआचार्यस्तु ते गतिं वक्तेति च
गतिमात्राभिधानमिति ।
यद्यप्येते भिन्नवक्तृणी वाक्ये तथापि पूर्वेण वक्त्रा एकवाक्यतां गमिते, गतिमात्राभिधानात् ।
किमुक्तं भवति, तुभ्यं ब्रह्मविद्यास्माभिरूपदिष्टा, तद्विदस्तु गतिर्नोक्ता, तां च किञ्चिदधिकमाध्येयं पूरयित्वाचार्यो वक्ष्यतीति ।
तदनेन पूर्वासम्बद्धार्थान्तरविवक्षा वारितेति ।
अथैवमग्निभिरुपदिष्टे प्रोषित आचार्यः कालेनाजगाम, आगतश्च वीक्ष्योपकोसलमुवाच, ब्रह्मविद इव ते सोम्य मुखं प्रसन्नं भाति, कोऽनु
त्वामनुशशासेति ।
उपकोसलस्तु ह्रीणो भीतश्च को नु मामनुशिष्यात्भगवन् प्रोषिते त्वयीत्यापाततोऽपज्ञाय निर्बध्यमानो यथावदग्नीनामनुशासनमवोचत् ।
तदुपश्रुत्य चाचार्यः सुचिरं क्लिष्ट उपकोसले समुपजातदयार्द्रहृदयः प्रत्युवाच, सोम्य किल तुभ्यमग्नये न ब्रह्म साकल्येनावोचन्, तदहं तुभ्यं
साकल्येन वक्ष्यामि, तदनुभवमाहात्म्यात्ऽयथा पुष्पकरपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते, इत्येवमुक्तवत्याचार्य
आहोपकोसलः, ब्रवीतु मे भगवानिति, तस्मै होवाचाचार्योऽर्चिरादिकां गतिं वक्तुमनाः, यदुक्तमग्निभिः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति
तत्परिपूरणायऽएषोऽक्षिणि पुरुषो दृश्यतेऽइत्यादि ।
एतदुक्तं भवतिआचार्येण ये सुखं ब्रह्माक्षिस्थानं संयद्वामं वामनीभामनीत्येवङ्गुणकं प्राणसहितमुपासते ते सर्वेऽपहतपाप्मानोऽन्यत्कर्म
कुर्वन्तु मा वाकार्षुः, अर्चिषमर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते, अर्चिषोऽहरहर्देवतां, अह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतां, ततः
षण्मासान्, येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं तद्देवतां प्रतिपद्यन्ते, तेभ्यो मासेभ्यः संवत्सरदेवतां, तत आदित्यं,
आदित्याच्चन्द्रमसं,
चन्द्रमसो विद्युतं, तत्र स्थितानेतान्पुरुषः कश्चिद्ब्रह्मलोकादवतीर्यामानवोऽमानव्यां सृष्टौ भवः ।
ब्रह्मलोकभव इति यावत् ।
स तादृशः पुरुष एतान्सत्यलोकस्थं कार्यं ब्रह्म गमयति, स एष देवपथो देवैरर्चिरादिभिर्नेतृभिरुपलक्षित इति देवपथः, स एव च ब्रह्मणा
गन्तव्येनोपलक्षित इति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानाः सत्यलोकस्थं ब्रह्म इमं मानवं मनोः सर्गं किम्भूतमावर्तं जन्मजरामरणपौनः
पुन्यमावृत्तिस्तत्कर्तावर्तो मानवो लोकस्तं नावर्तन्ते ।
तथाच स्मृतिःऽब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥१५॥
१,२.४.१६
श्रुतोपनिषत्कगत्यभिधानाच्च । ब्रह्मसूत्र १,२.१६ ।
तदनेनोपाख्यानव्याख्यानेनश्रुतोपनिषत्कगत्यभिधानाच्चैत्यपि सूत्रं व्याख्यातम् ॥१६॥
१,२.४.१७
अनवस्थितेरसम्भवाच्च नेतरः । ब्रह्मसूत्र १,२.१७ ।
अनवस्थितेरसम्भवाच्च नेतरः ।
ऽय एषोऽक्षिणिऽइति नित्यवच्छुतमनित्ये छायापुरुषे नावकल्पते ।
कल्पनागौरवं चास्मिन्पक्षे प्रसज्यत इत्याहनचोपासनाकाल इति ।
तथा विज्ञानात्मनोऽपीति ।
विज्ञानात्मनो हि न प्रदेशे उपासनान्यत्र दृष्टचरी, ब्रह्मणस्तु तत्र श्रुतपूर्वेत्यर्थः ।
मिषा भिया ।
अस्मात्ब्रह्मणः ।
शेषमतिरोहितार्थम् ॥१७॥
१,२.५.१८
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ब्रह्मसूत्र १,२.१८ ।
अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात् ।
ऽस्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति ।
तक्षादिरशरीरस्तु नात्मान्तर्यमितां भजेत् ॥१॥
ऽ
प्रवृत्तिनियमलक्षणं हि कार्यं चेतनस्य शरीरिणः स्वशरीरेन्द्रियादौ वा शरीरेण वा वास्यादौ दृष्टं नाशरीरस्य ब्रह्मणो भवितुमर्हति ।
नहि जातु वटाङ्कुरः कुटजबीजाज्जायते ।
तदनेनऽजन्माद्यस्य यतःऽइत्येदप्याक्षिप्तं वेदितव्यम् ।
तस्मात्परमात्मनः शरीरेन्द्रियादिरहहितस्यान्तर्यामित्वाभावात्, प्रधानस्य वा पृथिव्याद्यभिमानवत्या देवताया वाणिमाद्यैश्वर्ययोगिनो योगिनो वा
जीवात्मनो वान्तर्यामिता स्यात् ।
तत्र यद्यपि प्रधानस्यादृष्टत्वाश्रुतत्वामतत्वविज्ञातत्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टृत्वश्रोतृत्वमनृत्वविज्ञातृत्वानां श्रुतानामभावात्,
अनात्मत्वाच्चऽएष त आत्माऽइति श्रुतेरनुपपत्तेर्न प्रधानस्यान्तर्यामिता ।
यद्यपि पृथिव्याद्यभिमानिनो देवस्यात्मत्वमस्ति, अदृष्टत्वादयश्च सह दृष्टृत्वादिभिरुपपद्यन्ते, शरीरेन्द्रियादियोगाच्च,ऽपृथिव्येव
यस्यायतनमग्निर्लोको मनो ज्योतिःऽइत्यादिश्रुतेः, तथापि तस्य प्रतिनियतनियमनात्ऽयः सर्वंल्लोकानन्तरो यमयति यः सर्वाणि भूतान्यन्तरो
यमयतिऽइति श्रुतिविरोधादनुपपत्तेः, योगी तु यद्यपि लोकभूतवशितया सर्वांल्लोकान्सर्वाणि च भूतानि नियन्तुमर्हति तत्र
तत्रानेकविधदेहेन्द्रियादिनिर्माणेनऽस एकधा भवति त्रिधा भवतिऽइत्यादिश्रुतिभ्यः, तथापिऽजगद्व्यापारवर्जं प्रकरणात्ऽइति वक्ष्यमाणेन
न्यायेन विकारविषये विद्यासिद्धानां व्यापारभावात्सोऽपि नान्तर्यामी ।
तस्मात्पारिशेष्याज्जीव एव चेतनो देहेन्द्रियादिमान् दृष्टृत्वादिसम्पन्नः स्वयमदृश्यादिः स्वात्मनि वृत्तिविरोधात् ।
अमृतश्च, देहेन्द्रियादिनाशेऽप्यनाशात् ।
अन्यथामुष्मिकफलोपभोगाभावेन कृतविप्रणाशाकृताभ्यागमप्रसङ्गात् ।
ऽय आत्मनि तिष्ठन्ऽइति चाभेदेऽपि कथञ्चिद्भेदोपचारात्ऽस भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्निऽइतिवत् ।
ऽयमात्मा न वेदऽइति च स्वात्मनि वृत्तिविरोधाभिप्रायम् ।
ऽयस्यात्मा शरीरम्ऽइत्यादि च सर्वंऽस्वे महिम्निऽइतिवद्योजनीयम् ।
यदि पुनरात्मनोऽपि नियन्तूरन्यो नियन्ता भवेत्वेदिता वा ततस्तस्याप्यन्य इत्यनवस्था स्यात् ।
सर्वलोकभूतनियन्तृत्वं च जीवस्यादृष्टद्वारा ।
तदुपार्जितौ हि धर्माधर्मौ नियच्छत इत्यनया द्वारा जीवो नियच्छति ।
एकवचनं च जात्यभिप्रायम् ।
तस्माज्जीवात्मैवान्तर्यामी, न परमात्मेति ।
एवं प्राप्तेऽभिधीयतेऽदेहेन्द्रियादिनियमे नास्य देहेन्द्रियान्तरम् ।
तत्कर्मोपार्जितं तच्चेत्तदविद्यार्जितं जगत् ॥
१,२.५.१९
न च स्मार्तमतद्धर्माभिलापात् । ब्रह्मसूत्र १,२.१९ ।
ऽश्रुतिस्मृतीतिहासपुराणेषु तावदत्रभवतः सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्य जगद्योनित्वमवगम्यते ।
न तत्पृथग्जनसाधाण्यानुमानाभासेनागमविरोधिना शक्यमपह्नोतुम् ।
तथाच सर्वं विकारजातं तदविद्याशक्तिपरिणामस्तस्य शरीरेन्द्रियस्थाने वर्तत इति यथायथं पृथिव्यादिदेवतादिकार्यकरणैस्तानेव
पृथिव्यादिदेवतादीञ्छक्नोति नियन्तुम् ।
न चानवस्था ।
नहि नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता लोकसिद्धः स परमात्मैवोपाध्यवच्छेदकल्पितभेदस्तथा व्याख्यायत इत्यसकृदावेदितं,
तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था ।
तथाचऽनान्योऽतोऽस्ति द्रष्टाऽइत्याद्या अपि श्रुतय उपपन्नार्थाः ।
परमार्थतोऽन्तर्यामिणोऽन्यस्य जीवात्मनो द्रष्टुरभावात् ।
अविद्याकल्पितजीवपरमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतयः, प्रत्यक्षादीनि प्रमाणानि, संसारानुभवः, विधिनिषेधशास्त्राणि च ।
एवं चाधिदैवादिष्वेकस्यैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति,ऽयः सर्वांल्लोकान्ऽऽयः सर्वाणि भूतानिऽइत्यत्र य इत्येकवचनमुपपद्यते ।
अमृतत्वं च परमात्मनि समञ्जसं नान्यत्र ।
ऽय आत्मनि तिष्ठन्ऽइत्यादौ चाभेदेऽपि भेदोपचारक्लेशो न भविष्यति ।
तस्मात्परमात्मान्तर्यामी न जीवादिरिति सिद्धम् ।
पृथिव्यादि स्तनयित्न्वन्तमधिदैवम् ।
ऽयः सर्वेषु लोकेषुऽइत्याधिलोकम् ।
ऽयः सर्वेषु वेदेषुऽइत्यधिवेदम् ।
ऽयः सर्वेषु यज्ञेषुऽइत्यधियज्ञम् ।
ऽयः सर्वेषु भूतेषुऽइत्यधिभूतम् ।
प्राणाद्यात्मान्तमध्यात्मम् ।
सञ्ज्ञाया अप्रसिद्धत्वादित्युपक्रममात्रं पूर्वः पक्षः ॥१९॥
१,२.५.२०
शरीरश्चोभयेऽपि हि भेदेनैनमधीयते । ब्रह्मसूत्र १,२.२० ।
दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् ।
कर्तरि आत्मनि प्रवृत्तिविरोधादित्यर्थः ॥२०॥
१,२.६.२१
अदृश्यत्वादिगुणको धर्मोक्तेः । ब्रह्मसूत्र १,२.२१ ।
अदृश्यत्वादिगुणको धर्मोक्तेः ।
अथ परा यया तदक्षरमधिगम्यते ।
यत्तदद्रेश्यं बुद्धीन्द्रियाविषयः ।
अग्राह्यं कर्मेन्द्रियागोचरः ।
अगोत्रं कारणरहितम् ।
अवर्णं ब्राह्मणत्वादिहीनम् ।
न केवलमिन्द्रियाणामविषयः ।
इन्द्रियाण्यप्यस्य न सन्तीत्याहअचक्षुःक्षोत्रमिति ।
बुद्धीन्द्रियाण्युपलक्षयति ।
अपाणिपादमिति कर्मेन्द्रियाणि ।
नित्यं, विभुं, सर्वगतं सुसूक्ष्मं दुर्विज्ञानत्वात् ।
स्यादेतत् ।
नित्यं सत्किं परिणामि नित्यं, नेत्याहअव्ययम् ।
कूटस्थनित्यमित्यर्थः ।
परिणामो विवर्तो वा सरूपस्योपलभ्यते ।
चिदात्मना तु सारूप्यं जडानां नोपपद्यते ॥१ ॥ ॥ ॥
जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् ।
योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया ॥२॥
ऽ
परिणाममानसरूपा एव परिणामा दृष्टाः ।
यथोर्णनाभिलालापरिणामा लूतातन्तवस्तत्सरूपाः, तथा विवर्ता अपि वर्तमानसरूपा एव न विरूपाः ।
यथा रज्जुविवर्ता धारोरगादयो रज्जुसरूपाः ।
न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति ।
नच हेमपण्डिपरिणामो भवति लूतातन्तुः ।
तत्कस्य हेतोः, अत्यन्तवैरूप्यात् ।
तस्मात्प्रधानमेव जडं जडस्य जगतो योनिरिति युज्यते ।
स्वविकारानश्रुत इति तदक्षरम् ।
ऽयः सर्वज्ञः सर्ववित्ऽइति चाक्षरात्परात्परस्याख्यानं,ऽअक्षरात्परतः परःऽइति श्रुतेः ।
नहि परस्मादात्मनोर्ऽवाग्विकरजातस्य च परस्तात्प्रधानादृतेऽन्यदक्षरं सम्भवति ।
अतो यः प्रधानात्परः परमात्मा स सर्ववित् ।
भूतयोनिस्त्वक्षरं प्रधानमेव, तच्च साङ्ख्याभिमतमेवास्तु ।
अथ तस्याप्रामाणिकत्वान्न तत्र परितुष्यति, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं, प्रधीयते हि तेन विकारजातमिति प्रधानं,
तत्खलु जडमनिर्वाच्यमनिर्वाच्यस्य जडस्य प्रपञ्चस्योपादानं युज्यते, सारूप्यात् ।
ननु चिदात्मानिर्वाच्यः, विरूपो हि सः ।
अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् ।
स्यादेतत् ।
स्मार्तप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं, तत्कुतोऽस्य शङ्केत्यत आहअपिच पूर्वत्रादृष्टत्वादीति ।
सति बाधकेऽस्यानाश्रयणं, इह तु बाधकं नास्तीत्यर्थः ।
तेनऽतदैक्षतऽइत्यादावुपचर्यतां ब्रह्मणो जगद्योनिताविद्याशक्त्याश्रयत्वेन ।
इह त्वविद्याशक्तेरेव जगद्योनित्वसम्भवे न द्वाराद्वारिभावो ययुक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यत इति पूर्वः पक्षः ।
अथ योनिशब्दो निमित्तकारणपरस्तथापि ब्रह्मैव निमित्तं न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन पूर्वः पक्षः ।
अत्रोच्यते
ऽअक्षरस्य जगद्योनिभावमुक्त्वा ह्यनन्तरम् ।
यः सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते ॥१॥
तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम् ।
अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं भवेत् ॥२॥
अक्षरात्परत इति श्रुतिस्त्वव्याकृते मता ।
अश्नुते यत्स्वकार्याणि ततोऽव्याकृतमक्षरम् ॥३॥
ऽ
नेह तिरोहितमिवास्ति किञ्चित् ।
यत्तु सारूप्याभावान्न चिदात्मनः परिणामः प्रपञ्च इति ।
अद्धा ।
ऽविवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोपरिणामिनः ।
अनादिवासनोद्भूतो न सारूप्यमपेक्षते ॥१॥
ऽ
न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति ।
आन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य दर्शनात् ।
अपिच हेतुमिति विभ्रमे तदभावादनुयोगो युज्यते ।
अनाद्यविद्यातद्वासनाप्रवाहपतितस्तु नानुयोगमर्हति ।
तस्मात्परमात्मविवर्ततया प्रपञ्चस्तद्योनिः, भुजङ्ग इव रज्जुविवर्ततया तद्योनिः, न तु तत्परिणामतया ।
तस्मात्तद्धर्मसर्ववित्त्वोक्तेर्लिङ्गात्ऽयत्तदद्रेश्यम्ऽइत्यत्र ब्रह्मैवोपदिश्यते ज्ञेयत्वेन, नतु प्रधानं जीवात्मा वोपास्यत्वेनेति सिद्धम् ।
न केवलं लिङ्गादपि तुऽपरा विद्याऽइति समाख्यानादप्येतदेव प्रतिपत्तव्यमित्याहअपिच द्वे विद्ये इति ।
लिङ्गान्तरमाहकस्मिन्नु भवत इति ।
भोगा भोग्यास्तेभ्यो व्यतिरिक्ते भोक्तरि ।
अवच्छिन्नो हि जीवात्मा भोग्येभ्यो विषयेभ्यो व्यतिरिक्त इति तज्ज्ञानेन न सर्वं ज्ञातं भवति ।
समाख्यान्तरमाहअपिच स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामिति ।
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशेति ।
प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः ।
अत एवादृढाः ।
के ते यज्ञरूपाः ।
रूप्यन्तेऽनेनेति रूपं, यज्ञो रूपमुपाधिर्येषां ते यज्ञरूपाः ।
ते तु षोडशर्त्विजः ।
ऋतुयजनेनोपाधिना ऋत्विक्शब्दः प्रवृत्त इति यज्ञोपाधय ऋत्विजः ।
एवं यजमानोऽपि यज्ञोपाधिरेव ।
एवं पत्नी,ऽपत्युर्नो यज्ञसंयोगेऽइति स्मरणात् ।
त एतेऽष्टादश यज्ञरूपाः, येष्वृत्विगादिषूक्तं कर्म यज्ञः ।
यदाश्रयो यज्ञ इत्यर्थः ।
तच्च कर्मावरं स्वर्गाद्यवरफलत्वात् ।
अपियन्ति प्राप्नुवन्ति ।
नहि दृष्टान्तदार्ष्टान्तिकयोःित्युक्ताभिप्रायम् ॥२१॥
१,२.६.२२
विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ब्रह्मसूत्र १,२.२२ ।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।
विशेषणं हेतुं व्याचष्टेविशिनष्टि हीति ।
शारीरादित्युपलक्षणम्, प्रधानादित्यपि द्रष्टव्यम् ।
भेदव्यपदेशं व्याचष्टेतथा प्रधानादपीति ।
स्यादेतत् ।
किमागमिकं साङ्ख्याभिमतं प्रधानं, तथाच बहुसमञ्जसं स्यादित्यत आहनात्र प्रधानं नाम किञ्चिदिति ॥२२॥
१,२.६.२३
रूपोपन्यासाच्च । ब्रह्मसूत्र १,२.२३ ।
रूपोपन्यासाच्च ।
तदेतत्परमतेनाक्षेपसमाधानाभ्यां व्याख्याय स्वमतेन व्याचष्टेअन्ये पुनर्मन्यन्त इति ।
पुनःशब्दोऽपि पूर्वस्माद्विशेषं द्योतयन्नस्येष्टतां सूचयति ।
जायमानवर्गमध्यपतितस्याग्निमूर्धादिरूपवतः सति जायमानत्वसम्भवे नाकस्माज्जनकत्वकल्पनं युक्तम् ।
प्रकरणं खल्वेतद्विश्वयोनेः, सन्निधिश्च जायमानानाम् ।
सन्निधेश्च प्रकरणं बलीय इति जायमानपरित्यागेन विश्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेत्न, प्रकरणिनः शरीरेन्द्रियादिरहितस्य
विग्रहवत्त्वविरोधात् ।
न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्स्वार्थत्यागेन सर्वात्मतामात्रपरा इति युक्तम्, श्रुतेरत्यन्तविप्रकृष्टार्थात्प्रकरणाद्बलीयस्त्वात् ।
सिद्धे च प्रकरणिनासम्बन्धे जायमानमध्यपातित्वं जायमानग्रहणे कारणमुपन्यस्तं भाष्यकृता ।
तस्माद्धिरण्यगर्भ एव भगवान् प्राणात्मना सर्वभूतान्तरः कार्यो निर्दिश्यत इति साम्प्रतम् ।
तत्किमिदानीं सूत्रमनवधेयमेव, नेत्याहअस्मिन्पक्ष इति ।
प्रकरणात् ॥२३॥
१,२.७.२४
वैश्वानरः साधारणशब्दविशेषात् । ब्रह्मसूत्र १,२.२४ ।
स्मर्यमाणमनुमानं स्यादिति । ब्रह्मसूत्र १,२.२५ ।
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते । ब्रह्मसूत्र १,२.२६ ।
वैश्वानरः साधारणशब्दविशेषात् ।
प्राचीन शालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्य मीमांसां चक्रुःको न आत्मा किं ब्रह्मेति ।
आत्मेत्युक्ते जीवात्मनि प्रत्ययो मा भूदत उक्तं किं ब्रह्मेति ।
ते च मीमांसमाना निश्चयमनधिगच्छन्तः कैकेयराजं वैश्वानरविद्याविदमुपसेदुः ।
उपसद्य चोचुःात्मनमेवेमं वैश्वानरं सम्प्रत्यध्येषिस्मरसितमेव नो ब्रूहीत्युपक्रम्य द्युसूर्वाय्वाकाशवारिपृथिवीनामिति ।
अयमर्थःवैश्वानरस्य भगवतो द्यौर्मूर्धा सुतेजाः ।
चक्षुश्च विश्वरूपः सूर्यः ।
प्राणो वायुः पृथग्वर्त्मात्मा पृथक्वर्त्म यस्य वायोः स पृथग्वर्त्मा स एवात्मा स्वभावो यस्य स पृथग्वर्त्मात्मा ।
सन्देहो देहस्य मध्यभागः स आकाशो बहुलः सर्वगतत्वात् ।
बस्तिरेव रयिः आपः, यतोऽद्भ्योऽन्नमन्नाच्च रयिर्धनं तस्मादापो रयिरुक्तास्तासां च मूत्रीभूतानां बस्तिः स्थानमिति बस्तिरेव रयिरित्युक्तम् ।
पादौ पृथिवी तत्र प्रतिष्ठानात् ।
तदेवं वैश्वानरावयवेषु द्युसूर्यानिलाकाशजलावनिषु मूर्धचक्षुःप्राणसन्देहबस्तिपादेष्वेकैकस्मिन वैश्वानरबुद्ध्या विपरीततयोपासकानां
प्राचीनशालादीनां मूर्धपातान्धत्वप्राणोत्क्रमणदेहशीर्णताबस्तिभेदपादश्लथीभावदूष्ःणैरुपासनानां निन्दया
मूर्धादिसमस्तभावमुपदिश्याम्नायतेऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानम्ऽइति ।
स सर्वेषु लोकेषु द्युपभृतिषु, सर्वेषु भूतेषु स्थावरजङ्गमेषु, सर्वेष्वात्मसु देहेन्द्रियमनोबुद्धिजीवेष्वन्नमत्ति ।
सर्वसम्बन्धिफलमाप्नोतीत्यर्थः ।
अथास्य वैश्वानरस्य भोक्तुर्भोजनस्याग्निहोत्रतासम्पिपादयिषयाह श्रुतिःुर एव वेदिःवेदिसारूप्यात् ।
लोमानि बर्हिःास्तीर्णब्रहिःसारूप्यात् ।
हृदयं गार्हपत्यः ।
हृदयानन्तरम्मनोऽन्वाहार्यपचनः ।
आस्यमाहवनीयः ।
तत्र हि तदन्नं हूयते ।
ननुऽको न आत्मा किं ब्रह्मऽइत्युपक्रमे आत्मब्रह्मशब्दयोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्धौ वैश्वानराग्न्यादयः शब्दास्तदनुरोधेन
परमात्मन्येव कथञ्चिन्नेतुं युज्यन्ते नतु प्रथमावगतौ ब्रह्मात्मशब्दौ चरमावगतवैश्वानरादिपदानुरोधेनान्यथयितुं युज्येते ।
यद्यपि च वाजसनेयिनां वैश्वानरविद्योपक्रमेऽवैश्वानरं ह वै भगवान् सम्प्रति वेद तं नो ब्रूहिऽइत्यत्र नात्मब्रह्मशब्दौ स्तः, तथापि तत्समानार्थं
छान्दोग्यवाक्यं तदुपक्रममिति तेन निश्चितार्थेन तदविरोधेन वाजसनेयिवाक्यार्थो निश्चीयत ।
निश्चितार्थेन ह्यनिश्चितार्थं व्यवस्थाप्यते, नानिश्चितार्थेन निश्चितार्थम् ।
कर्मवच्च ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव ।
नच द्युमूर्धत्वादिकं जाठरभूताग्निदेवताजीवात्मनामन्यतमस्यापि सम्भवति ।
नच सर्वलोकाश्रयफलभागिता ।
नच सर्वपाप्मप्रदाह इति पारिशेष्यात्परमात्मैव वैश्वानर इति निश्चिते कुतः पुनरियमाशङ्काशब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेदिति ।
उच्यतेतदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक्यम् ।
अशक्यौ च वैश्वानराग्निशब्दावन्यथा नेतुमिति शङ्कितुरभिमानः ।
अपि चान्तःप्रतिष्ठतत्वं च प्रादेशमात्रत्वं च न सर्वव्यापिनोऽपरिमाणस्य च परब्रह्मणः सम्भवतः ।
नच प्राणहुत्यधिकरणतान्यत्र जाठराग्नेर्युज्यते ।
नच गार्हपत्यादिहृदयादिता ब्रह्मणः सम्भविनी ।
तस्माद्यथायोगं जाठरभूताग्निदेवताजीवानामन्यतमो वैश्वानरः, नतु ब्रह्म ।
तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यौ ।
मूर्धत्वादयश्च स्तुतिमात्रम् ।
अथवा अग्निशरीराया देवताया ऐश्वर्ययोगात्द्युमूर्धत्वादय उपपद्यन्त इति शङ्कितुरभिसन्धिः ।
अत्रोत्तरम्न ।
कुतः, तथा दृष्ट्युपदेशात् ।
अद्धा चरममनन्यथासिद्धं प्रथमावगतमन्यथयति ।
न त्वत्र चरमस्यानन्यथासिद्धिः, प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत्, तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो बारूप इतिवदुपपत्तेः ।
व्युत्पत्त्या वा वैश्वानराग्निशब्दयोर्ब्रह्मवचनत्वान्नान्यथासिद्धिः ।
तथाच ब्रह्माश्रयस्य प्रत्ययस्याश्रयान्तरे जाठरवैश्वानराह्वये क्षेपेण वा जाठरवैश्वानरोपाधिनि वा ब्रह्मण्युपास्ये वैश्वानरधर्माणां ब्रह्मधर्माणां च
समावेश उपपद्यते ।
असम्भवादिति सूत्रावयवं व्याचष्टेयदि चेह परमेश्वरो न विवक्ष्येतेति ।
पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टेयदि च केवल एवेति ।
न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः ।
न केवलमन्तःप्रतिष्ठितं पुरुषमपीत्यपेरर्थः ।
अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते ।
तथासति पुरुषे वैश्वानरदृष्टिपदिश्येत ।
एवं च परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यत इति भाष्यं विरुध्येत ।
श्रुतिविरोधश्च ।
ऽस यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदऽइति वैश्वानरस्य हि पुरुषत्ववेदनमत्रानूद्यते, नतु पुरुषस्य
वैश्वानरत्ववेदनम् ।
तस्मात्ऽस एषोऽग्निर्वैश्वानरो यत्ऽइति यदः पूर्वेण सम्बन्धः, पुरुष इति तु तत्र पुरुषदृष्टेरुपदेश इति युक्तम् ॥२४॥ ॥ २५ ॥ ॥ २६ ॥
१,२.७.२७
अत एव न देवता भूतं च । ब्रह्मसूत्र १,२.२७ ।
अत एव न देवता भूतं च ।
अत एवैतेभ्यः श्रुतिस्मृत्यवगतद्युमूर्धत्वादिसम्बन्धसर्वलोकाश्रयफलभागित्वसव्रपाप्मप्रदाहात्मब्रह्मब्रह्मपदोक्रमेभ्यो हेतुभ्य इत्यर्थः ।
ऽयो भानुना पृथिवीं द्यामुतेमाम्ऽइति मन्त्रवर्णोऽपि न केवलौष्ण्यप्रकाशविभवमात्रस्य भूताग्नेरिममीदृशं महिमानमाह, अपि तु ब्रह्मविकारतया
ताद्रूप्येणेति भावः ॥२७॥
१,२.७.२८
साक्षादप्यविरोधं जैमिनिः । ब्रह्मसूत्र १,२.२८ ।
साक्षादप्यविरोधं जैमिनिः ।
यदेतत्प्रकृतं मूर्धादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवान् सम्पाद्य पुरुषविधत्वं कल्पितं
तदभिप्रायेणेदमुच्यतेऽपुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदऽइति ।
अत्रावयवसम्पत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूर्धादिचुबुकान्तःप्रतिष्ठानाच्च पुरुषेऽन्तःप्रतिष्ठितत्वं
समुदायमध्यपतित्वात्तदवयवानां समुदायिनाम् ।
अत्रैव निदर्शनमाहयथा वृक्षे शाखामिति ।
शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः ।
समाधानान्तरमाहअथवेति ।
अन्तःप्रतिष्ठत्वं माध्यास्थ्यं तेन साक्षित्वं लक्षयति ।
एतदुक्तं भवतिवैश्वानरःपरमात्मा चराचरसाक्षीति ।
पूर्वपक्षिणोऽनुशयमुन्मूलयतिनिश्चिते चेति ।
विश्वात्मकत्वात्वैश्वानरः प्रत्यागात्मा ।
विश्वेषां वायं नरः, तद्विकारत्वाद्विश्वप्रपञ्चस्य ।
विश्वे नरा जीवा वात्मानोऽस्य तादात्मेनेति ॥२८॥
१,२.७.२९
अभिव्यक्तेरित्याश्मरथ्यः । ब्रह्मसूत्र १,२.२९ ।
अनुस्मृतेर्बादरिः । ब्रह्मसूत्र १,२.३० ।
अभिव्यक्तेरित्याश्मरथ्यः ।
साकल्येनोपलम्भासम्भवादुपासकानामनुग्रह्ःायानन्तोऽपि परमेश्वरः प्रादेशमात्रमात्मनमभिव्यनक्तीत्याहअतिमात्रस्यापीति ।
अतिक्रान्तो मात्रां परिमाणमतिमात्रः ।
उपासकानां कृते ।
उपासकार्थमिति यावत् ।
व्याख्यान्तरमाहप्रदेशेषु वेति ॥२९॥ ॥ ३० ॥
१,२.७.३१
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति । ब्रह्मसूत्र १,२.३१ ।
सम्पत्तेरिति जैमिनिः ।
मूर्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रादेशमात्रः ।
तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान्सम्पादयन्प्रादेशमात्रं वैश्वानरं दर्शयति ॥३१॥
१,२.७.३२
आमनन्ति चैनमस्मिन् । ब्रह्मसूत्र १,२.३२ ।
अत्रैव जाबालश्रुतिसंवादमाह सूत्रकारःामनन्ति चैनमस्मिन् ।
अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मनि स खल्वविमुक्तः ।
तस्मिन्प्रतिष्ठितः परमात्मा, तादात्म्यात् ।
अत एव हि श्रुतिःऽअनेन जीवेनात्मनाऽइति ।
अविद्याकल्पितं तु भेदमाश्रित्याधाराधेयभावः ।
वरणा भ्रूः ।
शेषमतिरोहितार्थम् ॥३२॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमंसाभाष्यविभागे भामत्यां प्रथमस्यःाध्यायस्य द्वितीयः पादः ॥२॥
॥ इति प्रथमाध्यायस्य उपास्यब्रह्मवाचकास्पष्टश्रुतिसमन्वयाख्यो द्वितीयः पादः ॥
प्रथमाध्याये तृतीयः पादः ।