विश्वास-प्रस्तुतिः
युष्मद्-अस्मत्-प्रत्यय-गोचरयोर् विषय-विषयिणोस्,
English
It is a matter not requiring any proof that the object and the subject 1 whose respective spheres are the notion of the ‘Thou’ (the Non-Ego 2) and the ‘Ego,’
मूलम्
युष्मद्-अस्मत्-प्रत्यय-गोचरयोर् विषय-विषयिणोस्,
विश्वास-प्रस्तुतिः
तमः-प्रकाश-वद्-विरुद्ध-स्वभावयोर्,
इतरेतर-भावाऽनुपपत्तौ सिद्धायाम्,
English
and which are opposed to each other as much as darkness and light are, cannot be identified.
मूलम्
तमः-प्रकाश-वद्-विरुद्ध-स्वभावयोर्,
इतरेतर-भावाऽनुपपत्तौ सिद्धायाम्,
विश्वास-प्रस्तुतिः
तद्-धर्माणाम् अपि सुतराम् इतरेतर-भावानुपपत्तिः —
English
All the less can their respective attributes be identified.
मूलम्
तद्-धर्माणाम् अपि सुतराम् इतरेतर-भावानुपपत्तिः —
विश्वास-प्रस्तुतिः
इत्यतः, अस्मत्-प्रत्यय-गोचरे विषयिणि चिद्-आत्मके,
युष्मत्-प्रत्यय-गोचरस्य विषयस्य, तद्-धर्माणां चाध्यासः,
English
Hence it follows that it is wrong to superimpose 3 upon the subject–whose Self is intelligence, and which has for its sphere the notion of the Ego– the object whose sphere is the notion of the Non-Ego, and the attributes of the object,
मूलम्
इत्यतः, अस्मत्-प्रत्यय-गोचरे विषयिणि चिद्-आत्मके,
युष्मत्-प्रत्यय-गोचरस्य विषयस्य, तद्-धर्माणां चाध्यासः,
विश्वास-प्रस्तुतिः
तद्-विपर्ययेण विषयिणस् तद्-धर्माणां च विषये ऽध्यासो
मिथ्येति भवितुं युक्तम् ।
English
and vice versā to superimpose the subject and the attributes of the subject on the object.
मूलम्
तद्-विपर्ययेण विषयिणस् तद्-धर्माणां च विषये ऽध्यासो
मिथ्येति भवितुं युक्तम् ।
तथाप्य् अन्योन्यस्मिन्न् अन्योन्यात्मकताम् अन्योन्य-धर्मांश् चाध्यस्य +इतरेतराविवेकेन
+अत्यन्त-विविक्तयोर् धर्म-धर्मिणोः
मिथ्या-ज्ञान-निमित्तः
सत्यानृते मिथुनी-कृत्य
‘अहम् इदम्’ ‘ममेदम्’ इति
नैसर्गिकोऽयं लोक-व्यवहारः ॥
आह — कोऽयम् अध्यासो नामेति ।
उच्यते — स्मृति-रूपः, परत्र पूर्व-दृष्टाव् अभासः ।
तं केचित् अन्यत्रान्यधर्माध्यास इति वदन्ति ।
केचित् तु यत्र यद्-अध्यासः तद्-विवेकाग्रह-निबन्धनो भ्रम इति ।
अन्ये तु यत्र यद्-अध्यासः तस्यैव विपरीत-धर्मत्व-कल्पनाम् आचक्षते ।
सर्वथापि तु अन्यस्यान्यधर्मावभासतां न व्यभिचरति ।
तथा च लोकेऽनुभवः —
शुक्तिका हि रजतवद् अवभासते,
एकश् चन्द्रः स-द्वितीयवद् इति ॥
कथं पुनः प्रत्यग्-आत्मन्य् अविषये अध्यासो विषय-तद्-धर्माणाम् ?
सर्वो हि पुरो ऽवस्थित एव विषये विषयान्तरम् अध्यस्यति ; युष्मत्-प्रत्ययापेतस्य च प्रत्यग्-आत्मनः अविषयत्वं ब्रवीषि ।
उच्यते — न तावद् अयम् एकान्तेनाविषयः, अस्मत्-प्रत्यय-विषयत्वात् अपरोक्षत्वाच् च प्रत्यग्-आत्म-प्रसिद्धेः ;
न चायम् अस्ति नियमः — पुरो ऽवस्थित एव विषये विषयान्तरम् अध्यसितव्यम् इति ;
अप्रत्यक्षेऽपि ह्य् आकाशे बालाः तलमलिनतादि अध्यस्यन्ति ;
एवम् अविरुद्धः प्रत्यग्-आत्मन्य् अपि अनात्माध्यासः ॥
तम् एतम् एवं-लक्षणम् अध्यासं पण्डिता अविद्येति मन्यन्ते ।
तद्-विवेकेन च वस्तु-स्वरूपावधारणं विद्याम् आहुः ।
तत्रैवं सति, यत्र यद्-अध्यासः, तत्-कृतेन दोषेण गुणेन वा अणु-मात्रेणापि स न सम्बध्यते ।
तम् एतम् अविद्याख्यम् आत्मानात्मनोर् इतरेतराध्यासं पुरस्कृत्य
सर्वे प्रमाण-प्रमेय-व्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः,
सर्वाणि च शास्त्राणि विधि-प्रतिषेध-मोक्ष-पराणि ।
कथं पुनर् अविद्यावद्-विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति, उच्यते —
देहेन्द्रियादिषु अहं-ममाभिमान-रहितस्य प्रमातृत्वानुपपत्तौ प्रमाण-प्रवृत्त्य्-अनुपपत्तेः । न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति । न चाधिष्ठानमन्तरेण इन्द्रियाणां व्यापारः सम्भवति । न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते । न चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । पश्वादिभिश्चाविशेषात् । यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले च प्रवर्तन्ते ; यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य ‘मां हन्तुमयमिच्छति’ इति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति ; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते । अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां च प्रसिद्धः अविवेकपूर्वकः प्रत्यक्षादिव्यवहारः । तत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते, तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्च । प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते । तथा हि — ‘ब्राह्मणो यजेत’ इत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम । तद्यथा — पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति ; तथा देहधर्मान् ‘स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि च’ इति ; तथेन्द्रियधर्मान् — ‘मूकः काणः क्लीबो बधिरोऽन्धोऽहम्’ इति ; तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन् । एवमहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति । एवमयमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः । वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम् —
-
3:1 The subject is the universal Self whose nature is intelligence (cit); the object comprises whatever is of a non-intelligent nature, viz. bodies with their sense organs, internal organs, and the objects of the senses, i.e. the external material world. ↩︎
-
3:2 The object is said to have for its sphere the notion of the ’thou’ (yushmat), not the notion of the ’this’ or ’that’ (idam), in order better to mark its absolute opposition to the subject or Ego. Language allows of the co-ordination of the pronouns of the first and the third person (‘It is I,’ ‘I am he who,’ &c.; ete vayam, ime vayam āsmahe), but not of the co-ordination of the pronouns of the first and second person. ↩︎
-
3:3 Adhyāsa, literally ‘superimposition’ in the sense of (mistaken) ascription or imputation, to something, of an essential nature or attributes not belonging to it. See later on. ↩︎