कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
ज्ञानानन्द-भारती - द्राविडी
कार्यम् पादरिरस्य कत्युबबत्ते: ॥ ७ ॥
परं ब्रह्माथ वा कार्यमुदङ्मार्गेण गम्यते ॥
मुख्यत्वादमृतत्वोक्तेर्गम्यते परमेव तत् ॥ ९ ॥
कार्यं स्याद्गतियोग्यत्वात्परस्मिंस्तदसम्भवात् ॥
सामीप्याद्ब्रह्मशब्दोक्तिरमृतत्वं क्रमाद्भवेत् ॥ १० ॥
–वैयासिकन्यायमाला
ज्ञानानन्द-भारती - द्राविडी
उत्तर मार्क्कत्तिल् परबिरह्मम् अडैयप्पडुगिऱदा? अल्लदु कार्य पिरह्ममा? मुक्कियमाऩ अर्त्तमायिरुप् पदाल्, मरणमऱ्ऱ तऩ्मै सॊल्लि इरुप्पदालुम् अन्द परबिरह्मम् ताऩ् अडैयप्पडुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
पोवदऱ्कुत् तगुन्ददायिरुप्पदालुम् परबिरह्म विषयत्तिल् अदु (पोवदु ऎऩ्बदु) सम्बविक्काददिऩालुम्, कार्यम् ताऩ्। समीबत्तिलिरुप्पदाल् पिरह्मम् ऎऩ्ऱ सप्तम् सॊल्लप्पट्टिरुक्किऱदु। किरममाग मरणमऱ्ऱ तऩ्मैयुम् एऱ्पडुम्
‘स एनान्ब्रह्म गमयति’ (छा. उ. ४। १५। ५) इत्यत्र विचिकित्स्यते — किं कार्यमपरं ब्रह्म गमयति, आहोस्वित्परमेवाविकृतं मुख्यं ब्रह्मेति। कुतः संशयः ? ब्रह्मशब्दप्रयोगात् , गतिश्रुतेश्च। तत्र कार्यमेव सगुणमपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो मन्यते। कुतः ? अस्य गत्युपपत्तेः — अस्य हि कार्यब्रह्मणो गन्तव्यत्वमुपपद्यते, प्रदेशवत्त्वात्। न तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते, सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तॄणाम् ॥ ७ ॥
ज्ञानानन्द-भारती - द्राविडी
(अर्सिरादि वऴियागच् चॆल्लुम् उबासगर्गळ् परबिरह्मत्तैयडैगिऱार्गळा, अबरबिरह्मत्तै यडैगिऱार्गळा ऎऩ्ऱु सन्देहम्। ‘अवऩ् इवर्गळै पिरह्मत्तैयडैविक्किऱाऩ्’ ऎऩ्ऱ सुरुदियिलुळ्ळ पिरह्मबदम् मुक्यविरुत्तियिल् परबिरह्मत्तैये कुऱिक्कुमाऩदालुम् अन्द वऴियाग मेले सॆल्गिऱवऩ् मरणमऱ्ऱ निलैयैयडैगिऱाऩ्, ऎऩ्ऱु कूऱियिरुप्प तालुम् उबासगऩ् परबिरह्मत्तैये अडैगिऱाऩ् ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
इङ्गु अर्सिरादि मार्क्कम् कूऱियिरुप्पदाल् अव्वऴि सॆऩ्ऱु अडैवदु परबिरह्ममल्ल। अदु ऎङ्गुमिरुप्पदाल् अदै अडैय ऎङ्गुम् सॆल्ल वेण्डियदिल्लै। उबासगऩ् पिरह्मलोगम् सॆऩ्ऱु अङ्गु तत्वञाऩम् पॆऱ्ऱु मुक्तियडैगिऱाऩ् ऎऩ्ऱ किरममुक्तियैक् कॊण्डु मरणमऱ्ऱनिलै ऎऩ्ऱु सुरुदि कूऱुगिऱदु। पिरह्मलोगम् सॆऩ्ऱवऩ् तिरुम्बिवरामल् कट्टायम् मुक्तियडैवदाल् पिरह्मत्तिऱ्कु समीबत्तिल् इरुप्पदाल् अदैयुम् पिरह्मम् ऎऩ्ऱे कूऱुगिऱदु। उबासगऩ् अडैवदु अबरबिरह्मम् ताऩ् परबिरह्म मल्ल ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
“अवऩ् इवर्गळै पिरह्मत्तै अडैच् चॆय्गिऱाऩ्" (सान्।IV-१५-५) ऎऩ्ऱविडत्तिल् कार्यमाऩ कीऴाऩ पिरह्मत्तै अडैच्चॆय्गिऱाऩा? अल्लदु माऱुदलडैयाद मुक्कियमाऩ पिरह्मत्तैयेया? ऎऩ्ऱु आलोसिक्कप्पडुगिऱदु। एऩ् सन्देहम्? पिरह्म सप्तप् पिरयोगम् सॆय्दिरुप्पदिऩालुम्, अडैवदु सॊल्लियि रुप्पदिऩालुम्, अदिल् माऩवऩल्लाद पुरुषऩ् “कार्यम्” कुणत्तुडऩ् कूडिय कीऴप्पट्ट पिरह्मत्तै इवर्गळै यडैयच् चॆय्गिऱाऩ् ऎऩ्ऱु पादरियॆऩ्ऱ आसार्यार् अबिप्पिरायप्पडुगिऱार्। एऩ्? “इवरुक्कु अडैदल् पॊरुत्तमागुमादलाल्”। इन्द कार्यप् पिरह्मत्तिऱ्कु अल्लवा तऩित्तु इडमुळ्ळ तऩ्मैयिरुप्पदाल्, अडै यक्कूडिय तऩ्मै पॊरुत्तमागुम्? परप्पिरह्मत्तिलो, पोगिऱवऩ् ऎऩ्ऱ तऩ्मै, अडैयत्तक्कवर् ऎऩ्ऱ तऩ्मै, पोक्कु, ऎदुवुम् पॊरुन्दादु, ऎङ्गुमिरुप्पदालुम्, पोगिऱ वर्गळुडैय उळ्ळेयुळ्ळ आत्मावायिरुप् पदालुम्।
विशेषितत्वाच्च ॥ ८ ॥
ज्ञानानन्द-भारती - द्राविडी
विसेषिदत्वाच्च ॥ ८ ॥
‘ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६। २। १५) इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरिति गम्यते। न हि बहुवचनेन विशेषणं परस्मिन्ब्रह्मण्यवकल्पते। कार्ये तु अवस्थाभेदोपपत्तेः सम्भवति बहुवचनम्। लोकश्रुतिरपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोगभूमावाञ्जसी। गौणी त्वन्यत्र ‘ब्रह्मैव लोक एष सम्राट्’ इत्यादिषु। अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रह्मणि अनाञ्जसः स्यात्। तस्मात् कार्यविषयमेवेदं नयनम् ॥ ८ ॥
ज्ञानानन्द-भारती - द्राविडी
“पिरह्मलोगङ्गळै अडैविक्किऱाऩ्। अवर्गळ् अन्द पिरह्म लोगङ्गळिल् तीर्क्कायुसुळ्ळ पिरह्माविऩ् नीण्ड आयुट्कालम् वसिक्किऱार्गळ्” (पिरुहत्।VI-२-१५) ऎऩ्ऱु वेऱु सुरुदियिल् “कुऱिप्पिट्टिरुक् किऱबडियालुम्’ अडैदल् कार्य पिरह्मत्तैये विषय मायुळ्ळदु ऎऩ्ऱु तॆरिगिऱदु। पलदैक् कुऱिप्पिडुम् सॊल्लाल् कुऱिप्पिडुवदु परप्पिरह्मत्तिल् पॊरुन्दा तल्लवा? कार्य पिरह्मत्तिलो निलैगळुडैय वेऱ्ऱुमै पॊरुन्दुमागैयाल्, पलवॆऩ्ऱु सॊल्वदु सम्बविक्कुम्। “लोगम्” ऎऩ्ऱ वार्त्तैयुम्गूड माऱुदलै विषयीगरिक्किऱ अमैप्पुडऩ्गूडिय पोग स्ताऩत्तिल् पॊरुन्दक्कूडियदु। मऱ्ऱविडङ्गळिलो कुणत्तिऩाल् सॊल्लप्पडुवदुदाऩ्। “हे, अरसऩे इन्द लोगम् पिरह्ममे” ऎऩ्ऱदु पोल, आदारमा यिरुप्पदु मेलालिरुप्पदु ऎऩ्ऱु (एऴाम् वेऱ्ऱुमैयाल्) कुऱिप्पिट्टिरुप्पदुम् मेलाऩ पिरह्मत्तिल् पॊरुत्त मल्लाददागुम्। आगैयाल् इन्द कॊण्डु पोय्च् चेर्प्पदु कार्य पिरह्मत्तैये विषयमायुळ्ळदु।
ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते, समन्वये हि समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम् — इत्यत्रोच्यते —
ज्ञानानन्द-भारती - द्राविडी
समऩ्वयत्तिल् (मुदलावदु अत्यायत्तिल्) ऎल्ला जगत्तिऱ्कुम् जऩ्मम् मुदलियदिऱ्कु कारणमायि रुप्पदु प्रह्मम् ऎऩ्ऱु स्ताबिक्कप्पट्टिरुक्किऱबडियाल्, प्रह्मम् ऎऩ्ऱ सप्तम् कार्य विषयत्तिल् पॊरुत् तमागादु अल्लवा ऎऩ्ऱाल् इङ्गु सॆय्गिऱोम्:-
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
ज्ञानानन्द-भारती - द्राविडी
सामीप्यात्तु तत्व्यबदेस: ॥ ९ ॥
तुशब्द आशङ्काव्यावृत्त्यर्थः। परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः, तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते। परमेव हि ब्रह्म विशुद्धोपाधिसम्बन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥ ९ ॥
ज्ञानानन्द-भारती - द्राविडी
“तु” ऎऩ्ऱ सप्तम् सन्देहत्तै विलक्कुवदै पिरयोजऩमागवुडैयदु, अबरबिरह्मम् परप्पिरह्मत् तिऱ्कु समीबत्तिलिरुप्पदाल्, अदिलुम् पिरह्म सप्त पिरयोगम् सॆय्वदु विरोदमिल्लै। परप्रह्ममेदाऩ् अल्लवा सुत्तमाऩ उबादिगळुडऩ् सम्बन्दप्पट्टदाग सिल समयङ्गळिल् मऩोमयम् मुदलाऩ सिल कार्यमाऩ तर्मङ्गळुडऩ् सेर्त्तु उबासऩैक्काग उबदेसम् सॆय्यप्पट्टु अबरम् ऎऩ्ऱु एऱ्पडुगिऱदु? ऎऩ्बदु सित्तान्दम्।
ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते। न हि परस्माद्ब्रह्मणोऽन्यत्र क्वचिन्नित्यतां सम्भावयन्ति। दर्शयति च देवयानेन पथा प्रस्थितानामनावृत्तिम् — ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४। १५। ५) इति, ‘तेषामिह न पुनरावृत्तिरस्ति — ‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८। ६। ६) (क. उ. २। ३। १६) इति चेत्; अत्र ब्रूमः —
ज्ञानानन्द-भारती - द्राविडी
कार्य पिरह्मत्तै अडैन्दाल् तिरुम्बिवरुव तिल्लैयॆऩ्ऱु सॊल्वदु पॊरुन्दादे; परप्रह्मत् तैत् तविर वेऱु ऎङ्गेयुम् सासुवदमायिरुक्कुम् तऩ्मै इरुप्पदागच् चॊल्लविल्लैये? तेवयाऩ मार्क्कमाय् पुऱप्पट्टुप् पोगिऱवर्गळुक्को “इदु वऴियाग पोगिऱवर्गळ् इन्द मनुसम्बन्दमाऩ सुऴलुक्कु तिरुम्बुवदिल्लै” (सान्। IV-१५-६) ऎऩ्ऱुम्, “अवर्गळुक्कु इङ्गु तिरुम्बि वरुवदु किडैयादु” ऎऩ्ऱुम् “अदऩ् वऴियाय् मेले पोगिऱवऩ् मरणमऱ्ऱ तऩ्मैयै अडैगिऱाऩ्” (सान्। VIII-६-६ ; कड VI;१६) ऎऩ्ऱुम् तिरुम्बि वरुवदु किडैयादु ऎऩ्ऱु काट्टुगिऱदे? ऎऩ्ऱाल् अङ्गु सॊल्गिऱोम्।
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
ज्ञानानन्द-भारती - द्राविडी
कार्यात्यये तदत्यक्षेण सहाद: परमबिदानात् ॥ १० ॥
कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्रैव उत्पन्नसम्यग्दर्शनाः सन्तः, तदध्यक्षेण हिरण्यगर्भेण सह अतः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते — क्रममुक्तिः अनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या। न ह्यञ्जसैव गतिपूर्विका परप्राप्तिः सम्भवतीत्युपपादितम् ॥ १० ॥
ज्ञानानन्द-भारती - द्राविडी
कार्य पिरह्मत्तिऩुडैय उलगत्तिऱ्कु पिरऩयम् समीबिक्कुम्बोदु अङ्गेये नल्ल ञाऩमेऱ्पट्टवर् कळाय् अदऩ् अत्यक्षराऩ हिरण्यगर्प्परुडऩ् कूडिवे अङ्गिरुन्दु मेलाऩ सुत्तमाऩ विष्णुविऩ् उत्तममाऩ स्ताऩत्तै अडैगिऱार्गळ् ऎऩ्ऱु इव्विदम् तिरुम्बि वरुवदिल्लैयॆऩ्ऱु सुरुदि सॊल्लियिरुप्पदिलिरुन्दु किरममुक्ति ऒप्पुक्कॊळ्ळ वेण्डियदागिऱदु। पोगुदलै मुऩ्ऩिट्टु परबिरह्मत्तैयडैवदु सम्बविक्कादु ऎऩ्बदु ऎडुत्तुक्काट्टप्पट्टदु।
स्मृतेश्च ॥ ११ ॥
ज्ञानानन्द-भारती - द्राविडी
स्म्रुदेच्च ॥ ११ ॥
स्मृतिरप्येतमर्थमनुजानाति — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति। तस्मात्कार्यब्रह्मविषया एव गतिश्रुतयः इति सिद्धान्तः ॥ ११ ॥
ज्ञानानन्द-भारती - द्राविडी
स्मिरुदियुम् कूड इव्विषयत्तै ऒत्तुक् कॊळ्गिऱदु। “सुत्तमऩमुळ्ळ ञाऩम् पॆऱ्ऱ अवर्गळ् ऎल्लोरुम् पिरह्माविऩ् आयुळ् मुडिविल् पिरळयगालम् वरुम्बोदु पिरह्मावुम्गूड, मेलाऩ पदत्तै अडैगिऱार्गळ्” ऎऩ्ऱु। आगैयाल् कार्य पिरह्मत्तै विषयमायुळ्ळदाग पोगुदल् सॊल्लप् पट्टिरुक्किऱदु ऎऩ्ऱु सित्तान्दम्।
कं पुनः पूर्वपक्षमाशङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः ‘कार्यं बादरिः’ (ब्र. सू. ४। ३। ७) इत्यादिनेति, स इदानीं सूत्रैरेवोपदर्श्यते —
ज्ञानानन्द-भारती - द्राविडी
ऎन्द पूर्वबक्षत्तै आसङ्गै सॆय्दु कॊण्डु “कार्यम् ऎऩ्ऱु पादरि" मुदलाऩ सूत्तिरङ्गळाल् इन्द सित्तान्दम् स्ताबिक्कप्पट्टदु? ऎऩ्ऱाल्, अदु इप्पॊऴुदु सूत्तिरङ्गळिऩालेये काट्टप्पडुगिऱदु:-
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
ज्ञानानन्द-भारती - द्राविडी
परम् जैमिनिर्मुक्यत्वात् ॥ १२ ॥
जैमिनिस्त्वाचार्यः‘स एनान्ब्रह्म गमयति’ (छा. उ. ४। १५। ५) इत्यत्र परमेव ब्रह्म प्रापयतीति मन्यते। कुतः ? मुख्यत्वात्। परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् , गौणमपरम्; मुख्यगौणयोश्च मुख्ये सम्प्रत्ययो भवति ॥ १२ ॥
ज्ञानानन्द-भारती - द्राविडी
“इवर्गळै अवऩ् पिरह्मत्तै अडैविक् किऱाऩ्" (सान्।IV-१५-६) ऎऩ्गिऱविडत्तिल् परप्पिरह्मत् तैये अडैविक्किऱाऩ् ऎऩ्ऱु जैमिऩि ऎऩ्ऱ आसार्यर् ऎण्णुगिऱार्। एऩ्? मुक्कियत् तऩ्मैयुळ्ळदाल् पिरह्मम् ऎऩ्ऱ सप्तत्तिऱ्कु परप्पिरह्ममल्लवा मुक्कियमाऩ पिडि माऩम्? अबरप्पिरह्मम् कौणम्। मुक्कियम् कौणम् इरण्डिल् मुक्कियत्तिल् नल्ल अऱिवु एऱ्पडुगिऱदु।
दर्शनाच्च ॥ १३ ॥
ज्ञानानन्द-भारती - द्राविडी
तर्सनाच्च ॥ १३ ॥
‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८। ६। ६) (क. उ. २। ३। १६) इति च गतिपूर्वकममृतत्वं दर्शयति। अमृतत्वं च परस्मिन्ब्रह्मण्युपपद्यते, न कार्ये, विनाशित्वात्कार्यस्य — ‘अथ यत्रान्यत्पश्यति … तदल्पं … तन्मर्त्यम्’ (छा. उ. ७। २४। १) इति वचनात्। परविषयैव च एषा गतिः कठवल्लीषु पठ्यते; न हि तत्र विद्यान्तरप्रक्रमोऽस्ति — ‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क. उ. १। २। १४) इति परस्यैव ब्रह्मणः प्रक्रान्तत्वात् ॥ १३ ॥
ज्ञानानन्द-भारती - द्राविडी
‘अदु वऴियाग मेले पोगिऱवऩ् मरणमऱ्ऱ तऩ्मैयै अडैगिऱाऩ्’ (सा। VIII ६-६ ; कड VI१६) ऎऩ्ऱु पोगुदलै मुऩ्ऩिट्टु मरणमऱ्ऱ तऩ्मैयै काट्टु किऱदु। मरणमऱ्ऱ तऩ्मैयुम् परप्पिरह्म विषयत्तिल् पॊरुन्दुम्, कार्य पिरह्म विषयत्तिल् पॊरुन्दादु, कार्यत्तिऱ्कु नासमडैयुम् तऩ्मैयिरुप्पदिऩाल् “पिऱगु ऎङ्गे वेऱे पार्क्किऱाऩो (सान्।VII-२४-१) ऎऩ्ऱु ऎडुत्तुच् चॊल्लियिरुप्पदिऩाल् परबिरह्म विषयमाग वेदाऩ् कडवल्लियिलुम् पोगुदल् सॊल्लप्पडुगिऱदु। अन्दविडत्तिल् वेऱु वित्यैक्कु आरम्बम् इल्लै “तर्मत्तै विड वेऱाऩ, अदर्मत्तै विड वेऱाऩ" (कडII-१४) ऎऩ्ऱु परबिरह्मत्तैप् पऱ्ऱिये आरम्बित्ति रुप्पदाल्
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
ज्ञानानन्द-भारती - द्राविडी
न स कार्ये प्रदिबत्तयबिसन्दि: ॥ १४ ॥
अपि च ‘प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८। १४। १) इति नायं कार्यविषयः प्रतिपत्त्यभिसन्धिः, ‘नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८। १४। १) इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात्। ‘यशोऽहं भवामि ब्राह्मणानाम्’ (छा. उ. ८। १४। १) इति च सर्वात्मत्वेनोपक्रमणात्। ‘न तस्य प्रतिमाऽस्ति यस्य नाम महद्यशः’ (श्वे. उ. ४। १९) इति च परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः। सा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता — ‘तदपराजिता पूर्ब्रह्मणः प्रभुविमितँ हिरण्मयम्’ (छा. उ. ८। ५। ३) इत्यत्र। पदेरपि च गत्यर्थत्वात् मार्गापेक्षता अवसीयते। तस्मात्परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् ।
ज्ञानानन्द-भारती - द्राविडी
मेलुम् “पिरजाबदियिऩ् सबैयागिऱ वीट्टुक्कुप् पोगिऱेऩ्” (सान्। VIII १४-१) ऎऩ्गिऱ इदु कार्यविषयमाऩ अडैदलिऩ् त्याऩमिल्लै। “नामरूबङ्गळै निर्वाहम् सॆय्गिऱवर्, ऎदऩ् मत्तियिल् अवैयिरण्डुम् इरुक्किऱदो, अदु पिरह्मम्’ (सान्।VIII १४-१) ऎऩ्ऱु कार्यत्तिऱ्कु विलक्षणमायुळ्ळ परबिरह्मत्तिऱ्के पिरगिरुदत्तऩ्मैयिरुप्पदाल्। “पिराह्मणर्गळुडैय यसस्साग नाऩ् इरुक्किऱेऩ्” (सान्।VIII-१४-१) ऎऩ्ऱु ऎल्लावऱ्ऱिऱ्कुम् आत्मावायिरुक्कुम् तऩ्मैयिलेये आरम्बित्तिरुक्किऱदिऩाल्। “अदऱ्कु समाऩम् किडैयादु, ऎदऱ्कु पॆरिय यसस् ऎऩ्ऱु पॆयरो” (सुवेदा। IV १९) ऎऩ्ऱु परबिरह्मत्तिऱ्कुत्ताऩ् यसस् ऎऩ्ऱ पॆयरुळ्ळ तऩ्मैयुम् पिरसित्तमायिरुप्पदाल्।
ज्ञानानन्द-भारती - द्राविडी
इन्द पोगुदलै मुऩ्ऩिट्टु वीट्टैयडै वदाऩदु हार्द (तहर) वित्यैयिलुम् “अदु वेऱु यारालुम् जयिक्कप्पडाद, पिरह्माविऩ्बुरम् पिरबुविऩा लेये निर्मिदमाऩदु, तङ्गमयमाऩदु" (सान्।VIII५-३)ऎऩ्ऱविडत्तिल् सॊल्लप्पट्टिरुक्किऱदु। ‘पद’ ऎऩ्ऱ तादु वुक्कु पोगिऱाऩ् ऎऩ्ऱ अर्त्तमुळ्ळदाल्, मार्क्कत्तिऩ् अबेक्षैयुळ्ळ तऩ्मै तीर्माऩमागिऱदु। आगैयाल् पोगुदलैक्कुऱिक्कुम् सुरुदिगळ् परबिरह्मत्तै विषयमागवुळ्ळऩ ऎऩ्ऱु वेऱु पक्षम्।
तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ — गत्युपपत्त्यादिभिरेकः, मुख्यत्वादिभिरपरः। तत्र गत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम् , न तु मुख्यत्वादयो गत्युपपत्त्यादीन् — इति आद्य एव सिद्धान्तो व्याख्यातः, द्वितीयस्तु पूर्वपक्षः। न ह्यसत्यपि सम्भवे मुख्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते। परविद्याप्रकरणेऽपि च तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते — ‘विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८। ६। ६) इतिवत्। ‘प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८। १४। १) इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसन्धिर्न विरुध्यते। सगुणेऽपि च ब्रह्मणि सर्वात्मत्वसङ्कीर्तनम् ‘सर्वकर्मा सर्वकामः’ इत्यादिवत् अवकल्पते। तस्मादपरविषया एव गतिश्रुतयः ॥
ज्ञानानन्द-भारती - द्राविडी
अन्द इन्द इरण्डु पक्षङ्गळुम् आसार्याराल् सूत्तिरत्तिल् काट्टप्पट्टिरुक्किऩ्ऱऩ, “कदियिऩ् पॊरुत्तम्” (सूत्रम् ७) मुदलाऩदुगळाल् ऒऩ्ऱु, “मुक्कियमाऩदिऩाल्" (सूत्रम् १२) मुदलाऩदुगळाल् मऱ्ऱॊऩ्ऱु। अङ्गु “कदियिऩ् पॊरुत्तम्” मुदलियवै “मुक्कियमाऩदिऩाल्” मुदलियवैगळै सरियल्ल वॆऩ्ऱु काट्टुवदऱ्कु सक्तियुळ्ळवै; “मुक्कियमाऩ तिऩाल्” मुदलियवैगळो “कदिबॊरुन्दुम्” मुदलियदै अव्विदम् काट्टमुडियादु ऎऩ्बदिऩाल् मुदलिल् कण्डदे सित्तान्दम् ऎऩ्ऱु वियाक्याऩम् सॆय्यबबट्टदु इरण्डावदु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
पॊरुत्तमिल्लामलिरुक्कुम् पोदुगूड मुक्किय माऩ अर्त्तत्तैये किरहिक्कवेण्डुमॆऩ्ऱ कट्टळै यिडुबवर् यारुम् किडैयादु। परवित्या पिरगरणत्तिलुम् कूड अदै स्तोत्तिरम् सॆय्वदऱ्काग वेऱु वित्यैयै आसिरयित्तिरुक्कुम् कदियै ऎडुत्तुच् चॊल्वदु न्यायमे, “पल विदमाऩ मऱ्ऱ नाडिगळ् वॆळिक्किळम्बुवदिल्दाऩ्” (सान्।VIII ६-६) ऎऩ्बदैप् पोल, “पिरजाबदियिऩ् सबैयाऩ वीट्टै अडैगिऱेऩ्" (सान्। VIII १४-१) ऎऩ्बदुवो, मुऩ् वाक्कियत्तै निऱुत्तिक् कॊण्डु कार्य पिरह्मत्तिलुम् अडैदलिऩ् सङ्गल्बम् विरोदमिल्लै। सगुण पिरह्मत्तिलुम्गूड ऎल्लामाग विरुक्कुम् तऩ्मैयैच् चॊल्वदु, ऎल्ला कर्मावुमुळ् ळवर्, ऎल्ला काममुमुळ्ळवर् ऎऩ्बदु मुदलियदुबोल, पॊरुन्दुम्। आगैयाल् कदियै सॊल्लुम् सुरुदिगळ् अबरबिरह्मत्तै विषयमायुळ्ळवैदाऩ्।
केचित्पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि — इत्येतां व्यवस्थामनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति; तत् अनुपपन्नम् , गन्तव्यत्वानुपपत्तेर्ब्रह्मणः। यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म ‘आकाशवत्सर्वगतश्च नित्यः’ ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३। ४। १) ‘य आत्मा सर्वान्तरः’ (बृ. उ. ३। ४। १) ‘आत्मैवेदँ सर्वम्’ (छा. उ. ७। २५। २) ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ (मु. उ. २। २। १२) इत्यादिश्रुतिनिर्धारितविशेषम् — तस्य गन्तव्यता न कदाचिदप्युपपद्यते। न हि गतमेव गम्यते। अन्यो ह्यन्यद्गच्छतीति प्रसिद्धं लोके ।
ज्ञानानन्द-भारती - द्राविडी
सिलर्गळो मुऩ्ऩाल् उळ्ळवै पूर्वबक्ष सूत्रङ्गळ्, मेलुळ्ळवैगळ् सित्तान्द सूत्तिरङ्गळ् ऎऩ्ऱ इन्द कोट्पाट्टै अऩुसरित्तु कदियै सॊल्लुम् सुरुदिगळ् परबिरह्मत्तै विषयमायुळ्ळ वैदाऩ् ऎऩ्ऱु स्ताबिक्किऱार्गळ्। अदु पॊरुन्दादु, पिरह्मत्तिऱ्कु अडैयप्पडुम् तऩ्मै पॊरुन्दादिऩाल्। ऎन्द परबिरह्मम् ऎङ्गुमुळ्ळदाय् ऎल्लावऱ्ऱिऱ्कुम् उळ्ळेयिरुप्पदाय् ऎल्ला स्वरूबमायुळ्ळदो “आगासम् पोल ऎङ्गुमिरुप्पदायुम् नित्यमायुम्" “ऎदु नेऱे पिरत्यक्षमो अदु पिरह्मम्” (पिरुहत् III ४-१) “ऎन्द आत्मा ऎल्लावऱ्ऱिऱ्कुम् उळ्ळेयिरुप्पदो” (पिरुहत् III४-१) “इदु ऎल्लाम् आत्मादाऩ्” (सान्। VII-२५-२), “इन्द जगत् पिरह्ममे, इदु मिगवुम् मेलाऩदु"।(मुण्डग।II-२-११) ऎऩ्बदु मुदलाऩ सुरुदिगळाल् तीर्माऩिक्कप्पट्ट विसेष मुळ्ळदो अदऱ्कु अडैयप्पडुम् तऩ्मै ऒरुक्कालुम् कूड पॊरुत्तमागादु। अडैन्दिरुप्पदुवे अडैयप् पडुगिऱदिल्लैयल्लवा? वेऱॊऩ्ऱु मऱ् ऱॊऩ्ऱै अडैगिऱदु ऎऩ्ऱल्लवा उलगत्तिल् पिरसित्ति।
ननु लोके गतस्यापि गन्तव्यता देशान्तरविशिष्टस्य दृष्टा — यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति, तथा अनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम् , तद्वत् ब्रह्मणोऽपि सर्वशक्त्युपेतत्वात् कथञ्चित् गन्तव्यता स्यादिति — न, प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मणः। ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६। १९) ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३। ८। ८) ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २। १। २) ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४। ४। २५) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३। ९। २६) इत्यादिश्रुतिस्मृतिन्यायेभ्यो न देशकालादिविशेषयोगः परमात्मनि कल्पयितुं शक्यते, येन भूप्रदेशवयोवस्थान्यायेनास्य गन्तव्यता स्यात्। भूवयसोस्तु प्रदेशावस्थादिविशेषयोगादुपपद्यते देशकालविशिष्टा गन्तव्यता ।
ज्ञानानन्द-भारती - द्राविडी
अडैन्दिरुन्दबोदिलुम् वेऱु इडत्तोडु कूडिऩदिऱ्कु अडैयप्पडुम् तऩ्मै पार्क्कप्पडुगिऱदे; पूमियिलेये इरुक्किऱवऩ् वेऱु इडम् पोवदु मूलमाग पूमियै अडैगिऱाऩ् ऎऩ्बदुबोल; अप्पडिये, पालऩुक्कु वेऱायिरुक्कुम् तऩ्मैयिल्लादबोऩालुम् वेऱु कालत्तुडऩ् कूडियिरुक्किऱ किऴत्तऩ्मै तऩ् स्वरूबमायिरुन्दुम् अडैयप्पडुवदागप् पार्क्कप्पडु किऱदु। अप्पडिये पिरह्मत्तिऱ्कुम् ऎल्ला सक्तिगळुडऩ् कूडियिरुक्कुम् तऩ्मैयिरुप्पदिऩाल् ऎप्पडियेऩुम् अडैयप्पडुम् तऩ्मै एऱ्पडलाम् ऎऩ्ऱाल्, सरियल्ल पिरह्मत्तिऱ्कु ऎव्विद विसेषमुम् मऱुक्कप्पट्ट तऩ्मैयिरुप्पदिऩाल्, “अवयवमऱ्ऱदु, किरियैयऱ्ऱदु अडङ्गिऩदु, तोषमऱ्ऱदु, अऴुक्कऱ्ऱदु” (सुवेदा VI-१९) “स्तूलमिल्लाददु, अणुवल्लाददु कुट्टैयाग इल्लाददु, नीण्डदल्लाददु” (पिरुहत् III८-८) “उळ्ळेयुम् वॆळियिलुम् उळ्ळवर्, पिऱप्पऱ्ऱवर्” (मुण्डग।II-१-२), “अन्द इवर् पॆरियवर्, पिऱप्पऱ्ऱवर् आत्मा, जरैयऱ् ऱवर्, नासमऱ्ऱवर्, सागादवर्, पयमऱ्ऱवर्, पिरह्मम्” (पिरुहत्।IV-४-२५), “अन्द इवर् आत्मा, इदुवल्ल इदुवल्ल” (पिरुहत् III ९-२६) ऎऩ्बदु मुदलाऩ सुरुदि, स्मिरुदि, नियायङ्गळिलिरुन्दु, परमात्माविऩिडम् तेसम् कालम् मुदलिय विसेषङ्गळुडैय सम्बन्दम् कल्बिक्क मुडियादु, ऎदैक्कॊण्डु पूमियिलुळ्ळ पिरदेसम्, वयसिल् एऱ्पडुम् परुवम्बोल इदऱ्कु अडैयप्पडुम् तऩ्मै एऱ्पडुमो; पूमिक्कुम् वयसिऱ्कुमो इडम्, परुवम् मुदलाऩ विसेषङ्गळिऩ् सम्बन्दमिरुप्पदि ऩाल्, तेस काल विसेषमुळ्ळदाय् अडैयप्पडुम् तऩ्मै पॊरुत्तमागुम्।
जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत् , न, विशेषनिराकरणश्रुतीनामनन्यार्थत्वात्। उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् , न, तासामेकत्वप्रतिपादनपरत्वात्। मृदादिदृष्टान्तैर्हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च अनृतत्वं प्रतिपादयत् शास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति ॥
ज्ञानानन्द-भारती - द्राविडी
जगत्तिऩ् उत्पत्ति स्तिदि, पिरळयम् इवैग ळुक्कुक् कारणमायिरुक्कुम् तऩ्मै सॊल्लियिरुप्पदाल् पिरह्मत्तिऱ्कु अनेग सक्तियुळ्ळ तऩ्मैयुण्डु ऎऩ्ऱाल् सरियल्ल, विसेषङ्गळै मऱुक्कुम् सुरुदिगळुक्कु वेऱु अर्त्तम् सॊल्वदऱ्किल्लाददिऩाल्।
ज्ञानानन्द-भारती - द्राविडी
उत्पत्ति मुदलाऩ सुरुदिगळुक्कुम् वेऱु अर्त्तमिल्लात् तऩ्मै समाऩम् ताऩे ऎऩ्ऱाल्, सरियल्ल, अवैगळुक्कु ऒऩ्ऱायिरुक्कुम् तऩ्मैयै ऎडुत्तुक्काट्टुवदिलेये तात्पर्यमाऩदिऩाल्, मण् मुदलाऩ तिरुष्टान्दङ्गळैक् कॊण्डु सत्ताय् (ऎप्पॊऴुदुमिरुप्पदाय्) ऒऩ्ऱाय् इरुक्कुम् पिरह्मत् तिऱ्कु सत्यत्तऩ्मैयैयुम्, उण्डाऩदऱ्कु पॊय्त् तऩ्मैयैयुम् ऎडुत्तुच्चॊल्लुम् सास्तिरम् उत्पत्ति मुदलाऩदिल् तात्पर्यमुळ्ळदाग इरुप्पदु न्यायमागादु।
कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्वम् , न पुनरितरशेषत्वमितरासामिति, उच्यते — विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात्। न हि आत्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः काचिदाकाङ्क्षा उपजायते, पुरुषार्थसमाप्तिबुद्ध्युपपत्तेः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४। २। ४) ‘विद्वान्न बिभेति कुतश्चन। एतँ ह वाव न तपति। किमहँ साधु नाकरवम्। किमहं पापमकरवम्’ (तै. उ. २। ९। १) इत्यादिश्रुतिभ्यः, तथैव च विदुषां तुष्ट्यनुभवादिदर्शनात् , विकारानृताभिसन्ध्यपवादाच्च — ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति। अतो न विशेषनिराकरणश्रुतीनामन्यशेषत्वमवगन्तुं शक्यते ।
ज्ञानानन्द-भारती - द्राविडी
उत्पत्ति मुदलाऩ सुरुदिगळुक्कु विसेषङ्गळै मऱुक्कुम् सुरुदिगळुडैय अङ्गमायिरुक्कुम् तऩ्मै, मऱ्ऱवैगळुक्कु मऱ्ऱदिऩ् अङ्गमायिरुक्कुम् तऩ्मै किडैयादु ऎऩ्बदु ऎन्द कारणत्तिऩाल्? सॊल्गिऱोम्, विसेषङ्गळै मऱुक्कुम् सुरुदिगळुक्कु वेऱु ऎदैयुम् ऎदिर्बाराद अर्त्तमुळ्ळ तऩ्मैयिरुप्पदिऩाल्। आत्मा विऩुडैय ऒऩ्ऱायिरुक्कुम् तऩ्मै, नित्यमायिरुक्कुम् तऩ्मै, सुत्तमायिरुक्कुम् तऩ्मै मुदलियदिऩ् अऱिवु एऱ्पट्टुविट्टाल्, पुरुषार्त्तम् निऱैन्दुविट्टदॆऩ्ऱ ऎण्णम् एऱ्पडुमाऩदाल् मऱुबडियुम् एदेऩुम् ऎदिर्बार्त् तल् एऱ्पडुवदु किडैयादल्लवा? “अदऩ् विषयत्तिल् ऒऩ्ऱायिरुक्कुम् तऩ्मैयै पार्क्किऱवऩुक्कु मोहम् एदु, सोगम् एदु?” (ईसा ७);“हे जऩग, पयमऱ्ऱदै यल् लवा अडैन्दिरुक्किऱाय्” (पिरुहत्।IV-२-४), “वित्वाऩ् ऎदिलिरुन्दुम् पयप्पडमाट्टाऩ् ; नाऩ् एऩ् नल्ल कार्यम् सॆय्यविल्लै, नाऩ् एऩ् पाबत्तै सॆय्देऩ्, ऎऩ्बदु इवऩै तुऩ्बप्पडुत्तवेबडुत्तादु” (तैत्तिरिय ११९-१ऎऩ्बदु मुदलाऩ सुरुदिगळाल्। अप्पडिये वित्वाऩ्ग ळुक्कु सन्दोषत्तिऩ् अऩुबवम् मुदलियदुम् काणप्पडुवदाल्। कार्यमायुळ्ळ पॊय्याऩदिल् पऱ्ऱुदल् निन्दिक्कप्पट्टिरुप्पदालुम् “ऎवऩ् इदिल् पलबोल पार्क्किऱाऩो अवऩ् मरणत्तिलिरुन्दु मरणत्तै अडैगिऱाऩ्” ऎऩ्ऱु। आगैयाल् विसेषङ्गळै मऱुक्कुम् सुरुदिगळुक्कु मऱ्ऱॊऩ्ऱिऩ् अङ्गमायिरुक्कुम् तऩ्मै अऱियमुडियादु।
नैवमुत्पत्त्यादिश्रुतीनां निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति। प्रत्यक्षं तु तासामन्यार्थत्वं समनुगम्यते। तथा हि — ‘तत्रैतच्छुङ्गमुत्पतितँ सोम्य विजानीहि नेदममूलं भविष्यति’ (छा. उ. ६। ८। ३) इत्युपन्यस्य उदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति; ‘यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्म’ (तै. उ. ३। १। १) इति च। एवमुत्पत्त्यादिश्रुतीनाम् ऐकात्म्यावगमपरत्वात् नानेकशक्तियोगो ब्रह्मणः। अतश्च गन्तव्यत्वानुपपत्तिः। ‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४। ४। ६) ‘ब्रह्मैव सन्ब्रह्माप्येति’ इति च परस्मिन्ब्रह्मणि गतिं निवारयति। तद्व्याख्यातम् ‘स्पष्टो ह्येकेषाम्’ (ब्र. सू. ४। २। १३) इत्यत्र ॥
ज्ञानानन्द-भारती - द्राविडी
इदैप्पोल उत्पत्ति मुदलाऩ सुरुदिगळुक्कु वेऱु ऎदैयुम् ऎदिर्बाराद अर्त्तत्तै विळक्कक्कूडिय सामर्त्तियम् किडैयादु। अवैगळुक्को वेऱु तात्पर् यमुळ्ळ तऩ्मै पिरत्यक्षमाग नऩ्गु अऱियप्पडुगिऱदु। “इङ्गु इन्द सुङ्गम् (मुळै पोऩ्ऱ कारियम्) वॆळिवन्ददै अऱिन्दुगॊळ्। इदु कारणम् इल्लामल् एऱ्पट्टिरादु ऎऩ्ऱु” (सान् VI८-३) ऎऩ्ऱु मुदलिल् सॊल्लि विट्टु, मुडिविल् जगत्तिऩ् कारणमाऩ ऒऩ्ऱा यिरुक्कुम् सत् पदार्त्तत्तिऱ्के अऱियप्पडवेण्डिय तऩ्मैयै काट्टुगिऱदु। “ऎदिलिरुन्दे इन्द पूदङ्गळ् उण्डायिऱ् ऱो, उण्डाऩवैगळ् ऎदिऩाल् जीविक्किऩ्ऱऩवो, ऎदैयडैगिऩ्ऱऩवो, लयमडैगिऩ्ऱऩवो, अदै अऱि। अदु पिरह्मम् तै। III १-१ ऎऩ्ऱुम्। इव्विदम् उत्पत्ति मुदलाऩ सुरुदिगळुक्कु ऒऩ्ऱायिरुक्कुम् तऩ्मैयै अऱिवदिलेये तात्पर्यमिरुप्पदाल्, पिरह्मत्तिऩिडत्तिल् पल सक्तिगळिऩ् सेर्क्कै ऎऩ्बदु किडैयादु। आगैयि ऩालेये अडैयप्पडुम् तऩ्मै पॊरुत्तमऱ्ऱदु।
ज्ञानानन्द-भारती - द्राविडी
“अवऩुडैय पिराणऩ्गळ् वॆळिक्किळम्बुव तिल्लै। पिरह्ममाग इरुन्दुगॊण्डे पिरह्मत्तै अडैगिऱाऩ्” (पिरुहत् IV ४-६) ऎऩ्बदुम् परमाऩ पिरह्मत्तिल् पोगुदलै मऱुक्किऱदु। इदु “सिलर्गळुक्कु स्पष्टमे” (सूत्रम्। IV ४-६) ऎऩ्ऱ इडत्तिल् विस्तारमाय् सॊल्लप्पट्टिरुक्किऱदु।
गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारो अन्यो वा ततः स्यात् , अत्यन्ततादात्म्ये गमनानुपपत्तेः। यद्येवम् , ततः किं स्यात् ? उच्यते — यद्येकदेशः, तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगमनमुपपद्यते। एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना, निरवयवत्वप्रसिद्धेः। विकारपक्षेऽप्येतत्तुल्यम् , विकारेणापि विकारिणो नित्यप्राप्तत्वात्। न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते, परित्यागे वा अभावप्राप्तेः। विकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवकॢप्तम् ।
ज्ञानानन्द-भारती - द्राविडी
तविरवुम् कदियै कल्बऩै सॆय्वदायिरुन्दाल्, पोगिऱ जीवऩ् अडैयप्पडुम् पिरह्मत्तिऩुडैय अवयवमागवावदु कार्यमागवावदु, वेऱु एदागवावदु इरुक्कवेण्डुम्, पूरावुम् ऒरे तऩ्मैयुळ्ळदाऩाल् पोगिऱदॆऩ्बदे पॊरुन्दादागैयाल्। अप्पडियिरुन् दाल् अदिऩाल् ऎऩ्ऩ एऱ्पडुम्? अदिल् सॊल्गिऱोम्। अदु ऒरु अंसमायिरुक्कुमाऩाल्, अदिऩालेये अंसमुडैयवर् ऎप्पॊऴुदुम् अडैयप्पट्टिरुप्पदिऩाल् मऱुबडियुम् पिरह्मत्तै अडैवदु ऎऩ्बदु पॊरुत्त मागादु। अंसम् अंसमुडैयवर् ऎऩ्ऱ कल्बऩैये पिरह्मत्तिल् पॊरुन्दादु। अवयवमऱ्ऱदॆऩ्ऱु पिरसित्तमायिरुप्पदाल्। कार्यमॆऩ्ऱ पक्षत्तिल्गूड इदु समाऩम्, कार्यत्तिऩालुम् कार्यमुळ्ळदु ऎप्पॊऴुदुम् अडैयप्पट्टदायिरुप्पदिऩाल्। कुडम् मण् स्वरूबत्तै विट्टु इरुप्पदु किडैयादल्लवा? विट्टुविट्टालो इल्लामैये एऱ्पडुमादलाल्। कार्यम्, अवयवम् ऎऩ्ऱ इरण्डु पक्षङ्गळिलुम् अवैगळैयुडैय पिरह्मम् स्तिरमायिरुप्पदाल् संसारत्तैयडैवदुम् उसिदमागादु।
अथ अन्य एव जीवो ब्रह्मणः, सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति। व्यापित्वे गमनानुपपत्तिः। मध्यमपरिमाणत्वे च अनित्यत्वप्रसङ्गः। अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिः। प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात्। परस्माच्च अन्यत्वे जीवस्य ‘तत्त्वमसि’ (छा. उ. ६। ८। ७) इत्यादिशास्त्रबाधप्रसङ्गः। विकारावयवपक्षयोरपि समानोऽयं दोषः। विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् , न, मुख्यैकत्वानुपपत्तेः। सर्वेष्वेतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः, संसार्यात्मत्वानिवृत्तेः; निवृत्तौ वा स्वरूपनाशप्रसङ्गः, ब्रह्मात्मत्वानभ्युपगमाच्च ॥
ज्ञानानन्द-भारती - द्राविडी
अल्लदु जीवऩ् पिरह्मत्तैविड वेऱुदाऩ् ऎऩ्ऱाल्, अवऩ् अणुवागवो, वियाबगऩागवो नडुत्तर अळवुळ्ळवऩागवो इरुक्कवेण्डुम्। वियाब कत्तऩ्मैयिरुन्दाल् पोगुदल् पॊरुन्दादु, नडुत्तर अळवुळ्ळ तऩ्मैयाऩाल् अनित्यत्तऩ्मैयेऱ्पट्टु विडुम्। अणुत्तऩ्मैयाऩाल् सरीरम् पूराविलुम् उणर्च्चि पॊरुन्दादु। अणुत्तऩ्मै, नडुत्तर अळवुळ्ळ तऩ्मै इरण्डुम् मुऩ्ऩालेये विस्तारमाग मऱुक्कप् पट्टिरुक्किऱदु।
ज्ञानानन्द-भारती - द्राविडी
परबिरह्मत्तिलिरुन्दु वेऱायिरुक्कुम् तऩ्मै जीवऩुक्कु इरुन्दाल्, “अदुवाय् नी इरुक्किऱाय्” (सान् VI ८-७) ऎऩ्बदु मुदलाऩ सास्तिरत्तिऱ्कु पादम् एऱ्पडुम्। कार्यम् अवयवम् ऎऩ्गिऱ इरण्डु पक्षङ्गळिल्गूड इन्द तोषम् समाऩम्। कार्यम् अवयवम् इरण्डिऱ्कुम् अदैयुडैयदऱ्कुम् वेऱायिरुक्कुम् तऩ्मैयिल्लाद तिऩाल् तोषमिल्लैयॆऩ्ऱाल्, सरियल्ल। मुक्यमाय् ऒऩ्ऱायिरुक्कुम् तऩ्मै पॊरुन्दादिऩाल्।
ज्ञानानन्द-भारती - द्राविडी
इन्द ऎल्ला पक्षङ्गळिलुम् मोक्षमिल्लामल् पोय्विडुम्, संसारियायिरुक्कुम् तऩ्मै विलगादबडि यिऩाल्। विलगिऩालो स्वरूबत्तिऱ्के नासम् एऱ्पडुम्, पिरह्मस्वरूबमायिरुक्कुम् तऩ्मैयै ऒप्पुक्कॊळ्ळा तदिऩाल्।
यत्तु कैश्चिज्जल्प्यते — नित्यानि नैमित्तिकानि च कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये, काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकानवाप्तये, साम्प्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षप्यन्ते — इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसन्धानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति — तदसत् , प्रमाणाभावात्। न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम् — मोक्षार्थी इत्थं समाचरेदिति। स्वमनीषया तु एतत्तर्कितम् — यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति ।
ज्ञानानन्द-भारती - द्राविडी
तोषमेऱ्पडामलिरुप्पदऱ्काग नित्य कर्माक्कळुम् सनमित्तिगगर्माक्कळुम् अऩुष्टिक्कप्पडुगिऩ्ऱऩ; स्वर्क्कम् नरगम् एऱ्पडामलिरुप्पदऱ्काग काम्य कर्माक्कळैयुम् निषित्त कर्माक्कळैयुम् विट्टुविडुवदु; इप्पॊऴुदुळ्ळ सरीरत्तिल् अऩुबविक्कवेण्डिय कर्माक् कळै अऩुबविप्पदिऩालेये क्षयम् सॆय्दु विडुवदु; ऎऩ्बदिऩाल् इप्पॊऴुदिरुक्कुम् सरीरम् विऴुन्ददऱ्कु मेलाल् वेऱु सरीरत्तिऩ् सेर्क्कैक्कु कारणमिल्लाद तिऩाल्, स्वरूबत्तिल् निलैप्पदै लक्षणमायुळ्ळ कैवल्यम् पिरह्मत् तऩ्मैयऩ्ऩियिलेये इव्विदमि रुप्पवऩुक्कु सित्तित्तुविडुम् ऎऩ्ऱु ऎदु सिलराल् पिदऱ्ऱप्पडुगिऱदो, अदु पिसगु, अदऱ्कु पिरमाणमिल्लाद तिऩाल्। मोक्षत्तै विरुम्बुगिऱवऩ् इव्विदम् नडन्दुगॊळ्ळ वेण्डुमॆऩ्ऱ इन्द ऎन्द सास्तिरत्ति ऩालुम् सॊल्लप्पडविल्लैये? संसारमाऩदु कर्मा वै निमित्तमायुडैयदु, अदिऩाल् निमित्तमिल्लैया ऩाल् एऱ्पडादु ऎऩ्ऱु तऩ् पुत्तियिऩाल् इदु ऊहिक्कप्पडुवदु ताऩे?
न च एतत् तर्कयितुमपि शक्यते, निमित्ताभावस्य दुर्ज्ञानत्वात्। बहूनि हि कर्माणि जात्यन्तरसञ्चितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः सम्भाव्यन्ते। तेषां विरुद्धफलानां युगपदुपभोगासम्भवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते, कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते — इत्यतः तेषामवशिष्टानां साम्प्रतेनोपभोगेन क्षपणासम्भवात् न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम्। कर्मशेषसद्भावसिद्धिश्च ‘तद्य इह रमणीयचरणाः’ ‘ततः शेषेण’ इत्यादिश्रुतिस्मृतिभ्यः ।
ज्ञानानन्द-भारती - द्राविडी
इदै ऊगिक्कवुम् मुडियादु, निमित्तमिल्लै यॆऩ्बदु अऱिय मुडियाददिऩाल् ऒव्वॊरु पिराणिक्कुम् वेऱु जऩ्माक्कळिल् सेगरिक्कप्पट्टदाय् वेण्डियदु वेण्डाददु ऎऩ्ऱ पलऩ्गळैयुडैयदाय् अनेग कर्माक्कळ् इरुक्कक्कूडियदु ऎऩ्बदु पिरसित्तम्। अवैगळिल् नेर् विरोदमायुळ्ळ पलऩ्गळैक् कॊडुक् कक् कूडियवैगळुक्कु ऒरे समयत्तिल् सेर्न्दु अऩुबवम् सम्बविक्काददिऩाल्, सिल कर्माक्कळ् इडम् किडैत्तु इन्द जऩ्मावै एऱ्पडुत्तुगिऩ्ऱऩ, सिलदो तेसम् कालम् निमित्तम् इवैगळै ऎदिर्बार्त्तुक् कॊण्डिरुक् किऩ्ऱऩ ऎऩ्ऱ कारणत्तिऩाल् अन्द मीदियुळ्ळवैग ळुक्कु इप्पॊऴुदुळ्ळ अऩुबवत्तिऩाल् क्षयमेऱ्पडाद तिऩाल्, मुऩ् वर्णिक्कप्पट्ट नडत्तैयुळ्ळवऩुक्कुम् कूड तत्काल सरीरम् विऴुन्ददुम् वेऱु सरीरत्तिऱ्कु निमित्त मिल्लैयॆऩ्ऱु निच्चयिक्कमुडियादु। “अदिल् ऎवर्गळ् इङ्गे नल्ल नडत्तैयुळ्ळवर्गळो, अदिलिरुन्दु मीदत्तिऩाल्” ऎऩ्बदु मुदलाऩ सुरुदि स्मिरुदिगळिलिरुन्दु कर्मा मीदमिरुप्पदु सित्तिक्किऱदु।
स्यादेतत् — नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति — तत् न, विरोधाभावात्। सति हि विरोधे क्षेप्यक्षेपकभावो भवति। न च जन्मान्तरसञ्चितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः, शुद्धिरूपत्वाविशेषात्। दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम्। न तु तावता देहान्तरनिमित्ताभावसिद्धिः, सुकृतनिमित्तत्वोपपत्तेः, दुरितस्याप्यशेषक्षपणानवगमात्। न च नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् , न पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति, फलान्तरस्याप्यनुनिष्पादिनः सम्भवात्। स्मरति हि आपस्तम्बः — ‘तद्यथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते’ (आ. ध. सू. १। ७। २०। ३) इति ।
ज्ञानानन्द-भारती - द्राविडी
इदु इरुक्कलाम्। अवैगळै क्षयम् सॆय्वदाग नित्य नैमित्तिग कर्माक्कळ् एऱ्पडलामॆऩ्ऱु, अदु सरियल्ल, विरोदमिल्लाददिऩाल्, विरोदमिरुन्दालल् लवा पोक्कडिक्कप्पडुम् तऩ्मै पोक्कडिक्कुम् तऩ्मै ऎऩ्बदु इरुक्कमुडियुम्? मुऩ् जऩ्माक्कळिल् सेर्क्कप् पट्टिरुक्कुम् पुण्णियङ्गळुक्कु नित्य नैमित्तिग कर्माक् कळोडु विरोदमिल्लै, सुत्तमाऩ स्वरूबमॆऩ्ऱ तऩ्मै वित्यासप्पडाददिऩाल्। पाबङ्गळुक्कु वेण्डु माऩाल् असुत्तत् तऩ्मैयिरुप्पदाल् विरोदमिरुप्पदाल् क्षयम् एऱ्पडट्टुम्। अदिऩाल् मात्तिरम् वेऱु जऩ्मा विऱ्कु निमित्तमिल्लामै सित्तिक्कादु, पुण्यमागिऱ निमित्तम् इरुक्कुमादलाल्।
ज्ञानानन्द-भारती - द्राविडी
पाबत्तिऱ्कुम्गूड पाक्कियऩ्ऩियिल् पोय्विडु मॆऩ्ऱु अऱियप्पडाददिऩाल्।
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, नित्य नैमित्तिग कर्माऩुष्टाऩत्ति लिरुन्दु तोष मेऱ्पडामलिरुप्पदु मात्तिरम्दाऩ्, वेऱु पलऩुक्कु उत्पत्ति किडैयादु, ऎऩ्बदिल् पिरमाणम् किडैयादु। कूडवे उण्डागक्कूडिय वेऱु पलऩुम् इरुक्कुमादलाल्। आबस्तम्बर् “पऴत्तैयुत्तेसित्तु मामरम् वैक्कप्पट्टालुम् ऎप्पडि कूडवे निऴलुम् वासऩैयुम् एऱ्पडुगिऱदो अव्विदम् तर्मत्तै अऩुष् टिप्पवऩुक्कु अर्त्तङ्गळुम् (सॆल्वङ्गळुम्) कूडवे उण्डागिऩ्ऱऩ” ऎऩ्ऱु स्मरित्तिरुक्किऱारल्लवा?
न च असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् , सुनिपुणानामपि सूक्ष्मापराधदर्शनात्। संशयितव्यं तु भवति। तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव। न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् , अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात्। स्यादेतत् — कर्तृत्वभोक्तृत्वकार्यम् अनर्थः, न तच्छक्तिः, तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति — तच्च न। शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् ।
ज्ञानानन्द-भारती - द्राविडी
तविरवुम्, नऩ्गु आत्म साक्षात्कारम् एऱ्पडा मलिरुक्कैयिल्, पिऱप्पिऱ्कुम्, इऱप्पिऱ्कुम् मत्तियिल्, पूरावुम् काम्य कर्मावैयुम्, निषित्त कर्मावैयुम् तडुप्पदु ऎवरालुम् पिरदिक्ञै सॆय्य मुडियादु, वॆगु समार्त्तियमुळ्ळवर्गळुक्कुम्गूड सूक्ष्ममाऩ पिसगुगळ् काणप्पडुवदाल्। सन्देहप्पड वेण्डियदाग वेयिरुक्कुम्; अप्पडियुम् निमित्तमिल्लै ऎऩ्बदऱ्कु अऱियमुडियादत्तऩ्मैदाऩ्। मेलुम्, ञाऩत्तिऩाल् अडैयक्कूडियदाय् पिरह्मस्वरूबत्तऩ्मै ऒप्पुक् कॊळ्ळप्पडाद पक्षत्तिल्, कर्त्तात्तऩ्मै, पोक्तात् तऩ्मै ऎऩ्बदै स्वबावमाग उडैय आत्माविऱ्कु कैवल्यत्तै ऎदिर्बार्प्पदु मुडियाददु, अक्ऩियिऩ् उष्णत्तऩ्मै पोलवुळ्ळ स्वबावत्तै परिहरिक्क मुडियाददिऩाल्।
ज्ञानानन्द-भारती - द्राविडी
इदु इरुक्कलाम्। कर्त्तात्तऩ्मै, पोक्तात् तऩ्मै इवैगळिऩ् कार्यम्दाऩ् कॆडुदलेदविर, अदऩ् सक्तिगॆडुदलिल्लै; अदिऩाल् सक्ति अप्पडिये इरुन्दा लुम्गूड अदऩ् कारियत्तै परिहरिप्पदिऩाल् मोक्षम् एऱ्पडक्कूडियदे ऎऩ्ऱु। अदुवुम् सरियल्ल, सक्तियिरुक्कुम् पोदु अदऩ् कार्यम् उण्डावदु तडुक्क मुडियाददिऩाल्।
अथापि स्यात् — न केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि। अत एकाकिनी सा स्थितापि नापराध्यतीति — तच्च न, निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन नित्यसम्बद्धत्वात्। तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् , न कथञ्चन मोक्षं प्रति आशा अस्ति। श्रुतिश्च — ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३। ८) इति ज्ञानादन्यं मोक्षमार्गं वारयति ॥
ज्ञानानन्द-भारती - द्राविडी
इप्पडियुमिरुक्कलाम्, सक्ति तऩित्तिरुन्दु, वेऱु निमित्तङ्गळै अबेक्षिक्कामल्, कार्यत्तै आरम्बिक्किऱ तिल्लै; अदिऩाल् तऩियाग अदु इरुन्दबोदिलुम्गूड कॆडुदल् सॆय्यादु ऎऩ्ऱु अदुवुम् सरियल्ल। निमित्तङ् गळुक्कुम् सक्तियै लक्षणमायुडैय सम्बन्दत्तुडऩ् ऎप्पॊऴुदुम् सम्बन्दप्पट्टिरुक्कुम् तऩ्मैयुळ्ळदाल्। आगैयाल् कर्त्तात् तऩ्मै पोक्तात् तऩ्मै इदै स्वबावमाग कॊण्डदाऩ आत्मा इरुक्कुम् पोदु, ञाऩत्तिऩाल् अऱियवेण्डिय पिरह्म स्वरूबमायि रुक्कुम् तऩ्मै इल्लादबोदु, ऎव्विदत्तिलुम् मोक्षत्तैक् करुदुम् आसैये किडैयादु। सुरुदियुम् ‘मोक्षत्तिऱ्कु वेऱु वऴि किडैयादु’ (सुवेदा III ८) ऎऩ्ऱु मोक्षत्तिऱ्कु ञाऩत्तैत् तविर्त्तु वेऱु वऴियैत्तडुक्किऱदु।
परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः, प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत् — न, प्राक्प्रबोधात् स्वप्नव्यवहारवत् तदुपपत्तेः। शास्त्रं च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २। ४। १४) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुक्त्वा, पुनः प्रबुद्धविषये — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २। ४। १४) इत्यादिना तदभावं दर्शयति। तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य वाधितत्वात् न कथञ्चन गतिरुपपादयितुं शक्या ।
ज्ञानानन्द-भारती - द्राविडी
जीवऩुक्कु परमात्मावैविड वेऱायिरुक्कुम् तऩ्मैयिल्लैयाऩाल् ऎल्ला व्यवहारङ्गळुक्कुम् इल्लामै एऱ्पट्टुविडुम्, पिरत्यक्षम् मुदलाऩ पिरमाणङ्गळुक्कु पिरविरुत्तियिल्लाददाल्, ऎऩ्ऱाल् सरियल्ल आत्म साक्षात्कारम् एऱ्पडुवदऱ्कुमुऩ् (विऴित्तुक्कॊळ्वदऱ्कुमुऩ्) स्वप्ऩत्तिलुळ्ळ वियव हारत्तैप् पोल, इरुक्कक्कूडियदिऩाल्। सास्तिरमुम् “ऎङ्गे इरण्डावदुबोल इरुक्किऱदो, अङ्गे यल्लवा ऒरुवऩ् मऱ्ऱदै पार्क्किऱाऩ्” (पिरुहत् II४-१४;IV ५-१५) ऎऩ्बदु मुदलाऩदिऩाल् ञाऩमेऱ्पडादवऩ् विषयत्तिल् पिरत्यक्षम् मुदलिय व्यवहारत्तैच् चॊल्लिविट्टु, मऱुबडियुम् अऱिवु एऱ्पट्टवरिऩ् विषयत्तिल् “ऎन्द निलैयिल् इवऩुक्कु ऎल्लाम् आत्मावागवेयिरुक्कुमो, अप्पॊऴुदु ऎदिऩाल् ऎदै पार्प्पाऩ्” (पिरुहत् II ४-१४) ; IV ५-१५) ऎऩ्बदु मुदलाऩ तिऩाल् अदऩ् (व्यवहारत्तिऩ्) इल्लामैयैक् काट्टुगिऱदु। आगवे इव्विदम् परबिरह्मत्तैयऱिन् दवऩुक्कु अडैयप्पडुम् तऩ्मै मुदलिय ऎण्णम् पादिक्कप्पट्टुविडुवदाल्, ऎव्विदत्तिलुम् कदि उण् डॆऩ्ऱु काट्टमुडियादु।
किंविषयाः पुनर्गतिश्रुतय इति, उच्यते — सगुणविद्याविषया भविष्यन्ति। तथा हि — क्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते, क्वचित्पर्यङ्कविद्याम् , क्वचिद्वैश्वानरविद्याम्। यत्रापि ब्रह्म प्रकृत्य गतिरुच्यते — यथा ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४। १०। ४) इति ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ (छा. उ. ८। १। १) इति च, तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्च गुणैः सगुणस्यैव उपास्यत्वात् सम्भवति गतिः। न क्वचित्परब्रह्मविषया गतिः श्राव्यते। तथा गतिप्रतिषेधः श्रावितः — ‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४। ४। ६) इति ।
ज्ञानानन्द-भारती - द्राविडी
अप्पडियाऩाल्, कदियैच्चॊल्लुम् सुरुदिगळ् ऎन्दविषयमायुळ्ळवै? सॊल्गिऱोम्। सगुण पिरह्म उबासऩाविषयमाग इरुक्कुम्। अप्पडिये, ऒरु इडत्तिल् पञ्जाक्ऩि वित्यैयैक् कुऱित्तु कदि सॊल्लप्पट्टिरुक्किऱदु, ऒरु इडत्तिल् पर्यङ्ग वित्यैयै, ऒरु इडत्तिल् वैसुवानर वित्यैयै। ऎङ्गे पिरह्मत्तैये कुऱित्तु कदि सॊल्लप्पडुगिऱदो, “पिराणऩ् पिरह्मम्, सुगम् पिरह्मम्, आगासम् पिरह्मम्” (सान्।IV-१०-५) ऎऩ्ऱुम् “इन्द पिरह्मबुरत्तिल् ऎन्द इन्द सिऱिय तामरैबोलुळ्ळ वीडो” (सान्। VIII १-१) ऎऩ्ऱुम्बोल, अङ्गेयुम्गूड “वामऩीत्तऩ्मै” मुदलि यदुम्, “सत्यगामत्तऩ्मै” मुदलियदुमाऩ कुणङ्गळाल् कुणङ्गळोडुगूडिय पिरह्मत्तिऩ् उबासिक्कप्पडुम् तऩ्मैयाऩदिऩाल्, कदि सम्बविक्कुम्। ऎङ्गेयुम् परबिरह्म विषयमाग कदि सॊल्लप्पडविल्लै, ऎप्पडि कदि मऱुक्कप्पट्टिरुक्किऱदो “अवऩुडैय पिराणऩ्गळ् वॆळिक्किळम्बुवदिल्लै” (पिरुहत्। IV४-६) ऎऩ्ऱु।
‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २। १। १) इत्यादिषु तु, सत्यपि आप्नोतेर्गत्यर्थत्वे, वर्णितेन न्यायेन देशान्तरप्राप्त्यसम्भवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारोपितनामरूपप्रविलयापेक्षया अभिधीयते — ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४। ४। ६) इत्यादिवत् इति द्रष्टव्यम्। अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात् , अनुचिन्तनाय वा ? तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते, स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः। न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते। तस्मादपरब्रह्मविषया गतिः ।
ज्ञानानन्द-भारती - द्राविडी
“पिरह्मत्तैयऱिन्दवऩ् परत्तैयडैगिऱाऩ्।” (तै। II१-६) मुदलाऩविडङ्गळिलो ‘आप्’ ऎऩ्बदऱ्कु कदि अर्त्तमायिरुन्दबोदिलुम्, ऎडुत्तुक्काट्टप्पट्ट निया यत्तिऩाल्, वेऱु इडम् पोवदु सम्बविक्काददि ऩाल्, इदु स्वरूबत्तै अडैवदुदाऩ्, अवित्यैयि ऩाल् आरोबणम् सॆय्यप्पट्टिरुक्किऱ नामरूबङ्गळै लयम् सॆय्य वेण्डियदै उत्तेसित्तु सॊल्लप्पडु किऱदु। “पिरह्ममागवे इरुप्पवऩ् पिरह्मत्तै अडैगिऱाऩ्।” (पिरुहत् IV ४*६) ऎऩ्बदैप् पोल, ऎऩ्ऱु अऱिन्दु कॊळ्ळवेण्डुम्।
ज्ञानानन्द-भारती - द्राविडी
तविरवुम्, परप्पिरह्म् विषयमाय् सॊल्लप्पडुम् कदि तूण्डुदलुक्का? अल्लदु अऩुसन्दाऩम् सॆय्वदऱ्का? पिरह्मत्तै अऱिन्दवऩुक्कु कदियैच् चॊल्वदिऩाल् तूण्डुदल् एऱ्पडादु, तऩ्ऩाल् अऱियप् पडवेण्डिय वित्यैयिऩाल् एऱ्पट्टिरुक्कुम् तऩ्ऩै विट्टु विलगाद तऩ् निलैयिल् इरुप्पदिऩालेये अदु (तूण्डुदल्) सित्तित्तुविडुवदाल् ऎप्पॊऴुदुम् एऱ्पट् टिरुक्किऱ मोक्षनिलैयैक् काट्टुगिऱदायुम् (पुदिदाग) उण्डागवेण्डियदल्लाद पलऩैयुडैयदायुमुळ्ळ अऱिविऱ्कु कदियै अऩुसन्दाऩम् सॆय्वदिल् ऎव्विद अबेक्षैयुम् पॊरुन्दादु, आगैयाल् कदि ऎऩ्बदु अबरबिरह्म विषयम्दाऩ्।
तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते। किं द्वे ब्रह्मणी परमपरं चेति ? बाढं द्वे — ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः’ (प्र. उ. ५। २) इत्यादिदर्शनात्। किं पुनः परं ब्रह्म किमपरमिति, उच्यते — यत्र अविद्याकृतनामरूपादिविशेषप्रतिषेधेन अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते, तत्परम्। तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टम् उपासनायोपदिश्यते — ‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३। १४। २) इत्यादिशब्दैः, तदपरम् ।
ज्ञानानन्द-भारती - द्राविडी
अङ्गु परबिरह्मम्, अबरबिरह्मम् इरण्डिऱ्कु मुळ्ळ वित्यासत्तै कवऩिक्कामल् अबर पिरह्मत् तिऱ्काऩ कदियै सॊल्लुम् सुरुदिगळ् परबिरह्मत्तिल् आरोबणम् सॆय्यप्पडुगिऩ्ऱऩ।
ज्ञानानन्द-भारती - द्राविडी
परम्, अबरम् ऎऩ्ऱु इरण्डु पिरह्मङ्गळ् उण्डा? आम्। इरण्डु उण्डु। हे सत्यगाम, ऎदु ओङ्गारमो अदु परमायुम् अबरमायुमुळ्ळ पिरह्मम्’ (पिरच्ऩ। V-२) ऎऩ्बदु मुदलियदु काण्बदाल्।
ज्ञानानन्द-भारती - द्राविडी
अप्पडियाऩाल्, ऎदु परबिरह्मम्, ऎदु अबरम्? सॊल्गिऱोम् ऎदिल् अवित्यैयिऩाल् एऱ्पट्ट नामम्, रूबम् मुदलाऩ विसेषङ्गळै मऱुत्तु स्तूलमल्ल वॆऩ्बदु मुदलाऩ सप्तङ्गळिऩाल् पिरह्मम् उबदेसिक् कप्पडुगिऱदो, अदु परम्; अदुवे ऎङ्गे नामम्, रूबम् मुदलाऩ एदेऩुम् विसेषणत्तुडऩ् कूडिऩदाग उबासऩैक्काग उबदेसिक्कप्पडुगिऱदो, “मऩोमयम्, पिराणऩै सरीरमागवुडैयदु पिरगासरूबर्” (सान्। III-१४-२)ऎऩ्बदु मुदलाऩ सप्तङ्गळाल्, अदु अबरम्।
ननु एवमद्वितीयश्रुतिरुपरुध्येत — न, अविद्याकृतनामरूपोपाधिकतया परिहृतत्वात्। तस्य च अपरब्रह्मोपासनस्य तत्सन्निधौ श्रूयमाणम् ‘स यदि पितृलोककामो भवति’ (छा. उ. ८। २। १) इत्यादि जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति, अनिवर्तितत्वादविद्यायाः। तस्य च देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थं गमनमविरुद्धम्। सर्वगतत्वेऽपि च आत्मनः, आकाशस्येव घटादिगमने, बुद्ध्याद्युपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म ‘तद्गुणसारत्वात्’ (ब्र. सू. २। ३। २९) इत्यत्र। तस्मात् ‘कार्यं बादरिः’ (ब्र. सू. ४। ३। ७) इत्येष एव स्थितः पक्षः। ‘परं जैमिनिः’ (ब्र. सू. ४। ३। १२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम् ॥ १४ ॥
ज्ञानानन्द-भारती - द्राविडी
इप्पडियाऩाल्, इरण्डऱ्ऱदु ऎऩ्ऱ सुरुदि विरोदित्तदाग आगादा ऎऩ्ऱाल्, आगादु, अवित्यै यिऩाल् एऱ्पट्ट नाम रूबङ्गळै उबादियायुडैय तऩ्मैयॆऩ्बदाल् परिहरिक्कप्पट्टुविट्टबडियाल्।
ज्ञानानन्द-भारती - द्राविडी
अन्द अबरबिरह्म उबासऩत्तिऱ्कु, अदिऩ् समीबत्तिल् सॊल्लप्पडुम् “अवर् पित्रुक्कळिऩ् लोगत्तै विरुम्बुगिऱवरायिरुन्दाल्” (सान्। VIII २-१) ऎऩ्बदु मुदलाऩ जगत्तिलुळ्ळ ऐसुवर्य लक्षणमाऩ संसारत्तिऱ्कु उळ्बट्ट पलऩ्दाऩ् एऱ्पडुम्, अवित्यै निविरुत्तियागाददाल्। अन्द पलऩुक्कु कुऱिप्पिट्ट तेसत्तुडऩ् सम्बन्दप्पट्ट तऩ्मैयिरुप्पदिऩाल्। अदै अडैवदऱ्कु पोवदु विरोदमिल्लै। कुडम् मुदलाऩदु पोगुम्बोदु आगासत्तिऱ्कु पोगुदल्बोल, ऎङ्गुमुळ्ळ तऩ्मैयिरुन्दबोदिलुम् पुत्ति मुदलाऩ उबादिगळ् पोगुम्बोदु आत्माविऱ्कुम् पोगुदल् ऎऩ्ऱ पिरसित्ति ऎऱ्पडुगिऱदॆऩ्ऱु ‘अदऩ् कुणत्तै सारमायुडैयदाल्” (सूत्रम् II ३-२९) ऎऩ्ऱविडत्तिल् सॊऩ्ऩोम्।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् “कार्यम् ऎऩ्ऱु पादरि” (सूत्रम् IV ३-७) ऎऩ्ऱ इदुवे निलैत्त पक्षम्। “परम् ऎऩ्ऱु जैमिऩि” (सूत्रम्। IV ३-१२) ऎऩ्बदुवो पुत्ति तॆळिवु पडुवदऱ्काग वेऱु पक्षम् तोऩ्ऱक्कूडियदु ऎऩ्ऱु मात्तिरम् काट्टुवदऱ्काग ऎऩ्ऱु अऱियवुम्।