तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥
ज्ञानानन्द-भारती - द्राविडी
तदोगोक्रज्वलनम् तत्प्रगासिदत्वारो वित्यासामर्त्यात्तच्चे षगत्यनुस्म्रुदि योगाच्च हार्दाऩुक्रुहीद: सदादिगया ॥ १७ ॥
अविशेषो विशेषो वा स्यादुत्क्रान्तेरुपासितुः ॥
हृत्प्रद्योतनसाम्योक्तेरविशेषोऽन्यनिर्गमात् ॥ १७ ॥
मूर्धन्ययैव नाड्याऽसौ व्रजेन्नाडीविचिन्तनात् ॥
विद्यासामर्थ्यतश्चापि विशेषोऽस्त्यन्यनिर्गमात् ॥ १८ ॥
–वैयासिकन्यायमाला
ज्ञानानन्द-भारती - द्राविडी
उबासगऩुडैय उत्किरान्दियिल् वित्यासम् इल्लै या? अल्लदु वित्यासम् उण्डा? ह्रुदयम् पिरगासिक्कुम् ऎऩ्बदिल् समाऩत् तऩ्मै सॊल्वदाल्, मऱ्ऱवरिऩ् उत्किरान्दियिलिरुन्दु वित्यासम् किडैयादु।
ज्ञानानन्द-भारती - द्राविडी
सिरसिलुळ्ळ नाडि वऴियागत्ताऩ् इवऩ् पोगिऱाऩ्। नाडियैये सिन्दऩै सॆय्ददिऩालुम् उबासऩैयिऩ् सक्तियि ऩालुम्, मऱ्ऱवर् उत्किरान्दियिलिरुन्दु वित्यासम् उण्डु,
समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता; सम्प्रति तु अपरविद्याविषयामेव चिन्तामनुवर्तयति। समाना च आसृत्युपक्रमात् विद्वदविदुषोरुत्क्रान्तिः — इत्युक्तम्। तम् इदानीं सृत्युपक्रमं दर्शयति। तस्य उपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मनः, ओकः आयतनं हृदयम् — ‘स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति’ इति श्रुतेः, तदग्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना च उत्क्रान्तिः श्रूयते — ‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४। ४। २) इति। सा किमनियमेनैव विद्वदविदुषोर्भवति, अथास्ति कश्चिद्विदुषो विशेषनियमः — इति विचिकित्सायाम् , श्रुत्यविशेषादनियमप्राप्तौ,
ज्ञानानन्द-भारती - द्राविडी
(उबासगऩ्, उबासऩै सॆय्यादवऩ् इव्विरु वर्गळिऩ् उत्क्रान्दियुम् ऒरे मादिरिया अल्लदु वित्यासमुण्डा ऎऩ्ऱु सन्देहम्। हिरुदयत्तिऩ् नुऩियिल् पिरगासम् इरुवरुक्कुम् सममायिरुप्पदाल् उत्क्रान्दियुम् समम्दाऩ् ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
उबासगऩ्, उबासऩा पलत्तालुम् सिरस्सिलुळ्ळ सुषुम्ऩा नाडि वऴियाग सॆल्वदै तियाऩिप्पदालुम् उत्तम लोगत्तै अडैवदऱ्काग सुषुम्ऩा नाडि वऴियागच् चॆल्गिऱाऩ्। मऱ्ऱवर्गळ् वेऱु नाडिगळ् वऴियागच् चॆल्गिऱार्गळ् ऎऩ्ऱु विसेषमिरुक्किऱदु ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
मत्तियिल् वन्द परवित्यै विषयमाऩ सिन्दऩै मुडिन्दुविट्टदु। इप्पॊऴुदो, अबरवित्या विषयमाग वुळ्ळ सिन्दऩैयैये तॊडर्गिऱार्। मार्क्कत्तिऩ्दुवक्कम् वरैयिल् वित्वाऩुक्कुम् वित्वाऩल्लाद वऩुक्कुम् वॆळिक्किळम्बुवदु समाऩम् ऎऩ्ऱु सॊल्लप् पट्टदु; इप्पॊऴुदु अन्द मार्क्कत्तिऩ् तुवक्कत्तैक् काट्टुगिऱार्; अडङ्गिविट्ट वाक् मुदलिय कूट्टमुळ्ळव ऩाय् वॆळिक्किळम्बविरुक्कुम् अन्द विज्ञानात्माविऱ्कु (जीवऩुक्कु) इरुप्पिडम्, इरुक्कुम् इडम्, ह्रुदयम् ‘अवऩ् इन्द तेजोमात्तिरैगळै नऩ्गु ऎडुत्तुक् कॊण्डु ह्रुदयत्तैये अडैगिऱाऩ्” ऎऩ्ऱु सुरुदियिरुप्पदिऩाल् अदऩुडैय नुऩि ज्वलिप्पदै मुऩ्ऩिट्टुक् कॊण्डु कण् मुदलिय स्ताऩङ्गळि लिरुन्दु मेल् किळम्बुदल् सॊल्लप्पडुगिऱदु। “अन्द इवऩुडैय ह्रुदयत्तिऩ् नुऩि ज्वलिक्किऱदु। अन्द वॆळिच्चत्तिऩाल् इन्द आत्मा कण् वऴियागवो, सिरस् वऴियागवो, वेऱु सरीर तेसत्तिलिरुन्दो किळम्बु किऱाऩ्” (पिरुहत्।IV-४-२) ऎऩ्ऱु। अदु नियममिल्लामल् उबासगऩ्, उबासगऩल्लादवऩ् इरुवरुक्कुमे एऱ्पडुगिऱदा, अल्लदु उबासगऩुक्कु एदेऩुम् विसेष नियमम् उण्डा ऎऩ्ऱु सन्देहम् वरुम्बोदु।
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम् : सुरुदियिल् विसेषमिल्लाददिऩाल् नियममिल्लै।
आचष्टे — समानेऽपि हि विद्वदविदुषोर्हृदयाग्रप्रद्योतने तत्प्रकाशितद्वारत्वे च, मूर्धस्थानादेव विद्वान्निष्क्रामति, स्थानान्तरेभ्यस्तु इतरे। कुतः ? विद्यासामर्थ्यात्। यदि विद्वानपि इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् , नैव उत्कृष्टं लोकं लभेत, तत्र अनर्थिकैव विद्या स्यात्। तच्छेषगत्यनुस्मृतियोगाच्च — विद्याशेषभूता च मूर्धन्यनाडीसम्बद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता। तामभ्यस्यन् तयैव प्रतिष्ठत इति युक्तम् ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: ऎऩ्ऱु एऱ्पडुम्बोदु सॊल्गिऱार्। उबासगऩुक्कुम्, उबासगऩल्लादवऩुक्कुम् ह्रुदयत् तिऩ् नुऩि ज्वलिप्पदु, अदिऩाल् पिरगासप्पडुत्तप्पडुम् वऴियैयुडैयदु, ऎऩ्बदु (इरण्डुम्) समाऩमायिरुन्द पोदिलुम्गूड, सिरस् ऎऩ्ऱ इडत्तिलिरुन्दुदाऩ् उबासगऩ् वॆळिक्किळम्बुगिऱाऩ्, मऱ्ऱवर्गळो वेऱु इडङ्गळिलिरुन्दु। एऩ्? वित्यैयिऩ् सामर्त्तियत्तिऩाल्, उबासगऩुक्कुम्गूड मऱ्ऱवर्गळैप्पोल एदेऩुमॊरु तेग तेसत्तिलिरुन्दु पुऱप्पडुवाऩागिल् मेलाऩ लोगत्तै अडैयवे माट्टाऩ्। अप्पडियिरुन्दाल्, उबासऩम् पिरयोजऩमऱ्ऱदागवे पोय्विडुम्।
ज्ञानानन्द-भारती - द्राविडी
अदऩुडैय अङ्गमाऩ कदियिऩ् निऩैप्पु इरुप्पदिऩालुम्, वित्यैक्कु अङ्गमायुळ्ळ सिरसिलुळ्ळ नाडी सम्बन्दमाऩ कदियुम् पऱ्पल वित्यैगळिल् तियाऩिक्कवेण्डियदाग विदिक्कप्पट्टिरुक्किऱदु। अदै अप्यासम् सॆय्गिऱवऩ् अन्द वऴियागवे पुऱप्पडु किऱाऩ् ऎऩ्बदु न्यायमागुम्।
तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति, इतराभिरितरे। तथा हि हार्दविद्यां प्रकृत्य समामनन्ति — ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८। ६। ६) इति ॥ १७ ॥
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् ह्रुदयत्तिल् कुडिगॊण्डिरुक्कुम्, नऩ्गु उबासिक्कप्पट्ट, पिरह्मत्तिऩाल् अऩुक्रहिक्कप् पट्टवऩाय्, अदऩ् स्वरूबत्तै अडैन्दवऩाय्, वित्वाऩ् सिरस्सिले उळ्ळ नूऱ्ऱुक्कु अदिगमाऩ, नूऱ्ऱुक्कु मेलाऩ, नूऱ्ऱियॊऩ्ऱावदु नाडी वऴियाग वॆळिक्किळम्बुगिऱाऩ्। मऱ्ऱवर्गळ् वेऱु वऴिगळाल् अव्विदमे, ह्रुदय सम्बन्दमाऩ (तहर) वित्यैयै ऎडुत्तुक्कॊण्डु “ह्रुदयत्तिल् नूऱुम्, ऒऩ्ऱुमाग नाडीगळ् इरुक्किऩ्ऱऩ। अवैगळिल् ऒऩ्ऱु सिरस्सै नोक्कि सॆल्लुगिऱदु। अदु वऴियाग मेले सॆल्लुबवऩ् मरणमऱ्ऱ तऩ्मैयै अडैगिऱाऩ्। पलविदमाऩ वेऱु नाडिगळ् वॆळिक्किळम्बुवदिल् ताऩ् उबयोगप्पडु किऩ्ऱऩ” ऎऩ्ऱु पिरसित्तम्।