सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
ज्ञानानन्द-भारती - द्राविडी
सोअत्यक्षे तदुबगमादिप्य: ॥ ४ ॥
असोर्भूतेषु जीवे वा लयो, भूतेषु तच्छ्रुतेः ॥
स प्राणस्तेजसीत्याह न तु जीव इति क्वचित् ॥ ५ ॥
एवमेवेममात्मानं प्राणा यन्तीति च श्रुतेः ॥
जीवे लीत्वा सहैतेन पुनर्भुतेेषु लीयते ॥ ६ ॥
–वैयासिकन्यायमाला
ज्ञानानन्द-भारती - द्राविडी
पिराणऩुक्कु लयम् पूदङ्गळिला? अल्लदु जीवऩिडत्तिला? पूदङ्गळिल् ताऩ् अव्विदमे सॊल्लप् पडुवदाल्। “अन्द पिराणऩ् तेजसिल्” ऎऩ्ऱु सॊल्गिऱदे तविर “जीवऩिडत्तिल्” ऎऩ्ऱु ऎन्दविडत्तिलुम् सॊल्लविल्लै।
ज्ञानानन्द-भारती - द्राविडी
“इव्विदमे ताऩ् इन्द आत्मावै पिराणऩ्गळ् अडैगिऩ्ऱऩ” ऎऩ्ऱ सुरुदियिरुप्पदाल्, (पिराणऩ्) जीवऩि टत्तिल् लयित्तु विट्टु इन्द जीवऩुडऩ् कूडवे मऱुबडियुम् पूदङ्गळिल् लयमडैगिऱदु।
स्थितमेतत् — यस्य यतो नोत्पत्तिः, तस्य तस्मिन्वृत्तिप्रलयः, न स्वरूपप्रलय इति। इदमिदानीम् ‘प्राणस्तेजसि’ इत्यत्र चिन्त्यते — किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः, किं वा देहेन्द्रियपञ्जराध्यक्षे जीव इति। तत्र श्रुतेरनतिशङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् , अश्रुतकल्पनाया अन्याय्यत्वात् — इत्येवं प्राप्ते प्रतिपद्यते
ज्ञानानन्द-भारती - द्राविडी
(पिराणऩुक्कु जीवऩिल् लयमा अल्लदु पूदङ्गळिल् लयमा ऎऩ्ऱु सन्देहम्। पिराणऩ् तेजस्सिल् ऎऩ्ऱु सुरुदि कूऱुवदाल् पूदङ्गळिल् ताऩ् पिराणऩुक्कु लयम् जीवऩिल् अल्ल ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
अन्द कालत्तिल् ऎल्ला पिराणऩ्गळुम् आत्माविल् लयमडैगिऩ्ऱऩ ऎऩ्ऱु वेऱॊरु सुरुदि कूऱुवदाल् पिराणऩुक्कु जीवऩिल्दाऩ् लयम्। मुदलिल् पिराणऩ् जीवऩिल् लयमडैन्दु पिऱगु अदऩ् मूलम् पूदङ्गळिल् लयमडैवदैक् कॊण्डु पिराणऩ् पूदत्तिल् ऎऩ्ऱु सुरुदि कूऱुगिऱदु ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
ऎदऱ्कु ऎदिलिरुन्दु उत्पत्तियिल्लैयो अदऱ्कु अदिल् विरुत्तिक्कु लयम्, स्वरूब लयम् इल्लैयॆऩ्ऱु एऱ्पट्टुविट्टदु। “पिराणऩ् तेजसिल्” (सान्।VI-८-६) ऎऩ्ऱ इडत्तिल् इप्पॊऴुदु इदु आलोसिक्कप्पडुगिऱदु। सुरुदियिल् उळ्ळबडि पिराणऩुक्कु तेजसिल्दाऩ् विरुत्तिगळिऩ् ऒडुक्कमा? अल्लदु तेहम् इन्दिरि यङ्गळ् अडङ्गिय कूट्टिऩ् अत्यक्षऩायिरुक्कुम् जीवऩिडत्तिला? ऎऩ्ऱु।
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम् : सुरुदियिल् सन्देहम् कॊळ्वदु सरियल्लवादलाल् पिराणऩुक्कु तेजस्सिल्दाऩ्ऒडुक्कम् सुरुदियिल्लाददै कल्बऩै सॆय्वदु न्यायमागादागैयाल्।
सोऽध्यक्ष इति। स प्रकृतः प्राणः, अध्यक्षे अविद्याकर्मपूर्वप्रज्ञोपाधिके विज्ञानात्मनि अवतिष्ठते; तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः। कुतः ? तदुपगमादिभ्यः — ‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति’ इति हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान्प्राणान् अविशेषेण दर्शयति। विशेषेण च ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ (बृ. उ. ४। ४। २) इति पञ्चवृत्तेः प्राणस्य अध्यक्षानुगामितां दर्शयति, तदनुवृत्तितां च इतरेषाम् ‘प्राणमनूत्क्रामन्तँ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४। ४। २) इति। ‘सविज्ञानो भवति’ इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: ऎऩ्ऱु वरुम्बोदु सॊल्लप् पडुगिऱदु। ‘अदु अत्यक्षऩिडत्तिल्’ ऎऩ्ऱु “अदु” पिरगिरुदमाऩ पिराणऩ्, “अत्यक्षऩिडत्तिल्" अवित्या, कर्मम्, मुऩ् अऱिवु इवैगळै उबादियायुळ्ळ विज्ञानात्माविडत्तिल् निऱ्किऱदु; पिराणऩुडैय विरुत्ति अवऩै पिरदाऩमाग उडैयदाग इरुक्किऱदॆऩ्ऱु अर्त्तम्। एऩ्? “अदै अडैगिऱदु मुदलाऩदुगळिऩाल्” “इव्विदमे मरणसमयत्तिल् इन्द आत्मावै ऎल्ला पिराणऩ्गळुम् पोय् अडैगिऩ्ऱऩ, ऎप्पॊऴुदु इव्विदम् मेल मूच्चुळ्ळवऩाग आगिऱाऩो” ऎऩ्ऱल्लवा वेऱु सुरुदि वाक्कियम् ऎल्ला पिराणऩ्गळुम् वित्तियासमऩ्ऩियिल् अत्यक्षऩैप् पोय् अडैगिऩ्ऱऩ ऎऩ्ऱु काट्टुगिऱदु! विसेषमागवुम्, “वॆळिक्किळम्बुम् अवऩै पिराणऩ् अऩुसरित्तु किळम्बुगिऱदु” (पिरुहत्।IV-४-२) ऎऩ्ऱु ऐन्दु विरुत्तिगळैयुडैय पिराणऩुक्कु अत्यक्षऩै अऩुसरित्तुप् पोगुम्दऩ्मैयैक् काट्टुगिऱदु। मऱ्ऱ वैगळुक्कुम् अदै (पिराणऩै) अऩुसरित्तुप्पोगुम् तऩ्मैयैयुम् “कूड वॆळिक्किळम्बुम् पिराणऩै अऩुसरित्तु मऱ्ऱ पिराणऩ्गळुम् (इन्दिरियङ्गळुम्) वॆळिक्किळम्बुगिऩ्ऱऩ" (पिरुहत्। IV-४-२) ऎऩ्ऱु काट्टुगिऱदु, “अऱिवुडऩिरुक्किऱाऩ्” ऎऩ्ऱु अत्यक्ष ऩुक्कु उळ्अऱिवु इरुक्कुम् तऩ्मैयै काट्टुवदाल्, अवऩिडत्तिल् ऎल्ला इन्दिरियङ्गळैयुम् ऒडुक्किक् कॊण्ड पिराणऩिऩ् इरुप्पै तॆरिविक्किऱदु।
ननु ‘प्राणस्तेजसि’ इति श्रूयते; कथं प्राणोऽध्यक्षे इत्यधिकावापः क्रियते ? नैष दोषः, अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य, श्रुत्यन्तरगतस्यापि च विशेषस्यापेक्षणीयत्वात् ॥ ४ ॥
ज्ञानानन्द-भारती - द्राविडी
“पिराणऩ् तेसस्सिल्” ऎऩ्ऱु सुरुदियिल् केट्कप्पडुगिऱदु। पिराणऩ् अत्यक्षऩिडत्तिल् ऎऩ्ऱु अदिगमाय् सेर्त्तल् ऎप्पडि सॆय्यप्पडुगिऱदु? इदुदोषमिल्लै। वॆळिक्किळम्बुवदु मुदलिय व्यवहारम् अत्यक्षऩैये पिरदाऩमाग उडैयदाल्, वेऱु सुरुदि वाक्कियत्तिलुळ्ळ विसेषत्तैयुम् ऎडुत्तुक्कॊळ्ळ वेण्डियिरुप्पदाल्।
कथं तर्हि ‘प्राणस्तेजसि’ इति श्रुतिरित्यत आह —
ज्ञानानन्द-भारती - द्राविडी
अप्पडियाऩाल् “पिराणऩ् तेजसिल्” ऎऩ्ऱु एऩ् सुरुदि एऱ्पट्टदु ऎऩ्बदऱ्काग सॊल्गिऱार्:-
भूतेषु तच्छ्रुतेः ॥ ५ ॥
ज्ञानानन्द-भारती - द्राविडी
पूदेषु तच्च्रुदे: ॥ ५ ॥
स प्राणसम्पृक्तोऽध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम् , ‘प्राणस्तेजसि’ इति श्रुतेः। ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति, न प्राणसम्पृक्तस्याध्यक्षस्य — नैष दोषः, सोऽध्यक्षे — इति अध्यक्षस्याप्यन्तराल उपसंख्यातत्वात्। योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति, सोऽपि स्रुघ्नात्पाटलिपुत्रं यातीति शक्यते वदितुम्। तस्मात् ‘प्राणस्तेजसि’ इति प्राणसम्पृक्तस्याध्यक्षस्यैव एतत् तेजःसहचरितेषु भूतेष्ववस्थानम् ॥ ५ ॥
ज्ञानानन्द-भारती - द्राविडी
पिराणऩुडऩ् सेर्न्द अन्द अत्यक्षऩ् तेजसुडऩ् कूडियुळ्ळ तेहत्तिऱ्कु विदैयायुळ्ळ सूक्ष्ममाऩ “पूदङ्गळिल्” इरुक्किऱाऩ् ऎऩ्ऱु अऱिय वेण्डुम्, पिराणऩ् तेजसिल् ऎऩ्ऱु सॊल्लप् पट्टिरुप्पदाल्, इन्द सुरुदि पिराणऩुक्कु तेजसिल् इरुप्पै सॊल्गिऱदे तविर पिराणऩुडऩ् सेर्न्द अत्यक्षऩुडैय इरुप्पै सॊल्लविल्लैये ऎऩ्ऱाल्, इदु तोषमिल्लै। “अदु अत्यक्षऩिडत्तिल्” ऎऩ्ऱु अत्यक्षऩुम् मत्तियिलेये सॊल्लप्पट्टुविट्ट पडियाल्। ऎवऩ् स्रूक्ऩत्तिलिरुन्दु मदुरै पोय्विट्टु मदुरैयिलिरुन्दु पाडलिबुत्तिरम् पोगिऱाऩो अवऩुम् स्रूक्ऩत्तिलिरुन्दु पाडलिबुत्तिरम् पोगिऱाऩ् ऎऩ्ऱु सॊल्लमुडियुमल्लवा? आगैयाल् पिराणऩ् तेजसिल् ऎऩ्बदऩाल् पिराणऩुळ् सेर्न्दुळ्ळ अत्यक्षऩुक्के तेजस्सुडऩ् सेर्न्दुळ्ळ पूदङ्गळिल् इरुप्पु (सॊल्लप्पट्टदु)।
कथं तेजःसहचरितेषु भूतेष्वित्युच्यते, यावता एकमेव तेजः श्रूयते — ‘प्राणस्तेजसि’ इति ? अत आह —
ज्ञानानन्द-भारती - द्राविडी
“पिराणऩ् तेजसिल्” ऎऩ्ऱु, तेजस् ऒऩ्ऱु मात्तिरमे सॊल्लप्पट्टिरुक्कुम्बोदु, तेजसुडऩ् कूडवेयुळ्ळ पूदङ्गळिल् ऎऩ्ऱु ऎप्पडि सॊल्लप् पडुगिऱदु? इदऱ्काग सॊल्गिऱार्।
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
ज्ञानानन्द-भारती - द्राविडी
नैगस्मिन्दर्सयदो हि ॥ ६ ॥
न एकस्मिन्नेव तेजसि शरीरान्तरप्रेप्सावेलायां जीवोऽवतिष्ठते, कार्यस्य शरीरस्यानेकात्मकत्वदर्शनात्। दर्शयतश्च एतमर्थं प्रश्नप्रतिवचने ‘आपः पुरुषवचसः’ (छा. उ. ५। ३। ३) इति। तद्व्याख्यातम् ‘त्र्यात्मकत्वात्तु भूयस्त्वात्’ (ब्र. सू. ३। १। २) इत्यत्र। श्रुतिस्मृती च एतमर्थं दर्शयतः। श्रुतिः — ‘पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयः’ इत्याद्या; स्मृतिरपि — ‘अण्व्यो मात्राऽविनाशिन्यो दशार्धानां तु याः स्मृताः। ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः’ (म. स्मृ. १। २७) इत्याद्या ।
ज्ञानानन्द-भारती - द्राविडी
“ऒऩ्ऱिल्” तेजस्सिल् मात्तिरम् वेऱु सरीरत्तिऱ्कु पोगुम्बोदु जीवऩ् इरुक्किऱाऩ् ऎऩ्बदिल्लै, कार्यमागिय (उण्डागवेण्डियदाऩ) सरीरम् अनेग स्वरूबत्तऩ्मैयुळ्ळदाय् तॆरिवदाल्। इव्विषयत्तै केळ्वि, पदिल् ऎऩ्ऱ “इरण्डुम्” “जलम्, पुरुषऩ् ऎऩ्ऱु सॊल्लक्कूडियदाग" (सान्।V-३-३) ऎऩ्ऱविडत्तिल् काट्टु किऩ्ऱऩ। इदु “मूऩ्ऱु तऩ्मैयुडैयदाल्, अदिगमायि रुत्तलाल्” ऎऩ्ऱ इडत्तिल् (सूत्रम्।III-१-२) वियाक् याऩम् सॆय्यप्पट्टिरुक्किऱदु। सुरुदि स्मिरुदि ऎऩ्ऱ इरण्डुम्” कूड इदे अर्त्तत्तै काट्टुगिऱदु। सुरुदि “पिरुदिवीमयऩ्, जलमयऩ्,वायुमयऩ्, आगासमयऩ्, तेजोमयऩ्” (पिरुहत्।IV-४-५) मुदलाऩदु। स्मिरुदियुम्, “ऐन्दिऩुडैय नासत्तैयडैयाद सूक्ष्ममाऩ मात्तिरैगळ् ऎवै सॊल्लप्पडुगिऩ्ऱऩवो, अवैगळैक् कॊण्डु इदुवॆल्लाम् वरिसैयाग एऱ्पडुगिऱदु” मुदलियदु।
ननु च उपसंहृतेषु वागादिषु करणेषु शरीरान्तरप्रेप्सावेलायाम् ‘क्वायं तदा पुरुषो भवति’ (बृ. उ. ३। २। १३) इत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति — ‘तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशँसतुः कर्म हैव तत्प्रशशँसतुः’ (बृ. उ. ३। २। १३) इति। अत्रोच्यते — तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्य इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ता। इह पुनः भूतोपादानाद्देहान्तरोत्पत्तिरिति भूताश्रयत्वमुक्तम्। प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितम् , न त्वाश्रयान्तरं निवारितम्। तस्मादविरोधः ॥ ६ ॥
ज्ञानानन्द-भारती - द्राविडी
वाक् मुदलिय इन्दिरियङ्गळ् अडङ्गिऩबोदु वेऱु सरीरत्तिऱ्कुप् पुऱप्पडुम् वेळैयिल् “अप्पॊऴुदु इन्द पुरुषऩ् ऎङ्गे इरुक्किऱाऩ्?” ऎऩ्ऱु आरम्बित्तु वेऱु सुरुदि कर्मत्तै आसिरयमागवुडैयदाग सॊल्गिऱदे “अव्विरुवर्गळुम् ऎदैच् चॊऩ्ऩार्ग ळॆऩिल् अन्द कर्मावैत्ताऩ् सॊऩ्ऩार्गळ्, ऎदै पुगऴ्न्दार्गळॆऩिल् अन्द कर्मावैत्ताऩ् पुगऴ्न्दार्गळ्” (पिरुहत्।III-२-१३) ऎऩ्ऱु? ऎऩ्ऱाल्, इङ्गु सॊल्गिऱोम् ; अङ्गे कर्माविऩाल् एऱ्पट्ट किरहम् अदिगिरहम् ऎऩ्ऱ पॆयरुडैय इन्दिरियत्तैयुम्, विषयत्तैयुम् स्वरूमायुडैय कट्टिऩ् पिरविरुत्ति ऎऩ्ऱु कर्मावै आसिरमायुडैय तऩ्मै सॊल्लप्पट्टदु। इङ्गेयो पूदङ्गळागिऱ उबादाऩत्तिलिरुन्दु मऱ्ऱॊरु सरीरत्तिऩ् उत्पत्ति ऎऩ्ऱु पूदङ्गळै आसिरयिक्कुम् तऩ्मै सॊल्लप्पट्टदु। “पुगऴ्न्दार्गळ्” ऎऩ्ऱ वार्त्तैयि ऩालुम् अङ्गु कर्माविऱ्कु पिरादाऩ्यम् मात्तिरम् काट्टप्पट्टदु। वेऱु आसिरयम् निरागरिक्कप्पडविल्लै, आगैयाल् विरोदमिल्लै।