०२ आत्मत्वोपासनाधिकरणम्

विश्वास-प्रस्तुतिः

आत्मेति तूपगच्छन्ति ग्राहयन्ति च +++(ईश्वरम्)+++ ॥ ३ ॥

English
  1. But as the Self (scriptural texts) acknowledge and make us comprehend (the Lord).
मूलम्

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥

ज्ञानानन्द-भारती - द्राविडी

आत्मेदि तूबगच्चन्दि क्राहयन्दि स ॥ ३ ॥

ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्यमात्मतयाऽथ वा ॥
अन्यत्वेन विजानीयाद्दुःख्यदुःखिविरोधतः ॥ ३ ॥
औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यताम् ॥
गृह्णन्त्येवं महावाक्यैः स्वशिष्यान्ग्राहयन्ति च ॥ ४ ॥
–वैयासिकन्यायमाला

ज्ञानानन्द-भारती - द्राविडी

अऱिगिऱवऩाल् पिरह्ममाऩदु तऩ्ऩैविड वेऱाऩदाग किरहिक्क वेण्डुमा? अल्लदु ताऩ् ऎऩ्ऱेया? (ताऩ्) तुक्क मुळ्ळवऩ् (पिरह्मम्) तुक्कमऱ्ऱदु ऎऩ्ऱु विरोदमिरुप्पदाल् वेऱागत् ताऩ् अऱिय वेण्डुम्।

ज्ञानानन्द-भारती - द्राविडी

विरोदम् उबादिगळाल् सॆय्यप्पट्टदु। आगैयाल्, ताऩ् ऎऩ्ऱे ताऩ् किरहिक्क वेण्डुम्। इव्विदमे (ञाऩिगळ्) अऱिगिऱार्गळ्। महा वाक्कियङ्गळिऩाल् तङ्गळ् शिष्यर्गळैयुम् किरहिक्कुम्बडिच् चॆय्गिऱार्गळ्।

विश्वास-प्रस्तुतिः

यः शास्त्रोक्तविशेषणः परमात्मा,
स किम् “अहम्” इति ग्रहीतव्यः,
किं वा मद्-अन्य इति?
— एतद्विचारयति।

English

The Sūtrakāra now considers the question whether the highest Self whose characteristics scripture declares is to be understood as the ‘I’ or as different from me.

मूलम्

यः शास्त्रोक्तविशेषणः परमात्मा,
स किम् अहमिति ग्रहीतव्यः,
किं वा मद्-अन्य इति?
— एतद्विचारयति।

विश्वास-प्रस्तुतिः

कथं पुनर् आत्मशब्दे प्रत्यग्-आत्मविषये श्रूयमाणे संशय?

इति, उच्यते —

English

But how can a doubt arise,
considering that scripture exhibits the term ‘Self’
whose sphere is the inward Self?

मूलम्

कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय?

इति, उच्यते —

विश्वास-प्रस्तुतिः

अयम् आत्म-शब्दो मुख्यः शक्यते ऽभ्युपगन्तुम् ,
सति जीवेश्वरयोर् अ-भेद-सम्भवे।

English

This term ‘Self’–a reply may be given–may be taken in its primary sense,
provided it be possible to view the individual soul and the Lord as non-different;

मूलम्

अयमात्मशब्दो मुख्यः शक्यतेऽभ्युपगन्तुम् , सति जीवेश्वरयोरभेदसम्भवे।

विश्वास-प्रस्तुतिः

इतरथा तु गौणोऽयम् अभ्युपगन्तव्यः — इति मन्यते ।

English

but in the other case the term has to be taken in a secondary (metaphorical) sense only 1.

मूलम्

इतरथा तु गौणोऽयम् अभ्युपगन्तव्यः — इति मन्यते ।

ज्ञानानन्द-भारती - द्राविडी

(प्रह्मस्वरूबत्तै तऩ्ऩैक्काट्टिलुम् वेऱाग अऱियवेण्डुमो, अल्लदु तऩदु आत्म स्वरूबमाग अऱिय वेण्डुमा ऎऩ्ऱु सन्देहम्। जीवऩ् तुक्कमुळ्ळवऩागवुम्, पिरह्मम् तुक्कमिल्लामलु मिरुप्पदऩ् मूलम् ऒऩ्ऱुक्कॊऩ्ऱु विरोदमिरुप्पदाल् पिरह्मत्तै तऩ्ऩैक् काट्टिलुम् वेऱागत्ताऩ् अऱिय वेण्डुम्। तऩ् स्वरूबमाग अऱियक्कूडादु ऎऩ्ऱु पूर्वबक्षम्।

ज्ञानानन्द-भारती - द्राविडी

जीवऩ् उण्मैयिल् पिरह्म स्वरूबम्दाऩ्। तुक्कम् मुदलियवै अन्दक्करणमॆऩ्ऩुम् उबादियाल् एऱ्पट्टदु। अदु वास्तवमल्ल। उण्मैयाग विरोदमिल्लाददाल् पिरह्मत्तै आत्म स्वरूबमागत् ताऩ् अऱियवेण्डुम्। तऩ्ऩैक् काट्टिलुम् वेऱाग अऱियक्कूडादु। महावाक्यङ्गळ् पिरह्मत्तै आत्मावा कवे उबदेसिक्किऩ्ऱऩ। पिरह्म वित्तुक्कळ् तम् शिष्यर्गळुक्कु आत्म स्वरूबमागत्ताऩ् पिरह्मत्तै उबदेसिक्किऱार्गळ् ऎऩ्ऱु सित्तान्दम्)।

ज्ञानानन्द-भारती - द्राविडी

सास्तिरत्तिल् सॊल्लप्पट्ट विसेषणङ्गळै युडैय परमात्मा ऎवरो, अवर् “नाऩ्” ऎऩ्ऱु अऱिन्दु कॊळ्ळ वेण्डियवरा, अल्लदु “ऎऩ्ऩैविड वेऱु” ऎऩ्ऱु अऱिन्दु कॊळ्ळवेण्डियवरा, ऎऩ्ऱ इदै विसारिक्किऱार्। उळ्ळेयिरुक्कुम् आत्मावै विषयमा युळ्ळ “आत्मा” ऎऩ्ऱ वार्त्तै केट्कप्पडुवदिल् ऎप्पडि सन्देहम् ऎऩ्ऱाल्? सॊल्गिऱोम्। जीवऩुम्, ईसुवरऩुम् वेऱऩ्ऩियिल् इरुक्क मुडियुमेयाऩाल् इन्द “आत्मा” ऎऩ्ऱ वार्त्तै मुक्कियमाऩ अर्त्तत्तिल् सॊल्लप् पट्टदाग ऒप्पुक् कॊळ्ळमुडियुम्; इल्लैयाऩाल् कौणम् ऎऩ्ऱुदाऩ् अङ्गीगरिक्कवेण्डुम्; ऎऩ्ऱु निऩैक्किऱाऩ्।

विश्वास-प्रस्तुतिः

किं तावत्प्राप्तम् ?

न अहमिति ग्राह्यः।

English

The pūrvapakshin maintains that the term ‘Self is not to be taken as meaning the ‘I.’

मूलम्

किं तावत्प्राप्तम् ?

न अहमिति ग्राह्यः।

विश्वास-प्रस्तुतिः

न हि अपहत-पाप्मत्वादि-गुणो विपरीत-गुणत्वेन शक्यते ग्रहीतुम् ,
विपरीत-गुणो वा अपहत-पाप्मत्वादि-गुणत्वेन।

English

For that which possesses the qualities of being free from all evil, &c.,
cannot be understood as possessing qualities of a contrary nature,
nor can that which possesses those contrary qualities be understood as being free from all evil and so on.

मूलम्

न हि अपहत-पाप्मत्वादि-गुणो विपरीत-गुणत्वेन शक्यते ग्रहीतुम् ,
विपरीत-गुणो वा अपहत-पाप्मत्वादि-गुणत्वेन।

विश्वास-प्रस्तुतिः

अपहत-पाप्मत्वादि-गुणश् च परमेश्वरः,
तद्-विपरीत-गुणस् तु शारीरः।

English

But the highest Lord possesses the qualities of being free from all evil, &c., and the embodied Self is characterised by qualities of a contrary nature.

मूलम्

अपहत-पाप्मत्वादि-गुणश् च परमेश्वरः,
तद्-विपरीत-गुणस् तु शारीरः।

विश्वास-प्रस्तुतिः

ईश्वरस्य च संसार्य्-आत्मत्वे ईश्वराभाव-प्रसङ्गः।
ततः शास्त्रानर्थक्यम्।

English

Moreover, if the transmigrating soul constituted the Self of the Lord,
it would follow that he is no Lord,
and thus scripture would lose its meaning;

मूलम्

ईश्वरस्य च संसार्य्-आत्मत्वे ईश्वराभाव-प्रसङ्गः।
ततः शास्त्रानर्थक्यम्।

विश्वास-प्रस्तुतिः

संसारिणोऽपि ईश्वरात्मत्वे
अधिकार्य्-अभावाच् छास्त्रानर्थक्यम् एव,
प्रत्यक्षादि-विरोधश् च।

English

while, if the Lord constituted the Self of the individual soul,
the latter would not be entitled (to works and knowledge),
and scripture would thus also lose its meaning.
The latter assumption would moreover run counter to perception and the other means of proof.

मूलम्

संसारिणोऽपि ईश्वरात्मत्वे
अधिकार्य्-अभावाच् छास्त्रानर्थक्यम् एव,
प्रत्यक्षादि-विरोधश् च।

विश्वास-प्रस्तुतिः

अन्यत्वेऽपि तादात्म्य-दर्शनं शास्त्रात् कर्तव्यम् —
प्रतिमादिष्व् इव विष्ण्व्-आदि-दर्शनम्

इति चेत् —
कामम् एवं भवतु।

English

Should it be said that,
although the Lord and the soul are different,
they yet must be contemplated as identical,
on the basis of scripture,
just as Vishnu and other divinities are contemplated in images and so on;
the answer is that this contemplation may take place,

मूलम्

अन्यत्वेऽपि तादात्म्य-दर्शनं शास्त्रात् कर्तव्यम् —
प्रतिमादिष्व् इव विष्ण्व्-आदि-दर्शनम्

इति चेत् —
कामम् एवं भवतु।

विश्वास-प्रस्तुतिः

न तु संसारिणो मुख्य आत्मा ईश्वर इत्य्
एतत् नः प्रापयितव्यम् ॥

English

but that therefrom we must not conclude that the Lord is the real Self of the transmigrating soul.

मूलम्

न तु संसारिणो मुख्य आत्मा ईश्वर इत्य्
एतत् नः प्रापयितव्यम् ॥

ज्ञानानन्द-भारती - द्राविडी

पूर्वबक्षम्: ऎदु न्यायम्? “नाऩ्” ऎऩ्ऱु किरहिक्कक्कूडादु। “ऎव्विद पाबमुमऱ्ऱदु” मुदलाऩ कुणङ्गळोडु कूडिऩवरै नेर्माऱाऩ कुणत्तोडु कूडिऩवराग किरहिप्पदु मुडियादु। नेर्माऱाऩ कुणत् तोडु कूडिऩ वरैयुम् ऎव्विद पाबमुमऱ्ऱदु मुदलाऩ कुणमुळ्ळवराग किरहिक्क मुडियादु। ऎव्विद तोषमु मऱ्ऱदु मुदलाऩ कुणङ्गळोडु कूडिऩवर् परमेसुवरऩ्। अदऱ्कु नेर् विबरीद कुणङ्गळोडु कूडिऩदुवो सरीरत्तिलुळ्ळ आत्मा। ईसुवरऩुक्कु संसारियायिरुक्कुम् आत्मत्तऩ्मैयॆऩ्ऱाल्, ईसुवरऩै इल्लैयॆऩ्ऱु एऱ्पट्टुविडुम्। अदिऩाल् सास्तिरम् पिरयोजऩमऱ्ऱ तागुम्। संसारिक्कु ईसुवरऩायिरुक्कुम् तऩ्मैयॆऩ् ऱाल्, अदिगारियेयिल्लाददिऩाल्, सास्तिरम् पिरयोजऩ मऱ्ऱदेयागुम्। इदुबिरत्यक्षम् मुदलियदऱ्कु विरोदमुम्गूड वेऱाग इरुन्द पोदिलुम् पिरदिमै मुदलियदु कळिल् विष्णु मुदलाऩवर्गळै पाविप्पदु पोल्, ऒऩ्ऱाग पाविप्पदुदाऩ् सास्तिरत्तिऩाल् सॆय्यत् तगुन्ददु ऎऩ्ऱु वेण्डुमाऩाल् इरुक्कट्टुम्। ऎप्पडियुम् संसारियिऩ् मुक्कियमाऩ आत्मा ईसुवरऩ् ऎऩ्ऱ इदु मात्तिरम् एऱ्पट्टुविडक्कूडादु। इव्विदम् वरुम् पोदु सॊल्गिऱोम्।

विश्वास-प्रस्तुतिः

एवं प्राप्ते, ब्रूमः —

English

To all this we make the following reply.

मूलम्

एवं प्राप्ते, ब्रूमः —

विश्वास-प्रस्तुतिः

आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः।

English

The highest Lord must be understood as the Self.

मूलम्

आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः।

विश्वास-टिप्पनी

एवं प्राप्तेऽभिधीयते - श्वेतकेतोर् आत्मैव परमेश्वरः प्रतिपत्तव्यो न तु श्वेतकेतोर् व्यतिरिक्तः परमेश्वरः ।

इति भामती।

स्
विश्वास-प्रस्तुतिः

तथा हि परमेश्वर-प्रक्रियायां जाबाला आत्मत्वेनैव एतम् उपगच्छन्ति —

English

For in a chapter treating of the highest Lord the Jābālas acknowledge him to be the Self,

मूलम्

तथा हि परमेश्वर-प्रक्रियायां जाबाला आत्मत्वेनैव एतम् उपगच्छन्ति —

विश्वास-प्रस्तुतिः

‘त्वं वा अहम् अस्मि भगवो देवते
ऽहं वै त्वम् असि भगवो देवते’

इति;

English

‘Thou indeed I am. O holy divinity;
I indeed thou art, O divinity!’

मूलम्

‘त्वं वा अहम् अस्मि भगवो देवते
ऽहं वै त्वम् असि भगवो देवते’

इति;

विश्वास-प्रस्तुतिः

तथा अन्येऽपि

‘अहं ब्रह्मास्मि’

इत्य् एवमादय आत्मत्वोपगमा द्रष्टव्याः।

English

In the same light other texts have to be viewed,
which also acknowledge the Lord as the Self,
such as ‘I am Brahman’ (Br̥. Up. I, 4, 10).

मूलम्

तथा अन्येऽपि

‘अहं ब्रह्मास्मि’

इत्य् एवमादय आत्मत्वोपगमा द्रष्टव्याः।

विश्वास-प्रस्तुतिः

ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि —

English

Moreover certain Vedānta-texts make us comprehend the Lord as the Self,

मूलम्

ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि —

विश्वास-प्रस्तुतिः

‘एष त आत्मा सर्वान्तरः’ (बृ. उ. ३। ४। १)

English

‘Thy Self is this which is within all’ (Br̥. Up. III. 4, 1);

मूलम्

‘एष त आत्मा सर्वान्तरः’ (बृ. उ. ३। ४। १)

विश्वास-प्रस्तुतिः

‘एष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३। ७। ३)

English

‘He is thy Self, the ruler within, the immortal’ (Br̥. Up. III, 7, 3);

मूलम्

‘एष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३। ७। ३)

विश्वास-प्रस्तुतिः

‘तत् सत्यँ स आत्मा तत् त्वम् असि’ (छा. उ. ६। ८। ७)

इत्येवमादीनि ।

English

‘That is the True, that is the Self, thou art that’ (Cḥ. Up. VI, 8, 7).

मूलम्

‘तत् सत्यँ स आत्मा तत् त्वम् असि’ (छा. उ. ६। ८। ७)

इत्येवमादीनि ।

ज्ञानानन्द-भारती - द्राविडी

समादाऩम्: आत्मा ऎऩ्ऱे ताऩ् परमेसुवरऩ् अऱियप्पडवेण्डुम्। अप्पडिये परमेसुवर विषयमाग सॊल्लुम्बोदु, जाबालर्गळ् इवरै आत्मावागत्ताऩ् अऱिगिऱार्गळ्। “महिमैयुळ्ळ तेवदैये! नीराग नाऩ् इरुक्किऱेऩ्। हे तेवदे, नाऩाग नीर् इरुक्किऱीर्” अप्पडिये मऱ्ऱदाऩ “नाऩ् पिरह्ममायिरुक्किऱेऩ्” ऎऩ्बदु मुदलाऩ आत्मावाग अऱियवेण्डियदॆऩ्बदु कळैयुम् पार्त्तुक् कॊळ्ळवुम्। उबनिषत् वाक्कियङ् गळुम् ईसुवरऩै आत्मावागवे उबदेसिक्किऩ्ऱऩ। “ऎल्लावऱ्ऱिऱ्कुम् उळ्ळेयिरुक्किऱ इवर् उऩ् आत्मा” (पिरुहत्।III-४-१), “इन्द अन्दर्यामियाय् इऱप्पऱ्ऱवरायि रुप्पवर् उऩ् आत्मा” (पिरुहत्।III-७-३), “अदु सत्यम्। अवर् आत्मा, अदुवे नी” (सान्।IV-८-७) ऎऩ्बदु मुदलियवैगळ्।

विश्वास-प्रस्तुतिः

यद् उक्तम् — प्रतीक-दर्शनम् इदं विष्णु-प्रतिमा-न्यायेन भविष्यतीति, तद् अयुक्तम् -
+++(“त्वं वा अहम् अस्मि भगवो” इत्यादौ)+++ गौणत्व-प्रसङ्गात्,
+++(वक्ष्यमाण-रीत्या)+++ वाक्य-वैरूप्याच् च।

English

Nor can we admit the truth of the assertion, made by the pūrvapakshin,
that all these passages teach merely a contemplation (of the Lord) in certain symbols,
analogous to the contemplation of Vishnu in an image.
For that would firstly involve that the texts have not to be understood in their primary sense 2;
and in the second place there is a difference of syntactical form.

मूलम्

यद् उक्तम् — प्रतीक-दर्शनम् इदं विष्णु-प्रतिमा-न्यायेन भविष्यतीति, तद् अयुक्तम् -
गौणत्व-प्रसङ्गात्,
वाक्य-वैरूप्याच् च।

विश्वास-प्रस्तुतिः

यत्र हि प्रतीक-दृष्टिर् अभिप्रेयते,
सकृद् एव तत्र वचनं भवति —

English

For where scripture intends the contemplation of something in a symbol,
it conveys its meaning through a single enunciation

मूलम्

यत्र हि प्रतीक-दृष्टिर् अभिप्रेयते,
सकृद् एव तत्र वचनं भवति —

विश्वास-प्रस्तुतिः

यथा ‘मनो ब्रह्म’ (छा. उ. ३। १८। १)
‘आदित्यो ब्रह्म’ (छा. उ. ३। १९। १)
इत्य्-आदि।

English

such as ‘Brahman is Mind’ (Cḥ. Up. III, 18, 1),
or ‘Brahman is Āditya’ (Cḥ. Up. III, 10, 1).

मूलम्

यथा ‘मनो ब्रह्म’ (छा. उ. ३। १८। १)
‘आदित्यो ब्रह्म’ (छा. उ. ३। १९। १)
इत्य्-आदि।

विश्वास-प्रस्तुतिः

इह पुनः — त्वम् अहम् अस्मि, अहं च त्वम् असीत्य् आह। +++(5)+++

English

But in the passage quoted above,
scripture says, ‘I am Thou and thou art I.’

मूलम्

इह पुनः — त्वम् अहम् अस्मि, अहं च त्वम् असीत्य् आह।

विश्वास-प्रस्तुतिः

अतः प्रतीक-श्रुति-वैरूप्याद् अभेद-प्रतिपत्तिः।

English

As here the form of expression differs from that of texts teaching the contemplation of symbols,
the passage must be understood as teaching non-difference.

मूलम्

अतः प्रतीक-श्रुति-वैरूप्याद् अभेद-प्रतिपत्तिः।

विश्वास-प्रस्तुतिः

भेद-दृष्ट्य्-अपवादाच् च;

English

This moreover follows from the express prohibition of the view of difference which a number of scriptural texts convey.

मूलम्

भेद-दृष्ट्य्-अपवादाच् च;

विश्वास-प्रस्तुतिः

तथा हि —

‘अथ यो ऽन्यां देवताम् उपास्ते,
अन्यो ऽसाव् अन्यो ऽहम् अस्मीति,
न स वेद’ (बृ. उ. १। ४। १०),

English

Compare e.g.

‘Now if a man worships another deity,
thinking the deity is one and he another,
he does not know’ (Br̥. Up. I, 4, 10);

मूलम्

तथा हि —

‘अथ यो ऽन्यां देवताम् उपास्ते,
अन्यो ऽसाव् अन्यो ऽहम् अस्मीति,
न स वेद’ (बृ. उ. १। ४। १०),

विश्वास-प्रस्तुतिः

‘मृत्योः स मृत्युम् आप्नोति
य इह नानेव पश्यति’ (बृ. उ. ४। ४। १९),

English

‘From death to death goes he
who here perceives any diversity’ (Br̥. Up. IV, 4, 19);

मूलम्

‘मृत्योः स मृत्युम् आप्नोति
य इह नानेव पश्यति’ (बृ. उ. ४। ४। १९),

विश्वास-प्रस्तुतिः

‘सर्वं तं परादाद्
यो ऽन्यत्रात्मनः सर्वं वेद’
(बृ. उ. २। ४। ६)

English

‘Whosoever looks for anything elsewhere than in the Self
is abandoned by everything’ (Br̥. Up. II, 4, 6).

मूलम्

‘सर्वं तं परादाद्
यो ऽन्यत्रात्मनः सर्वं वेद’
(बृ. उ. २। ४। ६)

विश्वास-प्रस्तुतिः

इत्य्-एवमाद्या भूयसी श्रुतिः भेद-दर्शनम् अपवदति।

मूलम्

इत्य्-एवमाद्या भूयसी श्रुतिः भेद-दर्शनम् अपवदति।

ज्ञानानन्द-भारती - द्राविडी

विष्णुवै पिरदिमैयिल् पाविक्किऱ नियायप्पडि इदुवुम् पिरदीगत्तिल् पावऩैयागुम् ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदु पॊरुन्दादु, कौणत्तऩ्मै एऱ्पट्टु विडुमाऩदिऩाल् वाक्कियमुम् वेऱु विदमायिरुप्पदाल्। ऎन्दविडत्तिल् पिरदीग पावऩै अबिप्पिरायप्पडुगिऱदो, अन्दविडत्तिल् ऒरु तडवै ताऩ् वसऩम् इरुक्कुम्, “मऩस् पिरह्मम्” (सान्।II-१८-१) “आदित्यऩ् पिरह्मम्” (सान्।III-१९-१) ऎऩ्बदु मुदलाऩदु पोल इङ्गेयो “नीयाग नाऩ् इरुक्किऱेऩ्। नाऩाग नी इरुक्किऱाय्” ऎऩ्ऱु (इरण्डु विदमागवुम्) सॊल्लि यिरुक्किऱदु; आगैयाल् पिरदीग वाक्कियत्तिऱ्कु वेऱायि रुप्पदाल् वेऱ्ऱुमैयऱ्ऱदॆऩ्ऱे अऱिवु एऱ्पड वेण्डुम्। वेऱ्ऱुमैप् पार्वैयै तडुत्तिरुप्पदि ऩालुम्; “ऎवऩ् अवर् वेऱु, नाऩ् वेऱु ऎऩ्ऱु तेवदैयै वेऱाग उबासिक्किऱाऩो, अवऩ् अऱिय विल्लै” (पिरुहत्।१;४१०) “ऎवऩ् इदऩ् विषयत्तिल् पलबोल पार्क्किऱाऩो, अवऩ् मरणत्तिलिरुन्दु मरणत्तैयडैगिऱाऩ्” (पिरुहत्।IV-४-१९; कड।IV-१०) “ऎवऩ् तऩ्ऩैक् काट्टिलुम् वेऱाग ऎल्ला वऱ्ऱैयुम् अऱिगिऱाऩो, अवऩै अन्द ऎल्लाम् विलक् किविडुम्” (पिरुहत्।IV-५-७) इदु मुदलाऩ एराळमाऩ पेद वाक्कियङ्गळ् पेद तर्सऩत्तै निन्दिक्किऩ्ऱऩ।

विश्वास-प्रस्तुतिः

यत् तु उक्तम् — “न विरुद्ध-गुणयोर् अन्योन्यात्मत्व-सम्भव” इति, नायं दोषः,
विरुद्ध-गुणताया मिथ्यात्वोपपत्तेः।

English

Nor is there any force in the objection that
things with contrary qualities cannot be identical;
for this opposition of qualities can be shown to be false.

मूलम्

यत् तु उक्तम् — “न विरुद्ध-गुणयोर् अन्योन्यात्मत्व-सम्भव” इति, नायं दोषः,
विरुद्ध-गुणताया मिथ्यात्वोपपत्तेः।

विश्वास-प्रस्तुतिः

यत् पुनर् उक्तम् — “ईश्वराभाव-प्रसङ्ग” इति, तद् असत्,
शास्त्र-प्रामाण्याद् अनभ्युपगमाच् च +++(वक्ष्यमाण-रीत्या)+++।

English

Nor is it true that
from our doctrine it would follow that
the Lord is not a Lord.

For in these matters scripture alone is authoritative,

मूलम्

यत् पुनर् उक्तम् — “ईश्वराभाव-प्रसङ्ग” इति, तद् असत्,
शास्त्र-प्रामाण्याद् अनभ्युपगमाच् च।

विश्वास-प्रस्तुतिः

न हीश्वरस्य संसार्य्-आत्मत्वं प्रतिपाद्यत
इत्य् अभ्युपगच्छामः —

English

and we, moreover, do not at all admit that scripture teaches the Lord to be the Self of the transmigrating soul,

मूलम्

न हीश्वरस्य संसार्य्-आत्मत्वं प्रतिपाद्यत
इत्य् अभ्युपगच्छामः —

विश्वास-प्रस्तुतिः

किं तर्हि?

संसारिणः संसारित्वापोहेन
ईश्वरात्मत्वं प्रतिपिपादयिषितम्

इति।

English

but maintain that by denying the transmigrating character of the soul
it aims at teaching that the soul is the Self of the Lord.

मूलम्

किं तर्हि?

संसारिणः संसारित्वापोहेन
ईश्वरात्मत्वं प्रतिपिपादयिषितम्

इति।

विश्वास-प्रस्तुतिः

एवं च सति अद्वैतेश्वरस्य अपहत-पाप्मत्वादि-गुणता,
विपरीत-गुणता तु इतरस्य मिथ्येति व्यवतिष्ठते।

English

From this it follows that the non-dual Lord is free from all evil qualities,
and that to ascribe to him contrary qualities is an error.

मूलम्

एवं च सति अद्वैतेश्वरस्य अपहत-पाप्मत्वादि-गुणता,
विपरीत-गुणता तु इतरस्य मिथ्येति व्यवतिष्ठते।

ज्ञानानन्द-भारती - द्राविडी

नेर्विरोदमायुळ्ळ कुणङ्गळैयुडैयदुगळिल् (ईसुवरऩ् जीवऩ्) ऒऩ्ऱु मऱ्ऱॊऩ्ऱिऩ् स्वरूबमा यिरुप्पदु सम्बविक्कादु ऎऩ्ऱु सॊल्लप्पट्टदे अदु तोषमागादु। विरुत्तमाऩ कुणमुळ्ळदॆऩ्बदु मित्यैयायिरुप्पदाल्

ज्ञानानन्द-भारती - द्राविडी

ईसुवरऩेयिल्लामल् पोय्विडुमॆऩ् सॊऩ्ऩदुम् सरियल्ल सास्तिरत्तिऱ्कु पिरामाण्यमिरुप् पदिऩालुम् (नी सॊल्गिऱबडि) ऒप्पुक्कॊळ्ळाददिऩालुम्, ईसुवरऩुक्कु संसारियिऩ् स्वरूबमायिरुक्कुम् तऩ्मै युण्डु ऎऩ्ऱु नाम् ऒप्पुक्कॊळ्ळविल्लै। पिऩ्ऩे संसारिक्कु संसारत् तऩ्मैयै विलक्किऩाल् ईसुवरऩायिरुक्कुम् तऩ्मै उण्डॆऩ्ऱु ताऩ् पिरदिबादिक्क उत्तेसिप्पदु इव्विदमाग इरण्डऱ्ऱ ईसुवरऩुक्कु तोषमऩ्ऩियिलिरुक्किऱदु मुदलाऩ कुणङ्गळोडु कूडियिरुत्तल्, मऱ्ऱवऩुक्कुगो (जीवऩुक्कु) विबरीदगुणमुळ्ळदॆऩ्बदु मित्यै ऎऩ्ऱु एऱ्पडुगिऱदु।

यदप्युक्तम् — अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति, तदप्यसत् , प्राक्प्रबोधात् संसारित्वाभ्युपगमात् , तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य। ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २। ४। १४) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति। प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् , न, इष्टत्वात्। ‘अत्र पिताऽपिता भवति’ (बृ. उ. ४। ३। २२) इत्युपक्रम्य, ‘वेदा अवेदाः’ (बृ. उ. ४। ३। २२) इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे ।

कस्य पुनरयम् अप्रबोध इति चेत् , यस्त्वं पृच्छसि तस्य ते, इति वदामः। ननु अहमीश्वर एवोक्तः श्रुत्या — यद्येवं प्रतिबुद्धोऽसि, नास्ति कस्यचिदप्रबोधः। योऽपि दोषश्चोद्यते कैश्चित् — अविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपपत्तिरिति, सोऽपि एतेन प्रत्युक्तः। तस्मात् आत्मेत्येव ईश्वरे मनो दधीत ॥ ३ ॥

ज्ञानानन्द-भारती - द्राविडी

(सास्तिरत्तिऱ्कु) अदिगारियेयिल्लामल् पोय् विडुमॆऩ्ऱुम्, पिरत्यक्षम् मुदलियदिऱ्कु विरोद मॆऩ्ऱुम् सॊल्लप्पट्टदे अदुवुम् सरियल्ल। ञाऩम् एऱ्पडुवदऱ्कु मुऩ् संसारित्तऩ्मै ऒप्पुक् कॊळ्ळप् पडुगिऱबडियाल्; अवऩ् (संसारि) विषयमागवे ताऩ् पिरत्यक्षम् मुदलिय व्यवहारङ्गळ् एऱ्पट्टिरुप्पदि ऩालुम्। “इवऩुक्कु ऎन्द निलैयिल् ऎल्लाम् आत्मादाऩ् ऎऩ्ऱु एऱ्पडुमो, अप्पॊऴुदु ऎदैक्कॊण्डु ऎदै पार्प्पाऩ्” (पिरुहत्।II-४-१४) इदु मुदलाऩ वाक्कियत् तिऩाल् ञाऩमेऱ्पट्टु विट्टाल् पिरत्यक्षम् मुदलियदिऩ् इल्लामैयै काट्टुगिऱदु (वेदम्)।

ज्ञानानन्द-भारती - द्राविडी

पिरत्यक्षम् मुदलियदु इल्लैयॆऩ्ऱाल् वेदमुम् इल्लैयॆऩ्ऱु एऱ्पट्टुविडुमेयॆऩ्ऱाल्, अप्पडियल्ल, सम्मदमेयाऩबडियाल्, “इङ्गु तगप्पऩ् तगप्पऩिल्लै” (पिरुहत्।IV-३-२२) ऎऩ्ऱु आरम्बित्तु “वेदङ्गळ् वेदङ्गळिल्लै” (पिरुहत्। IV-३-२३) ऎऩ्ऱु सॊल्लियिरुक्कुम् वसऩत्तिऩाल्, ञाऩदसैयिल् वेदत्तिऱ्कुक्कूड इल्लामै ऎङ्गळाल् ऒप्पुक्कॊळ्ळ वेबडुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

इन्द अऱियामै यारुक्कुत्ताऩ् ऎऩ्ऱु केट्टाल् “ऎन्द नी केट्किऱायो, अन्द उऩक्कु” ऎऩ्ऱु सॊल्गिऱोम्। “नाऩ् ईसुवरऩ् ऎऩ्ऱे वेदत्ताल् सॊल्लप्पडविल्लैया?”, ऎऩ्ऱाल् “इव्विदम् अऱिन्दु विट्टवऩाग नी इरुन्दायाऩाल् अऱियामै यारुक्कुम् इल्लैदाऩ्”। सिल पेर्गळाल् अवित्यैयिऩाल् तऩक्कु इरण्डावदुळ्ळ तऩ्मैयिरुप्पदाल् इरण्डावदऱ्ऱ तऩ्मै पॊरुन्दादु ऎऩ्ऱ ऎन्द तोषम् सॊल्लप् पडुगिऱदो, अदुवुम् इदिऩाल् पदिल् सॊल्लप्पट्टु विट्टदु। ‘आगैयाल्, आत्मा ऎऩ्ऱु ताऩ् ईसुवरऩि टत्तिल् मऩसै वैक्कवेण्डुम्।


  1. 338:1 And in that case the identity of the highest Self and the ‘I’ would not follow from the term ‘Self.’ ↩︎

  2. 339:1 And this is objectionable as long as it has not been demonstrated that the primary meaning is altogether inadmissable. ↩︎