१७ मुक्तिफलाधिकरणम्

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥

ज्ञानानन्द-भारती - द्राविडी

एवम् मुक्तिबलानियमस्तदवस्तावत् त्रुदेस्तदवस्तावत्रुदे: ॥ ५२ ॥

मुक्तिः सातिशया नो वा फलत्वाद्ब्रह्मलोकवत् ॥
स्वर्गवच्च नृभेदेन मुक्तिः सातिशयैव हि ॥ ३५ ॥
ब्रह्मैव मुक्तिर्न ब्रह्म क्वचित्सातिशयं श्रुतम् ॥
अत एकविधा मुक्तिर्वेधसो मनुजस्य च ॥ ३६ ॥

ज्ञानानन्द-भारती - द्राविडी

–वैयासिक-न्यायमाला

ज्ञानानन्द-भारती - द्राविडी

मुक्ति तारदम्यमुळ्ळदा? अल्लदु तारदम्यमऱ्ऱदा? पलऩाग इरुप्पदिऩाल् पिरह्मलोगत्तैप्पोलवुम्, स्वर्क् कत्तैप् पोलवुम् मऩिदर्गळिल् उळ्ळ वेऱ्ऱुमैक्कुत् तक्क पडि मुक्ति तारदम्यमुडैयदु ताऩ्।

ज्ञानानन्द-भारती - द्राविडी

मुक्तियॆऩ्बदु पिरह्ममेदाऩ् पिरह्मम् तारदम्य मुळ्ळदाग ऎङ्गुम् केळ्विप्पडुवदिल्लै। आगैयाल् मुक्ति पिरह्मावुक्को, मऩिदऩुक्को ऒरे विदम् ताऩ्।

यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः, एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् —

ज्ञानानन्द-भारती - द्राविडी

स्वर्गम्, पिरह्मलोगम् इवैगळिल् तारदम्य मिरुप्पदु पोल मुक्तिबलऩिलुम् मेल् कीऴ् ऎऩ्ऱ तारदम् यमुण्डु ऎऩ्ऱु पूर्वबक्षम्। मुक्तियॆऩ्बदु पिरह्मस् वरूबमाऩदाल् अदिल् वेऱ्ऱुमैयिल्लाददाल् मुक्तियिल् वित्यासम् किडैयादु। सालोक्यम् सामीप्यमॆऩ्ब तॆल्लाम् उबासऩाबलऩ् ञाऩबलऩिल्लै वित्यै एऱ्पडुवदिल्बोल मुक्तियिल् इप्पिऱवि मऱुबिऱवि ऎऩ्ऱ विसेषमुम् किडैयादु। आगवे मऩिदऩुक्कुम् सदुर्मु कऩुक्कुम् मुक्ति ऒरे विदम्दाऩ् ऎऩ्ऱु सित्तान्दम्।

ज्ञानानन्द-भारती - द्राविडी

पूर्वबक्षम्: मोक्षत्तै विरुम्बि वित्या सादऩत्तैक् कैक्कॊण्डवऩुक्कु सादऩत्तिऩ् वीर्यत्तिलुळ्ळ वित्तियासत्तिऩाल् वित्यारूबमाऩ पलऩिल् इङ्गेये पलऩ्, पिऱ्पाडु पलऩ् ऎऩ्ऱु विसे ष नियमम् ऎप्पडि काणप्पडुगिऱदो, अप्पडिये मुक्तिरू पमाऩ पलऩिलुम्गूड मेल्, कीऴ् ऎऩ्ऱु एदेऩुम् विसे षनियमम् इरुक्कलाम्।

इत्याशङ्क्य, आह — इति। न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः। कुतः ? तदवस्थावधृतेः — मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यते। ब्रह्मैव हि मुक्त्यवस्था। न च ब्रह्मणोऽनेकाकारयोगोऽस्ति, एकलिङ्गत्वावधारणात् — ‘अस्थूलमनणु’ (बृ. उ. ३। ८। ८) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३। ९। २६) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७। २४। १) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २। २। १२) ‘इदँ सर्वं यदयमात्मा’ (बृ. उ. २। ४। ६) , ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४। ४। २५) , ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४। ५। १५) इत्यादिश्रुतिभ्यः ।

ज्ञानानन्द-भारती - द्राविडी

सित्तान्दम्: ऎऩ्ऱु सङ्गित्तुच्चॊल्गिऱार्। मुक्ति यागिऱ पलऩिल् नियममिल्लै, ऎऩ्ऱु। इम्मादिरियाऩ ऎव्विद विसेष नियममुम् मुक्तिबलऩिल् उण्डो वॆऩ्ऱु सन्देहिक्कक्कूडादु। एऩ्? अन्दनिलै तीर्माऩमाऩदिऩाल् मुक्ति ऎऩ्ऱ निलैयो ऎल्ला उबनिषत्तुक्कळिलुम् ऒरे स्वरूबमागवे तीर्माऩिक्कप् पट्टिरुक्किऱदु। मुक्तिनिलै ऎऩ्बदु पिरह्मम्दाऩे; पिरह्मत्तिऱ्को पलविद रूबङ्गळुडऩ् सेर्क्कै किडैयादु। ऒरे अडैयाळमुळ्ळदाग तीर्माऩिक्कप्पट्टि रुप्पदाल् “स्तूलमल्लाददु, अणुवल्लाददु” (पिरुहत्। III-८-८) “अन्द इन्द आत्मा इदुवल्ल, इदुवल्ल” (पिरुहत्।III-९-२६), “ऎङ्गे वेऱु ऎदैयुम् पार्क्किऱा ऩिल्लैयो” (सान्।VII-२४-१) “इन्द अमिरुदमाऩ पिरह्मम्दाऩ् मुऩ्ऩाल्” (मुण्डग।II-२-११) ‘इदु ऎल्लाम् ऎदुवो अदु इन्द आत्मा” (पिरुहत्।II-४-६), “अन्द इन्द आत्मा पॆरियदु, पिऱप्पऱ्ऱदु, जरैयऱ्ऱदु, अमिरुदम्, मरणमऱ्ऱदु, पयमऱ्ऱदु पिरह्मम्” (पिरुहत्-IV-४-२५), “ऎङ्गे इवऩुक्कु ऎल्लाम् आत्मा वागयिरुक्कुमो अङ्गे ऎदिऩाल् ऎदै पार्प्पाऩ्” (पिरुहत्।IV-५-१५) ऎऩ्बदु मुदलिय सुरुदिगळाल्।

अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेत् , न विद्याफले मुक्तौ। तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म। न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभावात्। उत्कृष्टैव हि विद्या भवति। तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत्। न तु मुक्तौ कश्चित् अतिशयसम्भवोऽस्ति। विद्याभेदाभावादपि तत्फलभेदनियमाभावः, कर्मफलवत्। न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम् वित्यैक्कु सादऩमायुळ्ळदु तऩ्ऩु टैय वीर्य विसेषत्तिऩाल् तऩ् पलऩाऩ वित्यैयिल् ताऩ् एदेऩुम् विसेषत्तै सेर्त्तुविडलामे तविर, वित्यैयिऩ् पलऩागिय मुक्तियिल् सेर्क्कमुडियादु; अदुवो सात्तियमिल्लै; ऎप्पॊऴुदुम् सित्तमायुळ्ळ स्वबावमुळ्ळदे वित्यैयिऩाल् अऱियप्पडुगिऱदु ऎऩ्ऱु पल तडवै सॊल्लियिरुक्किऱोम्। अदिलुम् (वित्यैयिलुम्) कूड मेल्, कीऴ् ऎऩ्ऱिरुक्कक्कूडिय विसेषम् पॊरुन्दादु। कीऴ्प्पट्टदाय् उळ्ळदऱ्कु वित्यैयॆऩ्ऱ तऩ्मैये किडैयाददिऩाल् मेलायुळ् ळदुदाऩ् अल्लवा वित्यैयागुम्।

ज्ञानानन्द-भारती - द्राविडी

आगैयाल् अन्द वित्यैयिल् तामदित्तु उण्डागिऱदु। तामदिक्कामल् उण्डागिऱ ऎऩ्ऱ वित्तियासम् एऱ्पडुवदाऩाल् एऱ्पडलाम्। आऩाल्, मुक्तियिल् ऎव्विद विसेषत्तिऱ्कुम् सम्बवमिल्लै।

ज्ञानानन्द-भारती - द्राविडी

वित्यैयिल् पेदमिल्लाददिऩालुम् अदऩ् पलऩिल् कर्मबलऩिल् पोल पेद विषयमाऩ नियमम् किडैयादु, मुक्तिक्कु सादऩमायिरुक्किऱ वित्यैयिल्, कर्माक्कळुक्कुप् पोल, पेदम् किडैयादल्लवा?

सगुणासु तु विद्यासु ‘मनोमयः प्राणशरीरः’ (छा. उ. ३। १४। २) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् , उपपद्यते यथास्वं फलभेदनियमः, कर्मफलवत् — तथा च लिङ्गदर्शनम् — ‘तं यथा यथोपासते तदेव भवति’ इति। नैवं निर्गुणायां विद्यायाम् , गुणाभावात्। तथा च स्मृतिः — ‘न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ (म. भा. १२। १९४। ६०) इति। तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ ५२ ॥

ज्ञानानन्द-भारती - द्राविडी

आऩाल् “मऩोमयऩ् पिराणसरीरऩ्”(सान्।III-१४-२) ऎऩ्बदु मुदलिय सगुणमाऩ वित्यैगळिल् कुणङ्गळै सेर्प्पदुम् ऎडुप्पदुमाऩदिरुप्पदाल् पेदत्तिऱ्कु पॊरुत् तमिरुप्पदाल्, अददऱ्कुत्तक्कप्पडि कर्मबलऩैप्पोल पलऩिऩ्बेदम् ऎऩ्ऱ नियमम् पॊरुन्दुम्। अप्पडिये “अदै ऎप्पडि ऎप्पडि उबासिक्किऱाऩो अदागवे आगिविडुगिऱाऩ्” ऎऩ्ऱु लिङ्गमुम् काण्गिऱदु।

ज्ञानानन्द-भारती - द्राविडी

निर्गुणवित्यैयिल् इव्विदमिल्लै। कुणमिल्ला तदिऩाल् अप्पडिये स्मिरुदियुम् निर्गुण पिरह्मवित् तुक्कु अदिगमाऩ मेल्, कीऴाऩ (कदि) किडैयादु; कुणम् इरुन्दालल्लवा समाऩमिल्लैयॆऩ्ऱु सॊल्लुगिऱार् कळ् ऎऩ्ऱु।

ज्ञानानन्द-भारती - द्राविडी

अन्द निलै तीर्माऩमाऩदाल् अन्द निलै तीर्माऩमाऩदाल् ऎऩ्ऱु वार्त्तैगळै तिरुम्बच् चॊल्लि यिरुप्पदु अत्यायत्तिऩ् मुडिवै काट्टुगिऱदु।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयोऽध्यायः ॥

மூன்றாவது அத்யாயத்தின் நான்காவது பாதம் முற்றும் மூனறாவது அத்யாயம் முற்றும்