वेधाद्यर्थभेदात् ॥ २५ ॥
ज्ञानानन्द-भारती - द्राविडी
वेदात्यर्दबेदात् ॥ २५ ॥
वेधमन्त्रप्रवर्ग्यादि विद्याङ्गमर्थवा न तु ॥
विद्यासंनिधिपाठेन विद्याङ्गे मन्त्रकर्मणी ॥ २९ ॥
लिङ्गेनान्यत्र मन्त्राणां वाक्येनापि च कर्मणाम् ॥
विनियोगात्संनिधिस्तु बाध्योऽतो नाङ्गता तयोः ॥ ३० ॥
–वैयासिकन्यायमाला
ज्ञानानन्द-भारती - द्राविडी
“वेद” मन्दिरम्, पिरवर्क्यम् मुदलाऩदु वित्यैक्कु अङ्गमागुमा? अल्लदु आगादा? वित्यैयिऩ् समीबत्तिल् सॊल्लप्पट्टिरुप्पदाल्, मन्दिरमुम् कर्मावुम् वित्तैक्कु अङ्गङ्गळ्दाऩ्।
ज्ञानानन्द-भारती - द्राविडी
लिङ्गत्तिऩाल् मन्दिरङ्गळुक्कु वेऱिडत्तिल् विनियो कम्, कर्माक्कळुक्कु वाक्कियत्तिऩालेये वेऱिडत्तिल् विनियोगम् ऎऩ्ऱु एऱ्पडुवदाल्, सन्निदि (समीबत्तिल् इरुत्तल्) ऎऩ्बदु पादिक्कप्पडुगिऱदु। आगैयाल् अवै इरण्डिऱ्कुम् वित्यैक्कु अङ्गमायिरुक्कुम् तऩ्मै किडैयादु।
अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः — ‘सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्तः’ इत्यादिः। ताण्डिनाम् — ‘देव सवितः प्रसुव यज्ञम्’ इत्यादिः। शाट्यायनिनाम् — ‘श्वेताश्वो हरितनीलोऽसि’ इत्यादिः। कठानां तैत्तिरीयाणां च — ‘शं नो मित्रः शं वरुणः’ (तै. उ. १। १। १) इत्यादिः। वाजसनेयिनां तु उपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते — ‘देवा ह वै सत्रं निषेदुः’ इत्यादि। कौषीतकिनामपि अग्निष्टोमब्राह्मणम् — ‘ब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्ति’ इति। किमिमे सर्वं प्रविध्येत्यादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासु उपसंह्रियेरन् , किं वा न उपसंह्रियेरन् — इति मीमांसामहे ।
ज्ञानानन्द-भारती - द्राविडी
(अदर्ववेद उबनिषत्तिऩ् आरम्बत्तिल् पडिक्कप्पट्ट ‘सर्वम्, प्रवित्य’ इदु मुदलाऩ मन्दिरङ् गळुम् करणव उबनिषत्तिल् पडिक्कप्पट्ट पिरवर्क्यगर् मावुम् इदु पोऩ्ऱवै वित्यैक्कु अङ्गमा इल्लैया ऎऩ्ऱु सन्देहम्। इवैगळ् वित्यैयैच् चॊल्लुमि टत्तिल् अरुगिल् पडिक्कप्पट्टिरुप्पदाल् वित्यैक्कु अङ्गम् ऎऩ्ऱु पूर्वबक्षम् मन्दिरत्तिऩ् पॊरुळै कवऩित्ताल् आबिसार कर्माविल् विनियोगमॆऩ्ऱु तॆरिगिऱदु। पिरवर्क्य कर्मावुक्कु अक्ऩिष्टोम कर्माविल् विनियोगम् सॊल्लप्पट्टिरुक्किऱदु। आगवे पिरबल पिरमाणङ्गळाऩ लिङ्गवाक्यङ्गळाल् इवैग ळुक्कु वेऱु इडङ्गळिल् विनियोगमे तविर तुर्बलमाऩ सन्निदि (पक्कत्तिलिरुप्पदु) ऎऩ्ऱ पिरमाणत्ताल् वित्यैक्कु अङ्गमाग आगादु ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
अदर्ववेदत्तैच् चेर्न्दवर्गळुडैय उबनिषत् तिऩ् आरम्बत्तिल् “ऎल्लावऱ्ऱैयुम् पिळ, हिरुदयत् तैप्पिळ, नाडिगळै उडै, तलैयै नाला पक्कत्तिलुम् उडै, (ऎऩ्ऎदिरि) मूऩ्ऱाग सिदऱिऩवऩाग आगट्टुम्” ऎऩ्बदु मुदलाऩ मन्दिरङ्गळ् सॊल्लप्पडुगिऩ्ऱऩ। ‘हे तेव, सविदावे, यक्ञत्तै उण्डु पण्णु’ ऎऩ्बदु मुदलियदु ताण्डिगळुडैय (उबनिषत् आरम्बत्तिल्); साट्चियायऩिगळुक्कु “वॆळ्ळैक् कुदिरै उडैय नी इन्दिर नीलमणिप्पोल् नीलमायिरुक्किऱाय्" ऎऩ्बदु मुदलियदु; कडर्गळुक्कुम्, तैत्तिरीयर्गळुक्कुम् “ऎङ्गळुक्कु मित्रऩ् सुगत्तै सॆय्बवऩाग, वरुणऩ् सुगत्तै सॆय्बवऩाग” ऎऩ्बदु मुदलियदु। वाजसने यिगळुडैय उबनिषत् आरम्बत्तिल् “तेवर्गळ् सत्रयागम् सॆय्य उट्कार्न्दार्गळ्” ऎऩ्बदु मुदलाऩ पिरवर्क्य पिराह्मणम् सॊल्लप्पडुगिऱदु; कौषीदगिग ळुक्कुम् “अक्ऩिष्टोमम् पिरह्मम्दाऩ्; अदिग अहुसुम् पिरह्मम् ताऩ्; अवर्गळ् पिरह्मत्तिऩा लेये पिरह्मत्तैयडैगिऱार्गळ्; अवर्गळ् अमिरुदत् तऩ्मैयै अडैगिऱार्गळ्, ऎवर्गळ् इन्द अहसिल् कर्मावै अऩुष्टिक्किऱार्गळो”, ऎऩ्ऱु।
ज्ञानानन्द-भारती - द्राविडी
इन्द “पिळ” ऎऩ्बदु मुदलाऩ ऎल्ला मन्दिरङ् गळुम् पिरवर्क्यम् मुदलाऩ कर्माक्कळुम् वित्यैगळिल् सेर्त्तुक्कॊळ्ळ वेण्डियदा अल्लदु सेर्त्तुक्कॊळ्ळ वेण्डियदिल्लैया, ऎऩ्ऱु विसारिक् किऱोम्।
किं तावत् नः प्रतिभाति ? उपसंहार एव एषां विद्यास्विति। कुतः ? विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात्। ननु एषां विद्यार्थतया विधानं नोपलभामहे — बाढम् , अनुपलभमाना अपि तु अनुमास्यामहे, सन्निधिसामर्थ्यात्। न हि सन्निधेः अर्थवत्त्वे सम्भवति, अकस्मादसावनाश्रयितुं युक्तः ।
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम्: नमक्कु ऎदु तोऩ्ऱुगिऱदु? इवै कळै वित्यैगळिल् सेर्क्क वेण्डियदुदाऩ् ऎऩ्ऱु, एऩ्? वित्यैयै पिरदाऩमागच् चॊल्गिऱ उबनिषत् किरन्दङ्गळुक्कु समीबत्तिल् सॊल्लप्पट्टिरुप्पदाल्, इवैगळ् वित्यैक्काग ऎऩ्ऱु विदियै नाम् काणविल्लैये ऎऩ्ऱाल्, वास्तवम्; काणप्पडामल् पोऩालुम्गूड अऩुमाऩम् सॆय्गिऱोम्। सन्निदियिऩ् सामर्त्तियत्तिऩाल् (समीबत्तिलिरुक्कुम् पलत्तैक् कॊण्डु) सन्निदिक्कु पिरयोजऩमुळ्ळदाऩ तऩ्मै सम्बविक्कुम्बोदु कारणमिल्लामल् अदु आसिरयिक्कप् पडामलिरुप्पदु युक्तमिल्लैयल्लवा?
ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः। कथं च प्रवर्ग्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति। नैष दोषः। सामर्थ्यं तावत् मन्त्राणां विद्याविषयमपि किञ्चित् शक्यं कल्पयितुम् , हृदयादिसङ्कीर्तनात्। हृदयादीनि हि प्रायेण उपासनेषु आयतनादिभावेनोपदिष्टानि। तद्द्वारेण च ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां मन्त्राणाम् उपपन्नमुपासनाङ्गत्वम्; दृष्टश्च उपासनेष्वपि मन्त्रविनियोगः — ‘भूः प्रपद्येऽमुनाऽमुनाऽमुना’ (छा. उ. ३। १५। ३) इत्येवमादिः। तथा प्रवर्ग्यादीनां कर्मणाम् अन्यत्रापि विनियुक्तानां सताम् अविरुद्धो विद्यासु विनियोगः — वाजपेय इव बृहस्पतिसवस्य — इत्येवं प्राप्ते ब्रूमः —
ज्ञानानन्द-भारती - द्राविडी
इन्द मन्दिरङ्गळुक्कु वित्यै विषयमाग ऎव्विद सामर्त्तियत्तैयुम् नाम् काणविल्लैये? पिरवर्क्यम् मुदलाऩ कर्माक्कळुम् वेऱु पिरयोजऩमुळ्ळदागवे विनियोगम् सॆय्यप्पट्टिरुप्पवैगळ्। वित्यैयै पिरयोजऩमायुडैयदाग नाम् अऱिविल्लैये? ऎऩ्ऱाल्, इदु तोषमागादु। अन्द मन्दिरङ्गळुक्कु वित्या विषयमागवुम् कॊञ्जम् सामर्त्तियत्तैक् कल्बिक्कमुडियुम्। ह्रुदयम् मुदलाऩदैच् चॊल्लियिरुप् पदाल्। ह्रुदयम् मुदलाऩवैगळ् अनेगमाय् उबासऩङ्गळिल् आयदऩम् मुदलियदाय् इरुप्पदाग उबदेसिक्कप्पट्टिरुक्किऩ्ऱऩ। अदऩ् वऴियाग, ‘ह्रुदयत् तैप्पिळ’ ऎऩ्बदु पोलुळ्ळ। मन्दिरङ्गळुक्कु उबास ऩत्तिऱ्कु अङ्गमायिरुप्पदु पॊरुन्दुम्। “पू: ऎऩ्बदै इवऩाल् अडैगिऱेऩ्। इवऩाल् इवऩाल्” (सान्दोक्यम्।III-१५-३) ऎऩ्बदु मुदलाऩ मन्दिर विनियोगम् उबासऩङ्गळिल् कूड काणप्पडुगिऱदु। अप्पडिये पिरवर्क्यम् मुदलाऩ कर्माक्कळुम् वेऱिडत्तिल् विनियोगम् सॆय्यप्पट्टिरुन्दबोदिलुम्, वित्यैगळिल् विनियोगिप्पदु विरुत्तमागादु, वाजबेयत्तिल् पिरुहस्पदिसवम् पोल, ऎऩ्ऱु।
नैषामुपसंहारो विद्यास्विति। कस्मात् ? वेधाद्यर्थभेदात् — ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां हि मन्त्राणां येऽर्था हृदयवेधादयः, भिन्नाः अनभिसम्बद्धाः ते उपनिषदुदिताभिर्विद्याभिः। न तेषां ताभिः सङ्गन्तुं सामर्थ्यमस्ति। ननु हृदयस्य उपासनेष्वप्युपयोगात् तद्द्वारक उपासनासम्बन्ध उपन्यस्तः — नेत्युच्यते। हृदयमात्रसङ्कीर्तनस्य हि एवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत। न च हृदयमात्रमत्र मन्त्रार्थः। ‘हृदयं प्रविध्य धमनीः प्रवृज्य’ इत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्याभिरभिसम्बध्यते। अभिचारिकविषयो ह्येषोऽर्थः। तस्मादाभिचारिकेण कर्मणा ‘सर्वं प्रविध्य’ इत्येतस्य मन्त्रस्याभिसम्बन्धः ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: इव्विदम् वरुम्बोदु सॊल्गिऱोम्। इवैगळुक्कु वित्यैगळिल् उबसम्हारम् किडैयादु। ऎऩ्ऩ कारणत्तिऩाल्? “वेदम् (पिळप्पदु) मुदलियदिऩ् पॊरुळ् वेऱुबडुवदाल्”, “ह्रुदयम् प्रवित्य” ऎऩ्बदु पोलुळ्ळ मन्दिरङ्गळिऩ् पॊरुळाऩ ह्रुदयत्तैप् पिळप्पदु मुदलाऩ विषयङ्गळ् ऎवैयो, अवै उबनिषत्तिल् सॊल्लप्पट्टुळ्ळ वित्यैगळुडऩ् कॊञ्जमेऩुम् सम्बन्दप्पट्टवैयल्ल। अवैगळुक्कु अवैगळुडऩ् (वित्यैगळुडऩ्) सेरुवदऱ्कु सामार्त्तियमिल्लै।
ज्ञानानन्द-भारती - द्राविडी
उबासऩङ्गळिल्गूड ह्रुदयत्तिऱ्कु उबयोग मिरुप्पदाल्, अदऩ् वऴियाग उबासऩङ्गळुडऩ् सम्बन्द मॆऩ्ऱु ऎडुत्तुच्चॊल्लप्पट्टदेयॆऩ्ऱाल्, अप्पडि यल्लवॆऩ्ऱु सॊल्लप्पडुगिऱदु। ह्रुदयत्तिऱ्कु मात्तिरम् सॊल्लुदलिरुन्दाल् अदऱ्कु ऒरुवाऱु इव्विद उबयोगम् इरुक्कलामो ऎऩ्ऱु ऎण्णलाम्। आऩाल् मन्दिरत्तिऩ् पॊरुळ् ह्रुदयम् मात्तिरमल्ल। “ह्रुदयत् तैप्पिळ, नरम्बुगळै उडै” ऎऩ्बदुबोल पूरामन्दि रार्त्तमुम् वित्यैगळुडऩ् सम्बन्दप्पडादल्लवा? इन्द अर्त्तम् आबिसारत्तै विषयमायुळ्ळदु ऎऩ्बदु पिरसित्तम्। आगैयाल् “ऎल्लावऱ्ऱैयुम् उडै” ऎऩ्ऱ इन्द मन्दिरत्तिऱ्कु आबिसारिग कर्मावुडऩ् सम्बन्दम्।
तथा ‘देव सवितः प्रसुव यज्ञम्’ इत्यस्य यज्ञप्रसवलिङ्गत्वात् यज्ञेन कर्मणा अभिसम्बन्धः। तद्विशेषसम्बन्धस्तु प्रमाणान्तरादनुसर्तव्यः। एवमन्येषामपि मन्त्राणाम् — केषाञ्चित् लिङ्गेन, केषाञ्चिद्वचनेन, केषाञ्चित्प्रमाणान्तरेणेत्येवम् — अर्थान्तरेषु विनियुक्तानाम् , रहस्यपठितानामपि सताम् , न सन्निधिमात्रेण विद्याशेषत्वोपपत्तिः। दुर्बलो हि सन्निधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे — ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३। ३। १४) इत्यत्र ।
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये “हे तेव, सविदावे, यक्ञत्तै उण्डु पण्णु” ऎऩ्बदऱ्कु यक्ञत्तैयुण्डु पण्णुवदॆऩ्ऱ लिङ्गम् (अडैयाळम्) इरुप्पदाल् यक्ञ कर्मावुडऩ् सम्बन्दम्। विसेष सम्बन्दमो (ऎन्द कर्मावुडऩ् सम्बन्दम् ऎऩ्बदु) वेऱु पिरमाणङ्गळै अऩुसरित्तु अऱिय वेण्डियदु। इव्विदमे मऱ्ऱ मन्दिरङ्गळुक्कुम्गूड, सिलदिऱ्कु लिङ्गत्तिऩाल्, सिलदिऱ्कु वसऩत्तिऩाल्, सिलदिऱ्कु वेऱु पिरमाणत्तिऩाल्, ऎऩ्ऱु इव्विदम् वेऱु विषयङ्गळिल् विनियोगम् सॆय्यप् पट्टिरुक्किऱवैगळुक्कु उबनिषत्तिल् सॊल्लप्पट्टि रुन्दबोदिलुम्गूड, समीबत्तिल् इरुप्पदिऩाल् मात्तिरम् वित्यैगळुक्कु सेषमॆऩ्ऱ तऩ्मै पॊरुन्दादु।
ज्ञानानन्द-भारती - द्राविडी
एऩॆऩ्ऱाल्, मुदल् तन्दिरत्तिल् (पूर्वमीमाम् सैयिल्) “च्रुदि (नेरागवे सॊल्वदु)। लिङ्गम् (अडैयाळत्तैक् कॊण्डु ऊहिक्कवेण्डियदु), वाक्यम् (वाक्यम् अऩ्वयमाग वेण्डियदऱ्काग वैत्तुक्कॊळ्वदु)। पिरगरणम् (सॊल्लुम्बोलुळ्ळ सन्दर्प्पत्तैयऩुसरित्तु अर्त्तम् सॆय्दु कॊळ्वदु), स्ताऩम् (सॊल्लप्पडुम् विषयम् ऎवै मत्तियिल् सॊल्लप्पट्टिरुक्किऱदॆऩ्ऱु कवऩित्तु अर्त्तम् सॆय्दु कॊळ्वदु), समाक्या (वॆऱुम् पॆयर्) ऎऩ्बवैगळ् सेरुमाऩाल् पिऩ् पिऩ् उळ्ळदऱ्कु पलम् कुऱैवु, अर्त्तत्तै पोदिप्पदिल् विलम्बम् एऱ्पडुवदाल्” ऎऩ्ऱ इडत्तिल्, च्रुदि मुदलियवैगळै विड सन्निदि (समीबत्तिल् इरुप्पदु, स्ताऩम्) तुर्बलमॆऩ्ऱल्लवा सॊल्लप्पट्टिरुक्किऱदु।
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये वेऱु इडत्तिल् विनियोगम् सॆय्यप् पट्टिरुक्किऱ, पिरवर्क्यम् मुदलिय कर्माक्कळुक्कुम् वित्यैक्कु सेषमायिरुक्कुम् तऩ्मै पॊरुन्दादु। इवैगळुक्कु वित्यै मुदलियवैगळुडऩ् कूड ऒरे पिरयोजऩमुळ्ळ तऩ्मै कॊञ्जमेऩुम् इल्लैये?
तथा कर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः। न ह्येषां विद्याभिः सह ऐकार्थ्यं किञ्चिदस्ति। वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् — ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति। अपि च एकोऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अन्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोगमर्हति। अगृह्यमाणविशेषत्वे हि प्रमाणयोः एतदेवं स्यात्। न तु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता सम्भवति, बलवदबलवत्त्वविशेषादेव। तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न सन्निधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम्। अरण्यानुवचनादिधर्मसामान्यात्तु सन्निधिपाठ इति संतोष्टव्यम् ॥ २५ ॥
ज्ञानानन्द-भारती - द्राविडी
वाजबेयत्तिलो पिरुहस्पदिसवत्तिऱ्कु स्पष्टमागवे “वाजबेयत्तिऩाल् यागम् सॆय्दुविट्टु पिरुहस्पदि सवत्तिऩाल् यजिक्कवुम्” ऎऩ्ऱु वेऱु विनियोगमेयिरुक्किऱदु।
ज्ञानानन्द-भारती - द्राविडी
मेलुम् ऒरु तडवै एऱ्पट्ट ऒऩ्ऱाऩ इन्द पिरवर्क्यम्, अदिग पलमुळ्ळ पिरमाणत्तिऩाल् ऒरु विषयत्तिल् विनियोगम् सॆय्यप्पट्टिरुप्पदु, वेऱु विषयत्तिलुम् तुर्बलमाऩ पिरमाणत्तिऩाल् विनियोगिक् कप्पडुगिऱदॆऩ्बदु न्यायमिल्लै। इरण्डु पिरमाणङ् गळुक्कुळ् वित्यासम् किरहिक्कप् पडामलिरुन्दाल् इदु इव्विदमिरुक्कुम्; पलमुळ्ळदु पलमिल्लाददु ऎऩ्ऱि रुक्कुम् इरण्डु पिरमाणङ्गळुक्कुळ् वित्यासम् किरहिक्कप्पडविल्लै ऎऩ्बदो सम्बविक्कादु, पलत्तै युडैयदु पलमऱ्ऱदु ऎऩ्ऱ वित्यासमिरुप्पदिऩालेये।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल्, इदु पोलुळ्ळ मन्दिरङ्गळुक्को कर्माक्कळुक्को, समीबत्तिल् सॊल्लियिरुक्किऱदॆऩ् पदै मात्तिरम् वैत्तुक्कॊण्डु, वित्यैगळुक्कु सेषमायिरुक्कुम् तऩ्मैयॆऩ्ऱु निऩैक्कक् कूडादु। अरण्यत्तिल् सॊल्लवेण्डियदॆऩ्बदु मुदलाऩ धर्मङ्गळ् समाऩमायिरुप्पदाल् समीबत्तिल् सॊल्लप् पट्टिरुक्किऱदु ऎऩ्ऱु तिरुप्तियडैयवेण्डियदु।