०४ मुग्धाधिकरणम्

मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥

ज्ञानानन्द-भारती - द्राविडी

मुक्तेअर्दसम्बत्ति: परिसे षात् ॥ १० ॥

किं मूर्छैका जाग्रदादौ किंवाऽवस्थान्तरं भवेत् ॥
अन्याऽवस्था न प्रसिद्धा तेनैका जाग्रदादिषु ॥ ७ ॥
न जाग्रत्स्वप्नयोरेका द्वैताभानान्न सुप्तता ॥
मुखादिविकृतेस्तेनावस्थाऽन्या लोकसंमता ॥ ८ ॥
–वैयासिकन्यायमाला

ज्ञानानन्द-भारती - द्राविडी

मूर्च्चै ऎऩ्बदु जाक्किरत् मुदलियदिल् ऒऩ्ऱा? अल्लदु, वेऱु अवस्तैयागुमा? वेऱु अवस्तै पिरसित् तमायिल्लै। आगैयाल् जाक्किरत् मुदलियवैगळुक्कुळ् ऒऩ्ऱु ताऩ्।

ज्ञानानन्द-भारती - द्राविडी

इरण्डावदु पदार्त्तम् पिरगासिक्काददिऩाल् जाक्कि रत्, स्वप्ऩम् इवैगळिल् ऒऩ्ऱु अल्ल। मुगम् मुदलाऩदु विगारप्पट्टिरुप्पदाल् सु षुप्तियुमिल्लै। आगैयाल् वेऱु अवस्तै ताऩ्। उलगत्तिलुम् ऒप्पुक्कॊळ्ळप्पट्टदे।

अस्ति मुग्धो नाम, यं मूर्छित इति लौकिकाः कथयन्ति। स तु किमवस्थ इति परीक्षायाम् , उच्यते — तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धाः — जागरितं स्वप्नः सुषुप्तमिति। चतुर्थी शरीरादपसृप्तिः। न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति। तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छा — इति ॥

ज्ञानानन्द-भारती - द्राविडी

(मूर्च्चै ऎऩ्बदु जाक्रम्, स्वप्ऩम्, सुषुप्ति मरणम् ऎऩ्ऱ नाऩ्गु अवस्तैगळिल् सेर्न्ददा अल्लदु वेऱाऩ अवस्तैया ऎऩ्ऱु सन्देहम् सुरुदि स्मिरुदिगळिलुम् लोगत्तिलुम् इन्द नाऩ्गु अवस् तैगळे पिरसित्तमाग इरुप्पदाल् ऐन्दावदु अवस्तै, पिरसित्तमाग इल्लाददाल् मूर्च्चै इन्द नाऩ्गु अवस्तैगळिल् सेर्न्ददु ताऩ् ऎऩ्ऱु पूर्वबक्षम्।

ज्ञानानन्द-भारती - द्राविडी

मूर्च्चैयिल् सिऱिदुम् अऱिवु इल्लाददाल् इदै जाक्रावस्तैयिलो स्वप्ऩावस्तैयिलो सेर्क्क मुडियादु। मेलुम् मूर्च्चैयिल् तेहम् कीऴे विऴुन्दुविडुगिऱदाल्। सुषुप्तियिलुम् सेर्क्क मुडियादु। सुषुप्तियिल् ऒऴुङ्गाग मूच्चुविडुगिऱाऩ्। मुगम् तॆळिवाग इरुक्किऱदु। उडलिल् नडुक्कमिल्लै। मूर्च्चैयिलो ऒऴुङ्गाऩ च्वासमिल्लामलुम् सिल समयम् च्वासमे इल्लामलुम् मुगत्तिल् विगारमुम्, नडुक्कमुम्, कण्गळ् तिऱन्द पडियुमुळ्ळदु। सुषुप्तियिल् कण् मूडियिरुक्किऱदु। सुषुप्तिक्कु सिरमम् कारणम्। मूर्च्चैक्कु पलमाऩ अडि कारणम्। इन्द वेऱ्ऱु मैगळाल् मूर्च्चै सुषुप्तियिलुम् सेर्न्ददल्ल। उडलिल् सूडुम्, पिराणऩुम् इरुप्पदाल् मरणत्तिलुम् सेर्न्ददल्ल। सुषुप्तियिलुम् मरणत्तिलुम् पोल् अऱिविऩ्मै इरुन्दालुम् मऱ्ऱ वेऱ्ऱुमैगळ् इरुप्पदाल् मूर्च्चै तऩियाऩ वेऱु अवस्तै ऎऩ्ऱु सित्तान्दम्)।

ज्ञानानन्द-भारती - द्राविडी

मूर्च्चैयडैन्दवऩॆऩ्ऱु ऎवऩै उलगत्तार् सॊल्गिऱार्गळो, अन्द मोहमडैन्दवऩ् इरुक्कि ऱाऩ्; अवऩ् ऎऩ्ऩ अवस्तैयुळ्ळवऩ् ऎऩ्ऱु कवऩिक् कै यिल् सॊल्लप्पडुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

पूर्वबक्षम् : सरीरत्तिलिरुक्कुम् जीवऩुक्कु, जागिरत्, स्वप्ऩम्, सुषुप्ति ऎऩ्ऱु मूऩ्ऱु अवस्तैगळे पिरसित्तमायिरुक्किऩ्ऱऩ। नाऩ्गावदु सरीरत्तिलिरुन्दु वॆळियेबोवदु (मरणम्)। सुरुदियिलावदु स्मिरुदि यिलावदु जीवऩुक्कु ऐन्दावदु अवस्तैयाग ऎदुवुम् पिरसित्तमाय् इल्लै। आगैयाल् नाऩ्गु अवस्तै कळुक्कुळ्ळेये ऒरु अवस्तै मूर्च्चै ऎऩ्ऱु।

एवं प्राप्ते, ब्रूमः — न तावन्मुग्धो जागरितावस्थो भवितुमर्हति। न ह्ययमिन्द्रियैर्विषयानीक्षते। स्यादेतत् — इषुकारन्यायेन मुग्धो भविष्यति — यथा इषुकारो जाग्रदपि इष्वासक्तमनस्तया नान्यान्विषयानीक्षते, एवं मुग्धो मुसलसम्पातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति; न, अचेतयमानत्वात्। इषुकारो हि व्यापृतमना ब्रवीति — इषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति, मुग्धस्तु लब्धसंज्ञो ब्रवीति — अन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभूवम् , न किञ्चिन्मया चेतितमिति। जाग्रतश्चैकविषयविषक्तचेतसोऽपि देहो विध्रियते। मुग्धस्य तु देहो धरण्यां पतति। तस्मात् न जागर्ति। नापि स्वप्नान्पश्यति, निःसंज्ञत्वात् ।

ज्ञानानन्द-भारती - द्राविडी

सित्तान्दम्: इव्विदम् वरुम् पोदु सॊल्गिऱोम्; मूर्च्चैयडैन्दवऩ् जागिरत् अवस्तैयुळ्ळवऩाग इरुक्क मुडियादु, एऩॆऩ्ऱाल् इवऩ् इन्दिरियङ्गळि ऩाल् विषयङ्गळै अऱिवदिल्लै। इप्पडियिरुक्कलामे: अम्बुगुऱि पार्क्किऱवऩुडैय नियायप्पडि मूर्च्चिदऩ् इरुक्कलाम्; ऎप्पडि अम्बुगुऱि वैप्पवऩ्, विऴित्तुक् कॊण्डिरुन्दबोदिलुम् अम्बिलेये मऩदैच् चॆलुत्तियबडियाल् वेऱु विषयङ्गळै पार्प्पदिल् लैयो। अव्विदमे मूर्च्चैयडैन्दवऩ् उलक्कै विऴुदल् मुदलियदाल् एऱ्पट्ट तुक्कत्तै अऩुबविप् पदिलेये मुऩैन्दुळ्ळ मऩस् उडैय तऩ्मैयिऩाल्, विऴिप्पुडऩ् इरुन्दुम्गूड, वेऱु विषयङ्गळै अऱिवदिल्लै, ऎऩ्ऱु। अप्पडियल्ल, अऱियामलिरुप् पदाल्, अम्बु ऎय्बवऩ् वॆळियिल् मऩदै सॆलुत्ति यवऩाय् “नाऩ् इव्वळवु कालमुम् अम्बैये कवऩित्तुक् कॊण्डिरुन्देऩ्” ऎऩ्ऱु सॊल्गिऱाऩ्। आऩाल् मूर्च्चैयडैन्दवऩ् पिरक्ञैयडैन्दु “इव्वळवु कालमुम् नाऩ् ऒरे कुरुट्टिरुट्टिल् तळ्ळबट् टिरुन्देऩ्, ऎदुवुम् ऎऩ्ऩाल् अऱियप्पडविल्लै” ऎऩ्ऱु सॊल्गिऱाऩ्। मेलुम्, ऒरे विषयत्तिल् ईडुबड मऩसुळ्ळवऩायिरुन्दालुम्, विऴित्तुक्कॊण्डु इरुप्प वऩुडैय सरीरम् तरिक्कप्पडुगिऱदु; मूर्च्चिदऩुक्को सरीरम् तरैयिल् विऴुन्दुविडुगिऱदु। आगैयाल् विऴित्तुक् कॊण्डिरुक्कविल्लै।

ज्ञानानन्द-भारती - द्राविडी

अऱिविल्लाददिऩाल् स्वप्ऩङ्गळैयुम् पार्प्प तिल्लै।

नापि मृतः, प्राणोष्मणोर्भावात् — मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयानाः, ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थम् , प्राणोऽस्ति नास्तीति च नासिकादेशम्। यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति, ततो मृतोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति। अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते, ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति। पुनरुत्थानाच्च न दिष्टं गतः। न हि यमराष्ट्रात्प्रत्यागच्छति ।

ज्ञानानन्द-भारती - द्राविडी

इऱन्दवऩुम् इल्लै, पिराणऩुम् उष्णमुम् इरुप्पदाल्। ऒरु पिराणि मूर्च्चिदऩायिरुक्कुम्बोदु इवऩ् इऱन्दुविट्टाऩा, इऱक्कविल्लैया ऎऩ्ऱु सन्देहप्पडुगिऱवर्गळ् उष्णम् इरुक्किऱदा, इल्लैया ऎऩ्ऱु तीर्माऩिप्पदऱ्काग ह्रुदय पिरदे सत्तैत् तॊट्टुप् पार्क्किऱार्गळ्। पिराणऩ् इरुक्किऱदा, इल्लैया ऎऩ्ऱु निच्चयिप्पदऱ्काग मूक्कुप् पिरदेसत् तैयुम् तॊट्टुप्पार्क्किऱार्गळ्। पिराणऩ् उष्णम् इवैगळिऩ् इरुप्पै ऎप्पॊऴुदु अऱियविल्लैयो, अप्पॊऴुदु इवऩ् इऱन्दवऩ् ऎऩ्ऱु तीर्माऩम् सॆय्दु कॊण्डु तहऩत्तिऱ्काग काट्टुक्कुक् कॊण्डुबोगि ऱार्गळ्। अल्लदु पिराणऩैयो उष्णत्तैयो उणर्न्दार्गळेयाऩाल्, अप्पॊऴुदु इवऩ् इऱक्क विल्लै ऎऩ्ऱु तीर्माऩित्तुक् कॊण्डु, पिरक्ञै एऱ्पडु वदऱ्काग वैत्तियम् सॆय्गिऱार्गळ्। मऱुबडियुम् ऎऴुन्दि रुप्पदाल् इऱक्कविल्लै। एऩॆऩ्ऱाल् यमऩुडैय राज्यत्तिलिरुन्दु तिरुम्बिवरुवदु किडैयादु।

अस्तु तर्हि सुषुप्तः, निःसंज्ञत्वात् , अमृतत्वाच्च; न, वैलक्षण्यात् — मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति, सवेपथुरस्य देहो भवति, भयानकं च वदनम् , विस्फारिते नेत्रे। सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति, निमीलिते अस्य नेत्रे भवतः, न चास्य देहो वेपते। पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि। निमित्तभेदश्च भवति मोहस्वापयोः — मुसलसम्पातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च स्वापस्य। न च लोकेऽस्ति प्रसिद्धिः — मुग्धः सुप्तः इति। परिशेषादर्धसम्पत्तिर्मुग्धतेत्यवगच्छामः — निःसंज्ञत्वात् सम्पन्नः, इतरस्माच्च वैलक्षण्यादसम्पन्नः इति ॥

ज्ञानानन्द-भारती - द्राविडी

अप्पडियाऩाल्, सुषुप्तियाग इरुक्कट्टुमे, पिरक्ञैयिल्लाददिऩालुम् इऱन्दु पोगामलिरुप्पदिऩा लुम्? इदु सरियल्ल, वित्यासमिरुप्पदाल्। मूर्च्चैय टैन्दवऩ् सिल समयम् वॆगु नेरम् कूड मूच्चुविडु वदिल्लै, इवऩुडैय सरीरम् नडुक्कत्तुडऩ् इरुक्कुम्, मुगमुम् पयङ्गरमायिरुक्कुम्, कण्गळ् इरण्डुम् नऩ्गु अगऩ्ऱु विऴित्तदाग इरुक्कुम्, तूङ्गुगिऱवऩो तॆळिन्द मुगत्तुडऩ् अडिक्कडि समाऩमाऩ इडैवॆळि युळ्ळ कालत्तिल् मूच्चुविडुगिऱाऩ्, इवऩुडैय कण्गळ् इरण्डुम् मूडियिरुक्कुम्, इवऩुडैय सरीरम् नडुङ्गादु। कैयाल् पिसैवदिऩालेये तूङ्गुगिऱवऩै ऎऴुप्पि विडुगिऱार्गळ्; मूर्च्चैयडैन्दवऩैयो मुत्करत्ताल् अडित्तालुम्, ऎऴुप्पमुडिवदिल्लै। मूर्च्चैक्कुम्, तूक्कत्तिऱ्कुम् निमित्तत्तिलुम् पेदम् इरुक्किऱदु, मूर्च्चैक्कु उलक्कै विऴुवदु मुदलियदु निमित्तमायुम्, तूक्कत्तिऱ्कु सिरमम् मुदलियदु निमित्तमायुम् इरुत्तलाल्। उलगत्तिलुम् मूर्च्चैयडैन्दिरुप्पवऩ् तूङ्गुगिऱाऩ् ऎऩ्ऱ पिरसित्ति किडैयादु।

ज्ञानानन्द-भारती - द्राविडी

“मिञ्जुवदाल्” (ऒऩ्ऱिलुम् सेराददिऩाल्) मूर्च्चैयुडऩ् इरुत्तल् ‘पादि सम्बत्ति’ ऎऩ्ऱु अऱिगि ऱोम्, पिरक्ञैयिल्लाददिऩाल् सम्बत्तियडैन्दवऩ्, मऱ्ऱ वेऱ्ऱुमैयाल् सम्बत्तियडैयादवऩ्, ऎऩ्ऱु।

कथं पुनरर्धसम्पत्तिर्मुग्धतेति शक्यते वक्तुम् ? यावता सुषुप्तं प्रति तावदुक्तं श्रुत्या — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६। ८। १) इति, ‘अत्र स्तेनोऽस्तेनो भवति’ (बृ. उ. ४। ३। २२) ‘नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्’ (छा. उ. ८। ४। १) इत्यादि। जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति। न च सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते। मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते। तस्मात् उपाध्युपशमात् सुषुप्तवन्मुग्धेऽपि कृत्स्नसम्पत्तिरेव भवितुमर्हति, नार्धसम्पत्तिरिति ।

ज्ञानानन्द-भारती - द्राविडी

पूर्वबक्षम्: मूर्च्चैयुडऩिरुत्तल् अर्त्त (पादि) सम्बत्ति ऎऩ्ऱु ऎप्पडि सॊल्लमुडियुम्? तूङ्गुगिऱवऩैप् पऱ्ऱि सुरुदियिऩाल् इव्विदम् सॊल्लियिरुक्कैयिल् “हे सोम्य, अप्पॊऴुदु सत्वस्तुवुडऩ् सम्बत्ति यडैन्दवऩाग (सेर्न्दवऩाग) आगिऱाऩ्” (सान्।VI;८-१), “इङ्गे तिरुडऩ् तिरुडऩल्लादवऩाग आगिऱाऩ्” (पिरुहत्।IV;३-२२) “इन्द अणैयै पगल् रात्तिरि ताण्डुवदिल्लै, जरैयुम् इल्लै, मिरुत्युवुम् इल्लै, सोगमुम् इल्लै, पुण्णियम् इल्लै, पाबम् इल्लै”(सान्।VIII;४-१) ऎऩ्बदु मुदलाऩदु जीवऩिडत्तिल् ताऩे सुगिदुक्कि ऎऩ्गिऱ ऎण्णत्तै उण्डु पण्णुवदाल् पुण्णियम् पाबम् इवैगळुक्कु इडमुण्डु। सुषुप्तियिल् सुगि ऎऩ्ऱ ऎण्णमो तुक्कि ऎऩ्ऱ ऎण्णमो किडैयादु; मूर्च्चैयडैन्द वऩिडमुम् अन्द इरण्डु ऎण्णङ्गळुम् किडैयवे किडैयादु। आगैयाल् उबादिगळ् अडङ्गि इरुक्किऱ पडियाल् तूङ्गिऩवऩिडम्बोल मूर्च्चैयडैन्दव ऩिडमुम् पूरासम्बत्ति इरुप्पदुदाऩ् न्यायम्, पादि सम्बत्तियॆऩ्बदु इल्लै, ऎऩ्ऱु।

अत्रोच्यते — न ब्रूमः — मुग्धेऽर्धसम्पत्तिर्जीवस्य ब्रह्मणा भवतीति। किं तर्हि ? अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम् , अर्धेनावस्थान्तरपक्षस्य — इति ब्रूमः। दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये। द्वारं चैतत् मरणस्य। यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः। यदा तु निरवशेषं कर्म भवति, तदा प्राणोष्माणावपगच्छतः। तस्मादर्धसम्पत्तिं ब्रह्मविद इच्छन्ति। यत्तूक्तम् — न पञ्चमी काचिदवस्था प्रसिद्धास्तीति, नैष दोषः; कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात्। प्रसिद्धा चैषा लोकायुर्वेदयोः। अर्धसम्पत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम् ॥ १० ॥

ज्ञानानन्द-भारती - द्राविडी

सित्तान्दम्: इदिल् सॊल्लप्पडुगिऱदु: मूर्च्चै अडैन्दवऩ् विषयत्तिल् जीवऩुक्कु पिरह्मत्तुडऩ् पादि सम्बत्ति एऱ्पडुगिऱदु ऎऩ्ऱु नाम् सॊल्लविल्लै। अप्पडियाऩाल् ऎऩ्ऩ ऎऩ्ऱाल् मूर्च्चै पादि सुषुप्ति पक्षत्तैयुम्, पादि वेऱु अवस्तैयैयुम् सेर्न्ददाग इरुक्किऱदु, ऎऩ्गिऱोम्। मूर्च्चैक्कु तूक्कत्तुडऩ् उळ्ळ समाऩत् तऩ्मैयुम्, वित्यासत्तऩ्मैयुम् काट्टप्पट्टि रुक्किऩ्ऱऩ। इदु मरणत्तिऱ्कु वऴि। इवऩुक्कु (अऩुबविक्क वेण्डिय) कर्मा मीदमुळ्ळदाग ऎप्पॊऴुदु इरुक्कुमो, अप्पॊऴुदु वाक्कुम्, मऩसुम् तिरुम्बि वरुम्। कर्मा पाक्कियऩ्ऩियिल् इरुन्दुविट्टालो, अप्पॊऴुदु पिराणऩुम्, उष्णमुम् पोय्विडुम्। आगैयाल् पिरह्मत्तै अऱिन्दवर्गळ् (वेदत्तै अऱिन्दवर्गळ्) पादि सम्बत्ति ऎऩ्ऱु ऎण्णुगिऱार्गळ्।

ज्ञानानन्द-भारती - द्राविडी

ऐन्दावदु अवस्तै ऎदुवुम् पिरसित्तमायिल्लै यॆऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदु तोषमिल्लै। ऎप्पॊऴुदेऩुम् एऱ्पडक्कूडिय अवस्तै इदु ऎऩ्बदिऩाल् पिरसित्तमिल्लामलिरुक्कलाम्। उलगत्तिलुम्, आयूर्वेदत्तिलुम् पिरसित्तमागवे इरुक्किऱदु। पादिसम्बत्ति ऎऩ्ऱु ऒप्पुक्कॊळ्वदिऩाल् इदु ऐन्दावदाग ऎण्णप् पडुवदिल्लै, ऎऩ्ऱु ऒरु तोषमुमिल्लै।