अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
ज्ञानानन्द-भारती - द्राविडी
अन्यादिष्टिदे षु पूर्ववदबिलाबात् ॥ २४ ॥
व्रीह्यादौ जन्म तेषां स्यात्संश्लोषो वा जनिर्भवेत् ॥
जायन्त इति मुख्यत्वात्पशुहिंसादिपापतः ॥ ११ ॥
वैधान्न पापसंश्लेषः कर्मव्यापृत्यनुक्तितः ॥
श्वविप्रादौ मुख्यजनौ चरणव्यापृतिः श्रुता ॥ १२ ॥
–वैयासिकन्यायमाला
ज्ञानानन्द-भारती - द्राविडी
अवर्गळुक्कु (स्वर्क्कम् पोय्विट्टु इऱङ्गु किऱवर्गळुक्कु) नॆल् मुदलियदिल् पिऱप्पु उण्डा? अल्लदु अवैगळुडऩ् ऒट्टुदल् मात्तिरमा? “पिऱक्किऱार्गळ्” ऎऩ्ब तऱ्कु मुक्कियमाऩ अर्त्तमाऩदिऩाल्, पिऱप्पे इरुक्कुम्। (यागत्तिल्) पसुवै हिंसै सॆय्दल् मुदलाऩ पाबत्तिऩ् पलऩाग।
ज्ञानानन्द-भारती - द्राविडी
(पसु हिंसै मुदलियदु) विदिक्कप्पट्टिरुप्पदाल्, पाबत्तिऩ् सम्बन्दम् किडैयादु। (नॆल् मुदलिय जऩ्मा ऎडुप्पदऱ्कु ऎन्द) कर्मावुम् वेलै सॆय्वदाग सॊल्ला तदिऩालुम् (अवैगळिल् पिऱप्पदिल्लै)। नाय्, पिराह्मणर् मुदलाऩदिल् मुक्कियमायुळ्ळ पिऱप्पु सॊल्वदिल् नडत्तैयिऩ् वेलै सॊल्लप्पट्टिरुक्किऱदु।
तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते — ‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’ (छा. उ. ५। १०। ६) इति। तत्र संशयः — किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति ।
ज्ञानानन्द-भारती - द्राविडी
(अऩुसयिगळ् आगासम् मुदलियवऱ्ऱैयडैयुम् पॊऴुदु अवैगळुडऩ् सेरुगिऱार्गळे तविर मुक्यमाऩ पिऱप्पिल्लै ऎऩ्ऱु कूऱप्पट्टदु। आऩाल् अऩुसयिगळ् नॆल् मुदलाऩ ताऩ्यत्तैयडैयुम् पॊऴुदु स्तावरमाऩ अन्दप् पिऱवियैयेयडैगिऱार्गळ् ऎऩ्ऱु ताऩ् सॊल्ल वेण्डुम्। एऩॆऩिल् इन्द इडत्तिल् सुरुदियिल् ‘पिऱक्किऱार्गळ्’ ऎऩ्ऱु कूऱप्पट्टिरुक्किऱदु। स्वर्गत्तिऱ्कु सादऩमाऩ यागङ्गळैच् चॆय्युम् पॊऴुदु पसुक्कळै हिंसै सॆय्दिरुप्पदाल् अन्द हिंसैयिऩ् पलऩ्दाऩ् इन्द ताऩ्यप् पिऱवि ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
आगासादिगळिल् पोलवे ताऩ्यत्तिलुम् सेर्क्कै मट्टुमे तविर मुक्यमाऩ पिऱप्पु अल्ल। इन्द सेर्क्कैयैत्ताऩ् पिऱप्पु ऎऩ्ऱु उबसारमागच् चॊल्गिऱदु। पिऱविक्कु कारणम् पुण्य पाबङ्गळ्। इङ्गु पाब कर्मावैच् चॊल्लाददाल् अऩुसयिक्कु ताऩ्य जऩ्मा इल्लै। पाब कर्मावाल् वेऱु जीवऩ् ऎडुत्तिरुगगुम् ताऩ्यप् पिऱवियिल् अऩुसयि ऒट्टिक् कॊण्डिरुक्किऱाऩे तविर अङ्गु इवऩुक्कु तुक्कम् किडैयादु। वेऱु जीवऩुक्कुत्ताऩ् तुक्कम्। अऩुसयि स्तिरी सरीरत्तैयडैन्द पिऱगु ताऩ् तऩ् कर्मावुक्कुत् तगुन्द पिऱवियैयडैगिऱाऩ् अऩुसयि स्तावर पावत्तैयडैन्दाल् पुरुष सरीरत्तैयडैय मुडियादु। पुरुष सरीरत्तिलुम् ऒट्टिक् कॊळ्वदुदाऩ्। वेदम् यागत्तिल् हिंसैयै विदित्तिरुप्पदाल् अदु पाबमागादु, आगैयाल् हिंसै ऎऩ्ऩुम् पाब पलऩाग ताऩ्यप् पिऱवियैच् चॊल्ल मुडिगिऱदु ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
अन्द इऱङ्गुम् विषयत्तिलेये मऴै पॆय्ददऱ्कुप्पिऱगु “अवर्गळ् इङ्गे नॆल्, यवङ्गळ् (ताऩ्यङ्गळ्) ओषदिगळ् (पुल् पूण्डुगळ्) वऩस्पदिगळ् (पॆरिय मरङ्गळ्) ऎळ्ळु, उळुन्दु (ताऩ्यङ्गळ्) ऎऩऱु पिऱक्किऱार्गळ्" (सान्।V;१०-६) ऎऩ्ऱु सॊल्लप्पट्टि रुक्किऱदु। अङ्गे, इन्द कट्टत्तिल् अऩुसयिगळ् स्तावर जऩ्मावै अडैन्दु स्तावरत्तिऱ्कुळ्ळ सुग, तुक्कङ्गळै अऩुबविक्किऱवर्गळाग एऱ्पट्टु विडुगिऱार्गळा? अल्लदु वेऱु जीवर्गळाल् अदिष्टि तमाऩ स्तावर सरीरङ्गळिल् सम्बन्दम् मात्तिरत्तै अडैगिऱार्गळा? ऎऩ्ऱु संसयम्।
किं तावत्प्राप्तम् ? स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति। कुत एतत् ? जनेर्मुख्यार्थत्वोपपत्तेः, स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः, पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः। तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म, श्वादिजन्मवत् — यथा ‘श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति, एवं व्रीह्यादिजन्मापीति ।
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम्: ऎदु न्यायम्? अऩुसयमुळ्ळवर्गळ् स्तावर जऩ्मावैये अडैन्दु अदऩ् सुग, तुक्कङ्गळै अडैन्दवर्गळाग आगिऱार्गळ् ऎऩ्ऱु। इदु एऩ्? ‘जऩि’ ऎऩ्ऱ तादुविऱ्कु मुक्कियमाऩ अर्त्तमुळ्ळ तऩ्मै अप्पॊऴुदुदाऩ् पॊरुन्दुमागैयाल्।
ज्ञानानन्द-भारती - द्राविडी
स्तावरमायिरुप्पदऱ्कु पोगस्ताऩत्तऩ्मै उण्डॆऩ्ऱु सुरुदि स्मिरुदिगळिल् पिरसित्तमायि रुप्पदाल्, यागम् मुदलिय कर्मक्कूट्टत्तिऱ्कु पसुहिंसै मुदलियदुडऩ् सेर्न्दिरुक्कुम् तऩ्मै इरुप्पदिऩाल् विरुम्बत्तगाद पलऩेऱ्पड वेण्डियदुम् न्यायमाऩदिऩाल्,
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् अऩुसयमुळ्ळवर्गळुक्कु एऱ्पडुम् इन्द ताऩ्यम् मुदलाऩ पिऱप्पु मुक्कियमाऩदे, नाय् मुदलिय जऩ्मावैप्पोल, “नाय् जऩ्मावैयो पऩ्ऱि जऩ्मावैयो सण्डाळ जऩ्मावैयो” ऎऩ्ऱु अऩुसयमुळ्ळवर्गळुक्कु नाय् मुदलिय जऩ्मा, अदऩ् सुग, तुक्कत्तुडऩ् सेर्न्दु, मुक्यमाऩदागवे एऱ्पडुगिऱदु ऎप्पडियो, अप्पडिये नॆल्, ताऩ्यम् मुदलाऩ जऩ्मावुम्, ऎऩ्ऱु।
एवं प्राप्ते ब्रूमः — अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते, न तत्सुखदुःख भाजो भवन्ति, पूर्ववत् — यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम् , एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम्। कुत एतत् ? तद्वदेवेहाप्यभिलापात्। कोऽभिलापस्य तद्वद्भावः ? कर्मव्यापारमन्तरेण सङ्कीर्तनम् — यथा आकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशति, एवं व्रीह्यादिजन्मन्यपि। तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: इप्पडि वरुम् पोदु सॊल्गिऱोम्; वेऱु जीवर्गळाल् अदिष्टिदमायुळ्ळ नॆल् मुदलियवै कळिल् अऩुसयमुळ्ळवर्गळ् सेर्क्कैयै मात्तिरम् अडैगिऱार्गळ्, अदऩ् सुग, तुक्कङ्गळैयडैन्दवर् कळाग आगिऱदिल्लै। “मुऩ्बोल”: अऩुसयमुळ्ळवर् कळुक्कु ऎप्पडि वायु पुगै मुदलिय तऩ्मै अवैगळुडऩ् सेर्क्कैमात्तिरमो, अव्विदमे ताऩ्यम् मुदलाग आवदुम् पिऱवियिऩाल् स्तावरमायिरुप् पवर्गळुडऩ् ऒट्टिक्कॊण्डिरुप्पदु मात्तिरम्दाऩ्।
ज्ञानानन्द-भारती - द्राविडी
इदु एऩ्? अदैप्पोलवे इङ्गेयुम् सॊल्लियिरुप्पदाल्, सॊल्लियिरुप्पदऱ्कु अदु पोल् तऩ्मै ऎऩ्बदु ऎऩ्ऩ? कर्मा सम्बन्दमाऩ वियाबारमऩ्ऩियिलेये सॊल्लियिरुप्पदु। आगासम् मुदल् मऴैयागप् पॆय्गिऱ वरैयिल् ऎप्पडि ऎव्विद कर्म वियाबारत्तैयुम् काणविल्लैयो। अप्पडिये नॆल्, ताऩ्यम् मुदलाऩ पिऱवियिलुम् (काणविल्लै)। आगैयाल् इङ्गु अऩुसयिगळुक्कु सुग, तुक्कत्तुडऩ् इरुक्कुम् तऩ्मै किडैयादु।
यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्मव्यापारम् — ‘रमणीयचरणाः’ ‘कपूयचरणाः’ इति। अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि, व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः। यो हि जीवो यच्छरीरमभिमन्यते, स तस्मिन्पीड्यमाने प्रवसति — इति प्रसिद्धम् ।
ज्ञानानन्द-भारती - द्राविडी
सुग, तुक्कत्तुडऩिरुक्कुम् तऩ्मै ऎङ्गु अबिप्पिरायप्पडुगिऱदो अङ्गेयो नल्ल नडत्तै युळ्ळवर्गळ् कॆट्ट नडत्तैयुळ्ळवर्गळ् ऎऩ्ऱु कर्म वियाबारत्तैक् कुऱिप्पिडुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, अऩुसयिगळुक्कु नॆल्, ताऩ्यम् मुदलाऩ जऩ्मा मुक्कियमाय् इरुन्ददेयाऩाल्। नॆल्, ताऩ्यम् मुदलियवै पऱिक्कप्पडुम्बोदु, नऱुक्कप्पडुम्बोदु, पागम् सॆय्यप्पडुम्बोदु, साप्पिडप्पडुम् पोदु, अदिल् अबिमाऩमुळ्ळ अऩुसयिगळ् वॆळिये पोय्विडुवार्गळ्। ऎन्द जीवऩ्, ऎन्द सरीरत्तै ताऩॆऩ्ऱु अबिमाऩिक् किऱाऩो अवऩ् अदु पीडिक्कप्पडुम्बोदु वॆळियिल् पोय्विडुगिऱाऩॆऩ्बदु पिरसित्तम्।
तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत। अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति। एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् , उपभोगस्थानत्वं च स्थावरभावस्य। न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे। भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम्। चन्द्रमसस्तु अवरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ २४ ॥
ज्ञानानन्द-भारती - द्राविडी
अङ्गु नॆल्, ताऩ्यम् मुदलिय तऩ्मैयिलिरुन्दु रेदस्सै विडुगिऱ पुरुषऩुडैय सेर्क्कै अऩुस यिगळुक्कु सॊल्ल मुडियादु। आगैयाल् अऩुसयिगळुक्कु मऱ्ऱवर्गळाल् अदिष्टिक्कप्पट्टिरुक्किऱ नॆल्, ताऩ्यम् मुदलियवैगळिल् सेर्क्कै मात्तिरम्दाऩ् उण्डु।
ज्ञानानन्द-भारती - द्राविडी
इदिऩाल् ‘जऩि’ तादुविऱ्कु मुक्कियमायुळ्ळ अर्त्तत्तैयुडैय तऩ्मैयैयुम्, स्तावरत्तऩ्मैक्कु पोगस्ताऩमायिरुक्कुम् तऩ्मैयैयुम् पदिल् सॊल्लि विडलाम्। स्तावरमायिरुप्पदऱ्कुळ्ळ पोगस्ताऩत् तऩ्मैयै नाम् मऱुक्कविल्लै। पाबत्तिऩ् पलत्तिऩाल् स्तावरत् तऩ्मैयै अडैन्दुळ्ळ मऱ्ऱ पिराणिग ळुक्कु पोगस्ताऩमाग इरुक्कट्टुम्। आऩाल् सन्दिरऩिड मिरुन्दु इऱङ्गि वरुगिऱ अऩुसयिक्कळ् स्तावरत्तऩ् मैयै अऩुबविक्किऱदिल्लै ऎऩ्ऱु सॊल्गिऱोम्।
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
ज्ञानानन्द-भारती - द्राविडी
असुत्तमिदि सेऩ्ऩ सप्तात् ॥ २५ ॥
यत्पुनरुक्तम् — पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म, तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्म अस्तु। तत्र गौणी कल्पना अनर्थिकेति — तत्परिह्रियते — न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य। अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् , अतीन्द्रियत्वात्तयोः। अनियतदेशकालनिमित्तत्वाच्च — यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते, स एव देशकालनिमित्तान्तरेष्वधर्मो भवति। तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति। शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् ।
ज्ञानानन्द-भारती - द्राविडी
पसुहिंसै मुदलियदिऩ् सम्बन्दमिरुप्पदाल् याग, कर्मा सुत्तमिल्लै। अदऱ्कु अऩिष्टमाऩ पलऩुम् एऱ्पडुम् ऎऩ्बदिऩाल् अऩुसयिगळुक्कु ताऩ्यम् मुदलाऩ जऩ्मा मुक्कियमाऩदागवे इरुक्कट्टुम्। अव्विष यत्तिल् कौणमाऩ कल्बऩै पिरयोजऩमऱ्ऱदु ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदु परिहरिक्कप्पडुगिऱदु। “इल्लै”, तर्मम्, अदर्मम् इवैगळिऩ् ञाऩम् सास्तिरत्तैक् कारणमायुडैयदाल्। इदु तर्मम्, इदु अदर्मम्, ऎऩ्ऱु अऱियुम् विषयत्तिल् सास्तिरम्दाऩ् कारणम्। अवै इन्दिरियङ्गळुक्कु ऎट्टाद तऩ्मैयु टैयवै आदलालुम्, तीर्माऩमाऩ तेसम्, कालम् निमित्तम् इवैगळैयुडैयदालुम् ऎन्द तेसत्तिल् कालत्तिल् निमित्तत्तिल् ऎन्द तर्मम् अऩुष्टिक्कप्पडुगिऱ तो, अदुवे वेऱु तेस काल निमित्तङ्गळिल् अदर्ममाग आगिविडुगिऱदु। आगैयाल् तर्मादर्म विषयमाऩ अऱिवु यारुक्कुम् सास्तिरत्तैत् तविर्त्तुक् किडैयादु।
ज्ञानानन्द-भारती - द्राविडी
सास्तिरत्तिलिरुन्दे हिंसैयै अऩुमदिप्पदु मुदलिय तऩ्मैयुळ्ळ ज्योदिष्टोमम्, तर्मम् ऎऩ्ऱु तीर्माऩिक्कप्पट्टिरुक्किऱदु। अदु असुत्तम् ऎऩ्ऱु ऎप्पडि सॊल्ल मुडियुम्?
ननु ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति। बाढम् — उत्सर्गस्तु सः। अपवादः ‘अग्नीषोमीयं पशुमालभेत’ इति। उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम्। तस्माद्विशुद्धं कर्म वैदिकम्; शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च। तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम्। न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति। तद्धि कपूयचरणानधिकृत्य उच्यते। नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति। अतश्चन्द्रमण्डलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥
ज्ञानानन्द-भारती - द्राविडी
“सर्व पिराणिगळैयुम् हिंसिक्कक्कूडादु” ऎऩ्ऱु सास्तिरमे पिराणिगळ् विषयमायुळ्ळ हिंसै यै अदर्ममॆऩ्ऱु तॆरिविक्किऱदे ऎऩ्ऱाल्, वास्तवम्। आऩाल् अदु पॊदु विदि। “अक्ऩि सोम सम्बन्दमाऩ पसुवै आलम्बऩम् सॆय्य वेण्डुम्” ऎऩ्बदु विलक्कु विदि। पॊदु विदिक्कुम्, विलक्कु विदिक्कुम् तऩित्तऩिये विषयमुळ्ळ तऩ्मै। आगैयाल् वेद विहिदमाऩ कर्मा परिसुत्तमायुळ्ळदु, सिष्टर्गळाल् अऩुष्टिक्कप्पडुगि ऱबडियालुम्, निन्दिक्कप्पडाददिऩालुम्। आगैयाल् पिऱप्पि लेये स्तावर मायिरुप्पदु अदऱ्कुत् तगुन्द पलऩिल्लै।
ज्ञानानन्द-भारती - द्राविडी
मेलुम् नाय् मुदलाऩ जऩ्मावैप्पोल ताऩ्यम् मुदलाऩ जऩ्मा इरुक्कमुडियादु। अदुवो कॆट्टनडत् तैयुळ्ळवर्गळैक् कुऱित्तु सॊल्लप्पट्टिरुक्किऱदु। अदु मादिरि इङ्गे विसेषमाग ऎव्विद पिरगरणमुम् इल्लै। आगैयाल् सन्दिरमण्डलत्तिलिरुन्दु नऴुवुम् अऩुसयिग ळुक्कु ताऩ्यम् मुदलियदिल् ऒट्टुदल् मात्तिरमे अदुवाग आवदु ऎऩ्ऱु उबसारमाग सॊल्लप्पडुगिऱदु।
रेतःसिग्योगोऽथ ॥ २६ ॥
ज्ञानानन्द-भारती - द्राविडी
रेद: सिक्योगोअद ॥ २६ ॥
इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः, यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते — ‘यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति’ (छा. उ. ५। १०। ६) इति। न चात्र मुख्यो रेतःसिग्भावः सम्भवति। चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति। कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्येत ? तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः। तद्वत् व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥
ज्ञानानन्द-भारती - द्राविडी
इदिऩालुम्गूड ताऩ्यम् मुदलियदिल् ऒट्टुदल् मात्तिरम् ताऩ् अदुवाग आवदु ऎऩ्बदु, ऎन्द कारणत् तिऩाल् ताऩ्य मुदलियदाग इरुन्द पिऱ्पाडु अऩुसयि कळुक्कु रेदस्सिक्किऩ् तऩ्मै “ऎवऩ् ऎवऩ् अऩ्ऩम् साप्पिडुगिऱाऩो, ऎवऩ् रेदसै (स्तिरीयिडम्) विडुगि ऱाऩो, अवऩागवे आगिविडुगिऱाऩ्” (सान्।V;१०-६) ऎऩ्ऱु सॊल्लप्पट्टु इरुक्किऱदो।
ज्ञानानन्द-भारती - द्राविडी
इङ्गेयो रेदस्सिक्किऩ् तऩ्मै मुक्कियमाऩदु सम्बविक्कादु। वॆगुनाळ् मुऩ्ऩमेये पिऱन्दु यौवऩ मडैन्दवऩ् रेदस्सै विडुबवऩाग आगिऱाऩ्। साप्पिडुगिऱ अऩ्ऩत्तुडऩ् कूडवरुम् अऩुसयी उबसार मऩ्ऩियिल् (मुक्कियमाऩ) अवऩुडैय तऩ्मैयै ऎप्पडि अडैय मुडियुम्? अन्दविडत्तिल् रेदस्सिक्किऩ् तऩ्मै ऎऩ्बदु रेदस्सिक्कुडऩ् सेर्क्कैदाऩ् ऎऩ्ऱु कट्टायम् ऒप्पुक्कॊळ्ळ वेण्डुम्। अदैप्पोलवे, ताऩ्यम् मुदलियदाग आवदु ऎऩ्बदुम् ताऩ्यम् मुदलि यदुडऩ् सेर्क्कैदाऩ् ऎऩ्बदाल् विरोदमिल्लै।
योनेः शरीरम् ॥ २७ ॥
ज्ञानानन्द-भारती - द्राविडी
योने: सरीरम् ॥ २७ ॥
अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि, योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् — ‘तद्य इह रमणीयचरणाः’ (छा. उ. ५। १०। ७) इत्यादि। तस्मादप्यवगम्यते — नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति। तस्मात् व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥ २७ ॥
ज्ञानानन्द-भारती - द्राविडी
पिऱगु रेदस्सिक्किऩ् तऩ्मैक्कुप् पिऱ्पाडु योऩियिल् रेदस् विडप्पट्टाल्, योऩियिलिरुन्दु, अऩुसयिगळुक्कु अऩुसय कर्मत्तिऩ् पलऩै अऩुबविप् पदऱ्काग, सरीरम् उण्डागिऱदु ऎऩ्ऱु “अङ्गु ऎवर्गळ् इङ्गे नल्ल नडत्तैयुळ्ळवर्गळो” (सान्।V;१०-७) ऎऩ्बदु मुदलाऩ सास्तिरम् सॊल्गिऱदु। अदिलिरुन्दुम् कीऴे इऱङ्गुवदिल् ताऩ्यम् मुदलिय तऩ्मै एऱ्पडुम् पोदु, अन्द सरीरम्दाऩ् सुग, तुक्कङ्गळोडु कूडिऩदाग आगिऱदु ऎऩ्बदु अऱियप्पडुगिऱदु। आगैयाल् ताऩ्यम् मुदलियदिल् ऒट्टिक्कॊण्डु इरुप्पदु मात्तिरम्दाऩ् अऩुसयिगळुक्कु अन्द पिऱप्पु ऎऩ्बदु सित्तम्।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य प्रथमः पादः ॥
மூன்றாவது அத்யாயத்தின் முதலாவது பாதம் முற்றிற்று.