उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥
ज्ञानानन्द-भारती - द्राविडी
उत्किरान्दिगत्यागदीनाम् ॥ १९ ॥
जीवोऽणुः सर्वगो वा स्यादेषोऽणुरिति वाक्यतः ॥
उत्क्रान्तिगत्यागमनश्रवणाच्चाणुरेव सः ॥ २५ ॥
साभासबुद्ध्याऽणुत्वेन तदुपाधित्वतोऽणुता ॥
जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतः श्रुतम् ॥ २६ ॥
ज्ञानानन्द-भारती - द्राविडी
–वैयासिक-न्यायमाला
ज्ञानानन्द-भारती - द्राविडी
जीवऩ् अणुवायिरुक्कलामा? अल्लदु ऎङ्गुमुळ्ळ वऩागवा? “इवऩ् अणु" ऎऩ्ऱ वाक्कियत्तिऩालुम्, वॆळिक्कि ळम्बुदल्, पोगुदल्, वरुदल् ऎल्लाम् सॊल्लप् पडुवदालुम् अवऩ् अणुवे ताऩ्।
ज्ञानानन्द-भारती - द्राविडी
आबासत्तुडऩ् कूडिऩ पुत्तियिऩाल् अणुत्तऩ्मै येऱ्पडुवदाल्, अदै उबादियागवुडैयदाल् अणुत् तऩ्मै। आऩाल् तऩ् निलैयिलो पिरह्ममागवेयिरुक्कुम् तऩ्मैयैयुडैयदाल् जीवऩुक्कु ऎङ्गुम् इरुक्कुम् तऩ्मै सॊल्लप्पट्टिरुक्किऱदु।
इदानीं तु किंपरिमाणो जीव इति चिन्त्यते — किमणुपरिमाणः, उत मध्यमपरिमाणः, आहोस्वित् महापरिमाण इति। ननु नात्मोत्पद्यते नित्यचैतन्यश्चायमित्युक्तम्। अतश्च पर एव आत्मा जीव इत्यापतति। परस्य च आत्मनोऽनन्तत्वमाम्नातम्। तत्र कुतो जीवस्य परिमाणचिन्तावतार इति। उच्यते — सत्यमेतत्; उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति। स्वशब्देन च अस्य क्वचिदणुपरिमाणत्वमाम्नायते। तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भः ।
ज्ञानानन्द-भारती - द्राविडी
(जीवऩुडैय परिमाणत्तै इन्द अदिगरणत्तिल् विसारिक्किऱार्। जीवऩ् अणुवॆऩ्ऱ मिगच्चिऱिय परिमाण मुळ्ळवऩा अल्लदु विबुवा (ऎङ्गुम् उळ्ळवऩा) ऎऩ्ऱु सन्देहम्। जैऩ मदत्तैक् कण्डिक्किऱ इडत्तिल् सरीरत्तिऩ् अळवु ऎऩ्बदु निरागरिक्कप्पट्टुविट्टबडियाल् इरण्डु विदमागत् ताऩ् सन्देहम्। इन्द आत्मा अणु ऎऩ्ऱु स्पष्टमाग उबनिषत्तु अणु परिमात्तैक् कूऱुवदालुम् मिगच्चिऱियदु ऎऩ्ऱु मऱ्ऱॊरु उबनिषत्तु कूऱुवदालुम् आत्मावुक्कु अणु परिमाणम् ताऩ्। आत्मा मरण कालत्तिल् सरीरत्तै विट्टुक्किळम्बि लोगान्दरम् पोय् पिऩ्ऩाल् इव्वुलगिऱ्कुत् तिरुम्बवरुगिऱाऩ् ऎऩ्ऱु कूऱुवदाल् आत्मा विबुवाग इरुक्क मुडियादु। ऎङ्गु मुळ्ळवऩुक्कु किळम्बुवदु, पोवदु, वरुवदु इवै पॊरुन्दादु। उबनिषत्तिल् विबु परिमाणम् सॊल्लि यिरुप्पदु पिरह्मत्तिऱ्के तविर जीवऩुक्कु अल्ल ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
उबादियाऩ पुत्ति मिगच्चिऱियदाग इरुप्पदालुम् अदु पोय् वरुवदालुम् अदैक्कॊण्डु आत्मावैयुम्, अणुवागवुम् पोय्वरुवदागवुम् सॊल्गिऱार्गळ्। उबादियै विलक्किविट्टाल् जीवऩे पिरह्म स्वरूबमा ऩदाल् जीव स्वरूबम् ऎङ्गुमुळ्ळदु अणुवल्ल ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
इप्पॊऴुदु जीवऩ् ऎऩ्ऩ अळवुळ्ळवऩ् ऎऩ्ऱु सिन्दिक्कप्पडुगिऱदु अणुअळवुळ्ळवऩा अल्लदु नडुत्तर अळवुळ्ळवऩा, अल्लदु पॆरिय अळवुळ्ळवऩा ऎऩ्ऱु,
ज्ञानानन्द-भारती - द्राविडी
आत्मावो उत्पत्तियागिऱदिल्लै, इवऩ् ऎप्पॊऴुदुम् सैदऩ्यमुळ्ळवऩ् ऎऩ्ऱु सॊल्लप् पट्टदे; अदिऩालेये परमात्मादाऩ् जीवऩ् ऎऩ्ऱु एऱ्पडुगिऱदु। परमात्मावुक्को ऎल्लैयिल्लात् तऩ्मै सॊल्लप्पट्टिरुक्किऱदु। अप्पडि इरुक्क जीवऩ् विषयमाय् अळवैप्पऱ्ऱि सिन्दऩै एऱ्पडुवदु ऎदिऩाल्? ऎऩ्ऱु सॊल्गिऱोम्। इदु वास्तवम्। आऩाल् वॆळिक्किळम्बुदल्, पोगुदल्, वरुदल् इवैगळै सॊल्लियिरुप्पवैगळ् जीवऩुक्कु अळवुक्कुळ्बट्ट तऩ्मैयैक् काट्टुगिऩ्ऱऩ।
ज्ञानानन्द-भारती - द्राविडी
तऩ् सप्तत्तिऩालेये सिलविडङ्गळिल् इवऩुक्कु अणु अळवायिरुक्कुम् तऩ्मै सॊल्लप्पडुगिऱदु। अदु ऎल्लावऱ्ऱिऱ्कुम् कुऴप्पमिल्लाददै ऎडुत्तुक्काट्टुव तऱ्काग इन्द आरम्बम्।
तत्र प्राप्तं तावत् — उत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नोऽणुपरिमाणो जीव इति। उत्क्रान्तिस्तावत् — ‘स यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति’ (कौ. उ. ३। ४) इति; गतिरपि — ‘ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’ (कौ. उ. १। २) इति; आगतिरपि — ‘तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे’ (बृ. उ. ४। ४। ६) इति; आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति — न हि विभोश्चलनमवकल्पत इति। सति परिच्छेदे, शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वात् अणुरात्मेति गम्यते ॥ १९ ॥
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम्: वॆळिक्किळम्बुवदु, पोवदु, वरुवदु इवै सॊल्लप्पडुवदाल् अळवुक्कुळ्बट्टु अणु अळ वुळ्ळवऩ् जीवऩ् ऎऩ्ऱु अव्विषयत्तिल् एऱ्पडुगिऱदु। वॆळिक्किळम्बुवदु “अवऩ् ऎप्पॊऴुदु इन्द सरीरत्ति लिरुन्दु वॆळिक्किळम्बुगिऱाऩो अप्पॊऴुदु इवै ऎल्लावऱ्ऱिऩ्गूडवे वॆळिक्किळम्बुगिऱाऩ्”(कौषीदगी। III।३) ऎऩ्ऱु पोवदुम् “ऎन्द ऎवर्गळॆल्लाम् इन्द लोगत्तिलिरुन्दु पोगिऱार्गळो, अवर्गळॆल्लाम् सन्दिरऩैये अडैगिऱार्गळ्” (कौषीदगी। १-२) ऎऩ्ऱु वरुवदुम्, “अन्द लोगत्तिलिरुन्दु मऱुबडियुम् कर्मा वुक् कागइन्द लोगत्तिऱ्कु वरुगिऱार्गळ्" (पिरुहत्। IV।४-६) ऎऩ्ऱु। इन्द वॆळिक्किळम्बुदल्, पोदल्, वरुदल् ऎऩ्बवै सॊल्लप्पडुवदाल्, जीवऩ् अळवुक्कुट् पट्टवऩे ऎऩ्ऱु एऱ्पडुगिऱदु। वियाबगमायिरुप्पदऱ्कु सलऩम् पॊरुन्दादल्लवा, ऎऩ्ऱु अळवुक्कुट्पडुवदा यिरुन्दाल्, सरीरत्तिऩ् अळवैयेयुळ्ळदॆऩ्बदु आर्हद (जैऩ) मदत्तै विसारित्तबोदु निरागरिक्कप्पट्टु विट्टबडियाल्, आत्मा अणु ऎऩ्ऱु तॆरिगिऱदु।
स्वात्मना चोत्तरयोः ॥ २० ॥
ज्ञानानन्द-भारती - द्राविडी
स्वात्मना सोत्तरयो: ॥ २० ॥
उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत। उत्तरे तु गत्यागती नाचलतः सम्भवतः। स्वात्मना हि तयोः सम्बन्धो भवति, गमेः कर्तृस्थक्रियात्वात्। अमध्यमपरिमाणस्य च गत्यागती अणुत्वे एव सम्भवतः। सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते ।
ज्ञानानन्द-भारती - द्राविडी
ऒरु समयत्तिल् असैयामलिरुक्किऱ आत्मा विऱ्कुम् किरामत्तिऩ् स्वामि ऎऩ्ऱ तऩ्मै निविरुत्ति यावदुबोल कर्मा क्षयित्तु विडुवदिऩाल् तेहत्तिऩ् स्वामि (यजमाऩऩ्) ऎऩ्ऱ तऩ्मै निविरुत्तियावदाल्, वॆळिक्किळम्बुदल् एऱ्पडलाम्। आऩाल् मेलुळ्ळ इरण्डुम् पोवदुम्, वरुवदुम् असैयामलिरुप्पदऱ्कु सम्बविक्कादु। पोवदु ऎऩ्बदु सॆय्गिऱवऩिडमुळ्ळ सॆय्गैयायिरुप्पदाल्, अवैगळुक्कु तऩ् स्वरूबत्तु टऩेये सम्बन्दम् इरुक्किऱदल्लवा? नडुत्तर अळविल्लाददऱ्कु पोवदुम्, वरुवदुम् अणुत्तऩ्मै यिरुन्दाल्दाऩ् सम्बविक्कुम्। पोवदुम्, वरुवदुम्, उण्डाऩाल् वॆळिक्किळम्बुवदुम् तेहत्तिलिरुन्दु किळम्बुवदुदाऩ् ऎऩ्ऱु तॆरिगिऱदु।
न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् — देहप्रदेशानां च उत्क्रान्तावपादानत्ववचनात् — ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४। ४। २) इति । ‘स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति’ (बृ. उ. ४। ४। १) ‘शुक्रमादाय पुनरैति स्थानम्’ (बृ. उ. ४। ३। ११) इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतः। तस्मादप्यस्याणुत्वसिद्धिः ॥ २० ॥
ज्ञानानन्द-भारती - द्राविडी
तेहत्तिलिरुन्दु किळम्बाददऱ्कु पोवदुम्, वरुवदुम् इरुक्कमुडियादल्लवा? वॆळिक्किळम्बुवदिल् तेहत्तिलुळ्ळ इडङ्गळुक्कु अबादाऩत् तऩ्मै सॊल्लियिरुप्पदालुम्, ‘कण्णिलिरुन्दो, सिरसिलि रुन्दो, वेऱु सरीरत्तिलुळ्ळ इडङ्गळिलिरुन्दो’ (पिरुहत्। IV।४-२) ऎऩ्ऱु ‘अवऩ् इन्द तेजो मात्तिरैगळै (इन्दिरियङ्गळै) ऎडुत्तुक्कॊण्डु ह्रुदयत्तैयेयडैगिऱाऩ्’ (पिरुहत्। IV।४-१) ऎऩ्ऱुम् पिरगासमाऩ इन्दिरियक्कूट्टत्तै ऎडुत्तुक्कॊण्डु मऱुबडियुम् जागरिदस्ताऩत्तिऱ्कु वरुगिऱाऩ्। (पिरुहत्। IV। ३-११) ऎऩ्ऱुम् सरीरत्तिऱ्कु उळ्ळेयुम्गूड सारीरऩुक्कु पोदल्, वरुदल् इरुक्किऩ्ऱऩ। आगैयिऩालुम् इवऩुक्कु अणुत्तऩ्मै सित्तिक्किऱदु।
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥
ज्ञानानन्द-भारती - द्राविडी
नाणुरदच्च्रिरुदेरिदि सेन्नेदरादिगारात् ॥ २१ ॥
अथापि स्यात् — नाणुरयमात्मा। कस्मात् ? अतच्छ्रुतेः; अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः । ‘स वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४। ४। २२) ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०। ६। ३। २) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २। १। १) इत्येवंजातीयका हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् , नैष दोषः। कस्मात् ? इतराधिकारात् — परस्य हि आत्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् , ‘विरजः पर आकाशात्’ इत्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् ।
ज्ञानानन्द-भारती - द्राविडी
आऩालुम् इन्द आत्मा अणुवल्ल एऩ्? “अदिल्लैयॆऩ्ऱु सॊल्लियिरुप्पदाल्”, अणुत्तऩ् मैक्कु नेर्माऱाऩ अळवु सॊल्लियिरुप्पदाल् ऎऩ्ऱु अर्त्तम्। “अन्द इन्द आत्मा, ऎवर् पिराणऩ्गळिल् विज्ञानमयरायिरुक्किऱरो अवर्, पॆरियवर्, पिऱप्पऱ् ऱवर्” (पिरुहत्।IV।४-२२), “आगासत्तैप्पोल ऎङ्गु मुळ्ळवर्, नित्यमाऩवर्”, “सत्यम् ञाऩम् ऎल्लैयऱ्ऱदु पिरह्मम्” (तैत्तिरीय।II।१-१) ऎऩ्बदु पोलुळ्ळ सुरुदि, आत्मावुक्कु अणुत्तऩ्मै इरुक्कुमेयाऩाल्, विरोदप् पडुमे? ऎऩ्ऱाल्, इदु तोषमल्ल एऩ्? मऱ्ऱवरिऩ् पिरगरणमायिरुप्पदाल् इन्द वेऱु अळवैच् चॊल्लुम् सुरुदि परमात्मावैच् चॊल्लुम् पिरगरणत्तिल् अल्लवा इरुक्किऱदु? उबनिषत्तुक्कळिल् मुक्कियमाग अऱियत्तक् कदाग परमात्मावे पिरगिरुदमाय् इरुप्पदाल् आगासत् तिऱ्कु मेले तोषमऱ्ऱवर् ऎऩ्ऱु अङ्गङ्गु परमात्मा विऩुडैयवे विसेषमाऩ पिरगरणमायिरुप्पदाल्।
ननु ‘योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४। ४। २२) इति शारीर एव महत्त्वसम्बन्धित्वेन प्रतिनिर्दिश्यते — शास्त्रदृष्ट्या तु एष निर्देशो वामदेववद्द्रष्टव्यः। तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य न जीवस्याणुत्वं विरुध्यते ॥ २१ ॥
ज्ञानानन्द-भारती - द्राविडी
“ऎन्द इवऩ् पिराणऩ्गळिल् विज्ञानमयऩो” (पिरुहत्। IV।४-२२) ऎऩ्ऱु पॆरिदायिरुक्कुम् तऩ्मैयुडऩ् सम्बन्दप्पट्टदाग सारीरऩ्दाऩे कुऱिप्पिडप्पडुगिऱाऩ्? ऎऩ्ऱालो इव्विदम् कुऱिप्पिडुवदु सास्तिरप्पार्वैयिल् वामदेवरुक्कुप्पोल ऎऩ्ऱु अऱियवेण्डुम्। आगैयाल् वेऱु अळवु सॊल्लियिरुप्पदु परमात्म विषयमायुळ्ळदाल् जीवऩुडैय अणुत्तऩ्मै विरोदप्पडविल्लै।
स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
ज्ञानानन्द-भारती - द्राविडी
स्वसप्तोन्मानाप्याम् स ॥ २२ ॥
इतश्चाणुरात्मा, यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते — ‘एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश’ (मु. उ. ३। १। ९) इति। प्राणसम्बन्धाच्च जीव एवायमणुरभिहित इति गम्यते। तथोन्मानमपि जीवस्याणिमानं गमयति — ‘बालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः’ (श्वे. उ. ५। ९) इति; ‘आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५। ८) इति च उन्मानान्तरम् ॥ २२ ॥
ज्ञानानन्द-भारती - द्राविडी
इदिऩालुम् आत्मा अणु, नेरागवे इवऩुक्कु अणुत्तऩ्मैयैच् चॊल्गिऱ सप्तम्, “इन्द आत्मा, अणु, मऩसिऩाल् अऱियप्पडवेण्डियवर्, ऎदिल् पिराणऩ् ऐन्दु विदमाग नुऴैन्दिरुक्किऱदो” (मुण्डग। III।१-९) ऎऩ्ऱु सॊल्लप्पट्टिरुप्पदाल्, पिराणऩुडैय सम्बन्दम् इरुप्पदाल् इन्द जीवऩ्दाऩ् अणुवाग सॊल्लप्पट्टिरुक्किऱदॆऩ्ऱु तॆरिगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये अळन्दिरुप्पदुम् जीवऩुडैय अणुत्तऩ्मैयै तॆरिविक्किऱदु। “केस रोमत्तिऩ् नुऩियिऩ् नूऱिल् ऒरुबागम् नूऱागच् चॆय्यप्पट्टाल् उळ्ळ पागम् अन्द जीवऩ् ऎऩ्ऱु अऱियत्तक्कवऩ्” (सुवेदा।V।९) ऎऩ्ऱु,“तार्क्कुच्चियिल् उळ्ळ इरुम्बु आणि नुऩि अळवुळ्ळदाग इऩ्ऩम् सिऱियदागवुम् काणप्पडुगिऱाऩ्” (सुवेदा ।V।८) ऎऩ्ऱु वेऱु अळवुम् इरुक्किऱदु।
नन्वणुत्वे सति एकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते। दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिः, निदाघसमये च सकलशरीरपरितापोपलब्धिरिति — अत उत्तरं पठति —
ज्ञानानन्द-भारती - द्राविडी
अणुवायिरुन्ददेयाऩाल्, ऒरु इडत्तिलि रुप्पदऱ्कु तेहम् मुऴुवदिलुमुळ्ळ उणर्च्चि विरोदप् पडुमे? कङ्गैयिल् मडुविल् मूऴ्गिऩवर्गळुक्कु ऎल्ला अङ्गङ्गळिलुम् कुळिर्दॆरिगिऱदे? कोडैक्कालत्तिल् सरीरम् मुऴुवदिलुम् ताबम् तॆरिगिऱदे? ऎऩ्ऱु, अदऱ्कु पदिल् सॊल्लुगिऱार्:-
अविरोधश्चन्दनवत् ॥ २३ ॥
ज्ञानानन्द-भारती - द्राविडी
अविरोदच्चन्दनवत् ॥ २३ ॥
यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसम्बद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोति, एवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यति। त्वक्सम्बन्धाच्चास्य सकलशरीरगता वेदना न विरुध्यते। त्वगात्मनोर्हि सम्बन्धः कृत्स्नायां त्वचि वर्तते। त्वक्च कृत्स्नशरीरव्यापिनीति ॥ २३ ॥
ज्ञानानन्द-भारती - द्राविडी
हरिसन्दऩत्तिऩ् तुळि सरीरत्तिल् ऒरु इडत्तुडऩ् सम्बन्दप्पट्टिरुन्द पोदिलुम्ऎप्पडि सरीरम् मुऴुवदैयुम् वियाबिक्किऱ सन्दोषत्तैच् चॆय्गिऱदो, अप्पडिये आत्मावुम् सरीरत्तिल् ऒरु इडत्तिल् इरुन्द पोदिलुम् तेहम् मुऴुवदिलुम् वियाबिक्किऱ उणर्च्चियै एऱ्पडुत्तलाम्। त्वगिन्दिरियत्तुडऩ् सम्बन्दप्पट्टिरुप्प तिऩालुम्, इवऩुक्कु तेहम् मुऴुवदुम् उणर्च्चि एऱ्पडुवदु विरोदमिल्लै; त्वक्कुक्कुम् आत्मावुक्कु मुळ्ळ सम्बन्दम् तोल् पूऱाविलुम् इरुक्किऱदु; तोलो सरीरम् मुऴुवदैयुम् वियाबिक्किऱदु, ऎऩ्बदिऩाल्।
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥
ज्ञानानन्द-भारती - द्राविडी
अवस्तिदिवैसेष्यादिदि सेनिनाप्युबगमात्त्रुदि हि ॥ २४॥
अत्राह — यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तम् , दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वात्। सिद्धे हि आत्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति, प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च। आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षम् , नैकदेशवर्तित्वम्। अनुमेयं तु तदिति यदप्युच्येत — न च अत्रानुमानं सम्भवति — किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः, किं वा विभोर्नभस इव, आहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्य इति संशयानतिवृत्तेरिति।
ज्ञानानन्द-भारती - द्राविडी
इङ्गु सॊल्गिऱाऩ्; “विरोदमिल्लै, सन्दऩम् पोल” ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदु युक्तमिल्लै, तिरुष्टान्दमुम् तार्ष्टान्दिगमुम् समाऩमाय् इल्ला तदिऩाल्। तेहत्तिऩ् ऒरु इडत्तिल् आत्मा इरुक्किऱ तॆऩ्ऱु सित्तमायिरुन्दाल् अल्लवा सन्दऩम् ऎऩ्ऱ तिरुष्टान्दम् पॊरुन्दुम्। सन्दऩत्तिऱ्को इरुप्पिल् विसेषमाऩ ऒरु इडत्तिल् इरुक्कुम् तऩ्मैयुम् पूरा तेहत्तै सन्दोषप् पडुत्तुवदुम् पिरत्यक्षमागत् तॆरिगिऱदु; आत्मावुक्को पूरा तेहत्तिल् एऱ्पडुम् उणर्च्चि मात्तिरम् पिरत्यक्षम्, ऒरु इडत्तिल् इरुक्कुम् तऩ्मै पिरत्यक्षमिल्लै। अदु ऊगिक्कत्तक्कदु, ऎऩ्ऱु सॊऩ्ऩाल्, इव्विषयत्तिल् अऩुमाऩम् सम्बविक्कादु। आत्मावुक्कु पूरा सरीरत्तिलुम् उळ्ळ उणर्च्चि, त्वक् इन्दिरियत्तैप्पोल, सरीरम् पूरावुम् वियाबित्तिरुप्पदि ऩाला, अल्लदु आगासम्बोल् वियाबगमायिरुप् पदिऩाला, अल्लदु सन्दऩ पिन्दुवैप्पोल अणुवाग ऒरु इडत्तिलिरुप्पदिऩाला ऎऩ्ऱ सन्देहम् निविरुत्तियागाददिऩाल्, ऎऩ्ऱु।
अत्रोच्यते — नायं दोषः। कस्मात् ? अभ्युपगमात्। अभ्युपगम्यते हि आत्मनोऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम्। कथमिति, उच्यते — हृदि ह्येष आत्मा पठ्यते वेदान्तेषु, ‘हृदि ह्येष आत्मा’ (प्र. उ. ३। ६) ‘स वा एष आत्मा हृदि’ (छा. उ. ८। ३। ३) ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ (बृ. उ. ४। ३। ७) इत्याद्युपदेशेभ्यः। तस्माद्दृष्टान्तदार्ष्टान्तिकयोरवैषम्यात् युक्तमेवैतत् — ‘अविरोधश्चन्दनवत्’ इति ॥ २४ ॥
ज्ञानानन्द-भारती - द्राविडी
इङ्गु सॊल्लप्पडुगिऱदु, इदु तोषमल्ल। एऩ्? “ऒप्पुक्कॊळ्वदाल्” सन्दऩत्तैप्पोल आत्मावुक्कुम् तेहत्तिऩ् ऒरु इडत्तिल् इरुक्कुम् तऩ्मैयागिय “इरुप्पिल् विसेषम्” ऒप्पुक्कॊळ्ळप्पडुगिऱदे? ऎप्पडि ऎऩ्ऱु सॊल्लप्पडुगिऱदु, उबनिषत्तुक्कळिल् ह्रुद यत्तिल् इन्द आत्मा इरुप्पदाग सॊल्लप्पडुगिऱदु, “ह्रुदयत्तिल् अल्लवा इन्द आत्मा” (पिरच्ऩम्। III।६), “अदे इन्द आत्मा ह्रुदयत्तिल्” (सान्। VIII।३-३), “ऎन्द इवर् पिराणऩ्गळिल् विज्ञानमयरो अन्द आत्मा ऎवर् ऎऩ्ऱु। ह्रुदयत्तिल् उळ्ळे ज्योदिसागविरुक्कुम् पुरुषऩ्” (पिरुहत्। IV।३-७) ऎऩ्बदु मुदलिय उबदेसङ्गळिलिरुन्दु।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् तिरुष्टान्द तार्ष्टान्दिगङ्गळुक्कुळ् वैषम्यमिल्लाददिऩाल्, “विरोदमिल्लै सन्दऩम् पोल” ऎऩ्ऱ इदु युक्तम् ताऩ्।
गुणाद्वा लोकवत् ॥ २५ ॥
ज्ञानानन्द-भारती - द्राविडी
कुणात्वा लोगवत् ॥ २५ ॥
चैतन्यगुणव्याप्तेर्वा अणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते — यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोति — तद्वत्। स्यात् कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वम्। न त्वणोर्जीवस्यावयवाः सन्ति, यैरयं सकलदेहं विप्रसर्पेत् — इत्याशङ्क्य ‘गुणाद्वा लोकवत्’ इत्युक्तम् ॥ २५ ॥
ज्ञानानन्द-भारती - द्राविडी
अल्लदु, अणुवायिरुक्कुम् जीवऩुक्कुम् सैदऩ्यमागिऱ कुणम् वियाबिक्किऱबडियाल्, तेहम् पूरावुम् वियाबिक्किऱदाऩ कार्यम् विरोदप्पडविल्लै। उलगत्तिल् अऱैयिऩ् ऒरु इडत्तिलिरुन्दालुम्गूड रत्ऩम्। तीबम् मुदलियवैगळिऩ् पिरगासम् अऱैयै वियाबित्तुक् कॊण्डिरुन्दु पूरा अऱैयिलुम् कार्यत्तैच् चॆय्गिऱदु ऎप्पडियो अदैप्पोल।
ज्ञानानन्द-भारती - द्राविडी
सन्दऩम् अवयवङ्गळुडऩ् कूडिऩदायिरुप्पदाल्, ऒरुक्काल् सूक्ष्ममाऩ अवयवङ्गळ् परवुवदऩाल् पूरा तेहत्तिलुम् सन्दोषप्पडुत्तुम् तऩ्मैयिरुक्कलाम्; अणुवायुळ्ळ जीवऩुक्को, ऎदैक्कॊण्डु इवऩ् पूरा तेहत्तैयुम् परवुवाऩो, अव्विद अवयवङ्गळ् किडैयादे, ऎऩ्ऱु सन्देहित्तु “कुणत्तिऩालावदु, उलगत्तिल्बोल” ऎऩ्ऱु सॊल्लप्पट्टदु।
कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत ? न हि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते। प्रदीपप्रभावद्भवेदिति चेत् , न; तस्या अपि द्रव्यत्वाभ्युपगमात् — निबिडावयवं हि तेजोद्रव्यं प्रदीपः, प्रविरलावयवं तु तेजोद्रव्यमेव प्रभा इति, अत उत्तरं पठति —
ज्ञानानन्द-भारती - द्राविडी
कुणम् ऎऩ्बदु कुणत्तैयुडैयदै विट्टु वेऱाग वेऱु इडत्तिल् ऎप्पडि इरुक्क मुडियुम्? वस्ति रत्तिऩुडैय वॆळुप्पु कुणम् वस्तिरत्तिऱ्कु वेऱाग वेऱॆङ्गेयुम् इरुप्पदागक् काणप्पडुवदिल्लैये। तीबत्तिऩ् वॆळिच्चम् पोल् इरुक्कलाम् ऎऩ्ऱाल् सरि यल्ल, अदऱ्कुम् तिरवियत्तऩ्मै ऒप्पुक्कॊळ्ळप्पडुगिऱ पडियाल्। नॆरुङ्गिऩ अवयवङ्गळोडु कूडिऩ तेजो तिरवियम् तीबम्; नऩ्गु सिदऱियुळ्ळ अवयवङ्गळोडु कूडिऩ तेजो तिरवियमे वॆळिच्चम् ऎऩ्बदिऩाल्, _ इदऱ्कु पदिल् सॊल्गिऱार्।
व्यतिरेको गन्धवत् ॥ २६ ॥
ज्ञानानन्द-भारती - द्राविडी
व्यदिरेदो कन्दवत् ॥ २६ ॥
यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति, अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः। एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति। अतश्चानैकान्तिकमेतत् — गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति। गुणस्यैव सतो गन्धस्य आश्रयविश्लेषदर्शनात्। गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् , न; यस्मान्मूलद्रव्याद्विश्लेषः तस्य क्षयप्रसङ्गात्। अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते। अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत ।
ज्ञानानन्द-भारती - द्राविडी
ऎप्पडि कुणमागवेयिरुक्कुम् कन्दत्तिऱ्कु कुणमुळ्ळ तिरवियत्तिऱ्कु वेऱाग इरुप्पु इरुक्किऱदो, कन्दमुळ्ळ पुष्पम् मुदलियवैगळ् अडैयप्पडाम लिरुन्दबोदिलुम् पुष्पत्तिऩ् कन्दम् अऱियप्पडुवदाल् अप्पडि अणुवाय् इरुक्किऱ जीवऩुक्कुम् सैदऩ्य कुणत्तिलिरुन्दु वेऱाय् इरुप्पदु इरुक्कलाम्। आगैयाल् रूबम् मुदलियदैप् पोल कुणमायि रुप्पदाल् आसिरयत्तै विट्टु इरुप्पदु पॊरुन्दादु ऎऩ्बदु वियबिसरिदम् (माऱिप्पोगिऱदु) कुणमागवे यिरुक्किऱ कन्दत्तिऱ्कु आसिरयत्तै विट्टुप् पिरिन्दु इरुप्पदु काणप्पडुवदाल्।
ज्ञानानन्द-भारती - द्राविडी
कन्दत्तिऱ्कुम्गूड आसिरयत्तोडु सेर्न्दुदाऩ् पिरिवु ऎऩ्ऱाल् सरियिल्लै। एऩॆऩ्ऱाल्, ऎन्द मूल तिरवियत्तिलिरुन्दु पिरिवु एऱ्पडुगिऱदो अदऱ्कु कुऱैवु एऱ्पड वेण्डुमाऩदिऩाल्; अदुवो मुऩ् निलैयिलिरुन्दु कुऱैवुबडाददागवे तॆरिगिऱदु; वेऱु विदमाऩाल् अदऩ् मुऩ् निलैयिलुळ्ळ कऩम् मुदलियवैगळिल् कुऱैवु एऱ्पडुम्।
स्यादेतत् — गन्धाश्रयाणां विश्लिष्टानामवयवानामल्पत्वात् सन्नपि विशेषो नोपलक्ष्यते। सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् , न; अतीन्द्रियत्वात्परमाणूनाम् , स्फुटगन्धोपलब्धेश्च नागकेसरादिषु। न च लोके प्रतीतिः — गन्धवद्द्रव्यमाघ्रातमिति; गन्ध एव आघ्रात इति तु लौकिकाः प्रतियन्ति ।
ज्ञानानन्द-भारती - द्राविडी
इदु इरुक्कलाम्: कन्दत्तिऱ्कु आसिरयमायिरुन्दु पिरिन्दु पोगुम् अवयवङ्गळ् अल्बमायिरुप्पदाल्, वित्तियासम् इरुन्दुम् तॆरियविल्लै। सूक्ष्ममायुळ्ळ कन्दबरमाणुक्कळ् ऎल्ला पक्कत्तिलुम् परवि मूक्कु नुऩियिल् नुऴैन्दु कन्दम् ऎऩ्ऱ ऎण्णत्तै उण्डु पण्णुगिऩ्ऱऩ ऎऩ्ऱाल् सरियल्ल। परमाणुक्कळ् इनदिरि यङ्गळुक्कु ऎट्टाददिऩालुम्, नागगेसरम् मुदलियदु कळिल् तॆळिवाग कन्दत्तिऩ् अऱिवु एऱ्पडुवदालुम् मेलुम् उलगत्तिल् कन्दमुळ्ळ तिरवियम् मुगरप्पट्टदु ऎऩ्ऱ उणर्च्चि किडैयादु; आऩाल् कन्दम्दाऩ् अऱियप्पट्टदु ऎऩ्ऱु उलगत्तार् ऎण्णुगिऱार्गळ्।
रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् , न; प्रत्यक्षत्वादनुमानाप्रवृत्तेः। तस्मात् यत् यथा लोके दृष्टम् , तत् तथैव अनुमन्तव्यं निरूपकैः, नान्यथा। न हि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयोऽपि गुणा जिह्वयैवोपलभ्येरन्निति नियन्तुं शक्यते ॥ २६ ॥
ज्ञानानन्द-भारती - द्राविडी
रूबम् मुदलाऩवैगळिल् आसिरयत्तिऱ्कु वेऱाग काणप्पडाददिऩाल् कन्दत्तिऱ्कुम्गूड आसिरयत्तिऱ्कु वेऱायिरुक्कुम् तऩ्मै युक्तमिल्लै ऎऩ्ऱाल् सरियल्ल, पिरत्यक्षमायिरुप्पदाल्, अऩुमाऩत्तिऱ्कु पिरविरुत्ति यिल्लैयादलाल् आगैयाल् उलगत्तिल् ऎदु ऎप्पडि काणप्पडुगिऱदो अदु अप्पडिये ताऩ् निरूबणम् सॆय्गिऱवर्गळाल् अऩुमाऩम् सॆय्य वेण्डुम्। वेऱुविदम् कूडादु। रसम् ऎऩ्ऱ कुणम् नाक्किऩाल् अऱियप्पडुगिऱदु ऎऩ्बदऱ्काग रूबम् मुदलाऩ कुणङ्गळुम् नाक्किऩालेये अऱियप्पडवेण्डुम् ऎऩ्ऱु नियमऩम् सॆय्यमुडियादु।
तथा च दर्शयति ॥ २७ ॥
ज्ञानानन्द-भारती - द्राविडी
तदा स तर्सयदि ॥ २७ ॥
हृदयायतनत्वमणुपरिमाणत्वं च आत्मनः अभिधाय तस्यैव ‘आ लोमभ्य आ नखाग्रेभ्यः’ (छा. उ. ८। ८। १) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ॥ २७ ॥
ज्ञानानन्द-भारती - द्राविडी
आत्मावुक्कु ह्रुदयत्तै इरुप्पिडमायुडैय तऩ्मैयैयुम् अणुविऩ् अळवायिरुक्कुम् तऩ्मै यैयुम् सॊल्लिविट्टु अदऱ्के “रोमङ्गळ् वरै, नगङ्गळिऩ् नुऩिगळ् वरै” (सान्। VIII।८-१) ऎऩ्ऱु सैदऩ्यमागिऱ कुणत्तिऩाल् पूरा सरीरत्तैयुम् वियाबित्तिरुक्कुम् तऩ्मैयैयुम् काट्टुगिऱदु।
पृथगुपदेशात् ॥ २८ ॥
ज्ञानानन्द-भारती - द्राविडी
प्रुदगुबदेसात् ॥ २८ ॥
‘प्रज्ञया शरीरं समारुह्य’ (कौ. उ. ३। ६) इति च आत्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशात् चैतन्यगुणेनैव अस्य शरीरव्यापिता गम्यते । ‘तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २। १। १७) इति च कर्तुः शारीरात्पृथग्विज्ञानस्योपदेशः एतमेवाभिप्रायमुपोद्बलयति। तस्मादणुरात्मेति ॥ २८ ॥
ज्ञानानन्द-भारती - द्राविडी
“अऱिविऩाल् सरीरत्तिल् एऱिक्कॊण्डु” (कौषीदगी। III।६) ऎऩ्ऱु आत्मावैयुम्, अऱिवैयुम् सॆय्गिऱवऩागवुम् करुवियागवुम् तऩित्तऩियाग उबदेसिप्पदालुम्, सैदऩ्यमागिऱ कुणत्तिऩाल्दाऩ् इवऩुक्कु सरीरत्तै वियाबित्तु इरुक्कुम् तऩ्मै ऎऩ्ऱु तॆरिगिऱदु। “अदु इन्द पिराणऩ्गळुडैय अऱिवै अऱिविऩाल् ऎडुत्तुक्कॊण्डु” (पिरुहत्। III।१-१७) ऎऩ्ऱुम् कर्त्तावाऩ सारीरऩिडमिरुन्दु वेऱाग अऱिवु उबदेसिक्कप्पट्टिरुप्पदु इन्द अबिप्पिरायत्तैये पलप्पडुत्तुगिऱदु। आगैयाल् आत्मा अणु ऎऩ्ऱु।
एवं प्राप्ते, ब्रूमः —
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: इव्विदम् वरुम्बोदु सॊल्गिऱोम्।
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
ज्ञानानन्द-भारती - द्राविडी
तत्कुणसारत्वात्तु तत्व्यबदेस: प्राज्ञवत् ॥ २९ ॥
तुशब्दः पक्षं व्यावर्तयति। नैतदस्ति — अणुरात्मेति। उत्पत्त्यश्रवणात् परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम्। परमेव चेद्ब्रह्म जीवः, तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति। परस्य च ब्रह्मणो विभुत्वमाम्नातम्। तस्माद्विभुर्जीवः। तथा च ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४। ४। २२) इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति ।
ज्ञानानन्द-भारती - द्राविडी
“आऩाल्” ऎऩ्ऱ सप्तम् पक्षत्तै मऱुक्किऱदु। आत्मा अणु ऎऩ्ऱ इदु इल्लैयॆऩ्ऱु। उत्पत्ति सॊल्लप्पडाददिऩालुम् परबिरह्मत्तिऱ्के पिरवेसम् सॊल्लप्पट्टिरुप्पदिऩालुम्, अदे स्वरूबमॆऩ्ऱु उबदेसिप्पदिऩालुम्, परबिरह्मम्दाऩ् जीवऩ् ऎऩ्ऱु सॊल्लप्पट्टदु। परबिरह्ममे जीवऩ् ऎऩ्ऱिरुन्दाल् अदिऩाल् परबिरह्मम् ऎव्वळवो अव्वळवे जीवऩुम् इरुक्कवेण्डियदु न्यायम्। परबिरह्मत्तिऱ्को वियाबगत्तऩ्मै सॊल्लप्पट्टिरुक्किऱदु; अदिऩाल् जीवऩुम् वियाबगऩ्। अप्पडियाऩाल् ताऩ् “पिराणऩ् कळिल् ऎन्द इवऩ् विज्ञानमयऩो, अन्द इन्द आत्मा पॆरियवर्, पिऱप्पऱ्ऱवर्” (पिरुहत्। IV। ४-२२) ऎऩ्बदु पोलुळ्ळ जीवविषयमाग वियाबगत्तऩ्मैयैच् चॊल्गिऱ वेदत्तिलुळ्ळदुम् स्मिरुदिगळिल् उळ्ळदुमाऩ वार्त्तैगळ् समर्त्तऩम् सॆय्यप्पट्टदाग आगिऩ्ऱऩ।
न च अणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते। त्वक्सम्बन्धात्स्यादिति चेत् , न; कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत — त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते — त्वक्च कृत्स्नशरीरव्यापिनीति। पादतल एव तु कण्टकनुन्ना वेदनां प्रतिलभन्ते। न च अणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात्। गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत। प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् ।
ज्ञानानन्द-भारती - द्राविडी
अणुवायुळ्ळ जीवऩुक्कु सरीरम् मुऴुवदिलुमुळ्ळ उणर्च्चि पॊरुत्तमागादु। तोलिऩ् सम्बन्दत्तिऩाल् इरुक्कलामेयॆऩ्ऱाल सरियल्ल। मुळ् कुत्तिऩालुम्गूड पूरा सरीरत्तिलुमेयिरुप्पदाग उणर्च्चि एऱ्पड वेण्डि वरुम्, तोलुक्कुम्, मुळ्ळुक्कुम् सम्बन्दमो पूरात् तोलुडऩ् इरुक्किऱदु। तोलुम् पूरा सरीरत्तैयुम् वियाबित्तिरुक्किऱदु ऎऩ्बदिऩाल्। आऩाल् मुळ् कुत्तप् पट्टवऩ् काल्दळत्तिल्दाऩ् उणर्च्चियै अडैगिऱाऩ्।
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, अणुवायिरुप्पदऱ्कु कुणत्तिऩाल् वियाबिप्पदु पॊरुन्दादु, कुणत्तिऱ्कु कुणमुळ्ळदे इरुक्कुमिडमाऩदाल्। कुणमुळ्ळदै आसिरयिक्काम लिरुन्दाल् कुणत्तिऱ्कु कुणत्तऩ्मैये पोय्विडु मल्लवा? तीबत्तिऩुडैय वॆळिच्चम् वेऱु तिरविय मॆऩ्ऱु ऎडुत्तुक्काट्टप्पट्टदु।
गन्धोऽपि गुणत्वाभ्युपगमात्साश्रय एव सञ्चरितुमर्हति, अन्यथा गुणत्वहानिप्रसङ्गात्; तथा चोक्तं द्वैपायनेन — ‘उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणाः। पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्’ इति। यदि च चैतन्यं जीवस्य व्याप्नुयात् , नाणुर्जीवः स्यात्; चैतन्यमेव हि अस्य स्वरूपम् , अग्नेरिवौष्ण्यप्रकाशौ — नात्र गुणगुणिविभागो विद्यत इति। शरीरपरिमाणत्वं च प्रत्याख्यातम्। परिशेषाद्विभुर्जीवः ॥
ज्ञानानन्द-भारती - द्राविडी
कन्दमुम्, कुणमॆऩ्ऱु ऒप्पुक्कॊळ्ळप्पडुवदाल् आसिरयत्तुडऩ् कूडवे सञ्जरिप्पदुदाऩ् न्यायम् ; वेऱु विदमाऩाल् कुणमॆऩ्ऱ तऩ्मैक्के केडु एऱ्पडुमाऩदिऩाल् अप्पडिये त्वैबायऩरालुम् सॊल्लप्पट्टिरुक्किऱदु -“जलत्तिलिरुप्पदाग कन्दत्तैप् पार्त्तु अऱिवुत्तिऱमै इल्लाद सिलर् सॊऩ्ऩार्गळे याऩाल्, पिरुदिवियिलेये इरुप्पदाग अदै अऱिय वेण्डुम् । जलत्तैयुम्, वायुवैयुम् आसिरयित् तिरुप्पदाग” ऎऩ्ऱु।
ज्ञानानन्द-भारती - द्राविडी
जीवऩुडैय सैदऩ्यम् सरीरम् पूरावुम् वियाबिक्कुमेयाऩाल्, जीवऩ् अणुवाग इरुक्कमुडियादु, अक्ऩिक्कु उष्णत्तऩ्मैयुम् पिरगासमुम् पोल, इवऩुक्कु सैदऩ्यमे स्वरूबमल्लवा? इङ्गे कुणम् कुणमुडैयदु ऎऩ्ऱ पिरिवु किडैयादु ऎऩ्बदिऩाल्।
ज्ञानानन्द-भारती - द्राविडी
सरीरत्तिऩ् अळवुळ्ळदु ऎऩ्बदु मऱुक्कप्पट्टु विट्टदु। मिञ्जुवदाल् जीवऩ् विबु (वियाबगऩ्)।
कथं तर्हि अणुत्वादिव्यपदेश इत्यत आह — तद्गुणसारत्वात्तु तद्व्यपदेश इति। तस्या बुद्धेः गुणास्तद्गुणाः — इच्छा द्वेषः सुखं दुःखमित्येवमादयः — तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति, स तद्गुणसारः, तस्य भावस्तद्गुणसारत्वम्। न हि बुद्धेर्गुणैर्विना केवलस्य आत्मनः संसारित्वमस्ति। बुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः। तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः, तदुत्क्रान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्यपदेशः, न स्वतः ।
ज्ञानानन्द-भारती - द्राविडी
अप्पडियाऩाल् अणु ऎऩ्बदु मुदलाऩ वियबदेसम् ऎप्पडि? ऎऩ्ऱु अदऱ्काग सॊल्गिऱार्। “अदऩ् कुणत्तै सारमायुळ्ळदाल् अन्द वियबदेसम्” ऎऩ्ऱु। “अदऩ्”, पुत्तियिऩुडैय, कुणङ्गळ् “अदऩ् कुणङ्गळ्”, विरुप्पम्, पगै सुगम्, तुक्कम् ऎऩ्बदु मुदलाऩ अदऩ् कुणङ्गळ् ऎन्द आत्माविऱ्कु संसारित्तऩ्मै इरुक्कुम् पोदु “सारम्” पिरदाऩमाग एऱ्पडुगिऱदो, अवऩ् “अदऩ् कुणसारऩ्” अवऩुडैय तऩ्मै ‘अदऩ् कुण सारत्तऩ्मै’ पुत्तियिऩ् कुणङ्गळिल्लामल् वॆऱुम् आत्मावुक्कु संसारित्तऩ्मै किडैयादल्लवा? कर्त्ता वल्लाद पोक्तावल्लाद संसारियल्लाद ऎप्पॊऴु तुम् मुक्तऩायिरुक्किऱ आत्मावुक्कु पुत्तियागिय उबादि यिऩ् तर्मत्तुडऩ् एऱ्पडुम् अत्यासत्तै निमित्तमा यल्लवा कर्त्ता ऎऩ्ऱदऩ्मै, पोक्ता ऎऩ्ऱ तऩ्मै मुदलियदै लक्षणमाग उडैय संसारित् तऩ्मै एऱ्पडुगिऱदु? आगैयाल् अदऩ् कुणङ्गळै सारमाय् उडैयदाल्, पुत्तियिऩुडैय अळविऩाल् इवऩुक्कु अळवु कुऱिप्पिडप्पडुगिऱदु। अदऩुडैय वॆळिक् किळम्बुदल् मुदलाऩवैगळाल् इवऩुक्कुम् वॆळिक् किळम्बुदल् मुदलाऩ वियबदेसम्, तऩ् निलैयिल् अल्ल।
तथा च — ‘वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते’ (श्वे. उ. ५। ९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह। तच्चैवमेव समञ्जसं स्यात् — यद्यौपचारिकमणुत्वं जीवस्य भवेत् , पारमार्थिकं च आनन्त्यम्। न हि उभयं मुख्यमवकल्पेत ।
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये “रोमत्तिऩ् नुऩियिऩ् नूऱिल् ऒरु पागत्तै नूऱागच्चॆय्दु वरुम् पागम् अन्द जीवऩ् ऎऩऱु अऱिय वेण्डियदु, अवऩे ऎल्लैयऱ्ऱ तऩ्मैक्कुम्, योक्कियऩाय् इरुक्किऱाऩ्” (सुवेदा। V।९) ऎऩ्ऱु जीवऩुक्कु अणुत्तऩ्मैयै सॊल्लिविट्टु, अवऩुक्के मऱुबडियुम् ऎल्लैयऱ्ऱ तऩ्मैयैच् चॊल्लुगिऱदु। अदु जीवऩुडैय अणुत्तऩ्मै उबसारमागच् चॊल्लप् पट्टदु। वास्तवमायुळ्ळदु, ऎल्लैयऱ्ऱ तऩ्मै, ऎऩ्ऱिव्विदमिरुन्दाल्दाऩ् पॊरुत्तमायिरुक्कुम्। इरण्डुम् मुक्यमाग इरुक्क मुडियादु।
न च आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम् , सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात्। तथेतरस्मिन्नप्युन्माने ‘बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः’ (श्वे. उ. ५। ८) इति च बुद्धिगुणसम्बन्धेनैव आराग्रमात्रतां शास्ति, न स्वेनैवात्मना । ‘एषोऽणुरात्मा चेतसा वेदितव्यः’ (मु. उ. ३। १। ९) इत्यत्रापि न जीवस्य अणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् , जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः। तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनम् , उपाध्यभिप्रायं वा द्रष्टव्यम् ।
ज्ञानानन्द-भारती - द्राविडी
ऎल्लैयऱ्ऱ तऩ्मैदाऩ् उबसारमागच् चॊल्लप् पट्टदु ऎऩ्ऱु अऱिय मुडियादु। ऎल्ला उबनिषत्तुक् कळिलुमे पिरह्मत्तिऱ्कु आत्मावायिरुक्कुम् तऩ्मै ऎडुत्तुक्काट्ट विरुम्बप्पट्टिरुप्पदाल्,अप्पडिये वेऱु अळवु सॊल्लुम् पोदुम् “पुत्तियिऩ् कुणत्तिऩाल् आरोबिक्कप्पट्ट आत्माविऩ् कुणत्तिऩाल् आरत्तिऩ् मुऩैयळवागवुम् कीऴ्प्पट्टदागवुम् काणप्पडुगिऱदु” (सुवेदा।VI।८) ऎऩ्ऱुम् पुत्तियिऩुडैय कुणत्तिऩ् सम्बन्दत्तिऩालेये आरत्तिऩ् मुऩैयळवायिरुप् पदैच् चॊल्गिऱदु। तऩ् स्वरूबत्तिऩालेयिल्लै। “इन्द आत्मा अणु मऩसिऩाल् अऱिय वेण्डियवर्” (मुण्डग। III।१-९) ऎऩ्ऱविडत्तिलुम् जीवऩुक्कु अणुवळ वायिरुक्कुम् तऩ्मै सॊल्लप्पडविल्लै। परमात्मावुक् कुत्ताऩ् कण् मुदलियदाल् किरहिक्कमुडियाददागवुम् ञाऩत्तिल् एऱ्पडुम् तॆळिविऩाल् अऱियवेण्डियदा कवुम् सॊल्लप्पडुवदु पिरगिरुदमाय् इरुप्पदाल् जीवऩुक्कु मुक्यमाग अणु परिमाणम् पॊरुन्दाददालुम् आगैयाल् इन्द अणुवॆऩ्ऱु सॊऩ्ऩदु सिरमप्पट्टु अऱियवेण्डियदॆऩ्ऱ अबिप्पिरायमुळ्ळदु, अल्लदु उबादियै अबिप्पिरायमायुळ्ळदु ऎऩ्ऱु अऱिय वेण्डुम्।
तथा ‘प्रज्ञया शरीरं समारुह्य’ (कौ. उ. ३। ६) इत्येवंजातीयकेष्वपि भेदोपदेशेषु — बुद्ध्यैवोपाधिभूतया जीवः शरीरं समारुह्य — इत्येवं योजयितव्यम् , व्यपदेशमात्रं वा — शिलापुत्रकस्य शरीरमित्यादिवत्। न ह्यत्र गुणगुणिविभागोऽपि विद्यत इत्युक्तम्। हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात्। तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति — ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति’ (प्र. उ. ६। ३) । ‘स प्राणमसृजत’ (प्र. उ. ६। ४) इति; उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते। न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् ।
एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः, प्राज्ञवत्। यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः — ‘अणीयान्व्रीहेर्वा यवाद्वा’ (छा. उ. ३। १४। ३) ‘मनोमयः प्राणशरीरः … सर्वगन्धः सर्वरसः’ ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८। ७। १) इत्येवंप्रकारः — तद्वत् ॥ २९ ॥
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये “अऱिविऩाल् सरीरत्तिल् एऱिक्कॊण्डु” (कौषीदगी। III-६) ऎऩ्बदु पोलुळ्ळ पेद विषयमाऩ उबदेसङ्गळिल् “उबादियायिरुक्कुम् पुत्तियिऩालेये जीवऩ् सरीरत्तिल् एऱिक्कॊण्डु” ऎऩ्ऱु इव्विदम् सेर्त्तुक् कॊळ्ळ वेण्डुम्। अल्लदु वॆऱुम् वियबदेसमे, कल्लिल् सॆय्यप्पट्टिरुक्कुम् कुऴन्दैयिऩ् सरीरम् ऎऩ्बदु मुदलियदु पोल इङ्गे कुणम् कुण मुडैयदु ऎऩ्ऱ पिरिवुम् किडैयादु ऎऩ्ऱु सॊल्लप् पट्टुविट्टदु। ह्रुदयत्तै इरुप्पिडमागच् चॊल्वदुम् पुत्तिक्के अदु इरुप्पिडमायिरुप्पदाल्, अप्पडिये वॆळिक्किळम्बुदल् मुदलियवैगळुम् उबादियिऩ् अदीऩमाग एऱ्पडुवदै “ऎदु वॆळिक्किळम्बिऩाल् नाऩ् वॆळिक्किळम्बिऩवऩाग आवेऩ्। ऎदु निलैत्तिरुन्दाल् नाऩ् निलैत्तिरुप्पेऩ्” (पिरच्ऩ।VI।३) “अवर् पिराणऩै स्रुष्टित्तार्” (पिरच्ऩ।VI।४) ऎऩ्बदु काट्टुगिऱदु। वॆळिक्किळम्बुवदु इल्लैयाऩालो पोवदु वरुवदु इरण्डुम् किडैयादु ऎऩ्ऱु तॆरिगिऱदु। तेहत्तिलिरुन्दु वॆळिच् चॆल्लाददऱ्कु पोवदु वरुवदु इरुक्क मुडियादल्लवा?
ज्ञानानन्द-भारती - द्राविडी
इव्विदम् उबादियिऩ् कुणत्तै सारमायु टैयदाल् जीवऩुक्कु अणुत्तऩ्मै मुदलाऩ वियब तेसम्, पिराक्ञऩुक्कुप्पोल। पिराक्ञऩायिरुक्कुम् परमात्मावुक्कु सगुणमाऩ उबासऩैगळिल्, उबादि कुणत्तै सारमायुळ्ळदाल्, “नॆल्लैयुंविड अल्लदु यवत्तैयुंविड वॆगु सिऱियदु” (सान्।III।१४*३), “मऩो मयऩ्, पिराणऩै सरीरमायुडैयवऩ्, ऎल्ला कन्द मुमुळ्ळवऩ्, ऎल्ला रसमुमुळ्ळवऩ्, सत्यमाऩ कामत् तैयुडैयवऩ्, सत्यमाऩ सङ्गल्बत्तै युडै यवऩ्” (सान्। VI।१४-२) ऎऩ्ऱु इन्दप् पिरगारमाग वॆगु सिऱियदायिरुक्कुम् तऩ्मै मुदलियदऱ्कु ऎप्पडि वियब तेसम् इरुक्किऱदो, अदैप्पोल अदु इरुक्कलाम्।
स्यादेतत् — यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सति आत्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति — अत उत्तरं पठति —
ज्ञानानन्द-भारती - द्राविडी
पुत्तियिऩ् कुणत्तै सारमायुडैयदाल् आत्मावुक्कु संसारित्तऩ्मै कल्बिक्कप्पडुमेयाऩाल्, अप्पॊऴुदु वॆव्वेऱायिरुक्किऱ पुत्तिक्कुम्, आत्मावुक्कुम् उळ्ळ सेर्क्कैक्कु मुडिवु अवसियम् एऱ्पडुम् ऎऩ्ऱ कारणत्तिऩाल् पुत्तियिऩ् पिरिवु एऱ्पडुम्बोदु, पिरिक्कप्पट्ट आत्मावुक्कु अऱिय मुडियात् तऩ्मैयाऩदिऩाल् इरुप्पेयिल्लै अल्लदु संसारित्तऩ्मैयिल्लै ऎऩ्ऱु एऱ्पडुम् ऎऩ्ऱु अदऱ्काग पदिल् सॊल्गिऱार्:-
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥
ज्ञानानन्द-भारती - द्राविडी
यावदात्मबावित्वाच्च न तोषस्तत्तर्सऩात् ॥ ३० ॥
नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया। कस्मात् ? यावदात्मभावित्वाद्बुद्धिसंयोगस्य — यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति। यावदेव चायं बुद्ध्युपाधिसम्बन्धः, तावदेवास्य जीवत्वं संसारित्वं च। परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यतिरेकेणास्ति। न हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते — ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३। ७। २३) ‘नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ’ (छा. उ. ३। ८। ११) ‘तत्त्वमसि’ (छा. उ. ६। ८। ७) ‘अहं ब्रह्मास्मि’ (बृ. उ. १। ४। १०) इत्यादिश्रुतिशतेभ्यः ।
ज्ञानानन्द-भारती - द्राविडी
इन्द मुऩ् कुऱिप्पिट्ट तोषमेऱ्पडुमॆऩ्ऱु सन्देहिक्कक्कूडादु। ऎदिऩाल्? “आत्मा इरुक्कुम् वरै पुत्तियिऩ् सेर्क्कैयिरुप्पदाल्” ऎदुवरै इन्द आत्मा संसारियाग इरुक्किऱाऩो, ऎदुवरै नल्ल अऱिविऩाल् इवऩुडैय संसारित्तऩ्मै विलगविल्लैयो, अदु वरै इवऩुक्कु पुत्तियुडऩ् सेर्क्कै विडादु। इन्द पुत्तियागिऱ उबादियिऩ् सम्बन्दम् ऎदुवरैयिरुक्किऱदो, अदुवरैदाऩ् जीवऩुक्कु जीवत्तऩ्मैयुम्, संसारित् तऩ्मैयुम् उण्डु। वास्तवत्तिलो, पुत्तियागिऱ उबादियिऩ् सम्बन्दत्तिऩाल् कल्बिक्कप्पट्टिरुक्कुम् स्वरूबत्तिऱ्कु वेऱाग जीवऩ् ऎऩ्बदु किडैया तल्लवा? नित्य मुक्त स्वरूबऩाय् सर्वक्ञऩायुळ्ळ ईसुवरऩुक्कु वेऱाग इरण्डावदु सेदऩ पदार्त्तम् उबनिषत्तुक्कळिऩ् तात्परियत्तै निर्णयिक्कुम्बोदु अऱियप्पडुवदिल्लैये? “इवरै विड वेऱु पार्प्पवऩ्, केट्पवऩ्, निऩैप्पवऩ्, अऱिबवऩ् किडैयादु” (पिरुहत्। III।७-२३), “इदैत् तविर वेऱु पार्प्पदु, केट्पदु, निऩैप्पदु, अऱिवदु इल्लै” (सान्।VI।८-७), “अदुवाग नी इरुक्किऱाय्” (सान्। VI।१-६), ‘नाऩ् पिरह्ममाग इरुक्किऱेऩ्’ (पिरुहत्। I।४-७) ऎऩ्बदु मुदलाऩ नूऱ्ऱुक्कणक्काऩ सुरुदिगळिलिरुन्दु,
कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति ? तद्दर्शनादित्याह। तथा हि शास्त्रं दर्शयति — ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव’ (बृ. उ. ४। ३। ७) इत्यादि। तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति, प्रदेशान्तरे ‘विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः’ इति विज्ञानमयस्य मनआदिभिः सह पाठात्। बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते — यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते, तद्वत् ।
ज्ञानानन्द-भारती - द्राविडी
पुत्तियिऩ् सेर्क्कै आत्मा इरुक्कुम् वरै इरुक्किऱदॆऩ्ऱु ऎप्पडित् तॆरिगिऱदु? “अव्विदम् काण्बदाल्” ऎऩ्गिऱार्। अप्पडियल्लवा सास्तिरम् काट्टुगिऱदु। “पिराणऩ्गळिल् विज्ञानमयऩाऩ ऎन्द इन्द पुरुषऩ् हिरुदयत्तिल् उळ्ळे ज्योदि स्वरूबऩायिरुक्किऱाऩो, अवऩ् समाऩमाय् इरुन्दु कॊण्डु इरण्डु लोगङ्गळिलुम् अऩुसरित्तु सञ्जरिक्किऱार्, तियाऩम् सॆय्वदु पोल, सलिप्पदु पोल” (पिरुहत्। IV।३-७) ऎऩ्बदु मुदलियऩ। अङ्गे विज्ञानमयऩ् ऎऩ्ऱु पुत्तिमयऩ् ऎऩ्ऱ इदु सॊल्लप्पट्टदाग आगिऱदु। वेऱु इडत्तिल् ‘विज्ञान मयऩ्, मऩोमयऩ्, पिराणमयऩ्, सक्षर्मयऩ्, सुरोत्र मयऩ्’ ऎऩ्ऱु विज्ञानमयत्तिऱ्कु मऩस् मुदलाऩदु कळुडऩ् सेर्त्तुच् चॊल्लियिरुप्पदाल्। पुत्तिमयत्तऩ्मै ऎऩ्बदु अदऩ् कुणत्तै सारमायुळ्ळ तऩ्मै ऎऩ्ऱे अबिप्रायप्पडुगिऱदु। उलगत्तिल् तेवदत्तऩ् स्तिरीमयऩ् ऎऩ्ऱु स्तिरीयिडम् आसै मुदलियदैप् पिरदाऩमा युडैयवऩ् सॊल्लप्पडुगिऱदु पोल,
‘स समानः सन्नुभौ लोकावनुसञ्चरति’ इति च लोकान्तरगमनेऽप्यवियोगं बुद्ध्या दर्शयति — केन समानः ? — तयैव बुद्ध्येति गम्यते, सन्निधानात्। तच्च दर्शयति — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४। ३। ७) इति। एतदुक्तं भवति — नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव, चलन्त्यां बुद्धौ चलतीवेति ।
ज्ञानानन्द-भारती - द्राविडी
“अवऩ् समाऩऩायिरुन्दु कॊण्डु इरण्डु लोगङ्गळिलुम् अऩुसरित्तु सञ्जरिक्किऱाऩ्” ऎऩ्बदुम् वेऱु लोगम् पोगुम्बोदुगूड पुत्तियिडमिरुन्दु पिरियामलिरुप्पदैक् काट्टुगिऱदु। ऎदऩुडऩ् समाऩऩ्? अन्द पुत्तियुडऩेये ऎऩ्ऱु तॆरिगिऱदु, समीबत्तिल् इरुप्पदाल्। अदैये, “तियाऩम् सॆय्वदुबोल्, सलिप्पदुबोल्” ऎऩ्बदु काट्टुगिऱदु। इदु सॊऩ्ऩदाग आगिऱदु, इवऩ् ताऩाग तियाऩम् सॆय्वदिल्लै, सलिप्पदुमिल्लै; पुत्तिदियाऩम् सॆय्युम्बोदु तियाऩम् सॆय्गिऱदु पोल, पुत्ति सलिक्कुम् पोदु सलिक्किऱदु पोल, ऎऩ्ऱु।
अपि च मिथ्याज्ञानपुरःसरोऽयमात्मनो बुद्ध्युपाधिसम्बन्धः। न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधः, तावदयं बुद्ध्युपाधिसम्बन्धो न शाम्यति। दर्शयति च — ‘वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्। तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३। ८) इति ॥ ३० ॥
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, आत्मावुक्कु इन्द पुत्तियागिय उबादियिऩ् सम्बन्दम् मित्यैयाऩ अक्ञाऩत्तै मुऩ्ऩिट्टे एऱ्पडुगिऱदु। मित्यैयाऩ अक्ञाऩत् तिऱ्को सरियाऩ ञाऩत्तैत् तविर वेऱु विदत्तिल् निविरुत्ति किडैयादु। ऎऩ्ऱ इन्द कारणत्तिऩाल् ऎदुवरै पिरह्ममे आत्मा ऎऩ्ऱ अऱिवु एऱ्पड विल्लैयो अदुवरै इन्द पुत्तियागिय उबादियिऩ् सम्बन्दम् विलगादु। “नाऩ् इन्द पॆरियवराऩ आदित्यऩ्बोल् पिरगासमुळ्ळ अक्ञाऩत्तिऱ्कु अप्पा लुळ्ळ पुरुषऩै अऱिन्देऩ्। अवऩै अऱिन्दाल् ताऩ् मरणत्तैत् ताण्डुगिऱाऩ्। मोक्षत्तिऱ्कु वेऱु वऴि किडैयादु” (सुवेदा। III-८) ऎऩ्ऱुम् काट्टुगिऱदु।
ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसम्बन्ध आत्मनोऽभ्युपगन्तुम् , ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६। ८। १) इति वचनात् , कृत्स्नविकारप्रलयाभ्युपगमाच्च। तत्कथं यावदात्मभावित्वं बुद्धिसम्बन्धस्येति, अत्रोच्यते —
ज्ञानानन्द-भारती - द्राविडी
नल्ल तूक्कत्तिलुम् पिरळयत्तिलुम् आत्मावुक्कु पुत्तियिऩ् सम्बन्दम् इरुक्किऱदॆऩ्ऱु ऒप्पुक्कॊळ्ळ मुडियादु। “हे सोम्य, अप्पॊऴुदु सत्तुडऩ् सेर्न्दवऩाग आगिऱाऩ्। तऩ्ऩैये अडैन्दवऩाग आगिऱाऩ्” (सान्। VI।८-१) ऎऩ्ऱ वसऩत्तिऩाल्, ऎल्ला विगारङ्गळुडैय पिरळयत्तै ऒप्पुक्कॊळ्वदिऩालुम्। अप्पडियाऩाल् पुत्तियिऩुडैय सम्बन्दत्तिऱ्कु आत्मावुळ्ळवरै इरुक्कुम् तऩ्मै ऎप्पडि? ऎऩ्ऱु इव्विषयत्तिल् सॊल्लप्पडुगिऱदु।
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥
ज्ञानानन्द-भारती - द्राविडी
पुंस्त्वादिवत्त्वस्य सदोअबिव्यक्तियोगात् ॥ ३१ ॥
यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति। न अविद्यमानान्युत्पद्यन्ते, षण्डादीनामपि तदुत्पत्तिप्रसङ्गात् — एवमयमपि बुद्धिसम्बन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति। एवं हि एतद्युज्यते। न हि आकस्मिकी कस्यचिदुत्पत्तिः सम्भवति, अतिप्रसङ्गात्। दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम् — ‘सति सम्पद्य न विदुः सति सम्पद्यामह इति ।’ (छा. उ. ६। ९। २) ‘त इह व्याघ्रो वा सिँहो वा’ (छा. उ. ६। ९। ३) इत्यादिना। तस्मात्सिद्धमेतत् — यावदात्मभावी बुद्ध्याद्युपाधिसम्बन्ध इति ॥ ३१ ॥
ज्ञानानन्द-भारती - द्राविडी
उलगत्तिल् पीजरूबमाग इरुन्दु कॊण्डे यिरुक्किऱ पुरुषत्तऩ्मै मुदलियवै, पाल्यम् मुदलाऩ पर्वङ्गळिल् काणप्पडामल् इल्लादवै पोलवे ऎण्णप्पडुबवैगळ्, यौवऩम् मुदलाऩ पर्वङ्गळिल् ऎप्पडि वॆळिवरुगिऩ्ऱऩवो, इल्लामलिरुप्पवै उण्डागादु नबुंसगऩ् मुदलाऩवर्गळुक्कुम् अदु उण्डागुम्बडि एऱ्पडुमाऩदिऩाल्-इव्विदम् इन्द पुत्तियिऩ् सम्बन्दमुम्, नल्ल तूक्कत्तिलुम्, पिरळयत् तिलुम् सक्ति स्वरूबमाय् इरुप्पदुदाऩ् मऱुबडियुम् विऴिप्पु स्रुष्टि समयङ्गळिल् वॆळिप्पडुगिऱदु। इव्विदम् ताऩ् इदु पॊरुत्तमागुम्; कारणमऩ्ऩियिल् ऎदऱ्कुम् उत्पत्ति एऱ्पडादल्लवा, अदिबिरसङ्गम् एऱ्पडुमाऩ तिऩाल्? नल्ल तूक्कत्तिलिरुन्दु ऎऴुन्दिरुप्पदु अवित्यास्वरूबमायुळ्ळ पीजत्तिऩ् इरुप्पिऩाल् सॆय्यप्पट्टदु ऎऩ्ऱुम् काट्टुगिऱदु। “सत्तिल् सेर्न्दु विट्टु सत्तिल् सेरुगिऱोम् ऎऩ्ऱु अऱिगिऱार्गळिल्लै” “अवर्गळ् इङ्गे वेङ्गैयो, सिम्हमो”(सान्।VI।९-३) ऎऩ्बदु मुदलियदाल्।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् पुत्ति मुदलाऩ उबादिगळिऩ् सम्बन्दम् आत्मा इरुक्कुम् वरै इरुक्कुम् ऎऩ्ऱइदु सित्तमागिऱदु।
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
ज्ञानानन्द-भारती - द्राविडी
नित्योबलप्त्यऩुबलप्तिप्रसङ्गोअऩ्यदरनियमोवाअऩ्यदा ॥ ३२ ॥
तच्चात्मन उपाधिभूतम् — अन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति च अनेकधा तत्र तत्राभिलप्यते। क्वचिच्च वृत्तिविभागेन — संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति। तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् , अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् — आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां सन्निधाने सति नित्यमेवोपलब्धिः प्रसज्येत। अथ सत्यपि हेतुसमवधाने फलाभावः, ततो नित्यमेवानुपलब्धिः प्रसज्येत। न चैवं दृश्यते ।
ज्ञानानन्द-भारती - द्राविडी
आत्मावुक्कु उबादियायिरुक्किऱ अन्द उळ् करुवि मऩस्, पुत्ति, विज्ञानम्, सित्तम् ऎऩ्ऱु पलविदमाग अङ्गङ्गु सॊल्लप्पडुगिऱदु। सिलविडङ्गळिल् सॆय्गै यिलुळ्ळ वित्तियासत्तिऩाल्, सन्देहम् मुदलाऩ सॆयलुळ्ळदु मऩस् ऎऩ्ऱुम्, निच्चयम् मुदलाऩ सॆयलुळ्ळदु पुत्ति ऎऩ्ऱुम्, सॊल्लप्पडुगिऱदु। आगैयाल् इव्विदमिरुक्किऱ उळ् करुवि अवसियम् इरुक्किऱदॆऩ्ऱु ऒप्पुक्कॊळ्ळ वेण्डुम्। वेऱु विदमाऩालो, अदै ऒप्पुक्कॊळ्ळाद विषयत्तिलो, ऎप्पॊऴुदुम् अऱिवु अल्लदु अऱियामै एऱ्पडुम् पडियिरुक्कुम् अऱिवुक्कु सादऩङ्गळागिय आत्मा इन्दिरियम् विषयम् इवैगळिऩ् सन्निदि इरुक्कुम्बोदु ऎप्पॊऴुदुमे अऱिवु इरुक्कुम्बडि एऱ्पडुम्। अल्लदु कारणङ्गळ् सेर्न्दिरुन्दुम् पलऩ् इल्लैयाऩाल्, अप्पॊऴुदु ऎप्पॊऴुदुमे अऱिविल्लैयॆऩ्ऱु इरुक्कुम्बडि एऱ्पडुम्। इव्विदमो काणुवदिल्लै।
अथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्युपगन्तव्यः। न च आत्मनः शक्तिप्रतिबन्धः सम्भवति, अविक्रियत्वात्। नापि इन्द्रियस्य। न हि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्तिः प्रतिबध्येत। तस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः, तन्मनः। तथा च श्रुतिः — ‘अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्’ (बृ. उ. १। ५। ३) इति, ‘मनसा ह्येव पश्यति मनसा शृणोति’ (बृ. उ. १। ५। ३) इति च; कामादयश्चास्य वृत्तय इति दर्शयति — ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १। ५। ३) इति। तस्माद्युक्तमेतत् — तद्गुणसारत्वात्तद्व्यपदेश इति ॥ ३२ ॥
ज्ञानानन्द-भारती - द्राविडी
अल्लदु, आत्मावुक्को, इन्दिरियत्तिऱ्को इरण्डिल् ऒऩ्ऱुक्कु उळ्ळ सक्तिक्कु पिरदिबन्दम् इरुप्पदाग ऒप्पुक्कॊळ्ळ वेण्डुम्। आत्मावुक्को सक्ति पिरदिबन्दम् सम्बविक्कादु, विगारमऱ्ऱिरुप्पदाल् ; इन्दिरियत्तिऱ्कुम् सम्बविक्कादु, मुऩ् पिऩ् क्षणङ्गळिल् तडुक्कप्पडामल् इरुक्कुम् सक्तियैयुडैयदायिरुप् पदऱ्कु कारणमिल्लामल् सक्ति तडैबडादल्लवा? आगैयाल्, ऎदऩुडैय कवऩम् कवऩमिल्लामै इवैगळाल् अऱिवुम्, अऱिविल्लामैयुम् एऱ्पडुगिऱदो, अदु मऩस्। अप्पडिये सुरुदियुम् “नाऩ् वेऱु विषयत्तिल् मऩस् उळ्ळवऩाग इरुन्देऩ्। पार्गगविल्लै वेऱु विषयत्तिल् मऩस् उळ्ळवऩाग इरुन्देऩ्। केट्कविल्लै” (पिरुहत्। I।५-३) ऎऩ्ऱु “मऩसिऩाल्दाऩे पार्क्किऱाऩ्, मऩसिऩाल् केट्कि ऱाऩ्” (पिरुहत्। १।५-३) ऎऩ्ऱुम्।
ज्ञानानन्द-भारती - द्राविडी
कामम् मुदलियवैगळुम् इदऩ् सॆय्गैगळ् ऎऩ्ऱु काट्टुगिऱदु, “कामम्, सङ्गल्बम्, सन्देहम्, सिरत्तै, सिरत्तैयिल्लामै, तैरियम्, तैर्यमिल्लामै, वॆट्कम्, पुत्ति, पयम् ऎऩ्ऱु इदु ऎल्लाम् मऩस्ताऩ्” (प्रुहत् १-५-३) ऎऩ्ऱु।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् “अदऩ् कुणत्तै सारमायुळ्ळदाल् अन्द वियबदेसम्” ऎऩ्ऱ इदु युक्तमे।