ज्ञोऽत एव ॥ १८ ॥
ज्ञानानन्द-भारती - द्राविडी
ञोअद एव ॥ १८ ॥
अचिद्रूपोऽथ चिद्रूपो जीवोऽचिद्रूप इष्यते ॥
चिदभावात्सुषुप्त्यादौ जाग्रच्चिन्मनसा कृता ॥ २३ ॥
ब्रह्मत्वादेव चिद्रूपश्चित्सुषुप्तौ न लुप्यते ॥
द्वैतादृष्टिद्वैतलोपान्नहि द्रष्टुरिति श्रुतेः ॥ २४ ॥
ज्ञानानन्द-भारती - द्राविडी
–वैयासिक-न्यायमाला
ज्ञानानन्द-भारती - द्राविडी
जीवऩ् सैदऩ्य स्वरूबऩिल्लैया? अल्लदु सैदऩ्यस्वरूबऩा? नल्ल तूक्कम् मुदलाऩदिल्, अऱिवु इल्लाददिऩाल् (जीवऩ्) सैदऩ्य स्वरूबऩ् अल्लवॆऩ्ऱु करुदप्पडुगिऱदु। विऴिप्पु समयत्तिलुळ्ळ अऱिवु मऩसिऩाल् एऱ्पडुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
पिरह्ममागविरुप्पदिऩालेये (जीवऩ्) सैदऩ्य स्वरूबऩ्; नल्ल तूक्कत्तिल् सैदऩ्यम् पोय्विडविल्लै; (अप्पॊऴुदु) इरण्डावदु पार्क्कप्पडामल् इरुप्पदु इरण्डावदु इल्लाददिऩाल्, “पार्प्पवऩुक्कु (इल्लामै) किडैयादल्लवा” ऎऩ्ऱु सुरुदि सॊल्वदाल्।
स किं काणभुजानामिवागन्तुकचैतन्यः, स्वतोऽचेतनः, आहोस्वित्साङ्ख्यानामिव नित्यचैतन्यस्वरूप एव, इति वादिविप्रतिपत्तेः संशयः। किं तावत्प्राप्तम् ? आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजम् , अग्निघटसंयोगजरोहितादिगुणवदिति प्राप्तम्। नित्यचैतन्यत्वे हि सुप्तमूर्छितग्रहाविष्टानामपि चैतन्यं स्यात्। ते पृष्टाः सन्तः ‘न किञ्चिद्वयमचेतयामहि’ इति जल्पन्ति; स्वस्थाश्च चेतयमाना दृश्यन्ते। अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति ॥
ज्ञानानन्द-भारती - द्राविडी
(जीवऩै सिलर् सित्रूबऩागवुम् सिलर् असित्रूब ऩागवुम् कूऱुवदाल् ऎदु न्यायम् ऎऩ्बदैत् तीर्माऩिप् पदऱ्काग विसारम् सॆय्गिऱार्। सुषुप्ति, मूर्च्चै मुदलाऩ निलैगळिल् अऱिवु इल्लाददालुम् जागरावस् तैयिल् मऩदिऩ् सम्बन्दत्ताल् ञाऩम् एऱ्पडुवदालुम् आत्माविल् ऎप्पॊऴुदुम् ञाऩम् इरुप्पदिल्लै। सिल समयम् वन्दुबोय्विडुगिऱदु ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
पिरह्ममे माऱामल् उबादि सम्बन्दत्ताल् जीवऩागत् तोऩ्ऱुवदाग सुरुदिगळ् कूऱुवदाल् पिरह्मम् सैदऩ्य स्वरूबमाऩदाल् जीवऩुम् स्वबावत्तिलेये सैदऩ्य स्वरूबऩ्दाऩ्। सु षुप्ति मुदलाऩ निलै कळिल् सित्पिरगासमिरुन्दालुम् पिरगासप्पडुत्त वेण्डिय विषयङ्गळिल्लाददाल् तॆरियविल्लै सैदऩ्य पिरगासत्तिऱ्कु ऒरुक्कालुम् नासम् किडैयादु। जागरत् तिलुम् विषय वडिवमाऩ मऩोविरुत्तियिल् अबिव्यक् तमाऩ सैदऩ्य पिरगासत्ताल्दाऩ् विषयम् तॆरिगिऱदु। आदलाल् जीवात्मा सित्रूबऩ् ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
अवऩ् (जीवऩ्) कणाद मदस्तर्गळुक्कुप्पोल, तऩ् निलैयिल् असेदऩऩ्, पुदिदाय् वरुम् सैदऩ्यत्तै उडैयवऩ् ऎऩ्बदा अल्लदु साङ्गियर्गळुक्कुप्पोल, ऎप्पॊऴुदुम् सैदऩ्यत्तै स्वरूबमाग उडैयवऩ् ऎऩ्बदा, ऎऩ्ऱु वादिगळुक्कुळ् अबिप्रायबेदम् इरुप्प ताल् सन्देहम्।
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम्: ऎदु न्यायम्? आत्माविऩुडैय सैदऩ्यम् पुदिदाय् वरुवदु, आत्मावुक्कुम्, मऩसिऱ्कुम्, एऱ्पडुम् सेर्क्कैयिऩाल् उण्डागिऱदु। अक्ऩिक्कुम्, कुडत्तिऱ्कुम् एऱ्पडुम् सेर्क्कैयिऩाल् उण्डागिऱ सिवप्पु निऱम् मुदलाऩ कुणङ्गळैप्पोल, ऎऩ्ऱु एऱ्पडुगिऱदु। ऎप्पॊऴुदुम् सैदऩ्यमुळ्ळदाऩाल्, तूङ्गुगिऱवऩ् मूर्च्चैयिलिरुप्पवऩ्। किरहावेस मडैन्दवऩ् इवर्गळुक्कुम् सैदऩ्यम् इरुक्कवेण्डु मल्लवा? केट्कप्पट्टालुम् अवर्गळ् “नाङ्गळ् ऎदैयुम् अऱियविल्लै" ऎऩ्ऱु सॊल्गिऱार्गळ्; तऩ् निलैयिलि रुप्पवर्गळो अऱिबवर्गळाग काणप्पडुगिऱार्गळ्। आगै याल्, सिल वेळैगळिल् मात्तिरम् सैदऩ्यमुळ्ळदाल्, आत्मा पुदिदाग वरुगिऱ सैदऩ्यत्तैयुडैयदु ऎऩ्ऱु।
एवं प्राप्ते, अभिधीयते — ज्ञः नित्यचैतन्योऽयमात्मा — अत एव — यस्मादेव नोत्पद्यते, परमेव ब्रह्म अविकृतमुपाधिसम्पर्काज्जीवभावेनावतिष्ठते। परस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम् — ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३। ९। २८) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २। १। १) ‘अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४। ५। १३) इत्यादिषु श्रुतिषु। तदेव चेत्परं ब्रह्म जीवः, तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: इव्विदम् एऱ्पडुम्बोदु सॊल्लप् पडुगिऱदु। इन्द आत्मा ञाऩस्वरूबऩ्, ऎप्पॊऴुदुम् सैदऩ्यमुळ्ळवऩ्, “इदिऩालेये” ऎदिऩालेये उण्डावदिल्लैयो, विगारमडैयाद परबिरह्ममे उबादियिऩ् सेर्क्कैयिऩाल् जीवत्तऩ्मैयुडऩ् इरुक्किऱदो। (अदऩाल्)
ज्ञानानन्द-भारती - द्राविडी
परबिरह्मत्तिऱ्कु सैदऩ्य स्वरूबमायिरुक्कुम् तऩ्मै “विज्ञानम् आऩन्दम् पिरह्मम्" (पिरुहत्। III।९-२८), ‘सत्यम्, ञाऩम् ऎल्लैयऱ्ऱदु पिरह्मम्’ (तैत्तिरीय। II। १-१) उळ् अऱ्ऱदु, वॆळियऱ्ऱदु, पूरावा युळ्ळदु, पिरक्ञाऩक्कट्टिये (पिरुहत्। IV।५-१३) ऎऩ्बदु मुदलाऩ सुरुदिगळिल् सॊल्लप्पट्टिरुक्किऱदु पिरसित्तम्। अन्द परबिरह्ममे जीवऩ् ऎऩ्ऱाल्, अदिलिरुन्दु ़ जीवऩुक्कुम्गूड ऎप्पॊऴुदुम् सैदऩ्य स्वरूबमायिरुक्कुम् तऩ्मै, अक्ऩिक्कु उष्णत् तऩ्मै, पिरगासम्बोल, ऎऩ्ऱु अऱियप्पडुगिऱदु।
विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति — ‘असुप्तः सुप्तानभिचाकशीति’ (बृ. उ. ४। ३। ११) ‘अत्रायं पुरुषः स्वयंज्योतिर्भवति’ (बृ. उ. ४। ३। ९) इति, ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४। ३। ३०) इत्येवंरूपाः । ‘अथ यो वेदेदं जिघ्राणीति स आत्मा’ (छा. उ. ८। १२। ४) इति च — सर्वैः करणद्वारैः ‘इदं वेद, इदं वेद’ इति विज्ञानेनानुसन्धानात् तद्रूपत्वसिद्धिः। नित्यचैतन्यस्वरूपत्वे घ्राणाद्यानर्थक्यमिति चेत् , न, गन्धादिविषयविशेषपरिच्छेदार्थत्वात्। तथा हि दर्शयति — ‘गन्धाय घ्राणम्’ इत्यादि ।
ज्ञानानन्द-भारती - द्राविडी
विज्ञानमयऩै (जीवऩै) सॊल्लुम् पिरगरणङ्गळिल् कूड “तूङ्गामलिरुन्दुगॊण्डु तूङ्गु पवैगळै पिरगासप्पडुत्तुगिऱाऩ्” (पिरुहत्।IV३-११), “इङ्गु इन्द पुरुषऩ् स्वयम् ज्योदिसाग इरुक्कि : ऱाऩ्” (पिरुहत्।IV।३-९) ऎऩ्ऱुम्, “अऱिगिऱवऩुडैय अऱिविऱ्कु अऴिवु किडैयादल्लवा” (पिरुहत्।IV।३-३०) ऎऩ्बदु पोल सुरुदिगळ् इरुक्किऩ्ऱऩ। “इऩि, ऎवऩ् इदै मुगरुगिऱेऩ् ऎऩ्ऱु अऱिगिऱाऩो अवऩ् आत्मा” (सान्।VIII।१२-४) ऎऩ्ऱु ऎल्ला इन्दिरियङ्गळ् वऴियाग इदै अऱिगिऱेऩ् इदै अऱिगिऱेऩ् ऎऩ्ऱु अऱिवुडऩ् कूड अऩुसन्दाऩम् वरुवदाल् ञाऩ स्वरूबमागवेयि रुक्कुम् तऩ्मै सित्तिक्किऱदु।
ज्ञानानन्द-भारती - द्राविडी
सैदऩ्यम् ऎप्पॊऴुदुमुळ्ळ स्वरूबमायिरुन्दाल् मूक्कु मुदलिय इन्दिरियङ्गळुक्कु पिरयोजऩमिल् लैये? ऎऩ्ऱाल् अप्पडियल्ल। कन्दम् मुदलिय विसेष विषयङ्गळिऩ् विरुत्ति एऱ्पडुवदै पिरयोजऩमायु टैयदाल् अप्पडिये “कन्दत्तिऱ्काग (कन्द विषयमाऩ मऩोविरुत्तिक्काग) मूक्कु” ऎऩ्बदु मुदलियदु काट्टुगिऱदु।
यत्तु सुप्तादयो न चेतयन्त इति, तस्य श्रुत्यैव परिहारोऽभिहितः , सुषुप्तं प्रकृत्य — ‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति; न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ. उ. ४। ३। २३) इत्यादिना। एतदुक्तं भवति — विषयाभावादियमचेतयमानता, न चैतन्याभावादिति — यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्याभावादनभिव्यक्तिः, न स्वरूपाभावात् — तद्वत्। वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति। तस्मान्नित्यचैतन्यस्वरूप एव आत्मेति निश्चिनुमः ॥ १८ ॥
ज्ञानानन्द-भारती - द्राविडी
तूङ्गुगिऱवऩ् मुदलाऩवर्गळ् अऱियविल्लैये ऎऩ्ऱु ऎदुवो अदऱ्कु परिहारम् सुरुदियिऩालेये सॊल्लप्पट्टिरुक्किऱदु। नऩ्ऱाग तूङ्गुगिऱवऩैप् पऱ्ऱि ‘अदै पार्क्कविल्लै ऎऩ्बदु ऎदुवो, अदै पार्त्तुक् कॊण्डु ताऩे पार्क्कविल्लै। पार्क्किऱवऩुडैय पार्वैक्कु अऴिवु किडैयादल्लवा? नासमडैयुम् तऩ्मै इल्लाददिऩाल् अवऩैविड वेऱाग पिरिन्ददाग ऎदै पार्प्पाऩो अव्विद अन्द इरण्डावदु वस्तु इल्लैये” (पिरुहत्। V। ३-२३) ऎऩ्बदु मुदलियदाल्।
ज्ञानानन्द-भारती - द्राविडी
इदु सॊऩ्ऩदाग आगिऱदु; इन्द अऱियाम लिरुक्कुम् तऩ्मै विषयमिल्लाददिऩाल्, सैदऩ्य मिल्लाददिऩाल् अल्ल, ऎऩ्ऱु। आगासत्तै आसिरयित् तिरुक्किऱ पिरगासत्तिऱ्कु पिरगासिक्कप्पडुवदु इल्लाद तिऩाल् तॆरियामलिरुक्कुम् तऩ्मै, स्वरूबम् इल्लाद तिऩाल् अल्ल, ऎऩ्बदु ऎप्पडियो अदैप्पोल, वैसेषिगर् मुदलाऩवर्गळिऩ् तर्क्कमो सुरुदिक्कु विरोदमायिरुप्पदाल् आबासमाग (वास्तवमिल्ला तदाग) आगि विडुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् आत्मा ऎप्पॊऴुदुमुळ्ळ सैदऩ्यत्तै स्वरूबमायुडैयवर् ऎऩ्ऱु निच्चयिक्किऱोम्।