नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
ज्ञानानन्द-भारती - द्राविडी
नात्माअच्रुदेर्नित्यत्वाच्च ताप्य: ॥ १७ ॥
कल्पादौ ब्रह्मणो जीवो वियद्वज्जायते न वा ॥
सृष्टेः प्रागद्वयत्वोक्तेर्जायते विस्फुलिङ्गवत् ॥ २१ ॥
ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम् ॥
औपाधिकं जीवजन्म नित्यत्वं वस्तुतः श्रुतम् ॥ २२ ॥
ज्ञानानन्द-भारती - द्राविडी
–वैयासिक-न्यायमाला
ज्ञानानन्द-भारती - द्राविडी
कल्बत्तिऩ् आरम्बत्तिल् पिरह्मत्तिऩिडमिरुन्दु आगासम् पोल, जीवऩ् उण्डागिऱाऩा, इल्लैया? स्रुष् टिक्कु मुऩ्ऩाल् (पिरह्मत्तिऱ्कु) इरण्डावदऱ्ऱदऩ्मै सॊल्लियिरुप्पदाल्, (जीवऩ्) उण्डागिऱाऩ्, तीप्पॊऱिबोल।
ज्ञानानन्द-भारती - द्राविडी
पिरह्मम् इरण्डावदऱ्ऱदु ताऩ्। (आऩाल्) स्रुष्टि क्कप्पट्टिरुक्कुम् पुत्तियिल् जीवत्तऩ्मैयुडऩ् ताऩे पुगुन्दुगॊळ्गिऱदु। (आगैयाल्) जीवऩुक्कु उत्पत्ति ऎऩ्बदु उबादियैक् कॊण्डुम्, नित्यत् तऩ्मै वास्तव मागवुम् सॊल्लप्पडुगिऱदु।
अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसम्बन्धी। स किं व्योमादिवदुत्पद्यते ब्रह्मणः, आहोस्विद्ब्रह्मवदेव नोत्पद्यते, इति श्रुतिविप्रतिपत्तेर्विशयः। कासुचिच्छ्रुतिषु अग्निविस्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते; कासुचित्तु अविकृतस्यैव परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते, न च उत्पत्तिराम्नायत इति ।
ज्ञानानन्द-भारती - द्राविडी
(सिरुष्टियिऩ् आदियिल् आगासम् मुदलियवैगळ् उण्डावदुबोल् जीवऩुम् उण्डागिऱाऩा अल्लदु नित्यऩा ऎऩ्ऱु सन्देहम्। सिल सुरुदिगळिल् जीवऩुक्कु उत्पत्ति सॊल्लियिरुप्पदालुम्, सिल इडत्तिल् उत्पत्ति सॊल्लामल् पिरह्ममे जीवऩाग आऩदाग सॊल्लियि रुप्पदालुम् सन्देहम् एऱ्पडुगिऱदु। सिरुष्टिक्कु मुऩ्ऩाल् पिरह्मम् ऒऩ्ऱे इरुन्ददु। वेऱॊऩ्ऱु मिल्लै ऎऩ्ऱु सॊल्लियिरुप्पदालुम्, पिरह्मम् ऒऩ्ऱै अऱिन्दाल् ऎल्लाम् अऱिन्ददाग आगुम् ऎऩ्ऱु सॊल्लियिरुप्पदालुम् जीवऩुम् पिरह्मत्तिलिरुन्दु उण्डाऩदु नित्यऩिल्लै पॆरिय नॆरुप्पिलिरुन्दु सिऱिय नॆरुप्पु उण्डावदुबोल् पिरह्मत्तिलिरुन्दु जीवऩ् उण्डागिऱाऩ् ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
पिरह्ममे ऒरुविद माऱुदलुमिल्लामल् पुत्तियिल् पिरवेसित्तु जीवऩाग आऩदाग सॊल्लियिरुप्पदाल् सिरुष्टिक्कु मुऩ्ऩाल् पिरह्मम् ऒऩ्ऱे इरुन्ददु ऎऩ्बदऱ्कुम् पिरदिक्ञैक्कुम् विरोदमिल्लै। जीवऩ् पिरह्मत्तैक् काट्टिलुम् वेऱल्ल। आगैयाल् जीवऩ् नित्यऩ्। जीवऩुक्कु उत्पत्ति नासङ्गळ् किडैयादु ऎऩ्ऱुम् सुरुदि कूऱुगिऱदु। उबादिगळिऩ् उत्पत्ति नासङ्गळैक् कॊण्डु सिल सुरुदिगळ् जीवऩुक्कु उत्पत्ति नासङ्गळैक् कूऱुगिऩ्ऱऩ। आगैयाल् जीव स्वरूबम् नित्यम्)।
ज्ञानानन्द-भारती - द्राविडी
सरीरम् इन्दिरियङ्गळ् सेर्न्द कूट्टिऱ्कु अत्यक्षऩाय् (ताऩ् सॆय्युम्) कर्माक्कळिऩ् पलऩुडऩ् सम्बन्दप्पडुबवऩाय् जीवऩ् ऎऩ्ऱ पॆयरुळ्ळ आत्मा इरुक्किऱदु। अवऩ्, आगासम् मुदलियदैप् पोल पिरह्मत्तिलिरुन्दु उण्डागिऱाऩा? अल्लदु पिरह्मत्तैप्पोलवे उण्डावदिल्लैया? ऎऩ्ऱु सुरुदिग ळुक्कुळ् वित्तियासम् इरुप्पदाल् सन्देहम्। सिल सुरुदिगळिल्, नॆरुप्पुप्पॊऱि मुदलाऩ तिरुष्टान् दङ्गळिऩाल्, परबिरह्मत्तिलिरुन्दु जीवात्मावुक्कु उत्पत्ति सॊल्लप्पडुगिऱदु; सिलवैगळिलो, विगारम् अडैयाद परबिरह्मत्तिऱ्के कार्यत्तिल् पुगुवदाल् जीवत्तऩ्मै अऱियप्पडुगिऱदु। उत्पत्तियुम् सॊल्लप् पडविल्लै ऎऩ्ऱु।
तत्र प्राप्तं तावत् — उत्पद्यते जीव इति। कुतः ? प्रतिज्ञानुपरोधादेव। ‘एकस्मिन्विदिते सर्वमिदं विदितम्’ इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत। न च अविकृतः परमात्मैव जीव इति शक्यते विज्ञातुम् , लक्षणभेदात् — अपहतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवः। विभागाच्चास्य विकारत्वसिद्धिः — यावान् हि आकाशादिः प्रविभक्तः, स सर्वो विकारः। तस्य च आकाशादेरुत्पत्तिः समधिगता; जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक् प्रतिशरीरं प्रविभक्त इति, तस्यापि प्रपञ्चोत्पत्त्यवसरे उत्पत्तिर्भवितुमर्हति ।
ज्ञानानन्द-भारती - द्राविडी
पूर्बवक्षम्: अप्पडियिरुक्कैयिल्, जीवऩ् उण्डागिऱाऩ् ऎऩ्ऱु एऱ्पडुगिऱदु ऎदिऩाल्? पिरदिक्ञै ऒत्तुप् पोवदऱ्कागवे, “ऒऩ्ऱु अऱियप्पट्टाल् इदु ऎल्लाम् अऱियप्पट्टदागुम्” ऎऩ्ऱ इन्द पिरदिक्ञै ऎल्ला वस्तु समूहत्तिऱ्कुम् पिरह्मत्तिलिरुन्दु - उण्डागुम् तऩ्मै इरुन्ददेयाऩाल्, पादिक्कप्पडादु ; जीवऩ् वेऱु तत्वमायिरुन्दालो, इन्द पिरदिक्ञै पादिक्कप्पडुम्।
ज्ञानानन्द-भारती - द्राविडी
विगारमडैयाद परमात्मावे जीवऩ् ऎऩ्ऱु अऱिन्दु कॊळ्ळ मुडियादु, लक्षणत्तिल् पेदमिरुप् पदाल् पाबमऱ्ऱ तऩ्मै मुदलिय तर्मङ्गळै युडैयदु अल्लवा परमात्मा; अदऱ्कु नेर्माऱायिरुप्पदु अल्लवा? जीवऩ्।
ज्ञानानन्द-भारती - द्राविडी
पिरिवु इरुप्पदालुम् इवऩुक्कु विगारत्तऩ्मै (उण्डागिऱ तऩ्मै) सित्तिक्किऱदु। आगासम् मुदलाऩदु ऎदॆल्लाम् पिरिवुळ्ळदायिरुक्किऱदो अदु ऎल्लाम् विगारम् अन्द आगासम् मुदलाऩदिऱ्को उत्पत्ति अऱियप्पडुगिऱदु, जीवात्मावुम् पुण्णिय पाब कर्माक् कळैयुडैयवऩ्, सुग तुक्कङ्गळुळ्ळवऩ्, ऒव्वॊरु सरीरत्तिलुम् पिरिन्दु इरुप्पवऩ् ऎऩ्बदिऩाल् अवऩुक्कुम् पिरबञ्जत्तिऩ् उत्पत्ति समयत्तिल् उत्पत्ति इरुक्कवेण्डियदु न्यायम्।
अपि च ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः’ (बृ. उ. २। १। २०) इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति भोक्तॄणामात्मनां पृथक्सृष्टिं शास्ति । ‘यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’ (मु. उ. २। १। १) इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते, सरूपवचनात् — जीवात्मानो हि परमात्मना सरूपा भवन्ति, चैतन्ययोगात्;
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, “अक्ऩियिलिरुन्दु सिऱिय पॊऱिगळ् ऎव्विदम्) वॆळिक्किळम्बुगिऩ्ऱऩवो, अप्पडिये इन्द आत्माविलिरुन्दु ऎल्ला पिराणऩ्गळुम्” (पिरुहत्। II। १- २०) ऎऩ्ऱु पिराणऩ् मुदलिय पोक्यक् कूट्टत्तिऩ् स्रुष्टियै सॊल्लिविट्टु, “इन्द ऎल्ला आत्माक् कळुम् वॆळिक्किळम्बुगिऩ्ऱऩ” ऎऩ्ऱु पोक्ताक्कळागिय आत्माक्कळुक्कुम् तऩियाग स्रुष्टियै सॊल्लुगिऱदु। ‘नऩ्गु ज्वलिक्किऱ अक्ऩियिलिरुन्दु आयिरक्कणक्काग अदे रूबमुळ्ळदाग पॊऱिगळ् ऎव्विदम् एऱ्पडुगिऩ्ऱ ऩवो, अप्पडिये हेसोम्य अक्षरत्तिलिरुन्दु पलविदमाऩ वस्तुक्कळ् उण्डागिऩ्ऱऩ अदिलेये लयिक्किऩ्ऱऩ’ (मुण्डग। II।१-१) ऎऩ्ऱुम् जीवात्माक्क ळुक्कु उत्पत्तियुम् लयमुम् सॊल्लप्पडुगिऩ्ऱऩ। ‘अदे रूबम्’ ऎऩ्ऱु सॊल्वदाल् सैदऩ्य सम्बन्दमिरुप्पदाल् परमात्मावुडऩ् जीवात्माक्कळ्दाऩ् अदे रूबत्तुडऩिरुप्पवर्गळ्।
न च क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति, श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात्। प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या — ‘तदात्मानँ स्वयमकुरुत’ (तै. उ. २। ७। १) इत्यादिवत्। तस्मादुत्पद्यते जीव इति ॥
ज्ञानानन्द-भारती - द्राविडी
ओरिडत्तिल् सॊल्लामलिरुप्पदु वेऱु इडत्तिल् सॊल्लिरुप्पदैत् तडुक्क योक्कियदैयऱ्ऱदु। वेऱु सुरुदियिलिरुन्दालुम् विरोदमल्लाद अदिगमाऩ विषयमुम् ऎल्लाविडङ्गळिलुम् सेर्त्तुक्कॊळ्ळ वेण्डियदाल् इव्विदमिरुप्पदाल् पिरवेसिक्किऱदु ऎऩ्ऱ सुरुदियुम्गूड विगारत्तऩ्मैयै अडैवदागवे वियाक्याऩम् सॆय्यप्पडवेण्डुम्” “अदु तऩ्ऩैत् ता ऩागवे सॆय्दुगॊण्डदु” ऎऩ्बदु मुदलियदैप् पोल।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् जीवऩ् उत्पत्तियागिऱाऩ् ऎऩ्ऱु।
एवं प्राप्ते, ब्रूमः — नात्मा जीव उत्पद्यत इति। कस्मात् ? अश्रुतेः; न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषु। ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयतीत्युक्तम्; सत्यमुक्तम्; उत्पत्तिरेव त्वस्य न सम्भवतीति वदामः। कस्मात् ? नित्यत्वाच्च ताभ्यः — चशब्दादजत्वादिभ्यश्च — नित्यत्वं ह्यस्य श्रुतिभ्योऽवगम्यते, तथा अजत्वम् अविकारित्वम् अविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति। न चैवंरूपस्योत्पत्तिरुपपद्यते ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: इव्विदम् एऱ्पडुम्बोदु सॊल्गि ऱोम्; जीवऩागिय आत्मा उण्डावदिल्लैयॆऩ्ऱु एऩ्? “सिरवणमिल्लाददिऩाल्" उत्पत्ति पिरगरणत्तिल् अनेग इडङ्गळिल् इवऩुक्कुच् चिरवणम् इल्लै।
ज्ञानानन्द-भारती - द्राविडी
ओरिडत्तिल् सॊल्लप्पडाददु वेऱिडत्तिल् सॊल्लि यिरुप्पदैत् तडुक्कादु ऎऩ्ऱु सॊल्लप्पट्टदे यॆऩ्ऱाल् सॊऩ्ऩदु वास्तवम्। आऩाल् इवऩुक्कु उत्पत्तिये सम्बविक्कादु ऎऩ्ऱु सॊल्गिऱोम्। ऎदिऩाल्? “अवैगळिलिरुन्दु नित्यमायिरुप्पदालुम्” “उम्” ऎऩ्ऱ सप्तत्तिऩाल् पिऱप्पऱ्ऱदु ऎऩ्बदु मुदलियदिलिरुन्दुम् सुरुदिगळिलिरुन्दु इवऩुडैय नित्यत्तऩ्मै अल्लवा अऱियप्पडुगिऱदु; अप्पडिये पिऱप्पऱ्ऱदऩ्मै, विगारमडैयाद तऩ्मै, विगारमडैयाद पिरह्मत्तिऱ्के जीवस्वरूबमागवुम् पिरह्मस्वरूबमागवुम् इरुत्तल् ऎऩ्ऱुम् इव्विद स्वरूबम् उळ्ळदऱ्को उत्पत्ति पॊरुन्दादु।
ताः काः श्रुतयः ? ‘न जीवो म्रियते’ (छा. उ. ६। ११। ३) ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४। ४। २५) ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १। २। १८) ‘अजो नित्यः शाश्वतोऽयं पुराणः’ (क. उ. १। २। १८) ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २। ६। १) ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६। ३। २) ‘स एष इह प्रविष्ट आ नखाग्रेभ्यः’ (बृ. उ. १। ४। ७) ‘तत्त्वमसि’ (छा. उ. ६। ८। ७) ‘अहं ब्रह्मास्मि’ (बृ. उ. १। ४। १०) ‘अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २। ५। १९) इत्येवमाद्या नित्यत्ववादिन्यः सत्यः जीवस्योत्पत्तिं प्रतिबध्नन्ति ।
ज्ञानानन्द-भारती - द्राविडी
अन्द सुरुदिगळ् ऎवै? “जीवऩ् इऱप्पदिल्लै” (सान्। VI-११-३), “अन्द इन्द आत्मा पॆरिदु, पिऱप्पऱ्ऱदु, जरैयऱ्ऱदु, मरणमऱ्ऱदु, अऴिवऱ्ऱदु, पयमऱ्ऱदु, पिरह्मम्” (पिरुहत्। IV।४-२५), “ञाऩस्वरूबऩ् पिऱप्प तिल्लै, इऱप्पदुमिल्लै” (काडग। II-१८) “इवर् पिऱप्पऱ् ऱवर्, नित्यर्, सासुवदर्, पुराणर्” (काडग। II-१८) “अदै स्रुष्टित्तुविट्टु अदिलेये उळ्ळे पुगुन्ददु”(तैत्ति रीय। II।६-१), “इन्द जीवात्मस्वरूबमाग उळ्ळे पुगुन्दु नामरूबङ्गळै वियागरणम् सॆय्वेऩ्” (सान्।VI।३-२), “अन्द, इवर् इङ्गे नगङ्गळिऩ् नुऩिगळ् वरै नुऴैन् दिरुक्किऱार्” (पिरुहत्।I।४-७), “अदुवाग नी इरुक्किऱाय्” (सान्। VI।८-७), “नाऩ् पिरह्ममाग इरुक्किऱेऩ्” (पिरुहत्। १।४-१०), “ऎल्लावऱ्ऱैयुम् अऩुबविक्कुम् इन्द आत्मा पिरह्मम्” (पिरुहत्। II।५-१९) ऎऩ्बदु मुदलाऩवैगळ् नित्यत्तऩ्मैयै सॊल्वदाग इरुन्दु कॊण्डु जीवऩुडैय उत्पत्तियैत् तडुक्किऩ्ऱऩ।
ननु प्रविभक्तत्वाद्विकारः, विकारत्वाच्चोत्पद्यते — इत्युक्तम्; अत्रोच्यते — नास्य प्रविभागः स्वतोऽस्ति, ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६। ११) इति श्रुतेः। बुद्ध्याद्युपाधिनिमित्तं तु अस्य प्रविभागप्रतिभानम् , आकाशस्येव घटादिसम्बन्धनिमित्तम्। तथा च शास्त्रम् — ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः’ (बृ. उ. ४। ४। ५) इत्येवमादि ब्रह्मण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्ध्यादिमयत्वं दर्शयति। तन्मयत्वं च अस्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वम् — स्त्रीमयो जाल्म इत्यादिवत् — द्रष्टव्यम् ।
ज्ञानानन्द-भारती - द्राविडी
पिरिवुबट्टिरुप्पदाल् विगारम्, विगारमायिरुप्पदाल् उण्डागिऱदु, ऎऩ्ऱु सॊल्लप्पट्टदेयॆऩ्ऱाल्, अव्विषयत्तिल् सॊल्गिऱोम्। इवऩुक्कु पिरिवु ताऩागक् किडैयादु, “ऒरे तेवर्, ऎल्ला पिराणिगळिडत्तिलुम् मऱैन्दिरुप्पवर्। ऎङ्गुम् वियाबिक् किऱवर्, ऎल्ला पिराणिगळुक्कुम् उळ्ळेयुळ्ळ आत्मा” (सुवेदा। VI।११) ऎऩ्ऱ सुरुदियिऩाल्, आऩाल् पुत्ति मुदलाऩ उबादि निमित्तमाग, आगासत्तिऱ्कु कुडम् मुदलि यदुडऩ् सम्बन्दत्तै निमित्तमागवुळ्ळदु पोल, पिरिवु पोल् तोऱ्ऱम् उण्डु। अप्पडिये “अदे इन्द आत्मा पिरह्मम्, विज्ञानमयऩ्, मऩोमयऩ्, पिराणमयऩ्, सर्मयऩ्, सुरोत्रमयऩ्” (पिरुहत्। VI।४-५), ऎऩ्बदु मुदलाऩ सास्तिरम् विगारत्तै अडैयामलिरुक्किऱ इन्द ऒऩ्ऱायिरुक्कुम् पिरह्मत्तिऱ्के पल पुत्ति मुदलाऩमयमायिरुक्कुम् तऩ्मैयैक् काट्टुगिऱदु। “अदु मयमायिरुप्पदु” ऎऩ्बदु सुत्तमाऩ तऩिप्पट्ट स्वरूबम् विळङ्गाददिऩाल् अदऩुडऩ् कलन्द स्वरूबत्तु टऩिरुप्पदु, जाल्मऩ (स्तिरीलोलऩ्) स्तिरीमयऩ् ऎऩ्बदु मुदलियदैप्पोल अऱियवेण्डुम्।
यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणम् , तदप्यत एवोपाधिसम्बन्धान्नेतव्यम् — उपाध्युत्पत्त्या अस्योत्पत्तिः, तत्प्रलयेन च प्रलय इति। तथा च दर्शयति — ‘प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति’ (बृ. उ. ४। ५। १३) इति; तथोपाधिप्रलय एवायम् , नात्मविलयः — इत्येतदपि — ‘अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्ति’ — इति प्रश्नपूर्वकं प्रतिपादयति — ‘न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्राऽसंसर्गस्त्वस्य भवति’ (बृ. उ. ४। ५। १४) — इति ।
ज्ञानानन्द-भारती - द्राविडी
ऎङ्गेयावदु ऒरु इडत्तिल् इवऩुक्कु उत्पत्ति पिरळयम् सॊल्लप्पट्टिरुन्दाल् अदुवुम् इन्द उबादि सम्बन्दत्तिऩालेये, सरिप्पडुत्तिक्कॊळ्ळ वेण्डुम्, उबादियिऩ् उत्पत्तियाल् इवऩुक्कु उत्पत्ति, अदिऩ् पिरळयत्तिऩाल् इवऩुक्कु पिरळयम् ऎऩ्ऱु। अप्पडिये ‘पिरक्ञाऩगऩऩाय् इरुप्पवऩे (सरीरङ्गळाग माऱिय) इन्द पूदङ्गळैयॊट्टि किळम्बि (पिऱन्दु) अवैगळै अऩुसरित्ते लयमडैगिऱाऩ्। पिऱगु अऱिवु इल्लै” (पिरुहत्। IV। ५-१३) ऎऩ्बदु काट्टुगिऱदु। अप्पडिये इदु उबादियिऩ् नासमे तविर आत्माविऩ् नासमिल्लै, ऎऩ्ऱ इदैयुम् अङ्गेये “ताङ्गळ् ऎऩ्ऩै मयङ्गुम्बडि सॆय्दुविट्टीर्गळ् किळम्बिऩ पिऱगु अऱिवु इल्लैयॆऩ्ऱ इदै नाऩ् नऩ्गु अऱियविल्लै” ऎऩ्ऱु केळ्वियै मुऩ्ऩिट्टु ‘अये! नाऩ् उऩक्कु मयक्कत्तै सॊल्लविल्लै। इन्द आत्मा विगारमडैयाददुदाऩ्, नासत्तैत्तर्ममायुडैयदल्ल विषयङ्गळुडऩ् सम्बन्द मिल्लै ऎऩ्बदु ताऩ् इवऩुक्कु एऱ्पडुगिऱदु’ (पिरुहत्। IV।५-१४) ऎऩ्ऱु ऎडुत्तुक्काट्टुगिऱदु।
प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात्; लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव, ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४। ३। १५) इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात्। तस्मात् नैवात्मोत्पद्यते प्रविलीयते चेति ॥ १७ ॥
ज्ञानानन्द-भारती - द्राविडी
विगारमडैयाद पिरह्मत्तिऱ्के जीवत्तऩ्मै यॆऩ्ऱु ऒप्पुक्कॊळ्वदाल् पिरदिक्ञैक्कुम् कॆडुदलिल् लै। इव्विरण्डिऱ्कुळ् लक्षणत्तिलुळ्ळ पेदमुम् उबा तियै निमित्तमायुळ्ळदुदाऩ्, “इदऱ्कु मेल् मोक्षत्तै युत्तेसित्ते सॊल्लुङ्गळ्” (पिरुहत्।VI।३-१५) ऎऩ्ऱु पिरगिरुदमायिरुक्कुम् विज्ञानमयऩाऩ आत्मावुक्के ऎल्ला संसार तर्मङ्गळैयुम् मऱुत्तु परमात्मावा यिरुक्कुम् तऩ्मैयै ऎडुत्तुक्काट्टु वदिऩाल्।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् आत्मा उण्डावदे किडैयादु। नासम् अडैवदुमिल्लै ऎऩ्ऱु।