न वियदश्रुतेः ॥ १ ॥
ज्ञानानन्द-भारती - द्राविडी
न वियदच्रुदे: ॥ १ ॥
व्योम नित्यं जायते वा हेतुत्रयविवर्जनात् ॥
जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते ॥ १ ॥
एकज्ञानात्सर्वबुद्धेर्विभक्तत्वाज्जनिश्रुतेः ॥
विवर्ते कारणैकत्वाद्ब्रह्मणो व्योम जायते ॥ २ ॥
ज्ञानानन्द-भारती - द्राविडी
–वैयासिक-न्यायमाला
ज्ञानानन्द-भारती - द्राविडी
आगासम् नित्यमा (ऎप्पॊऴुदुमुळ्ळदा)? अल्लदु ण्डावदा? मूऩ्ऱु कारणङ्गळुमिल्लाददिऩालुम्, उण्डा वदागच् चॊल्लुम् सुरुदि वाक्कियम् कौणमादलालुम्, आगासम् नित्यम् ताऩ् उण्डागिऱदिल्लै।
ज्ञानानन्द-भारती - द्राविडी
ऒऩ्ऱिऩ् ञाऩत्तिऩाल् ऎल्लाम् अऱियप्पडुमॆऩ्ऱु सॊल्लि इरुप्पदिऩालुम्, पिरिन्दिरुप्पदिऩालुम्, उण्डावदाग सुरुदियिरुप्पदालुम्, विवर्त्तत्तिल् कारणम् ऒऩ्ऱेदाऩाऩ तिऩालुम्, आगासम् पिरह्मत्तिऩिडम् इरुन्दु उण्डागिऱदु।
वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते। केचिदाकाशस्योत्पत्तिमामनन्ति, केचिन्न। तथा केचिद्वायोरुत्पत्तिमामनन्ति, केचिन्न। एवं जीवस्य प्राणानां च। एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते। विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितम्। तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येत — इत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः प्रपञ्च आरभ्यते। तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव। तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते —
ज्ञानानन्द-भारती - द्राविडी
(इरण्डावदाऩ अविरोदात्यायत्तिल् इदु मूऩ्ऱावदु पादम्। इदऱ्कु वियत्पादम् ऎऩ्ऱु पॆयर्। आगासम् मुदलाऩ पूदङ्गळैप्पऱ्ऱियुम् पोक्तावाऩ जीवऩैप्पऱ्ऱियुम् नित्यमॆऩ्ऱुम्, उण्डागिऱदु ऎऩ्ऱुम् सुरुदिगळ् वॆव्वेऱु विदमागक् कूऱुगिऩ्ऱऩ। आगासम् मुदलिल् उण्डाऩदाग ऒरु सुरुदि, तेजस् मुदलिल् ऎऩ्ऱु मऱ्ऱॊरु सुरुदि इव्वाऱु ऒऩ्ऱुक्कॊऩ्ऱु विरोदमिरुप्पदाल् सुरुदिगळ् अप्रमाणम्। आगैयाल् सुरुदिगळैक् कॊण्डु अत्वैद पिरह्म समऩ्वयम् तीर्माऩिक्क मुडियादु ऎऩ्ऱु आक्षेषबम्। विरोदत्तिऱ्कुप् परिहारम् सॆय्वदऩ् मूलम् समऩ्वयम् सित्तिक्कुम् ऎऩ्बदु सित्तान्दम्। इन्द इरण्डु पादङ्गळिलुम् मुदलिल् सुरुदिगळुक्कुळ् विरोदम् ऎऩ्ऱु पूर्वबक्षम्। पिऱगु सित्तान्दत्तिऱ्कु विरोदमाग सुरुदि विरोदत्तिऱ्कु परिहारत्तै नडुविल् ऒरुवऩ् सॊल्गिऱाऩ्। अदै कण्डित्तु वेऱु विदमाग विरोद परिहारम् सॆय्दु समऩ्वयम् सॆय्गिऱार् सित्तान्दि। आगासम्, नित्यम् ऎऩ्ऱुम् उत्पत्ति सुरुदि कौणमॆऩ्ऱुम् नडुविलुळ्ळ वऩुडैय कॊळ्गै।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम् : कारणमाऩ पिरह्मत्तैयऱिन्दाल् ऎल्लावऱ्ऱैयुम् अऱियलाम् ऎऩ्ऱु पल सुरुदिगळ् कूऱुवदाल् आगासमुम् पिरह्मत्तिऩ् कारियम्दाऩ्। नित्यमल्ल। आगासम् पिरुदिवि मुदलाऩदुगळैक् काट्टिलुम् पिरिन्दिरुप्पदालुम्, आगासम् उण्डाऩदाग तैत्तिरीय सुरुदि कूऱुवदालुम्, इदै अऩुसरित्तु मऱ्ऱ सुरुदिगळुक्कु अर्त्तम् तीर्माऩिक्क वेण्डुम्। आगवे आगासम् अनित्यमाऩदालुम् सुरुदि विरोदम् इल्लाददालुम् विवर्त्तवाद सित्तान्दत्तिल् ऒरे कारणमिरुक्कलामाऩदालुम् अत्वैद पिरह्मत्तिल् सुरुदिगळिऩ् समऩ्वयत्तिऱ्कु विरोदम् इल्लै
ज्ञानानन्द-भारती - द्राविडी
उबनिषत्तुक्कळिल् अङ्गे अङ्गे वॆव्वेऱु मुऱैयाग उत्पत्तियै सॊल्लुम् सुरुदिगळ् काणप्पडुगिऩ्ऱऩ। सिलदु आगासत्तिऱ्कु उत्पत्तियै सॊल्गिऱदु। सिलदु अप्पडियल्ल; अप्पडिये सिलदु वायुविऩ् उत्पत्तियै सॊल्गिऱदु, सिलदु इल्लै ; इम्मादिरि जीवऩुक्कुम् पिराणऩ्गळुक्कुम्; इव्विदमे वरिसै मुदलिय मुऱैयागवुम् विरोदम् वेऱु सुरुदिगळिल् काणप्पडुगिऱदु। विरोदम् इरुप्पदि ऩालेये मऱ्ऱवर्गळिऩ् पक्षङ्गळुक्कु एऱ्ऱुक्कॊळ्ळक् कूडात्तऩ्मै स्ताबिक्कप्पट्टदु ; अदैप्पोल तऩ् पक्षत्तिलुम् विरोदमिरुप्पदाल् ऎऩ्बदिऩालेये सन्देहिक्कक्कूडियदु ऎऩ्ऱ इन्दक् कारणत्तिऩाल् ऎल्ला उबनिषत्तुक्कळिलुम् उळ्ळ स्रुष्टि सुरुदि कळुडैय तात्पर्यम् तॆळिवुबडुवदऱ्काग मेलुळ्ळ विस्तारमाऩ किरन्दम् आरम्बिक्कप्पडुगिऱदु; अन्द तात्पर्यम् तॆळिवाऩाल् अदऩ् पिरयोजऩम् मुऩ्सॊऩ्ऩ सन्देहत्तिऩ् निविरुत्तिदाऩ्।
ज्ञानानन्द-भारती - द्राविडी
अङ्गु मुदलिल् आगासत्तैक् कुऱित्तु सिन्दिक्कप् पडुगिऱदु। इन्द आगासत्तिऱ्कु उत्पत्तियुण्डा अल्लदु इल्लैया ऎऩ्ऱु।
किमस्याकाशस्योत्पत्तिरस्ति, उत नास्तीति। तत्र तावत्प्रतिपाद्यते — ‘न न खल्वाकाशमुत्पद्यते। कस्मात् ? अश्रुतेः — न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति। छान्दोग्ये हि ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६। २। १) इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य, ‘तदैक्षत’ ‘तत्तेजोऽसृजत’ (छा. उ. ६। २। ३) इति च पञ्चानां महाभूतानां मध्यमं तेज आदि कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते। श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ। न च अत्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी। तस्मान्नाकाशस्योत्पत्तिरिति ॥ १ ॥
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम्: अदिल् तोऩ्ऱुगिऱदु “आगासम् इल्लै, सॊल्लप्पडाददाल्” ऎऩ्ऱु। आगासम् उत्पत्ति यावदिल्लैये ऎदिऩाल्? सॊल्लप्पडाददाल् उत्पत् तियै सॊल्लुम् पिरगरणत्तिल् इदैप्पऱ्ऱि सॊल्लप् पडविल्लैये। सान्दोक्य उबनिषत्तिल् “हे सोम्य, इदु मुऩ्ऩाल् सत्तागवेयिरुन्ददु, ऒऩ्ऱागवे इरण्डावदऱ्ऱदाग" (सान्। VI। २-१) ऎऩ्ऱु सत् ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप्पडुम् प्रह्मत्तैत् तॊडङ्गि अदु आलोसित्तदु। अदु तेजसै स्रुष्टित्तदु (सान्।VI-२-३) ऎऩ्ऱु ऐन्दु महाबूदङ्गळिल् नडुविलुळ्ळ तेजसै मुदलावदाग वैत्तु तेजस् अप्पु अऩ्ऩम् इवैगळिऩ् उत्पत्ति सॊल्लप्पडुगिऱदु। इन्दिरियङ् गळुक्कु ऎट्टाद वस्तुविऩ् ञाऩम् एऱ्पडुवदऱ्कु नमक्कु सुरुदिये पिरमाणम्। इङ्गेयो आगासत्तिऩ् उत्पत्तियै पिरदिबादिक्किऱ सुरुदि इल्लै ‘आगैयाल् आगासत्तिऱ्कु उत्पत्ति किडैयादु, ऎऩ्ऱु ।
अस्ति तु ॥ २ ॥
ज्ञानानन्द-भारती - द्राविडी
अस्ति तु ॥ २ ॥
तुशब्दः पक्षान्तरपरिग्रहे। मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः। श्रुत्यन्तरे त्वस्ति। तैत्तिरीयका हि समामनन्ति — ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २। १। १) इति प्रकृत्य, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २। १। १) इति। ततश्च श्रुत्योर्विप्रतिषेधः — क्वचित्तेजःप्रमुखा सृष्टिः, क्वचिदाकाशप्रमुखेति। नन्वेकवाक्यता अनयोः श्रुत्योर्युक्ता। सत्यं सा युक्ता, न तु सा अवगन्तुं शक्यते। कुतः ? ‘तत्तेजोऽसृजत’ (छा. उ. ६। २। ३) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन सम्बन्धानुपपत्तेः — ‘तत्तेजोऽसृजत’ ‘तदाकाशमसृजत’ इति ।
ज्ञानानन्द-भारती - द्राविडी
‘आऩाल्’ ऎऩ्ऱ सप्तम् वेऱु पक्षत्तै ऎडुत्तुक् कॊळ्वदऱ्काग सान्दोक्यत्तिल् आगासत्तिऩ् उत्पत्ति इरुक्क वेण्डाम्; आऩाल् वेऱु सुरुदियिल् इरुक्किऱदु। तैत्तिरीयगर्गळ् सॊल्गिऱार्गळ्। “सत्यमाय् ञाऩमाय् ऎल्लैयऱ्ऱदाय्, इरुक्किऱदु पिरह्मम्” ऎऩ्ऱु आरम्बित्तु “अन्द इन्द आत्माविलिरुन्दे आगासम् उण्डायिऱ्ऱु” (तैत्तिरीय II।१) ऎऩ्ऱु अदिऩाल् इरण्डु सुरुदिगळुक्कुम् विरोदम्। ऒऩ्ऱिल् तेजसै मुदलागवुळ्ळ स्रुष्टि, मऱ्ऱॊऩ्ऱिल् आगासत्तै मुदलागवुळ्ळदु ऎऩ्ऱु इन्द इरण्डु वाक्कियङ्गळैयुम् ऒरे वाक्कियमाग (ऒरे मादिरि पॊरुळुळ्ळ वाक्यमाग)च् चॆय्वदु युक्तमिल्लैया? वास्तवम् युक्तम् ताऩ्। आऩाल् अदु (ऒरे वाक्कियमाग) अऱियमुडियादु। एऩ्? ‘अदु तेजसै स्रुष्टित्तदु’ ऎऩ्ऱु ऒरु तडवै सॊल्लप्पट्टिरुक्कुम् स्रुष्टि सॆय्बवरुक्कु स्रुष्टिक्कप्पडवेण्डिय इरण्डुडऩ्, ‘अदु तेजसै स्रुष्टित्तदु, अदु आगासत्तै स्रुष्टित्तदु’ ऎऩ्ऱु सम्बन्दम् पॊरुन्दाददिऩाल्
ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन सम्बन्धो दृश्यते — यथा सूपं पक्त्वा ओदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयिष्यामि। नैवं युज्यते; प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते; तैत्तिरीयके च आकाशस्य। न च उभयोः प्रथमजत्वं सम्भवति। एतेन इतरश्रुत्यक्षरविरोधोऽपि व्याख्यातः —
ज्ञानानन्द-भारती - द्राविडी
ऒरु तडवै सॊल्लप्पट्ट सॆय्गिऱवऩुक्कुम् सॆय्यप्पडुम् इरण्डुडऩ् सम्बन्दम्, परुप्पै समैत्तु विट्टु अऩ्ऩत्तै समैक्किऱाऩ् ऎऩ्बदुबोल, काणप् पडुगिऱदे? अव्विदम् अदु आगासत्तै स्रुष्टित्तु विट्टु अदु तेजसै स्रुष्टित्तदु ऎऩ्ऱु सेर्क्किऱेऩे? ऎऩ्ऱाल् इव्विदम् युक्तमागादु। सान्दोक्यत्तिल् मुदलावदाग उण्डाऩ तऩ्मै तेजुसुक्कुम्, तैत्तिरीयत्तिल् आगासत्तिऱ्कुम् तॆरिगिऱदु। इरण्डिऱ्कुम् मुदलावदाग उण्डागुम् तऩ्मै सम्बविक्कादु”। इदिऩाल् मऱ्ऱॊरु सुरुदियिलुळ्ळ अक्षरङ्गळुक्कु विरोदमुम् सॊल्लप्पट्टुविट्टदु।
‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २। १। १) इत्यत्रापि — तस्मादाकाशः सम्भूतः, तस्मात्तेजः सम्भूतम् — इति सकृच्छ्रुतस्यापादानस्य सम्भवनस्य च वियत्तेजोभ्यां युगपत्सम्बन्धानुपपत्तेः, ‘वायोरग्निः’ (तै. उ. २। १। १) इति च पृथगाम्नानात् ॥ २ ॥
ज्ञानानन्द-भारती - द्राविडी
‘अन्द इन्द आत्माविलिरुन्दे आगासम् उण्डायिऱ्ऱु’ ऎऩ्ऱविडत्तिलुम् अदिलिरुन्दु आगासम् उण्डायिऱ्ऱु। अदिलिरुन्दु तेजस् उण्डायिऱ्ऱु ऎऩ्ऱु ऒरु तडवै सॊल्लप्पट्टिरुक्किऱ अबादाऩत्तिऱ्कुम् उण्डावदऱ्कुम् आगासम् तेजस् इवैगळुडऩ् समगालत्तिल् सम्बन्दम् पॊरुन्दादु। “वायुविलिरुन्दु अक्ऩि” (तैत्तिरीय II।१) ऎऩ्ऱु तऩियाय् सॊल्लियिरुप्पदालुम्,
अस्मिन्विप्रतिषेधे कश्चिदाह —
ज्ञानानन्द-भारती - द्राविडी
इन्द विरोदम् वरुम्बोदु ऒरुवर् सॊल्गिऱार्।
गौण्यसम्भवात् ॥ ३ ॥
ज्ञानानन्द-भारती - द्राविडी
कौण्यसम्बवात् ॥ ३ ॥
नास्ति वियत उत्पत्तिः, अश्रुतेरेव। या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता, सा गौणी भवितुमर्हति। कस्मात् ? असम्भवात्। न ह्याकाशस्योत्पत्तिः सम्भावयितुं शक्या, श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु। ते हि कारणसामग्र्यसम्भवादाकाशस्योत्पत्तिं वारयन्ति। समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते। द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति। न चाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति; यस्मिन्समवायिकारणे सति, असमवायिकारणे च तत्संयोगे, आकाश उत्पद्येत। तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवति ।
ज्ञानानन्द-भारती - द्राविडी
सॊल्लप्पडाद कारणत्तिऩालेये आगासत्तिऱ्कु उत्पत्ति किडैयादु। आगासत्तिऩ् उत्पत्तियै सॊल्लु किऱदॆऩ्ऱु ऎन्द वेऱु सुरुदि ऎडुत्तुक्काट्टप्पट्टदो अदु कौणमायिरुप्पदुदाऩ् न्यायम् ऎदिऩाल्? सम्बविक्काददिऩाल् श्रीमाऩाऩगणादरुडैय अबिप् पिरायत्तैयऩुसरिक्किऱवर्गळ् जीवित्तिरुक्कुम् पोदु आगासत्तिऩ् उत्पत्ति सम्बविक्कुम्बडि सॆय्य मुडियादल्लवा? अवर्गळ् उण्डावदऱ्कु वेण्डिय कारण सामक्रीयिल्लाददिऩाल् आगासत्तिऩ् उत्पत्तियै मऱुक्किऱार्गळ् अल्लवा? समवायि, असमवायि, निमित्तम् ऎऩ्ऱ कारणङ्गळिलिरुन्दल्लवा उण्डावदु ऎल्लाम् उण्डागिऩ्ऱऩ। तिरवियत्तिऱ्कु ऒरे इऩत्तैच् चेर्न्द पल तिरवियम् समवायि कारणमाय् इरुक्कुम् आगासत्तिऱ्को ऒरे इऩत्तैच् चेर्न्द पल तिरवियम् उण्डु पण्णक्कूडियदागक् किडैयादु। ऎन्द समवायि कारणमुम् अदऩ् सेर्क्कैयागिऱ असमवायि कारणमुम् इरुक्कुम्बॊऴुदु आगासम् उण्डागक् कूडुमो अवैगळ् इल्लाददिऩालेये अवैगळुक्कु अऩुगूलम् सॆय्वदऱ्काग उळ्ळ निमित्त कारणम् आगासत्तिऱ्कु तूरवे तळ्ळप्पट्टदाग आगिऱदु।
उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वोत्तरकालयोर्विशेषः सम्भाव्यते — प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव, पश्चाच्च भवतीति। आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः सम्भावयितुं शक्यते। किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् ? पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणात् आकाशस्य अजत्वसिद्धिः ।
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, उत्पत्तियैयुडैय तेजस् मुदलिय वैगळुक्कु मुऩ्बिऩ् कालङ्गळिल् विसेषम् सम्ब विक्कुम्, उत्पत्तिक्कु मुऩ्ऩाल् पिरगासम् मुदलाऩ कार्यम् इरुन्ददिल्लै। पिऩ्ऩाल् एऱ्पडुगिऱदु ऎऩ्ऱु आगासत्तिऱ्को मुऩ्बिऩ् कालङ्गळिल् विसेषम् सम्बविक्कमुडियादु। उत्पत्तिऱ्कु मुऩ्ऩाल् इडमिल् लामल् इडैवॆळियिल्लामल् इडुक्किल्लामल् इरुन्ददु ऎऩ्ऱु तीर्माऩिक्क मुडियुमा? पिरुदिवि मुदलियदिलिल्लाद वियाबगत्तऩ्मै मुदलाऩ तर्ममिरुप्पदिऩालुम् आगासत्तिऱ्कु उत्पत्तियिल्लैयॆऩ्ऱु सित्तिक्किऱदु।
तस्माद्यथा लोके — आकाशं कुरु, आकाशो जातः — इत्येवंजातीयको गौणः प्रयोगो भवति, यथा च — घटाकाशः करकाकाशः गृहाकाशः — इत्येकस्याप्याकाशस्य एवंजातीयको भेदव्यपदेशो गौणो भवति — वेदेऽपि ‘आरण्यानाकाशेष्वालभेरन्’ इति। एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या ॥ ३ ॥
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् ऎप्पडि उलगत्तिल् आगासत्तै सॆय्, आगासम् एऱ्पट्टदु ऎऩ्बदु पोलुळ्ळ कौणमाऩ पिरयोगम् इरुक्किऱदो, ऒऩ्ऱागवेयिरुक्कुम् आगासत्तिऱ्कु कुड आगासम्, करग आगासम्, वीट्टु आगासम् ऎऩ्बदु पोलुळ्ळ पेदत्तै सॊल्वदु ऎप्पडि कौणमो, वेदत्तिलुम् “काट्टुप् पसुक्कळै आगासत्तिल् आलम्बऩम् सॆय्य वेण्डुम्” ऎऩ्बदु कौणमो, इव्विदमे उत्पत्तियै सॊल्लुम् सुरुदियुम् कौणम् ऎऩ्ऱु अऱिय वेण्डुम्।
शब्दाच्च ॥ ४ ॥
ज्ञानानन्द-भारती - द्राविडी
सप्ताच्च ॥ ४ ॥
शब्दः खल्वाकाशस्य अजत्वं ख्यापयति, यत आह — ‘वायुश्चान्तरिक्षं चैतदमृतम्’ (बृ. उ. २। ३। ३) इति; न ह्यमृतस्योत्पत्तिरुपपद्यते । ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०। ६। ३। २) इति च आकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशस्यापि तौ धर्मौ सूचयति। न च तादृशस्योत्पत्तिरुपपद्यते। ‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः’ इति च उदाहरणम् — ‘आकाशशरीरं ब्रह्म’ (तै. उ. १। ६। २) ‘आकाश आत्मा’ (तै. उ. १। ७। १) इति च। न ह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं सम्भवति — नीलेनेवोत्पलस्य। तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते ॥ ४ ॥
ज्ञानानन्द-भारती - द्राविडी
आगासत्तिऩ् पिऱप्पिऩ्मैयै सप्तमुम् सॊल्गिऱदु। “वायुवुम् इन्द अन्दरिक्षमुम्, अमिरुदम् नासमऱ्ऱदु” (पिरुहत् II।३ -३) ऎऩ्ऱु सॊल्वदिऩाल् नासमऱ्ऱत्तिऱ्कु उत्पत्ति पॊरुन्दादल्लवा? ‘आगासम्बोल् ऎङ्गुम् उळ्ळवर् नित्यर्’ ऎऩ्ऱु ऎङ्गुमुळ्ळ तऩ्मै नित्यत् तऩ्मै इवैगळैक्कॊण्डु पिरह्मत्तै आगासत् तुडऩ् ऒप्पिट्टु इरुप्पदु आगासत्तिऱ्कुम् अन्द इरण्डु तर्मङ्गळै सूसिप्पिक्किऱदु। अव्विदमिरुक्किऱदऱ्कु उत्पत्ति पॊरुन्दादु, “ऎप्पडि इन्द आगासम् नासमऱ्ऱदो अप्पडि अन्द आत्मा नासमऱ्ऱवर् ऎऩ्ऱु अऱिय वेण्डुम्” ऎऩ्ऱ सप्तमुम् इङ्गु उदाहरणम् ‘आगासत्तै सरीरमायुडैयदु पिरह्मम्” (तैत्तिरीयम् I। ६-२) “आगासम् आत्मा” (तैत्तिरीयम् ‘१ ७-१) ऎऩ्ऱुम् आगासम् उत्पत्तियुळ्ळदाय् इरुन्दाल्, नीलत्तुडऩ् उत्पलत् तिऱ्कुप्पोल। अदिऩाल् (आगासत्तिऩाल्) पिरह्मत्तिऱ्कु विसेषणम् सम्बविक्कादु। आगैयाल् आगासत्तुडऩ् समाऩमाऩ पिरह्मम् नित्यम् ऎऩ्ऱु तॆरिगिऱदु।
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
ज्ञानानन्द-भारती - द्राविडी
स्याससैगस्य प्रह्मसप्तवत् ॥ ५ ॥
इदं पदोत्तरं सूत्रम्। स्यादेतत्। कथं पुनरेकस्य सम्भूतशब्दस्य ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २। १। १) इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं सम्भवति, आकाशे च गौणत्वमिति। अत उत्तरमुच्यते — स्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यश्च प्रयोगः — ब्रह्मशब्दवत्; यथैकस्यापि ब्रह्मशब्दस्य ‘तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म’ (तै. उ. ३। २। १) इत्यस्मिन्नधिकारेऽन्नादिषु गौणः प्रयोगः, आनन्दे च मुख्यः। यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते, अञ्जसा तु विज्ञेये ब्रह्मणि — तद्वत् ।
ज्ञानानन्द-भारती - द्राविडी
इन्द सूत्तिरम् पदम् विषयमाऩ सङ्गैक्कु पदिल्। “अन्द इन्द आत्माविलिरुन्दे आगासम् उण्डायिऱ्ऱु” ऎऩ्ऱ इन्द पिरगरणत्तिल् मेले उळ्ळ तेजस् मुदलाऩवैगळिल् तॊडर्न्दुवरुम् ऒरे “उण्डायिऱ्ऱु” ऎऩ्ऱ सप्तत्तिऱ्कु मुक्कियत्तऩ्मैयुम् आगास विषयत्तिल् मात्तिरम् कौणत्तऩ्मैयुम् ऎप्पडि सम्बविक्कुम्। इदऱ्कु पदिल् सॊल्लप्पडुगिऱदु ऒऩ्ऱायिरुक्किऱ “उण्डायिऱ्ऱु” ऎऩ्ऱ सप्तत्तिऱ्कुम् विषयङ्गळिलुळ्ळ वित्तियासम् कारणमाग कौण मायुम् मुक्कियमायुम् पिरयोगम् इरुक्कलाम्, “पिरह्मम्” ऎऩ्ऱ सप्तम्बोल “तबसिऩाल् पिरह्मत्तै अऱिन्दु कॊळ्। तबस्, पिरह्मम्” (तैत्तिरीय। III।-२) ऎऩ्ऱ इन्द पिरगरणत्तिल् ऒऩ्ऱागवेयिरुक्किऱ पिरह्मम् ऎऩ्ऱ सप्तत्तिऱ्कु अऩ्ऩम् मुदलाऩवैगळिल् कौणमायुम् आऩन्दत्तिल् मुक्कियमायुम् ऎप्पडि पिरयोगम् इरुक्कि ऱदो अप्पडि, पिरह्मत्तै अऱिवदऱ्कु सादऩमायि रुक्कुम् तबसिल् “पिरह्म” सप्तम् कौणमाग पिरयोगिक्कप्पट्टिरुक्किऱदु। अऱिय वेण्डियदाय् उळ्ळ पिरह्मत्तिलो नेरागवे (मुक्कियमाग) पिरयोगिक्कप् पट्टु इरुक्किऱदु ऎप्पडियो अदुबोलवुम्।
कथं पुनरनुत्पत्तौ नभसः ‘एकमेवाद्वितीयम्’ (छा. उ. ६। २। १) इतीयं प्रतिज्ञा समर्थ्यते ? ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति। कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति, तदुच्यते — ‘एकमेव’ इति तावत्स्वकार्यापेक्षयोपपद्यते। यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि उपलभ्य अपरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयात् — ‘मृदेवैकाकिनी पूर्वेद्युरासीत्’ इति, स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयात् , न दण्डचक्रादि — तद्वदद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति — यथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते, नैवं ब्रह्मणो जगत्प्रकृतेरन्योऽधिष्ठाता अस्तीति ।
ज्ञानानन्द-भारती - द्राविडी
आगासत्तिऱ्कु उत्पत्तियिल्लैयाऩाल् “ऒऩ्ऱु ताऩ् इरण्डावदऱ्ऱदु” (सान्। VI २-१) ऎऩ्ऱ इन्द पिरदिक्ञै ऎप्पडि सरियागुम्? इरण्डावदायिरुक्किऱ आगासत्तिऩाल् पिरह्मम् इरण्डावदुळ्ळदागवल्लवा आगुम्? पिरह्मम् अऱियप्पट्टाल् ऎल्लाम् अऱियप्पट्ट तागवुम् ऎप्पडि आगुम्? अदऱ्कुच् चॊल्गिऱोम्। “ऒऩ्ऱुदाऩ्” ऎऩ्बदु तऩ्ऩुडैय कार्यङ्गळै अबेक्षित्तुप् पॊरुन्दुम्। उलगत्तिल् कुयवऩ् वीट्टिल् ऒरुवऩ् मुन्दिऩनाळ् मण्, तण्डम्, सक्किरम् मुदलिय वैगळैप् पार्त्तुविट्टु मऱुनाळ् परप्पियिरुक्कुम् पलविद पात्तिरङ्गळैप् पार्त्तु “नेऱ्ऱु मण् मात्तिरम् तऩियाग इरुन्ददु” ऎऩ्ऱु सॊल्वाऩ् ; अवऩ् अव्विदम् अऴुत्तिच् चॊल्वदिऩाल् मुन्दिऩ नाळ् मण्णिऩाल् सॆय्यप्पट्टिरुक्कुम् कारिय समूहम्दाऩ् इरुन्दिरुप्प तिल्लैयॆऩ्ऱु अवऩ् अबिप्पिरायप्पडुगिऱाऩे तविर तण्डम्, सक्किरम् मुदलियदुम् इरुक्कविल्लैयॆऩ्ऱु अल्ल; ऎऩ्बदु ऎप्पडियो अदैप्पोल ‘इरण्डावदु अऱ्ऱदु’ ऎऩ्ऱ सुरुदियुम् वेऱु अदिष्टादावै मऱुक्किऱदु; पात्तिरङ्गळुक्कुक् कारणमायुळ्ळ मण्णुक्कु वेऱाग अदिष्टादावाग ऎप्पडि कुयवऩ् काणप्पडुगिऱाऩो, अव्विदम् जगत्तिऩ् कारणमायुळ्ळ पिरह्मत्तिऱ्कु वेऱाग अदिष्टादा किडैयादु ऎऩ्ऱु।
न च नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते। लक्षणान्यत्वनिमित्तं हि नानात्वम्। न च प्रागुत्पत्तेर्ब्रह्मनभसोर् लक्षणान्यत्वमस्ति, क्षीरोदकयोरिव संसृष्टयोः , व्यापित्वामूर्तत्वादिधर्मसामान्यात्।
सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते, स्तिमितमितरत्तिष्ठति, तेनान्यत्वमवसीयते।
तथा च ‘आकाशशरीरं ब्रह्म’ (तै. उ. १। ६। २) इत्यादिश्रुतिभ्योऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिः। अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः ।
ज्ञानानन्द-भारती - द्राविडी
इरण्डावदाऩ आगासत्तिऩालुम्गूड पिरह्मम् इरण्डावदुळ्ळदाग एऱ्पडादु। लक्षणत्तिल् वेऱाग इरुप्पदै निमित्तमायुळ्ळदल्लवा “पल” ऎऩ्बदु। उत्पत्तिक्कु मुऩ्ऩाल् पिरह्मत्तिऱ्कुम् आगासत्तिऱ्कुम् लक्षणत्तिल् वेऱुबाडु इल्लै। कलन्द पालैयुम्, जलत्तैयुम्बोल, वियाबगमायिरुक्कुम् तऩ्मै उरुवमऱ्ऱिरुक्कुम् तऩ्मै मुदलिय धर्मङ्गळ् समाऩमायिरुप्पदाल् स्रुष्टि कालत्तिलो पिरह्मम् जगत्तै उण्डु पण्णुवदऱ्कु मुयऱ्सिक्किऱदु; मऱ्ऱॊऩ्ऱु (आगासम्) असैवऱ्ऱिरुक्किऱदु; अदिऩाल् वेऱु ऎऩ्ऱु तीर्माऩिक्कप्पडुगिऱदु। अप्पडिये “आगासत्तै सरीरमागवुडैयदु पिरह्मम्” (तैत्तिरीय। I- ६-२) ऎऩ्बदु मुदलाऩ सुरुदिगळिलिरुन्दुम् पिरह्मत्तिऱ्कुम् आगासत्तिऱ्कुम् वेऱ्ऱुमैयिल्लै पोल उबसारम् सित्तिक्किऱदु। इदु कारणमागवे पिरह्मत्तै अऱिवदिऩाल् ऎल्लाम् अऱिवदु सित्तिक्किऱदु।
अपि च सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्मणा च अव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रह्मणा तत्कार्येण च विज्ञातेन सह विज्ञातमेवाकाशं भवति — यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति; न हि क्षीरग्रहणादब्बिन्दुग्रहणं परिशिष्यते; एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वात् गृहीतमेव ब्रह्मग्रहणेन नभो भवति। तस्माद्भाक्तं नभसः सम्भवश्रवणमिति ॥ ५ ॥
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, उण्डागिऱ ऎल्लाक्कार्यमुम् आगासत्तुडऩ् वेऱुबडाद तेसमुम्, कालमुम् उळ्ळदागवे उण्डागिऱदु। पिरह्मत्तुडऩ् वेऱुबडाद तेसमुम्, कालमुम् उळ्ळदागवे आगासम् इरुक्किऱदु; ऎऩ्बदऩाल् पिरह्ममुम्, अदऩ् कार्यमुमऱियप्पडुमेयाऩाल् कूडवे आगासमुम् अऱियप्पट्ट तागवे आगुम्। पाल् निऱैन् दुळ्ळ कुडत्तिल् पोडप्पट्ट सिल जलत्तुळिगळ् पालै अऱिवदिऩालेये अऱियप्पट्टवैगळाग आगिऩ्ऱऩ। पालै अऱिन्दबिऱगु जलत्तुळियै अऱिवदु पाक्कियिरुप् पदिल्लै ऎऩ्बदु ऎप्पडियो अव्विदमे पिरह्मत् तुडऩुम् अदऩ् कार्यङ्गळुडऩुम् वेऱुबडाद तेसमुम्, कालमुम् उळ्ळ तऩ्मैयिरुप्पदाल् पिरह्मत्तै अऱिवदाल् आगासमुम् अऱियप्पट्टदागवे आगिऱदु। आगैयाल् आगासत्तिऱ्कु उत्पत्ति सॊल्लियिरुप्पदु कौणम् ऎऩ्ऱु।
एवं प्राप्ते, इदमाह —
ज्ञानानन्द-भारती - द्राविडी
इव्विदम् एऱ्पडुम्बोदु इदैच् चॊल्गिऱार्:-
प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥
ज्ञानानन्द-भारती - द्राविडी
प्रदिज्ञाहानिरव्यदिरेगाच्चप्तेप्य: ॥ ६ ॥
‘येनाश्रुतँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६। १। ३) इति, ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदँ सर्वं विदितम्’ (बृ. उ. ४। ५। ६) इति, ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १। १। ३) इति, ‘न काचन मद्बहिर्धा विद्यास्ति’ इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते। तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात् , यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात्। व्यतिरेके हि सति एकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत। स चाव्यतिरेक एवमुपपद्यते, यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत ।
ज्ञानानन्द-भारती - द्राविडी
‘ऎदऩाल् केट्कप्पडाददु, केट्कप्पट्टदायुम् निऩैक् कप्पडाददु निऩैक्कप्पट्टदायुम्, अऱियप् पडाददु, अऱियप्पट्टदायुम् आगिऱदो’ (सान्।VI। १-३) ‘अये! आत्मा पार्क्कप्पट्टाल् केट्कप्पट्टाल्, निऩैक्कप् पट्टाल् अऱियप्पट्टाल् इदु ऎल्लाम् अऱियप्पट्टदु’ (पिरुहत्। IV। ५-६) ऎऩ्ऱुम् “हे पगवऩ्, ऎदै अऱिन्दाल् इदु ऎल्लाम् अऱियप्पट्टदाग आगुम्” (मुण्डग। १।१-३) ऎऩ्ऱुम्, “ऎऩक्कु वॆळिप्पट्टदाग अऱिवु (अऱिय वेण्डियदु) ऎदुवुम् किडैयादु” ऎऩ्ऱुम् इव्विदमाग ऒव्वॊरु उबनिषत्तिलुम् पिरदिक्ञै काणप्पडुगिऱदु। ऎल्ला वस्तु समूहत्तिऱ्कुम् अऱियप् पड वेण्डिय पिरह्मत्तिलिरुन्दु वेऱुबडात् तऩ्मै इरुन्ददेयाऩाल् इन्द पिरदिक्ञैक्कु हाऩियिल्ला मल्, (कॆडुदल् इल्लामल्) इरुक्कुम् वेऱाग इरुन्दा लो, ऒऩ्ऱिऩ् अऱिविऩाल् ऎल्लाम् अऱियप्पडुम् ऎऩ्ऱ इन्द पिरदिक्ञै वीणाय्विडुम्। ऎल्ला वस्तु समूहमुम् ऒरे पिरह्मत्तिलिरुन्दु उण्डागुमेया ऩाल् इव्विदम् अन्द वेऱुबडात्तऩ्मै पॊरुन्दुम्।
शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते। तथा हि — ‘येनाश्रुतं श्रुतँ भवति’ इति प्रतिज्ञाय, मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते। तत्साधनायैव चोत्तरे शब्दाः — ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६। २। १) ‘तदैक्षत’ ‘तत्तेजोऽसृजत’ (छा. उ. ६। २। ३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्य, अव्यतिरेकं प्रदर्शयन्ति — ‘ऐतदात्म्यमिदँ सर्वम्’ (छा. उ. ६। ८। ७) इत्यारभ्य आ प्रपाठकपरिसमाप्तेः ।
ज्ञानानन्द-भारती - द्राविडी
सप्तङ्गळिलिरुन्दुम्, पिरगिरुदियुम् (कारणमुम्) विगारमुम् कारियमुम्) वेऱिल्लैयॆऩ्ऱ नियायत्तिऩा लेये पिरदिक्ञैक्कु सित्ति ऎऩ्ऱु तॆरिगिऱदु। अप्पडिये “ऎदिऩाल् केट्कप्पडाददु केट्कप्पट्टदाग आगिऱदो” ऎऩ्ऱु पिरदिक्ञै सॆय्दुविट्टु, कार्यत् तिऱ्कुम्, कारणत्तिऱ्कुम् अबेदत्तै पिरदिबादऩम् सॆय्वदिल् तात्पर्यमुळ्ळ मण् मुदलाऩ तिरुष्टान् दङ्गळैक् कॊण्डु इन्द पिरदिक्ञै समर्त्तऩम् सॆय्यप्पडुगिऱदु। अदै सादिप्पदऱ्कावे “हे सोम्य, इदु मुदलिल् सत्तागवेयिरुन्ददु, ऒऩ्ऱागवे इरण्डावदऱ्ऱदाग” (सान्। VI। २-१)। ‘अदु आलोसित्तदु, अदु तेजसै स्रुष्टित्तदु’ (VI।२-३) ऎऩ्ऱ मेलेयुळ्ळ सप्तङ्गळ् पिरह्मत्तिऩ् कार्य समूहत्तैक् काट्टि “इदु ऎल्लाम् इदैये आत्मावाग (स्वरूबमाग) उडैयदु” (सान्।VI।८-७) ऎऩ्ऱु आरम्बित्तु पिरबाडगम् मुडियुंवरै वेऱुबडात् तऩ्मैयैये काट्टुगिऩ्ऱऩ।
तद्यद्याकाशं न ब्रह्मकार्यं स्यात् , न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत। ततश्च प्रतिज्ञाहानिः स्यात्। न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम्। तथा हि प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापयन्ति — ‘इदँ सर्वं यदयमात्मा’ (छा. उ. २। ४। ६) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २। २। १२) इत्येवमादयः। तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते ॥
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् आगासम् पिरह्मत्तिऩ् कार्यमिल्लामल् इरुन्दाल्, पिरह्मत्तै अऱिन्दाल् आगासम् अऱियप् पट्टदाग आगादु। अदिऩाल् पिरदिक्ञैक्कु हाऩियुम् एऱ्पडुम्। पिरदिक्ञैक्कु हाऩि सॆय्वदु कारणमाय् वेदत्तिऱ्कु पिरामाण्यमिल्लामल् सॆय्वदु युक्त मिल्लै। अप्पडिये ऒव्वॊरु उबनिषत्तिलुम् अन्दन्द सप्तङ्गळ् अन्दन्द त्रुष्टान्दङ्गळैक् कॊण्डु अन्द पिरदिक्ञैयैये “इदु ऎल्लाम् ऎदुवो अदु इन्द आत्मा” (पिरुहत्। II; ४-६) मुऩ्ऩालुम् नासमऱ्ऱइन्द पिरह्ममे (मुण्डग। II-२-११) ऎऩ्बदु मुदलाऩवैगळ्, स्ताबिक्किऩ्ऱऩ। आगैयाल् अक्ऩि मुदलियदैप् पोलवे आगासमुम् उत्पत्तियागिऱदु।
यदुक्तम् — अश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तम् , वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २। १। १) इति। सत्यं दर्शितम् , विरुद्धं तु ‘तत्तेजोऽसृजत’ इत्यनेन श्रुत्यन्तरेण। न, एकवाक्यत्वात्सर्वश्रुतीनाम्। भवत्वेकवाक्यत्वमविरुद्धानाम्। इह तु विरोध उक्तः — सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसम्बन्धासम्भवाद्द्वयोश्च प्रथमजत्वासम्भवाद्विकल्पासम्भवाच्चेति — नैष दोषः।
ज्ञानानन्द-भारती - द्राविडी
सॊल्लप्पडाददिऩाल् आगासम् उत्पत्तियावदिल्लै ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो अदु युक्तमिल्लै। आगासत्तिऩ् उत्पत्ति विषयमायुळ्ळ“अन्द इन्द आत्मा विलिरुन्दे आगासम् उण्डायिऱ्ऱु” (तैत्तिरीय। II-१) ऎऩ्ऱ वेऱु सुरुदि काट्टप्पट्टदिऩाल् काट्टप्पट्टदु वास्तवम्; आऩाल् अदु “अदु तेजसै स्रुष्टित्तदु” ऎऩ्ऱ इन्द मऱ्ऱ सुरुदियुडऩ् विरोदप्पडुगिऩ्ऱदे यॆऩ्ऱाल्, अप्पडियल्ल, ऎल्ला सुरुदिगळुक्कुम् ऒरे वाक्कियमायिरुक्कुम् तऩ्मै (ऒरे अर्त्तत्तैच् चॊल्लुम् तऩ्मै इरुप्पदाल्), विरोदमिल्लादवै कळुक्कु एगवाक्कियत्तऩ्मैयिरुक्कट्टुम्; इङ्गेयो, ऒरु तडवै सॊल्लप्पट्टिरुक्किऱ स्रुष्टि सॆय्गिऱ वरुक्कु स्रुष्टिक्कप्पड वेण्डिय इरण्डुडऩ् सम्बन्दम् सम्बविक्काददिऩालुम् इरण्डुम् मुदलिल् उण्डायिरुप्पदु सम्बविक्काददिऩालुम् (इप्पडियो अप्पडियो ऎऩ्ऱु) विगल्बम् सम्बविक्काददिऩालुम् विरुत्तम् ऎऩ्ऱु सॊल्लप्पट्टदे ऎऩ्ऱाल्, इदु तोषम् अल्ल।
तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः, आकाशाद्वायुः, वायोरग्निः’ (तै. उ. २। १। १) इति। अशक्या हीयं श्रुतिरन्यथा परिणेतुम्। शक्या तु परिणेतुं छान्दोग्यश्रुतिः — तदाकाशं वायुं च सृष्ट्वा ‘तत्तेजोऽसृजत’ इति। न हीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति, एकस्य वाक्यस्य व्यापारद्वयासम्भवात्। स्रष्टा त्वेकोऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् — इत्येकवाक्यत्वकल्पनायां सम्भवन्त्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या ।
ज्ञानानन्द-भारती - द्राविडी
तैत्तिरीयत्तिल् तेजसिऩ् स्रुष्टियै “अन्द इन्द आत्माविलिरुन्दे आगासम् उण्डायिऱ्ऱु। आगासत्तिलिरुन्दु वायु, वायुविलिरुन्दु अक्ऩि,” (तैत्तिरीय। II-१) ऎऩ्ऱु मूऩ्ऱावदाग सॊल्लियिरुप् पदाल् इन्द सुरुदियै वेऱु विदमाग माऱ्ऱुवदऱ्को मुडियादु; आऩाल् सान्दोक्य सुरुदियै अदु आगासत् तैयुम्, वायुवैयुम् स्रुष्टित्तु विट्टु अदु तेजसै स्रुष्टित्तदु ऎऩ्ऱु माऱ्ऱिक्कॊळ्ळ मुडियुम्। तेजसिऩ् उत्पत्तियै पिरदाऩमाय्क् कॊण्डुळ्ळ इन्द सुरुदि वेऱु सुरुदियिल् पिरसित्तमाय् इरुक्कुम् आगासत्तिऩ् उत्पत्तियै तडुक्क मुडियादु, ऒरे वाक्कियत्तिऱ्कु इरण्डु वियाबारम् सम्बविक्काददिऩाल्। स्रुष्टिप्पवर् ऒरुवरायिरुन्दालुम् स्रुष्टिक्क वेण्डिय पलवऱ्ऱै वरिसैयाग स्रुष्टिक्कलाम् ऎऩ्ऱु ऒरे वाक्कियमायि रुक्कुम् तऩ्मैयै कल्बिप्पदु सम्बविक्कुमाऩदिऩाल्, विरुत्तमाऩ विषयङ्गळुळ्ळदॆऩ्ऱु सुरुदियै विट्टुविड वेण्डियदिल्लै।
न चास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसम्बन्धोऽभिप्रेयते, श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसङ्ग्रहात्। यथा च ‘सर्वं खल्विदं ब्रह्म तज्जलान्’(छा॰उ॰ ३-१४-१) इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसोऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति ।
ज्ञानानन्द-भारती - द्राविडी
मेलुम् ऒरु तडवै सॊल्लप्पट्टिरुक्कुम् स्रुष्टि सॆय्बवरुक्कु स्रुष्टिक्कप्पडवेण्डिय इरण्डिऩ् सम्बन्दम् ऎङ्गळाल् अबिप्पिरायप्पडविल्लै, मऱ्ऱॊरु सुरुदियिऩ् पलत्तिऩाल् स्रुष्टिक्कप्पड वेण्डिय वेऱॊऩ्ऱै सेर्त्तुक् कॊळ्वदाल्, “इदु ऎल्लाम् पिरह्ममे। अदिलिरुन्दु उण्डागिऱदु अदिल् लयमडै किऱदु, अदिऩाल् जीवित्तिरुक्किऱदु” (सान्।III।१४-१) ऎऩ्ऱ विडत्तिल् साक्षात्तागवे ऎल्ला वस्तु समूहत्तिऱ् कुम् पिरह्मत्तिलिरुन्दु उण्डागुम् तऩ्मै सॊल्लप् पडुवदु वेऱिडत्तिल् विहिदमाऩ तेजसै मुदलाग वैत्तुच् चॊल्लप्पडुम् उत्पत्तियिऩ् वरिसैयै ऎप्पडि तडुक्किऱदिल्लैयो, अप्पडिये तेजसुक्कुम् पिरह्मत् तिलिरुन्दु उण्डागुम् तऩ्मै सॊल्लप्पडुवदु वेऱु सुरुदियिल् विहिदमाऩ आगासत्तै मुदलाग वैत्तुच् चॊल्लप्पडुम् उत्पत्तियिऩ् वरिसैयै तडुक्क मुडियादु।
ननु शमविधानार्थमेतद्वाक्यम् — ‘तज्जलानिति शान्त उपासीत’ इति श्रुतेः। नैतत्सृष्टिवाक्यम्। तस्मादेतन्न प्रदेशान्तरप्रसिद्धं क्रममुपरोद्धुमर्हति। ‘तत्तेजोऽसृजत’ इत्येतत्सृष्टिवाक्यम्। तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति। नेत्युच्यते। न हि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्य ।
ज्ञानानन्द-भारती - द्राविडी
इन्द वाक्कियम् “अदिलिरुन्दु उण्डागिलय मडैन्दु जीविदिरुक्किऱदॆऩ्ऱु सान्दऩाय् उबासिक्कवुम्” ऎऩ्ऱु सॊल्लियिरुप्पदाल्, सान्दियै विदिप्पदऱ्काग एऱ्पट्टदे तविर, इदु स्रुष्टियै सॊल्लुम् वाक्कियम् इल्लैये? आगैयाल् वेऱु इडत्तिल् पिरसित्त मायुळ्ळ वरिसैयै पादिक्क इदऱ्कु योक्कियदै इल्लै। ‘अदु तेजसै स्रुष्टित्तदु’ ऎऩ्ऱ इदु स्रुष्टि वाक्कियम्; आगैयाल् इङ्गे ऎप्पडि सॊल्लप् पट्टिरुक्किऱदो अप्पडिये वरिसै किरहिक्कप्पड वेण्डुम् ऎऩ्ऱाल् अप्पडियल्ल ऎऩ्ऱु सॊल्गिऱोम्। तेजुसुक्कु मुदलावदागविरुक्कुम् तऩ्मैयै अऩुसरित्तु वेऱु सुरुदियिल् पिरसित्तमायुळ्ळ आगासम् ऎऩ्ऱ पदार्त्तमे विडप्पड वेण्डियदाग आगादु, वरिसै ऎऩ्बदु पदार्त्तत्तिऩ् तर्ममाऩदिऩाल्।
अपि च ‘तत्तेजोऽसृजत’ इति नात्र क्रमस्य वाचकः कश्चिच्छब्दोऽस्ति। अर्थात्तु क्रमोऽवगम्यते स च ‘वायोरग्निः’ (तै. उ. २। १। १) इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते। विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसम्भवानभ्युपगमाभ्यां निवारितौ। तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः ।
ज्ञानानन्द-भारती - द्राविडी
मेलुम् ‘अदु तेजसै स्रुष्टित्तदु’ ऎऩ्ऱ इन्द इडत्तिल् वरिसैयै सॊल्लुम् ऎन्द वार्त्तैयुम् इल्लै। अर्त्तत्तिलिरुन्दु ताऩ् (ऊहत्तिलिरुन्दु ताऩ्) किरमम् अऱियप्पडुगिऱदु। अदु वेऱु सुरुदियिल् पिरसित्तमायुळ्ळ ‘वायुविलिरुन्दु अक्ऩि’ ऎऩ्ऱ इन्द किरमत्तिऩाल् विलक्कप्पडुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
आगासत्तिऱ्कुम्, तेजसिऱ्कुम् मुदलावदागयि रुक्कुम् तऩ्मै विषयमाग विगल्बमुम् (इदुवो अदुवो ऎऩ्बदुम्) समुच्चयमुम् (इदु अदु इरण्डुमे ऎऩ्बदुम्) सम्बविक्काददिऩालुम् ऒप्पुक्कॊळ्ळप्पडाद तिऩालुम् विलक्कप्पट्टुविट्टऩ।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् इरण्डु सुरुदिगळुक्कुळ् विरोद मिल्लै।
अपि च छान्दोग्ये ‘येनाश्रुतँ श्रुतं भवति’ इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियत् उत्पत्तावुपसंख्यातव्यम्; किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न सङ्गृह्यते। यच्चोक्तम् — आकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवति। अतो न प्रतिज्ञा हीयते। न च ‘एकमेवाद्वितीयम्’ इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति। अत्रोच्यते — न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम्। मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते। क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात्। न हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति ।
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, सान्दोक्यत्तिल् “ऎदिऩाल् केट्कप्प टाददु केट्कप्पट्टदाग आगिऱदो” ऎऩ्ऱु वाक्कियत्तिऩ् आरम्बत्तिल् सॊल्लप्पट्टिरुक्कुम् इन्द पिरदिक्ञैयै समर्त्तऩम् सॆय्वदऱ्काग, सॊल्लप्पडामलिरुन्दालुम् आगासत्तै उत्पत्ति विषयत्तिल् सेर्त्तुक्कॊळ्ळ वेण्डियदु; अप्पडियिरुक्क तैत्तिरीयत्तिल् सॊल्लप् पट्टु इरुक्किऱ आगासम् एऩ् ऎडुत्तुक्कॊळ्ळप्पडक् कूडादु?
ज्ञानानन्द-भारती - द्राविडी
आगासम् ऎल्लावऱ्ऱुडऩुम् वेऱुबडाद तेसमुम् कालमुमुळ्ळदाल् पिरह्मम् अदऩ् कार्यङ्गळ् इवैगळुडऩ् सेर्न्दे अदु अऱियप्पट्टु विडुगिऱदु ऎऩ्ऱु सॊल्वदाल् पिरदिक्ञै कॆडुबडविल्लै, ‘ऒऩ्ऱु ताऩ् इरण्डावदऱ्ऱदु’ ऎऩ्ऱ सुरुदिक्कुम् विरोद मिल्लै। पालुम् जलमुम् पोल पिरह्मत्तिऱ्कुम्, आगासत्तिऱ्कुम् वेऱुबडात्तऩ्मै पॊरुन्दुमादलाल्, ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो, अव्विषयत्तिल् सॊल्गिऱोम्; इन्द ऒऩ्ऱिऩ् ञाऩत्तिऩाल् ऎल्लाम् अऱियप्पडुवदु पाल्, जलम् ऎऩ्ऱ नियायत्तैक् कॊण्डु समर्त्तऩम् सॆय्यक्कूडियदिल्लै; मण् मुदलियदै तिरुष्टान्दमागक् काट्टियिरुप्पदाल् कारणम् कार्यम् ऎऩ्ऱ नियायत्तैक् कॊण्डुदाऩ् इन्द ऎल्ला विषयमाऩ अऱिवु समर्त्तऩम् सॆय्य वेण्डु मॆऩ्ऱल्लवा तॆरिगिऱदु। पाल्, जल नियायत्तिऩाल् कल्बिक्कप्पडुम् ऎल्ला विषय अऱिवु सरियाऩ अऱिवु आगादु। पाल् विषयमाऩ ञाऩत्तिऩाल् अऱियप्पट्ट जलत्तिऱ्कु नल्ल ञाऩत्तिऩाल् अऱियप्पट्ट तऩ्मै किडैयादल्लवा?
न च वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते। सावधारणा चेयम् ‘एकमेवाद्वितीयम्’ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत। न च स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यम् , मृदादिष्वपि हि तत्सम्भवात् न तदपूर्ववदुपन्यसितव्यं भवति — ‘श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतँ श्रुतं भवति’ (छा. उ. ६। १। ३) इत्यादिना। तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम् ॥ ६ ॥
ज्ञानानन्द-भारती - द्राविडी
मेलुम् मऩिदर्गळैप् पोल वेदत्तिऱ्कु मायै, पॊय्, वञ्जऩै मुदलियवैगळाल् विषयत्तै उऱुदिप्पडुत्तुवदु पॊरुन्दादु। ‘ऒऩ्ऱु ताऩ् इरण्डा वदऱ्ऱदु’ ऎऩ्ऱु उऱुदियुडऩ् कूडिऩ इन्द सुरुदि पाल्, : जल नियायत्तैक् कॊण्डु समर्त्तऩम् सॆय्दाल् पीडिक्कप्पट्टुविडुम्।
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, ऎल्लामऱिवदु ऎऩ्बदुम्, ऒऩ्ऱुदाऩ् इरण्डावदऱ्ऱदु ऎऩ्ऱु उऱुदियागच् चॊल्वदुम् तऩ् कारियङ्गळै यबेक्षित्तु वस्तुविऩ् एगदेस विषय माऩदु ऎऩ्बदु न्यायमिल्लै। मण् मुदलाऩवैगळिल् कूड अदु सम्बविप्पदाल् “हे सुवेदगेदो, सोम्य, ऎऩ्ऩ पॆरिय पुत्तिसालियाग वित्वाऩाग तऩ्ऩै पावित्तुक्कॊण्डु कर्वत्ताल् वणङ्गादवऩाग इरुक्कि ऱाये? अप्पडियाऩाल् ऎदिऩाल् केट्कप्पडाददुम् केट्कप्पट्टदाग आगुमो अन्द उबदेसत्तै केट्टुत् तॆरिन्दु कॊण्डाया” (सान्। VI। १−१) ऎऩ्बदु मुदलाऩ ताल् अबूर्वमाऩ पुदु विषयम् पोल ऎडुत्तुच् चॊल्ल वेण्डियदाग अदु आगादु। आगैयाल्, ऎल्ला वस्तुक्कळैयुम् विषयमाग उळ्ळदुदाऩ् इन्द सर्व विज्ञानम् ऎल्लावऱ्ऱिऱ्कुमे पिरह्मत्तिऩ् कार्यत् तऩ्मै उण्डॆऩ्बदै अबेक्षित्तु, ऎडुत्तुच् चॊल्लप्पडुगिऱदु ऎऩ्ऱु अऱिय वेण्डुम्।
यत्पुनरेतदुक्तम् — असम्भवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति, अत्र ब्रूमः —
ज्ञानानन्द-भारती - द्राविडी
सम्बविक्कक्कूडाददिऩाल् आगासत्तिऱ्कु उत्पत्तियै सॊल्लुम् सुरुदि कौणम् ऎऩ्ऱु ऎन्द इदु सॊल्लप्पट्टदो, अव्विषयत्तिल् सॊल्गिऱोम्:-
यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
ज्ञानानन्द-भारती - द्राविडी
यावत्विगारम् तु विबागो लोगवत् ॥ ७ ॥
तुशब्दोऽसम्भवाशङ्काव्यावृत्त्यर्थः। न खल्वाकाशोत्पत्तावसम्भवाशङ्का कर्तव्या; यतो यावत्किञ्चिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा, कटककेयूरकुण्डलादि वा, सूचीनाराचनिस्त्रिंशादि वा, तावानेव विभागो लोके लक्ष्यते। नत्वविकृतं किञ्चित्कुतश्चिद्विभक्तमुपलभ्यते। विभागश्चाकाशस्य पृथिव्यादिभ्योऽवगम्यते। तस्मात्सोऽपि विकारो भवितुमर्हति। एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम् ।
ज्ञानानन्द-भारती - द्राविडी
“आऩाल्” ऎऩ्ऱ सप्तम् सम्बविक्कादु ऎऩ्ऱ सङ्गैयै निविरुत्ति सॆय्वदऱ्काग। आगासत्तिऩ् उत्पत्ति विषयत्तिल् सम्बविक्कादु ऎऩ्ऱ आसङ्गै सॆय्यक्कूडादु। एऩॆऩ्ऱाल् कुडम्, सिऱु कुडम् उदञ्जऩम् मुदलियदो, कडगम्, केयूरम्, कुण्डलम् मुदलियदो, ऊसि, नारासम्, वाळ् मुदलियदो विगारसमूहम् ऎव्वळवु ऎल्लाम् काणप्पडुगिऱदो अव्वळवे उलगत्तिल् पिरिवु उळ्ळदाग पार्क्कप् पडुगिऱदु। विगारमिल्लाद ऎदुवुम् ऎदिलिरुन्दुम् पिरिवु पट्टदाग काणप्पडुवदे किडैयादु। आगासत्तिऱ्को पिरुदिवि मुदलियवैगळिलिरुन्दु पिरिवु अऱियप्पडुगिऱदु। आगैयाल् अदुवुम्गूड विगारमाग (कारियमाग) इरुप्पदुदाऩ् न्यायम्।
ज्ञानानन्द-भारती - द्राविडी
इदिऩाल् तिक्कु, कालम्, मऩस्, परमाणु मुदलिय वैगळुक्कुम् कार्यत्तऩ्मै सॊल्लप्पट्टु विट्टदु।
नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति; न, ‘आत्मन आकाशः सम्भूतः’ (तै. उ. २। १। १) इति श्रुतेः। यदि ह्यात्मापि विकारः स्यात् , तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात्। तथा च शून्यवादः प्रसज्येत। आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः। न ह्यात्मागन्तुकः कस्यचित् , स्वयंसिद्धत्वात्। न ह्यात्मा आत्मनः प्रमाणमपेक्ष्य सिध्यति। तस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमेयसिद्धये उपादीयन्ते। न ह्याकाशादयः पदार्थाः प्रमाणनिरपेक्षाः स्वयं सिद्धाः केनचिदभ्युपगम्यन्ते। आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति। न चेदृशस्य निराकरणं सम्भवति। आगन्तुकं हि वस्तु निराक्रियते, न स्वरूपम्। य एव हि निराकर्ता तदेव तस्य स्वरूपम्। न ह्यग्नेरौष्ण्यमग्निना निराक्रियते ।
ज्ञानानन्द-भारती - द्राविडी
आत्मावुम्, आगासम् मुदलियवैगळिलिरुन्दु वेऱुबट्टदु ऎऩ्बदिऩाल् अदऱ्कुम्गूड, कुडम् मुदलियदैप् पोल, कार्यत्तऩ्मै एऱ्पडुमे ऎऩ्ऱाल् अप्पडियल्ल। “आत्माविलिरुन्दु आगासम् उण्डायिऱ्ऱु” (तैत्तिरीय। II।१) ऎऩ्ऱ सुरुदियिरुप्पदाल्। आत्मावुम् विगारमाय् इरुक्कुमेयाऩाल्, अदऱ्कु मेल् वेऱु ऎदुवुम् सॊल्लप्पडविल्लैयादलाल्, आत्माविऱ्कु कार्यत्तऩ्मैयाऩाल् आगासम् मुदलाऩ ऎल्ला कार्यमुम् स्वरूबमऱ्ऱदाग एऱ्पडुम्। अप्पडियाऩाल् सूऩ्य वादम् वन्दु सेरुम्।
ज्ञानानन्द-भारती - द्राविडी
आत्मा ताऩागवेयिरुप्पदाल् निरागरिक्कला मॆऩ्ऱ सङ्गै पॊरुन्दादु। ऎवऩुक्कुम् आत्मा पुदिदाग वन्ददु इल्लै, ताऩागवे सित्तमायिरुप्पदाल्। तऩ्ऩुडैय आत्मा पिरमाणत्तै अबेक्षित्तु सित्तिप् पदिल्लैये अवरुक्कु सित्तमिल्लाद विषयङ्गळ् सित्तिप्पदऱ्कागवल्लवा पिरत्यक्षम् मुदलाऩ पिरमाणङ्गळ् ऎडुत्तुक् कॊळ्ळप्पडुगिऩ्ऱऩ। आगासम् मुदलाऩ पदार्त्तङ्गळ् पिरमाणत्तै यबेक्षिक्कामल् स्वयमागवे सित्तमाऩवै ऎऩ्ऱु ऎवरालुम् ऒप्पुक् कॊळ्ळप्पडुवदिल्लैयॆऩ्बदु पिरसित्तम्। आत्मावो पिरमाणम् मुदलिय व्यवहारत्तिऱ्कु आसिरयमायिरुप् पदाल् पिरमाणम् मुदलिय व्यवहारत्तिऱ्कु मुऩ्ऩालेये सित्तित्तिरुक्किऱदु। इव्विदम् उळ्ळदऱ्कु निरागरणम् सम्बविक्कादु। पुदिदाय् वरुम् वस्तुवै यल्लवा निरागरिक्क मुडियुम्। स्वरूबमायिरुप्पदै निरागरिक्क मुडियादु। निरागरिप्पवऩ् ऎवऩो अवऩे अवऩ् स्वरूबम्। अक्ऩियिऩुडैय उष्णत्तऩ्मै अक्ऩियिऩाल् निरागरिक्कप्पडुवदिल्लैयल्लवा?
तथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासिषम् , अहमेवानागतमनागततरं च ज्ञास्यामि, इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति, सर्वदा वर्तमानस्वभावत्वात्। तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः वर्तमानस्वभावादन्यथास्वभावत्वं वा सम्भावयितुं शक्यम्। एवमप्रत्याख्येयस्वभावत्वादेवाकार्यत्वमात्मानः, कार्यत्वं च आकाशस्य ॥
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये, “नाऩे इप्पॊऴुदु इरुक्कुम् वस्तुवै अऱिगिऱेऩ्। नाऩे मुऩ् सॆऩ्ऱदैयुम्, अदऱ्कु मुऩ् सॆऩ्ऱदैयुम् अऱिन्देऩ्। नाऩे वरप्पोवदैयुम्, इऩ्ऩम् पिऩ्ऩाल् वरप्पोवदैयुम् अऱियप्पोगिऱेऩ्” ऎऩ्ऱु, अऱियप्पडवेण्डिय वस्तु सॆऩ्ऱदु वरुवदु, इरुप्पदु ऎऩ्ऱ तऩ्मैयिऩाल् वॆव्वेऱायिरुन्दबोदिलुम्, अऱिगिऱवऩुक्कु वेऱुबडुम् तऩ्मै किडैयादु। ऎप्पॊऴुदुम् इरुक्कुम् स्वबाव मुळ्ळदाल्। अप्पडिये, सरीरम् साम्बलाय्प् पोऩालुम्गूड आत्माविऱ्कु, इरुक्कुम् स्वबावमुळ्ळदाल्, नासमो, वेऱु स्वबावमुळ्ळ तऩ्मैयो इरुप्पदाग ऎण्णम् कूड मुडियादु। इव्विदम् मऱुक्क मुडियाद स्वबावमुळ्ळदालेये आत्मावुक्कु कार्यत्तऩ्मै किडैयादु; आगासत्तिऱ्कु कारियत् तऩ्मैयुण्डु।
यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते — न तावत्समानजातीयमेवारभते, न भिन्नजातीयमिति नियमोऽस्ति। न हि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति, द्रव्यगुणत्वाभ्युपगमात्। न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति। स्यादेतत् — समवायिकारणविषय एव समानजातीयत्वाभ्युपगमः, न कारणान्तरविषय इति; तदप्यनैकान्तिकम्। सूत्रगोवालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते। तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते। सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यम् , सर्वस्य सर्वेण समानजातीयत्वात् ।
ज्ञानानन्द-भारती - द्राविडी
समाऩ जादियुळ्ळ पल कारण तिरवियम् आगासत्तिऱ्कु इल्लैयॆऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदऱ्कु पदिल् सॊल्लप्पडुगिऱदु; समाऩ जादियुळ्ळवै ताऩ् (कार्यत्तै) आरम्बिक्किऱदु, वेऱु जादियुळ्ळदु आरम्बिक्किऱदिल्लै, ऎऩ्ऱ नियमम् किडैयादु। नूल्गळुक्कुम्, अवैगळुडैय सेर्क्कैगळुक्कुम् समाऩ जादित्तऩ्मै इल्लैये, तिरवियम्, कुणम् ऎऩ्ऱ तऩ्मै ऒप्पुक्कॊळ्ळप्पडुवदाल्। निमित्त कारणमाऩ तरि वेमम् मुदलाऩवैगळुक्कुम् समाऩ जादित् तऩ्मैयॆऩ्ऱ नियममिल्लै। इदु इरुक्कलाम्; समाऩ जादित्तऩ्मै ऒप्पुक्कॊळ्वदु समवायि कारण विषयमागत्ताऩ्, वेऱु कारणङ्गळै विषयमायुळ्ळ तल्ल ऎऩ्ऱु। अदुवुम् मुडिवाऩदिल्लै (अप्पडित्ताऩ् ऎऩ्ऱिल्लै)। पल जादियुळ्ळ नूल् माट्टु रोमम् इवैगळाल् ऒरे कयिऱु स्रुष्क्कप्पडुवदु काणप् पडुवदिल्लैया? अप्पडिये नूल्गळालुम्, आट्टु रोमङ्गळालुम् पलविद कम्बळङ्गळै सॆय्गिऱार्गळ्। इरुक्कुम् तऩ्मै, तिरवियत्तऩ्मै, मुदलियदै अबेक्षित्तु समाऩ जादित्तऩ्मै कल्बिक्कप् पडुमेयाऩाल्, नियमत्तिऱ्कु पिरयोजऩमिल्लै, ऎल्लावऱ्ऱिऱ्कुम्, ऎल्लावऱ्ऱुडऩुम् समाऩ जादित् तऩ्मैयुळ्ळदाल्।
नाप्यनेकमेवारभते, नैकम् — इति नियमोऽस्ति। अणुमनसोराद्यकर्मारम्भाभ्युपगमात्। एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते, न द्रव्यान्तरैः संहत्य — इत्यभ्युपगम्यते। द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत् , न। परिणामाभ्युपगमात्। भवेदेष नियमः — यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत। तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते। तच्च क्वचिदनेकं परिणमते मृद्बीजादि अङ्कुरादिभावेन। क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन। नेश्वरशासनमस्ति — अनेकमेव कारणं कार्यं जनयतीति। अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते। तथा चोक्तम् — ‘उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि’ (ब्र. सू. २। १। २४) इति ॥
ज्ञानानन्द-भारती - द्राविडी
मेलुम् पल वस्तुक्कळ् ताऩ् (कारियत्तै) आरम्बिक्किऱदु। ऒऩ्ऱायिरुप्पदु आरम्बिक्किऱदिल्लै ऎऩ्ऱ नियममुम् किडैयादु। अणुविऱ्कुम्, मऩसिऱ्कुम् मुदलावदु कर्माविऩ् आरम्बत्तै ऒप्पुक्कॊळ्वदाल्, ऒव्वॊरु परमाणुवुम्, मऩसुम्, वेऱु तिरवियङ् गळुडऩ् सेरामले, मुदलावदु कर्मावै आरम्बिक्किऱदु ऎऩ्ऱल्लवा ऒप्पुक्कॊळ्ळप्पडुगिऱदु? तिरवियत्तै आरम्बिक्किऱ विषयत्तिल् ताऩ् पल सेर्न्दु आरम्बिक्कुम् नियमम् ऎऩ्ऱाल्, सरियल्ल। परिणामत्तै ऒप्पुक्कॊळ् वदाल्; सेर्क्कैयिऩ् उदवि कॊण्डु ऒरु तिरवियम् वेऱु तिरवियत्तिऱ्कु आरम्बगमायिरुक्किऱदॆऩ्ऱु ऒप्पुक् कॊळ्ळप्पट्टाल् इन्द नियमम् इरुक्कलाम्। आऩाल् अदे तिरवियम् विसेषत्तुडऩ् कूडिय वेऱु निलैयै अडैन्द पोदु कार्यम् ऎऩ्ऱु ऒप्पुक्कॊळ्ळप्पडुगिऱदु। अदुवुम् सिलविडङ्गळिल् पल परिणमिक्किऱदु। मण् विदै मुदलियदु मुळै मुदलिय रूबमाग; सिलविडङ्गळिल् ऒऩ्ऱे परिणमिक्किऱदु, पाल् मुदलियदु तयिर् मुदलिय रूबमाग पलवाग इरुक्कुम् कारणम् ताऩ् कार्यत्तै उण्डु पण्णुगिऱदॆऩ्ऱु ईसुवरऩुडैय कट्टळै किडैयादु।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् सुरुदियिऩ् पिरामाण्यत्तिऩाल्, ऒऩ्ऱाय् इरुक्कुम् पिरह्मत्तिऩिडमिरुन्दु आगासम् मुदलाऩ महाबूदङ्गळिऩ् उत्पत्तियिऩ् वरिसैयाग जगत् उण्डायिऱ्ऱु ऎऩ्ऱु तीर्माऩिक्कप्पडुगिऱदु। अप्पडिये “उबसम्हारम् काणप्पडुवदाल् इल्लै यॆऩ्ऱाल् इल्लै, पाल् पोलल्लवा” (सूत्रम्। II। १- २४) ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु।
यच्चोक्तम् आकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेषः सम्भावयितुं शक्यत इति, तदयुक्तम्। येनैव विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते, स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते। यथा च ब्रह्म न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत् — ‘अस्थूलमनणु’ (बृ. उ. ३। ८। ८) इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते। तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम् ।
ज्ञानानन्द-भारती - द्राविडी
आगासत्तिऩ् उत्पत्ति विषयत्तिल् मुऩ् पिऩ् कालङ्गळुक्कुळ् विसेषम् उण्डॆऩ्ऱु निऩैक्क मुडियादु ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदु युक्त मिल्लै। ऎन्द विसेषत्तिऩाल् आगासम् पिरुदिवी मुदलिय वैगळिलिरुन्दु वेऱुबट्टु स्वरूबमुळ्ळदाग इप्पॊऴुदु तीर्माऩिक्कप्पडुगिऱदो, अन्द विसेषम् (आगासम्) उत्पत्तियावदऱ्कु मुऩ् इरुक्कविल्लै यॆऩ्ऱु तॆरिगिऱदु। “स्तूलमल्लाददु, अणुवल्लाददु” (पिरुहत्। III।८-८) ऎऩ्बदु मुदलिय सुरुदिगळिऩाल् ऎव्विदम् पिरुदिवी मुदलियवैगळिऩ् स्वबावमाऩ स्तूलम् मुदलाऩदुगळाल् पिरह्मम्, स्वबावमुळ्ळदाग आगादो अव्विदमे आगासत्तिऩ् स्वबावत्तिऩालुम् स्वबावमुळ्ळदाग पिरह्मम् आगादु ऎऩ्बदु, ‘आगासमिल् लाददु’, ऎऩ्ऱ सुरुदियिलिरुन्दु अऱियप्पडुगिऱदु। आगैयाल् उत्पत्तिक्कु मुऩ्ऩाल् आगासमऱ्ऱदु ऎऩ्बदु निलैक्किऱदु।
यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति, तदप्यसत् , श्रुतिविरोधे सत्युत्पत्त्यसम्भवानुमानस्याभासत्वोपपत्तेः। उत्पत्त्यनुमानस्य च दर्शितत्वात्। अनित्यमाकाशम् , अनित्यगुणाश्रयत्वात् , घटादिवदित्यादिप्रयोगसम्भवाच्च। आत्मन्यनैकान्तिकमिति चेत् , न। तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेः। विभुत्वादीनां च आकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् ।
ज्ञानानन्द-भारती - द्राविडी
पिरुदिवी मुदलियदिलिरुन्दु वेऱुबट्ट तर्म मुळ्ळदाल् आगासत्तिऱ्कु पिऱप्पऱ्ऱ तऩ्मै ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदुवुम् सरियल्ल। सुरुदिक्कु विरोद मायिरुक्कुम् पोदु, उत्पत्ति सम्बविक्कादु ऎऩ्ऱ अऩुमा ऩत्तिऱ्कु आबासत्तऩ्मैये पॊरुन्दुमाऩ तिऩाल्; उत्पत्ति विषयमाऩ अऩुमाऩम् काट्टप्पट्टु विट्टबडि यालुम्, “आगासम् अनित्यम्, अनित्यमाऩ कुणत्तिऱ्कु, आसिरयमायिरुप्पदाल्, कुडम् मुदलियदु पोल” ऎऩ्बदु मुदलाऩ पिरयोगम् (अऩुमाऩम्) सम्बविप्पदिऩालुम्।
ज्ञानानन्द-भारती - द्राविडी
(अनित्य कुणङ्गळुक्कु आच्रयमाऩ आत्मा नित्यमाऩदाल् अऩुमाऩत्तिऱ्कु) आत्माविल् वियबिसारम् ऎऩ्ऱाल् सरियिल्लै। उबनिषत्तै ऒप्पुक्कॊळ्गिऱवऩ् विषयमाय् अदऱ्कु (आत्मावुक्कु) अनित्यमाऩ कुणत्तिऱ्कु आसिरयमायिरुक्कुम् तऩ्मै सित्तिक्काद तिऩाल्, आगासत्तिऱ्कु उत्पत्तियुण्डॆऩ्ऱु सॊल्लु किऱवऩ् विषयत्तिल्, वियाबगमायिरुक्कुम् तऩ्मै मुदलियवैगळुम् सित्तमिल्लाददिऩाल्।
यच्चोक्तमेतत् — शब्दाच्चेति — तत्रामृतत्वश्रुतिस्तावद्वियति ‘अमृता दिवौकसः’ इतिवद्द्रष्टव्या , उत्पत्तिप्रलययोरुपपादितत्वात् । ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०। ६। ३। २) इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय, न आकाशसमत्वाय — यथा ‘इषुरिव सविता धावति’ इति क्षिप्रगतित्वायोच्यते, न इषुतुल्यगतित्वाय — तद्वत्; एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता; ‘ज्यायानाकाशात्’ इत्यादिश्रुतिभ्यश्च ब्रह्मणः सकाशादाकाशस्योनपरिमाणत्वसिद्धिः । ‘न तस्य प्रतिमास्ति’ (श्वे. उ. ४। १९) इति च ब्रह्मणोऽनुपमानत्वं दर्शयति । ‘अतोऽन्यदार्तम्’ (बृ. उ. ३। ४। २) इति च ब्रह्मणोऽन्येषामाकाशादीनामार्तत्वं दर्शयति। तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसम्भवश्रुत्यनुमानाभ्यां परिहृतम्। तस्माद्ब्रह्मकार्यं वियदिति सिद्धम् ॥ ७ ॥
ज्ञानानन्द-भारती - द्राविडी
इदु सप्तत्तिऩालुम् ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो अदिल् आगासत्तिल् सॊल्लप्पडुम्। “नासमऱ्ऱदु” ऎऩ्ऱ सुरुदि तेवर्गळ् मरणमऱ्ऱवर्गळ् ऎऩ्बदु पोल अऱिय वेण्डियदु, उत्पत्ति पिरळयम् इरण्डुम् काट्टियिरुप् पदाल् “आगासम् पोल ऎङ्गुमुळ्ळवर्, नित्यर्” ऎऩ्बदिलुम् निरदिसयमाऩ पॆरियदु ऎऩ्ऱु काट्टुवदऱ्काग पॆरियदाग उलग पिरसित्तमाऩ आगासत्तिऩाल् उब माऩम् सॆय्यप्पडुगिऱदे तविर, आगासत्तिऱ्कु समाऩ मायिरुक्किऱदु ऎऩ्बदऱ्काग इल्लै। “सूर्यऩ् अम्बु मादिरि ओडुगिऱार्” ऎऩ्ऱु वेगमाय् पोगुम् तऩ्मैयैक् काट्ट सॊल्लप्पडुगिऱदे तविर, अम्बिऩ् वेगत्तिऱ्कु समाऩमाऩ वेगम् ऎऩ्बदऱ्काग ऎप्पडियिल्लैयो, अदैप्पोल। आगासम् उण्डागि नासमडैवदाल् नासमऱ्ऱदु ऎऩ्बदिल् उबमाऩमाग सॊऩ्ऩ सुरुदियुम् विळक्कप्पट्टुविट्टदु। (मऱ्ऱदै विड वॆगु कालमिरुक् कुम् आगासत्तै काट्टि आत्मा नासम् अऱ्ऱदु ऎऩ्ऱु कूऱुगिऱदु, ‘आगासत्तै विडप्पॆरियदु” ऎऩ्बदु मुदलाऩ सुरुदिगळिलिरुन्दुम् आगासम् प्रह्मत्तैक् काट्टिलुम् कुऱैन्द परिमाणमुळ्ळदॆऩ्ऱु सित्तिक्किऱदु। “अदऱ्कु पदिल् किडैयादु” (सुवेदा। IV-१९) ऎऩ्बदुम् पिरह्मत्तिऱ्कु उबमाऩम् किडैयादॆऩ्बदैक् काट्टुगिऱदु। इदैत्तविर वेऱु आर्त्तम् (तुक्कमुळ्ळदु) (पिरुहत्। III। ४-२) ऎऩ्ऱुम् पिरह्मत्तिऱ्कु वेऱाय् उळ्ळ आगासम् मुदलियवैगळुक्कु आर्त्तत्तऩ्मैयैक् काट्टुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
तबस् ऎऩ्ऱदिल् पिरह्म सप्तम् पिरयोगित् तिरुप्पदु पोल, आगासत्तिऱ्कु उत्पत्ति सॊल्लुम् सुरुदिक्कु कौणत्तऩ्मै ऎऩ्बदु आगासत् तिऱ्कु उत्पत्तियै सॊल्लिय सुरुदियिऩालुम् अऩुमा ऩत्तिऩालुम् परिहरिक्कप्पट्टुविट्टदु। आगैयाल् आगासम् पिरह्मत्तिऩ् कार्यम् ताऩ् ऎऩ्बदु सित्तम्।