०१ रचनानुपपत्त्यधिकरणम्

रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥

ज्ञानानन्द-भारती - द्राविडी

रसनाऩुबबत्तेच्च नाऩुमाऩम् ॥ १ ॥

प्रधानं जगतो हेतुर्न वा सर्वे घटादयः ॥
अन्विताः सुखदुःखाद्यैर्यतो हेतुरतो भवेत् ॥ १ ॥
न हेतुर्योग्यरचनाप्रवृत्त्यादेरसम्भवात् ॥
सुखाद्या आन्तरा बाह्मा घटाद्यास्तु कुतोऽन्वयः ॥ २ ॥

ज्ञानानन्द-भारती - द्राविडी

–वैयासिक-न्यायमाला

ज्ञानानन्द-भारती - द्राविडी

जगत्तिऱ्कुक् कारणम् पिरदाऩमा? इल्लैया? कुडम् मुदलाऩवैगळ् ऎल्लाम्, सुगम्, तुक्कम् मुदलियवैग ळुडऩ् कूडिये इरुक्किऩ्ऱऩ ऎऩ्बदिऩाल्, अवैगळुक्कुक् कारणम् (अप्पडिये इरुक्क वेण्डुमाऩदिऩाल् पिरदाऩम्) आगविरुक्कुम्।

ज्ञानानन्द-भारती - द्राविडी

न्यायमाऩदै उण्डु पण्णुवदु (उण्डु पण्णु वदऱ्कु वेण्डिय) पिरविरुत्ति मुदलियदु (पिरदाऩत्तिल्) सम्बविक्काददिऩाल् (अदु) कारणम् अल्ल। सुगम् मुदलियऩ उळ्ळेयिरुक्किऩ्ऱऩ।कुडम् मुदलियऩवो वॆळियिल् इरुक्किऩ्ऱऩ अप्पडियिरुक्क अव्विरण्डिऱ्कुम् तॊडर्बु ऎप्पडियिरुक्क मुडियुम्?

यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूपयितुं शास्त्रं प्रवृत्तम् , न तर्कशास्त्रवत्केवलाभिर्युक्तिभिः कञ्चित्सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् , तथापि वेदान्तवाक्यानि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्षभूतानि साङ्ख्यादिदर्शनानि निराकरणीयानीति तदर्थः परः पादः प्रवर्तते। वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात्तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतम् — तद्ध्यभ्यर्हितं परपक्षप्रत्याख्यानादिति ।

ज्ञानानन्द-भारती - द्राविडी

(अत्विदीयमाऩ पिरह्मम् जगत् कारणम् ऎऩ्ऱ मुदलावदु समन्वयात्यायत्तिल् तीर्माऩिक्कप्पट्ट वेदान्द सित्तान्दत्तिल् पिऱ वादिगळ् सॊल्लुम् तूषणङ्गळुक्कु मुदल् पादत्तिल् परिहारम् सॊऩ्ऩार्। इन्द इरण्डावदु पादत्तिल् पिऱ मदङ्गळिल् तोषङ्गळैक्काट्टि निरागरणम् सॆय्गिऱार्। युक्तियैक् कॊण्डे साङ्गिय वैसेषिगादि मदङ्गळैक् कण्डिप्पदाल् इदऱ्कु ‘तर्गबादम्’ ऎऩ्ऱु पॆयर्।

ज्ञानानन्द-भारती - द्राविडी

मण्णाग इरुक्कुम् कुडम् मुदलियवैगळुक्कु मण् कारणमावदुबोल् उलगिलुळ्ळ ऎल्ला वस्तुक्कळुम् सुगदुक्क मोहङ्गळुडऩ् काणप् पडुवदाल् अवै सत्व रजस् तमो कुणङ्गळिऩ् कार्यमाऩदाल् मुक्कुण वडिवाऩ पिरदाऩम्दाऩ् जगत् कारणम् ऎऩ्बदु साङ्ग्य मदम्। ऒरु पॆण् कणवऩुक्कु सुगत्तैयुम्, सक्कळत्तिगळुक्कु तुक्कत्तैयुम् पिऱ पुरुषऩुक्कु मोहत्तैयुम् कॊडुक्किऱबडियाल्। इदेबोल् ऎल्ला वस्तुक्कळुम् सुग तुक्क मोहात्मगम् ऎऩ्बदु अवऩ् ऎण्णम्।

ज्ञानानन्द-भारती - द्राविडी

मण्णाग इरुक्कुम् कुडम् मुदलियवैगळुक्कु मण् कारणमावदुबोल् उलगिलुळ्ळ ऎल्ला वस्तुक्कळुम् सुगदुक्क मोहङ्गळुडऩ् काणप् पडुवदाल् अवै सत्व रजस् तमो कुणङ्गळिऩ् कार्यमाऩदाल् मुक्कुण वडिवाऩ पिरदाऩम्दाऩ् जगत् कारणम् ऎऩ्बदु साङ्ग्य मदम्। ऒरु पॆण् कणवऩुक्कु सुगत्तैयुम्, सक्कळत्तिगळुक्कु तुक्कत्तैयुम् पिऱ पुरुषऩुक्कु मोहत्तैयुम् कॊडुक्किऱबडियाल्। इदेबोल् ऎल्ला वस्तुक्कळुम् सुग तुक्क मोहात्मगम् ऎऩ्बदु अवऩ् ऎण्णम्।

ज्ञानानन्द-भारती - द्राविडी

इन्द सास्तिरम् उबनिषत् वाक्कियङ्गळुक्कु इदुदाऩ् तात्पर्यमॆऩ्ऱु निरूबणम् सॆय्वदऱ्कागवे एऱ्पट्टिरुन्द पोदिलुम्, तर्क्क सास्तिरत्तैप्पोल वॆऱुम् युक्तिगळैक् कॊण्डु एदेऩुमॊरु सित्तान्दत्तै सादिक्कवो, तूषिक्कवो एऱ्पडाद पोदिलुम्, अप्पडियुम् उबनिषत् वाक्कियङ्गळुक्कु वियाक्याऩम् सॆय्गिऱवर्गळाल् सम्यक् तर्सऩत्तिऱ्कु (उण्मैयाऩ ञाऩत्तिऱ्कु) ऎदिरिडैयायिरुक्कुम् साङ्गियम् मुदलाऩ तर्सऩङ्गळै निरागरिक्क वेण्डियदुण्डु ऎऩ्बदिऩाल् अदऱ्काग अडुत्त पादम् पिरविरुत्तिक्किऱदु। उबनिषत्तुक्कळिऩ् तात्पर्यत्तै निर्णयम् सॆय्वदु सम्यक्तर्सऩत्तिऱ्कागवे- याऩदिऩाल्, अदै निर्णयम् सॆय्वदिऩ् मूलमाय् तऩ् पक्षत्तै स्ताबित्तुक् कॊळ्वदु मुदलिल् सॆय्यप्पट्टदु, मऱ्ऱवर् पक्षङ्गळै मऱुप्पदैविड इदु मुक्कियमल्लवा!

विश्वास-प्रस्तुतिः

ननु मुमुक्षूणां मोक्ष-साधनत्वेन सम्यग्-दर्शन-निरूपणाय
स्व-पक्ष-स्थापनम् एव केवलं कर्तुं युक्तम्।
किं पर-पक्ष-निराकरणेन पर-विद्वेष-करेण ?+++(5)+++

मूलम्

ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तम्। किं परपक्षनिराकरणेन परविद्वेषकरेण ?

विश्वास-प्रस्तुतिः

बाढम् एवम्।
तथापि महाजन-परिगृहीतानि महान्ति साङ्ख्यादि-तन्त्राणि
सम्यग्-दर्शनापदेशेन प्रवृत्तान्य् उपलभ्य
भवेत् केषाञ्चिन् मन्द-मतीनाम् —
“एतान्य् अपि सम्यग्-दर्शनायोपादेयानि” — इत्य् अपेक्षा,
तथा युक्ति-गाढत्व-सम्भवेन सर्वज्ञ-भाषितत्वाच् च श्रद्धा च तेषु —
इत्य्-अतस् तद्-असारतोपपादनाय प्रयत्यते ।+++(5)+++

मूलम्

बाढमेवम्। तथापि महाजनपरिगृहीतानि महान्ति साङ्ख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषाञ्चिन्मन्दमतीनाम् — एतान्यपि सम्यग्दर्शनायोपादेयानि — इत्यपेक्षा, तथा युक्तिगाढत्वसम्भवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेषु — इत्यतस्तदसारतोपपादनाय प्रयत्यते ।

ज्ञानानन्द-भारती - द्राविडी

मोक्षत्तैयडैय विरुम्बुगिऱवर्गळुक्कु मोक्षत्तिऱ्कु सादऩम् ऎऩ्ऱ मुऱैयिल् सम्यक् तर्सऩत्तै निरूबणम् सॆय्वदऱ्काग तऩ् पक्षत्तै स्ताबिप्पदु ऎऩ्बदै मात्तिरम् सॆय्वदु ताऩे न्यायम्? मऱ्ऱवर्गळुक्कु तुवेषत्तै उण्डु पण्णक्कूडिय मऱ्ऱवर्गळिऩ् पक्षङ्गळै निरागरणम् सॆय्वदु ऎदऱ्काग? इदु वास्तवम्, अप्पडियिरुन्द पोदिलुम्, पॆरियोर्गळाल् अङ्गीगरिक्कप्पट्टुळ्ळ पॆरिदायुळ्ळ साङ्गियम् मुदलाऩ तन्दिरङ्गळुम् सम्यक् तर्सऩम् ऎऩ्ऱ पॆयरुडऩ् पिरविरुत्तित्तिरुप्पदैप् पार्त्तु मन्दबुत्तियुळ्ळ सिलरुक्कु इवैगळुम् कूड सम्यक् तर्समऩडैवदऱ्काग ऎडुत्तुक्कॊळ्ळ वेण्डियदु ताऩ् ऎऩ्ऱु अबेक्षै एऱ्पडक्कूडुम्। अप्पडिये आऴ्न्द युक्तिगळुडऩ् कूडियदाय् इरुक्कुमाऩ तिऩालुम् सर्वक्ञर्गळाल् सॊल्लप्पट्टिरुप्पदिऩालुम् अवैगळिल् सिरत्तैयुम् एऱ्पडक्कूडुम् ऎऩ्ऱ इन्दक् कारणत्तिऩाल् अवै सारमऱ्ऱदॆऩ्ऱु ऎडुत्तुक् काट्टुवदऱ्काग पिरयत्तिऩम् सॆय्यप्पडुगिऱदु।

ननु ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १। १। ५) ‘कामाच्च नानुमानापेक्षा’ (ब्र. सू. १। १। १८) ‘एतेन सर्वे व्याख्याता व्याख्याताः’ (ब्र. सू. १। ४। २८) इति च पूर्वत्रापि साङ्ख्यादिपक्षप्रतिक्षेपः कृतः; किं पुनः कृतकरणेनेति। तदुच्यते — साङ्ख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानुगुण्येनैव योजयन्तो व्याचक्षते, तेषां यद्व्याख्यानं तद्व्याख्यानाभासम् , न सम्यग्व्याख्यानम् — इत्येतावत्पूर्वं कृतम्; इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः ॥

ज्ञानानन्द-भारती - द्राविडी

“पार्प्पदिऩाल् सप्तमऱ्ऱदु इल्लै” (सूत्रम् १-१-५), “आसैप्पडुवदिऩालुम् अऩुमाऩत्तिऱ्कु अबेक्षैयिल्लै” (सूत्रम् १-१-१८), “इदऩाल् ऎल्लाम् विळक्कप्पट्टुविट्टऩ विळक्कप्पट्टुविट्टऩ” (सूत्रम् १-४-२८) ऎऩ्ऱु मुऩ्ऩालेये साङ्गियम् मुदलाऩ पक्षङ्गळिऩ् मऱुप्पु सॆय्यप्पट्टुविट्टदे, मऱुबडियुम् सॆय्ददैये सॆय्वदिल् ऎऩ्ऩ पिरयोजऩम्? ऎऩ्ऱु। अदु सॊल्लप्पडुगिऱदु; साङ्गियर् मुदलाऩवर्गळ् तङ्गळ् पक्षङ्गळै स्ताबित्तुक् कॊळ्वदऱ्काग उबनिषत् वाक्कियङ्गळैयुम् ऎडुत्तुच् चॊल्लि तङ्गळ् पक्षङ्गळुक्कु ऒत्तुवरुम्बडियागवे सेर्त्तु वियाक्याऩम् सॆय्गिऱार्गळ्। अवर्गळुडैय वियाक्याऩम् ऎदुवो अदु वियाक्याऩम् मादिरि तोऱ्ऱमे तविर, सरियाऩ वियाक्याऩम् अल्ल ऎऩ्बदु मात्तिरम् मुऩ्ऩाल् सॆय्यप्पट्टदु। इङ्गेयो, वाक्कियत्तै अबेक्षिक्कामल् स्वदन्दिरमागवे अवर्गळुडैय युक्तिगळुक्कु मऱुप्पु सॆय्यप्पडुगिऱदु ऎऩ्ऱ इदु विसे षम्।

तत्र साङ्ख्या मन्यन्ते — यथा घटशरावादयो भेदा मृदात्मकतयान्वीयमाना मृदात्मकसामान्यपूर्वका लोके दृष्टाः, तथा सर्व एव बाह्याध्यात्मिका भेदाः सुखदुःखमोहात्मकतयान्वीयमानाः सुखदुःखमोहात्मकसामान्यपूर्वका भवितुमर्हन्ति। यत्तत्सुखदुःखमोहात्मकं सामान्यं तत्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना प्रवर्तत इति। तथा परिमाणादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिमते ॥

ज्ञानानन्द-भारती - द्राविडी

अवर्गळिल् साङ्गियर् ऎण्णुगिऱार्गळ्। कुडम् सरावम् मुदलिय वॆव्वेऱाऩ कारियङ्गळ् मण् स्वरूबत्तुडऩे सेर्न्दिरुप्पवैगळ् मण् स्वरूबमा युळ्ळ सामाऩ्यत्तै (पॊदुवायुळ्ळदै) मुऩ्ऩिट्टे ऎप्पडि उलगत्तिल् काणप्पडुगिऩ्ऱऩवो, अप्पडिये वॆळियिलुळ्ळदु आत्यात्मिगमायुळ्ळदु ऎऩ्ऱ ऎल्ला वॆव्वेऱाऩ कारियङ्गळुम् सुगम्, तुक्कम्, मोहम् ऎऩ्ऱ स्वरूबत्तुडऩेये सेर्न्दिरुप्पवैगळ् सुगम्, तुक्कम्, मोहम् ऎऩ्ऱदै स्वरूबमायुळ्ळ सामाऩ्यत्तै मुऩ्ऩिट्टे इरुप्पदुदाऩ् न्यायम्। अन्द सुग, तुक्कमोह स्वरूबमायुळ्ळ सामाऩ्यम् ऎदुवो, अदु मूऩ्ऱु कुणङ्गळैयुडैय पिरदाऩम्, मण् पोल असेदऩ मायिरुप्पदु, सेदऩऩाऩ पुरुषऩुक्कु पिरयोजऩत्तै सादिप्पदऱ्काग स्वबावत् तिऩालेये विगारस्वरूबमाग विसित्तिरमायुळ्ळ माऱुगिऱदु। अप्पडिये माऱुदल् मुदलाऩ लिङ्गङ्गळैक् कॊण्डुम्, अन्द पिरदाऩत्तैये अऩुमाऩिक्किऱार्गळ्।

तत्र वदामः — यदि दृष्टान्तबलेनैवैतन्निरूप्येत, नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किञ्चिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयद्दृष्टम्। गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते। तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाह्यमाध्यात्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः सम्भाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत् ? लोष्टपाषाणादिष्वदृष्टत्वात्। मृदादिष्वपि कुम्भकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते — तद्वत्प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङ्गः ।

ज्ञानानन्द-भारती - द्राविडी

अव्विषयत्तिल् सॊल्गिऱोम्; तिरुष्टान्द पलत्तिऩालेये इदु निरूबिक्कप्पडुमाऩाल्, उलगत्तिल् सेदऩऩाल् अदिष्टिदमिल्लाद असेदऩम् ऎदुवुम् स्वदन्दिरमाग पुरुषऩुडैय कुऱिप्पिट्ट पिरयो जऩत्तै एऱ्पडुत्तिक्कॊडुक्क सामर्त्तिय मुळ्ळ कारियङ्गळै उण्डु पण्णुवदागक् काणप्पड विल्लै। वीडु माळिगै पडुक्कै आसऩम् विहारस्तलम् मुदलियवैगळ् उलगत्तिल् ़ मिगुन्द अऱिवुळ्ळ सिल्बिगळाल् कालत्तिऱ्कुत्तक्कबडि सुगत्तै अडैयवुम्, तुक्कत्तै विलक्कवुम् योक्कियदै उळ्ळवैगळाग उण्डाक्कप्पडुवदागवल्लवा काणप् पडुगिऩ्ऱऩ? अप्पडिये इन्द जगत्तु ऎल्लाम्, पलविद कर्माक्कळिऩ् पलऩै अऩुबविक्कत्तगुन्ददाऩ वॆळियिलुळ्ळ पिरुदिवि मुदलियदु पलविद जादियुडै यदाय्, अवरवर्गळुक्कुत् तऩित्तऩियाग एऱ्पट्ट अवयव अमैप्पुळ्ळदाय्, पलविद कर्म पलऩ्गळै अऩुबविप्पदऱ्कु इरुप्पिडमाय् काणप्पडुम् आत्यात् मिगमाऩ सरीरम् मुदलियदु, मिगवुम् वॆगुमदिक्कप्पट्ट अऱिवाळिगळाऩ सिल्बिगळाल् मऩसिऩाल् कूड आलोसिक्क मुडियाददायिरुप्पदै असेदऩमाऩ पिरदाऩम् ऎप्पडि रसऩै सॆय्य मुडियुम्? मण्गट्टि, कल् मुदलियवैगळिल् काणप्पडाददिऩाल्, मण् मुदलियवैगळिलुम् कुयवऩ् मुदलाऩवर्गळाल् अदिष्टिदमायिरुक्कुम् पोदुदाऩ् विसेषमाऩ उरुव मुळ्ळ रसऩै काणप्पडुगिऱदु। अप्पडिये पिरदाऩत् तिऱ्कुम्, वेऱु सेदऩऩाल् अदिष्टिदमायिरुक्कुम् तऩ्मै एऱ्पडुम्।

न च मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयम् , न बाह्यकुम्भकारादिव्यपाश्रयेण — इति किञ्चिन्नियामकमस्ति। न चैवं सति किञ्चिद्विरुध्यते, प्रत्युत श्रुतिरनुगृह्यते, चेतनकारणसमर्पणात्। अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति। अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्धिं समुच्चिनोति। न हि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयान्वय उपपद्यते, सुखादीनां चान्तरत्वप्रतीतेः, शब्दादीनां चातद्रूपत्वप्रतीतेः, तन्निमित्तत्वप्रतीतेश्च, शब्दाद्यविशेषेऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धेः ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, मण् मुदलाऩ उबादाऩ स्वरूबत्तै आसिरयित्त (असेदऩत्तऩ्मै ऎऩ्ऱ) तर्मत्तैक् कॊण्डुदाऩ् मूल कारणम् तीर्माऩिक्कवेण्डुम्। मण्णुक्कु वॆळिप्पट्ट कुयवऩ् मुदलाऩदै आसिरयित्त (सेदऩ प्रयुक्तमॆऩ्ऱ) तर्मत्तैक् कॊण्डु तीर्माऩिक्कक्कूडादु ऎऩ्ऱु नियमऩम् सॆय्वदऱ्कुक् कारणमॆदुवुमिल्लै। इव्विदमिरुप् पदिऩाल्, ऎदुवुम् विरोदप्पडुवदिल्लै ऎऩ्बदुडऩ् सेदऩऩै कारणमाग वैत्तुक्कॊण्डाल् सुरुदियुम् ऒप्पुक् कॊळ्ळप्पट्टदाग आगिऱदु। आगैयाल्, रसऩै पॊरुन्दादु ऎऩ्ऱ कारणत्तिऩालुम् असेदऩमा युळ्ळदु जगत्तिऱ्कुक् कारणमॆऩ्ऱु अऩुमाऩिक् कत्तक्कदिल्लै।

ज्ञानानन्द-भारती - द्राविडी

“उम्” ऎऩ्ऱ सप्तत्तिऩाल् अऩ्वयम् मुदलाऩदु पॊरुन्दाददिऩालुम् हेदु सित्तिक्कविल्लै ऎऩ्बदै सेर्त्तुच् चॊल्गिऱार्। वॆळियिलुळ्ळदुम् आत्यात्मिगमा युळ्ळदुमाऩ कारियङ्गळुक्कु सुग, तुक्क, मोह स्वरूबत्तुडऩ् अऩ्वयम् पॊरुन्दविल्लै, सुगम् मुदलाऩवैगळ् उळ्ळेयिरुप्पदागत् तॆरिवदालुम्, सप्तम् मुदलाऩवै अन्द (सुगम् मुदलाऩ) रूबत्तु टऩिल्लैयॆऩ्ऱु तॆरिवदालुम् अवैगळुक्कु (सुगम् मुदलाऩदिऱ्कु) निमित्तमायिरुप्पदाय् तॆरिवदालुम् मेलुम्, सप्तम् मुदलियदिल् वित्तियासमिल्लाद पोदुम्गूड ऎण्णत्तिलुळ्ळ वित्तियासत्तिऩाल् सुगम् मुदलाऩदिल् वित्तियासम् तॆरिवदिऩालुम्।

तथा परिमितानां भेदानां मूलाङ्कुरादीनां संसर्गपूर्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्गपूर्वकत्वप्रसङ्गः, परिमितत्वाविशेषात्। कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारणभावाद्बाह्याध्यात्मिकानां भेदानामचेतनपूर्वकत्वं शक्यं कल्पयितुम् ॥ १ ॥

ज्ञानानन्द-भारती - द्राविडी

अप्पडिये वेर्, मुळै मुदलिय अळवुक्कुट् पट्ट कारियङ्गळिल् पल वस्तुक्कळिऩ् सेर्क्कैयै मुऩ्ऩिट्टु उण्डागुम् तऩ्मैयै पार्त्तु विट्टु, वॆळियिलुळ्ळदुम् आत्यात्मिगमा युळ्ळदुमाऩ ऎल्ला कारियङ्गळुम्, अळवुक्कुट् पट्टिरुप्पदिऩाल् पल वस्तुक्कळिऩ् सेर्क्कैयै मुऩ्ऩिट्टु उण्डागुम् तऩ्मैयै अऩुमाऩम् सॆय्गिऱवऩुक्कु सत्वम् रजस्, तमस् इवैगळुक्कुम् कूड, अळविऱ्कुट् पट्टिरुक्कुम् तऩ्मैयिल् वित्तियासमिल्लाददाल् पल वस्तुक्कळिऩ् सेर्क्कैयै मुऩ्ऩिट्टु उण्डागुम् तऩ्मै उण्डु ऎऩ्ऱु एऱ्पडुम्। आलोसऩैयै मुऩ्ऩिट्टुच् चॆय्यप्पडुम् पडुक्कै, आसऩम् मुदलियवैगळुक्कु कार्यम्, कारणम् ऎऩ्ऱ तऩ्मै काणप्पडुगिऱदु ऎऩ्बदिऩाल्, कार्य कारणत्तऩ्मै इरुप्पदिऩाल् वॆळियिलुळ्ळदुम् आत्यात्मिगमायुळ्ळदुमाऩ कारियङ् गळुक्कु असेदऩत्तै मुऩ्ऩिट्टु इरुक्क वेण्डुम् ऎऩ्ऱु कल्बिक्कमुडियादु।

प्रवृत्तेश्च ॥ २ ॥

ज्ञानानन्द-भारती - द्राविडी

प्रव्रुत्तेच्च ॥ २ ॥

आस्तां तावदियं रचना। तत्सिद्ध्यर्था या प्रवृत्तिः — साम्यावस्थानात्प्रच्युतिः, सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिः, विशिष्टकार्याभिमुखप्रवृत्तिता — सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च। न हि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते। दृष्टाच्चादृष्टसिद्धिः। अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति ।

ज्ञानानन्द-भारती - द्राविडी

इन्द रसऩै इरुक्कट्टुम्। अदु (रसऩै) सित्तिप्पदऱ्काग ऎन्द पिरविरुत्ति अदावदु, सममायिरुक्कुम् निलैयिलिरुन्दु नऴुवुदल्, सत्वम्, रजस् तमस् इवैगळुक्कुळ् अङ्गमायुम् अङ्गियायु मिरुत्तल् (पिरदाऩमागवुम्, अप्रदाऩमागवुम्) ऎऩ्ऱ तऩ्मैयै अडैदल्, कुऱिप्पिट्ट कार्यत्तै युत्तेसित्तु पिरविरुत्तियुडऩिरुत्तल्, ऎदुवो अदुवुम् असेदऩमाय् स्वदन्दिरमायुळ्ळ पिरदाऩत्तिऱ्कुप् पॊरुन्दादु। मण् मुदलियवैगळिलुम् रदम् मुदलियवैगळिलुम् काणाददिऩाल्। मण् मुदलियवैगळो रदम् मुदलियवैगळो ताऩ् असेदऩमाय् इरुप्पवैगळ्, सेदऩर्गळाऩ कुयवऩ् मुदलाऩवर्गळालेयो कुदिरै मुदलाऩवै कळालेयो अदिष्टिदमिल्लामल् कुऱिप्पिट्ट कार्यत्तैयुत्तेसित्तु पिरविरुत्तियुळ्ळवैगळाग काणप्पडुवदिल्लैये? काणप्पडुवदैक् कॊण्डु ताऩ् काणप्पडाददऱ्कु तीर्माऩ मेऱ्पड वेण्डुम्। आगैयाल् पिरविरुत्ति पॊरुन्दामै ऎऩ्ऱ कारणत्तिऩालुम् कूड असेदऩम् जगत् कारणमॆऩ्ऱु अऩुमाऩिक्कत्तक्कदिल्लै।

ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा — सत्यमेतत् — तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टा; न त्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा। किं पुनरत्र युक्तम् — यस्मिन्प्रवृत्तिर्दृष्टा तस्य सा, उत यत्सम्प्रयुक्तस्य दृष्टा तस्य सेति ? ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम् , उभयोः प्रत्यक्षत्वात्; न तु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः। प्रवृत्त्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः — केवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य दृष्टमिति। अत एव च प्रत्यक्षे देहे सति दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लोकायतिकाः प्रतिपन्नाः। तस्मादचेतनस्यैव प्रवृत्तिरिति ।

ज्ञानानन्द-भारती - द्राविडी

वॆऱुम् सेदऩऩुक्कुम् पिरविरुत्ति काणप् पडविल्लैये? इदु वास्तवम्। अप्पडियिरुन्दालुम्, सेदऩऩोडु सेर्न्दु इरुक्कुम् रदम् मुदलिय असेदऩत्तिऱ्कु पिरविरुत्ति काणप्पडुगिऱदु। आऩाल् असेदऩत्तोडु सेर्न्दिरुक्कुम् सेदऩऩुक्कु पिरविरुत्ति काणप्पडविल्लै। इङ्गे ऎदु न्यायम्? ऎदिल् पिरविरुत्ति काणप्पडुगिऱदो अदु अदैच्चेर्न्ददु ऎऩ्ऱा? अल्लदु ऎदऩुडऩ् सेर्न्ददऱ्कु पिरविरुत्ति काणप्पडुगिऱदो अदु अदैच् चेर्न्ददु ऎऩ्ऱा? ऎदिल् पिरविरुत्ति काणप्पडुगिऱदो अदु अदैच्चेर्न्ददुदाऩ् ऎऩ्बदु ताऩे न्यायम्, इरण्डुम् पिरत्यक्षमायिरुप् पदाल् पिरविरुत्तिक्कु आसिरयमाग रदम् मुदलियदैप् पोल वॆऱुम् सेदऩऩ् पिरत्यक्षमिल्लै। आऩाल् पिरविरुत्तिक्कु आसिरयमायुळ्ळ तेहम् मुदलियदुडऩ् सेर्न्दिरुक्कुम् सेदऩऩुक्कुत् ताऩ् इरुक्कुम् तऩ्मैये सित्तिक्किऱदु, उयिरुडऩिरुक्कुम् तेहत्तिऱ्कु वॆऱुम् असेदऩमाऩ रदम् मुदलियवैगळिलिरुन्दु वेऱ्ऱुमै काणप्पडुगिऱदु ऎऩ्बदिऩाल्, इदिऩाल्दाऩ् पिरत्यक्ष माग तेहम् इरुक्कुम्बोदु सैदऩ्यम् काणप्पडुव तालुम्, इल्लादबोदु काणप्पडाददिलुम्, सैदऩ्यमुम् तेहत्तैये सेर्न्ददॆऩ्ऱु लोगायदिगर्गळ् ऎण्णु किऱार्गळ्। आगैयाल् पिरविरुत्ति ऎऩ्बदु असेदऩत् तिऱ्कुत्ताऩ्, ऎऩ्ऱु।

तदभिधीयते — न ब्रूमः यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति। भवतु तस्यैव सा। सा तु चेतनाद्भवतीति ब्रूमः, तद्भावे भावात्तदभावे चाभावात् — यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशादिलक्षणा विक्रिया, अनुपलभ्यमानापि च केवले ज्वलने, ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात् — तद्वत्। लोकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् ।

ज्ञानानन्द-भारती - द्राविडी

अव्विषयत्तिल् सॊल्लप्पडुगिऱदु: ऎन्द असेदऩत्तिल् पिरविरुत्ति काणप्पडुगिऱदो अदु अदऩुडैयदु अल्लवॆऩ्ऱु नाङ्गळ् सॊल्लविल्लै। अदु अदऩुडैयदागवे इरुक्कट्टुम्। आऩाल् अदु (अन्द पिरविरुत्ति) सेदऩऩाल् एऱ्पडुगिऱदु ऎऩ्ऱु सॊल्गिऱोम्। अदु इरुक्कुम्बोदु इरुप्पदाल्, अदु इल्लैयाऩाल् इल्लाददिऩाल्; ऎप्पडि कट्टै मुदलि यदै आसिरयमायुळ्ळदाऩालुम् ऎरिदल्, वॆळिच्चम् ऎऩ्ऱ लक्षणमुळ्ळ विगारम् वॆऱुम् नॆरुप्पिल् काणप्पडाम लिरुन्दबोदिलुम्, नॆरुप्पिऩाल् ताऩ् एऱ्पडुगिऱदु। अदऩ् सेर्क्कैयुळ्ळबोदु काण्बदालुम् अदु विलगुम् पोदु काणप्पडाददालुम्, अदैप्पोल (सेदऩऩाल् ताऩ् असेदऩत्तिल् पिरविरुत्ति एऱ्पडुगिऱदु) लोगायदिगर्गळुक्कुम् कूड सेदऩमाऩ तेहमे असेदऩमाऩ रदम् मुदलियवैगळै पिरविरुत्तिक्कच् चॆय्वदाग काणप्पडुगिऱदु ऎऩ्बदाल्, सेदऩऩुक्कुप् पिरविरुत्तिक्कच् चॆय्युम् तऩ्मै उण्डु ऎऩ्बदिल् मऱुप्पिल्लै।

ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् , न। अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः। यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितोऽप्ययसः प्रवर्तको भवति, यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति, एवं प्रवृत्तिरहितोऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम्। एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् , न। अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात्। तस्मात्सम्भवति प्रवृत्तिः सर्वज्ञकारणत्वे, न त्वचेतनकारणत्वे ॥ २ ॥

ज्ञानानन्द-भारती - द्राविडी

तेहम् मुदलियदुडऩ् सेर्न्दिरुन्दबोदिलुम् आत्मावुक्कु उङ्गळ् मदत्तिल् अऱिवु स्वरूबमात्तिरमा यिरुप्पदैत् तविर वेऱु पिरविरुत्ति पॊरुन्दाददिऩाल्, पिरविरुत्तिक्कच् चॆय्युम् तऩ्मै पॊरुन्दादे? ऎऩ्ऱाल्, अप्पडियल्ल। अयस्कान्दम् रूबम् मुदलियवैगळैप् पोल, पिरविरुत्तियऱ्ऱदुक्कुम् कूडबिरविरुत्तिक्कच् चॆय्युम् तऩ्मै पॊरुन्दुमाऩदिऩाल्, अयस्कान्द मॆऩ्ऱ मणि ताऩ् पिरविरुत्तियऱ्ऱदायिरुन्द पोदिलुम् कूड इरुम्बै पिरविरुत्तिक्कुम्बडिच् चॆय्वदायिरुक्किऱदु ऎप्पडियो; रूबम् मुदलाऩ विषयङ्गळ् ताङ्गळ् पिरविरुत्तियऱ्ऱिरुन्द पोदिलुम् कूड कण् मुदलिय वैगळै पिरविरुत्तिक्कच् चॆय्बवैगळाग इरुक्किऩ्ऱऩ ऎऩ्बदु ऎप्पडियो; इव्विदमे पिरविरुत्तियऱ्ऱ वरागयिरुन्द पोदिलुम् ऎङ्गुमुळ्ळ वराय् ऎल्ला स्वरूबमाय् सर्वक्ञराय् सर्व सक्तियुमुळ्ळ वरायिरुक्कुम् ईसुवरऩ् ऎल्लावऱ्ऱैयुम् पिरविरुत्तिक्कुम् पडि सॆय्यलाम् ऎऩ्बदु पॊरुत्तमाऩदे।

ज्ञानानन्द-भारती - द्राविडी

ऒरुवरायिरुप्पदाल् प्रविरुत्तिक्कप्पडुम् वेऱु वस्तु इल्लाददिऩाल् पिरविरुत्तिक्कच् चॆय्युम् तऩ्मै पॊरुन्दादु ऎऩ्ऱाल् अप्पडियल्ल। अवित्यैयिऩाल् एऱ्पडुत्तप्पट्ट नाम रूबमागिय मायासम्बन्दवसमाग ऎऩ्ऱु पल तडवै पदिल् सॊल्लियिरुप्पदाल्। आगैयाल् सर्वक्ञऩुक्कु कारणत्तऩ्मै ऎऩ्ऱाल् पिरविरुत्ति सम्बविक्कुम्, असेदऩत्तिऱ्कु कारणत् तऩ्मै ऎऩ्ऱाल् सम्बविक्कादु।

पयोम्बुवच्चेत्तत्रापि ॥ ३ ॥

ज्ञानानन्द-भारती - द्राविडी

पयोम्बुवच्चेत्तत्राबि ॥ ३ ॥

स्यादेतत् — यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथा च जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दते, एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति। नैतत्साधूच्यते, यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे, उभयवादिप्रसिद्धे रथादावचेतने केवले प्रवृत्त्यदर्शनात् ।

ज्ञानानन्द-भारती - द्राविडी

इदु इरुक्कलाम्; असेदऩमाऩ पाल् कऩ्ऱिऩ् वळर्च्चिक्काग स्वबावत्तिऩालेये( ताऩागवे) ऎप्पडि पिरवर्त्तिक्किऱदो; असेदऩमाऩ जलम् स्वबावत्तिऩा लेये (ताऩागवे) जऩङ्गळिऩ् उबगारत्तिऱ्काग ओडुगिऱदु ऎप्पडियो; अव्विदम् असेदऩमाऩ पिरदाऩ मुम् स्वबावत्तिऩालेये पुरुषऩुक्कु पिरयोजऩम् एऱ्पडवेण्डियदऱ्काग पिरविरुत्तिक्कलाम् ऎऩ्ऱु।

ज्ञानानन्द-भारती - द्राविडी

इदु सरियाग सॊल्लप्पडविल्लै। एऩॆऩ्ऱाल्, अङ्गेयुम् सेदऩऩाल् अदिष्टिदामायुळ्ळ पालुक्कुम्, जलत्तिऱ्कुम् ताऩ् पिरविरुत्ति ऎऩ्ऱु अऩुमाऩम् सॆय्गिऱोम्, वादम् सॆय्युम् इरुवरुक्कुम् पिरसित्तमायुळ्ळ वॆऱुम् असेदऩमाऩ रदम् मुदलियदिल् पिरविरुत्तियैक्काणाददिऩाल्।

शास्त्रं च — ‘योऽप्सु तिष्ठन् … योऽपोऽन्तरो यमयति’ (बृ. उ. ३। ७। ४) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते’ (बृ. उ. ३। ८। ९) इत्येवंजातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति। तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः — चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः, वत्सचोषणेन च पयस आकृष्यमाणत्वात्। न चाम्बुनोऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य; चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् ।

ज्ञानानन्द-भारती - द्राविडी

“ऎवर् जलत्तिल् इरुन्दुगॊण्डु ऎवर् जलत्तै उळ्ळे इरुप्पवराय् नियमऩम् सॆय्गिऱारो” (पिरुहत् III-७-४), “हे कार्क्कि, इन्द अक्षरत्तिऩ् आळुगैयिल् ताऩ्, किऴक्केयुळ्ळ मऱ्ऱ नदिगळ् पिरवहिक्किऩ्ऱऩ” (पिरुहत् III-८-९) ऎऩ्बदु पोलुळ्ळ सास्तिरमुम्, उलगत्तिलुळ्ळ असैवु ऎल्लावऱ्ऱिऱ्कुम् ईस्वरऩाल् अदिष्टिक्कप्पट्टिरुक्कुम् तऩ्मैयै सॊल्गिऱदु। आगैयाल् सादिक्कवेण्डिय पक्षत्तिल् अगप्पट्टु उळ्ळदाल् पाल् जलम् पोल् ऎऩ्बदु सरियाऩ वार्त्तैयिल्लै।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, सेदऩमायुळ्ळ पसुविऱ्कु (कऩ्ऱिडमुळ्ळ) अऩ्बिऩाल् एऱ्पडुम् विरुप्पत्तिऩाल् पालै पिरविरुत्तिक्कच् चॆय्युम् तऩ्मै पॊरुन्दुमादलालुम्, कऩ्ऱु उऱुञ्जुवदिऩाल् पाल् इऴुक्कप्पडुवदालुम् जलत्तिऱ्कुम्गूड पूरावुम् अबेक्षैयिल्लै ऎऩ्बदिल्लै। पिरवहिप्पदु पळ्ळमाऩबूमि मुदलियदै अबेक्षिप्पदाल् सेदऩऩै अबेक्षिक्कुम् तऩ्मैयो ऎल्लाविडत्तिलुम् काट्टप्पट्टदु।

‘उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि’ (ब्र. सू. २। १। २४) इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम्। शास्त्रदृष्ट्या पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते ॥ ३ ॥

ज्ञानानन्द-भारती - द्राविडी

“उबसम्हारम् काणप्पडुवदाल् इल्लैयॆऩ् ऱाल् इल्लै पाल् पोलल्लवा?” (सूत्रम् II - १-२४) ऎऩ्ऱविडत्तिलो वॆळियिलुळ्ळ निमित्तत्तै अबेक्षिक् कामलुम् कूड तऩ्ऩैये आसिरयित्तु कारियम् एऱ्पडुम् ऎऩ्ऱ इदु उलग तिरुष्टियाल् काट्टप्पट्टदु। सास्तिर तिरुष्टियालो ऎङ्गेयुमे एऱ्पडुगिऱ ईस्वरऩै अबेक्षिक्कुम् तऩ्मै मऱुक्कप्पडविल्लै।

व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥

ज्ञानानन्द-भारती - द्राविडी

व्यदिरेगानवस्तिदेच्चानबेक्षत्वात् ॥ ४ ॥

साङ्ख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम्; न तु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किञ्चिद्बाह्यमपेक्ष्यमवस्थितमस्ति। पुरुषस्तूदासीनो न प्रवर्तको न निवर्तकः — इत्यतोऽनपेक्षं प्रधानम्। अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते, कदाचिन्न परिणमते, इत्येतदयुक्तम्। ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते ॥ ४ ॥

ज्ञानानन्द-भारती - द्राविडी

साङ्गियर्गळुक्कु मूऩ्ऱु कुणङ्गळुम् सममाग यिरुप्पदु पिरदाऩम्। अवैगळैत् तविर पिरदाऩत्तै पिरविरुत्तिक्कुम्बडि सॆय्यवो निविरुत्तिक्कुम्बडि सॆय्यवो वॆळियिलुळ्ळदाय् अबेक्षिक्कप्पडुवदाय् ऎदुवुम् इरुप्पदु इल्लै। पुरुषऩो, उदासीऩऩ्, पिरवर्त्तगऩुमिल्लै, निवर्त्तगऩुमिल्लै ऎऩ्बदिऩाल् पिरदाऩम् अबेक्षैयऱ्ऱदु। अबेक्षैयऱ्ऱु इरुप्पदि ऩालो, पिरदाऩम् सिल समयम् महत् मुदलाऩ रूबत्तुडऩ् परिणमिक्किऱदु। सिल समयम् परिणमिक्किऱदु इल्लै ऎऩ्ऱ इदु युक्तमिल्लै। ईस्वरऩुक्को सर्वक्ञरायिरुप्पदालुम्, सर्व सक्तियुळ्ळवरायिरुप् पदिऩालुम् महामायैयै उडैयवरायिरुप्पदालुम् पिरविरुत्ति निविरुत्तिगळ् विरोदप्पडादु।

अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥

ज्ञानानन्द-भारती - द्राविडी

अन्यत्राबावाच्च न त्रिणादिवत् ॥ ५ ॥

स्यादेतत् — यथा तृणपल्लवोदकादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमते, एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति। कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते ? निमित्तान्तरानुपलम्भात्। यदि हि किञ्चिन्निमित्तमुपलभेमहि, ततो यथाकामं तेन तेन तृणाद्युपादाय क्षीरं सम्पादयेमहि; न तु सम्पादयामहे। तस्मात्स्वाभाविकस्तृणादेः परिणामः। तथा प्रधानस्यापि स्यादिति ।

ज्ञानानन्द-भारती - द्राविडी

इदु इरुक्कलाम्; पुल् तुळिर्जलम् मुदलियदु वेऱु निमित्तत्तै अबेक्षिक्कामल् स्वबावत्तिऩाले पाल् मुदलाऩ रूबत्तुडऩ् ऎप्पडि परिणमिक्किऱदो अप्पडिये पिरदाऩमुम् महत् मुदलाऩ रूबत्तुडऩ् परिणमिक्किऱदु, ऎऩ्ऱु पुल् मुदलियदु वेऱु निमित्तत्तै अबेक्षिक्काददु ऎऩ्ऱु। ऎप्पडि अऱियप्पडुगिऱदु? वेऱु निमित्तम् काणप्पडाददाल्। एदेऩुम् ऒरु निमित्तत्तैक् काणुवोमेयाऩाल् अदैक्कॊण्डु पुल् मुदलियदै ऎडुत्तु पालै इष्टप्पडि उण्डु पण्णिविडुवोम्। आऩाल् उण्डुबण्णुवदिल्लै। आगैयाल् पुल् मुदलियदिऩ् परिणामम् स्वबावत्तिलेये एऱ्पडुवदु। अप्पडिये पिरदाऩत्तिऱ्कुम् इरुक्कलाम् ऎऩ्ऱु।

अत्रोच्यते — भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परिणामः, यदि तृणादेरपि स्वाभाविकः परिणामोऽभ्युपगम्येत; न त्वभ्युपगम्यते, निमित्तान्तरोपलब्धेः। कथं निमित्तान्तरोपलब्धिः ? अन्यत्राभावात्। धेन्वैव ह्युपभुक्तं तृणादि क्षीरीभवति, न प्रहीणम् अनडुदाद्युपभुक्तं वा। यदि हि निर्निमित्तमेतत्स्यात् , धेनुशरीरसम्बन्धादन्यत्रापि तृणादि क्षीरीभवेत्। न च यथाकामं मानुषैर्न शक्यं सम्पादयितुमित्येतावता निर्निमित्तं भवति। भवति हि किञ्चित्कार्यं मानुषसम्पाद्यम् , किञ्चिद्दैवसम्पाद्यम्। मनुष्या अपि शक्नुवन्त्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं सम्पादयितुम्। प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति; ततश्च प्रभूतं क्षीरं लभन्ते। तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः ॥ ५ ॥

ज्ञानानन्द-भारती - द्राविडी

अङ्गु सॊल्लप्पडुगिऱदु; पुल् मुदलियदिऱ्कुम् परिणामम् स्वबावसित्तम् ऎऩ्ऱु ऒप्पुक्कॊळ्ळप् पट्टाल्, पुल् मुदलियदुबोल पिरदाऩत्तिऱ्कुम् परिणामम् स्वाबाविगम् ऎऩ्ऱु आगुम्। आऩाल् ऒप्पुक् कॊळ्ळप्पडविल्लैये। वेऱु निमित्तम् काणुवदाल् ऎप्पडि वेऱु निमित्तम् काणप्पडुगिऱदु? “वेऱिडत्तिल् इल्लाददिऩाल्” पसुविऩाल् साप्पिडप्पट्ट पुल् मुदलि यदुदाऩ् पालाग आगिऱदु। ऎऱिन्दुविडप्पट्टदो काळै मुदलियदाल् साप्पिडप्पट्टदो आवदिल्लै। इदु निमित्त मऩ्ऩियिल् इरुक्कुमेयाऩाल् पसुविऩ् सरीरत्तिऩ् सम्बन्दत्तै तविर वेऱु इडत्तिलुम् कूड पुल् मुदलियदु पालाग आग वेण्डुम्। मऩिदर्गळाल् इष्टप् पडि सम्बादिक्क मुडियविल्लैयॆऩ्ऱ इव्वळविऩाल् निमित्तमऱ्ऱदॆऩ्ऱु एऱ्पडादु। सिल कार्यम् मऩिदर्गळाल् सम्बादिक्कत्तगुन्ददु। सिलदु तैवत्तऩाल् सम्बादिक्कत् तगुन्ददु ऎऩ्बदु पिरसित्तम्। मऩिदर्गळ्गूड तक्क उबायत्तिऩाल् पुल् मुदलियदै ऎडुत्तु पालै एऱ्पडुत् तिक्कॊळ्ळ मुडियुम्। एराळमाऩ पाल् वेण्डुगिऱवर्गळ् पसुवै एराळमाऩ पुल्लै मेयुम्बडि सॆय्गिऱार् कळल्लवा? अदिलिरुन्दु एराळमाऩ पालैयुम् अडैगिऱार्गळ्। आगैयाल् पुल् मुदलियदैप्पोल पिरदाऩत्तिऩ् परिणामम् स्वाबाविगम् इल्लै।

अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥

ज्ञानानन्द-भारती - द्राविडी

अप्युबगमेअप्यर्दाबावात् ॥ ६ ॥

स्वाभाविकी प्रधानस्य प्रवृत्तिर्न भवतीति स्थापितम्। अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम, तथापि दोषोऽनुषज्येतैव। कुतः ? अर्थाभावात्। यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चिदन्यदिहापेक्षत इत्युच्यते, ततो यथैव सहकारि किञ्चिन्नापेक्षते एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यते — इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत ।

ज्ञानानन्द-भारती - द्राविडी

पिरदाऩत्तिऩ् पिरविरुत्ति स्वबावत्तिऩालुळ्ळदु इल्लै ऎऩ्ऱु स्ताबिक्कप्पट्टदु। अप्पडियाऩालुम् उम्मुडैय सिरत्तैयै अऩुसरित्तु पिरदाऩत्तिऩ् पिरविरुत्ति स्वाबाविगम् ताऩ् ऎऩ्ऱु ऒप्पुक् कॊण्डालुम्, अप्पडियुम् तोषम् इरुन्दे तीरुम्। एऩ्? “पिरयोजऩमिल्लाददिऩाल्” पिरदाऩत्तिऩुडैय पिरविरुत्ति स्वाबाविगम् वेऱु ऎदैयुम् इङ्गे अबेक्षिक्किऱदिल्लै ऎऩ्ऱु सॊल्लप्पडुमेयाऩाल्, अप्पॊऴुदु ऎप्पडि सहायत्तिऱ्कु ऎदैयुम् अबेक्षिक् किऱदिल्लैयो। अव्विदमे पिरयोजऩत्तैयुम् अबेक्षिक्कादु ऎऩ्ऱु एऱ्पडुमाऩदिऩाल्, पिरदाऩम् पुरुषऩुक्कु पिरयोजऩत्तै सादित्तुक् कॊडुप् पदऱ्काग पिरविरुत्तिक्किऱदु ऎऩ्ऱ इन्द पिरदिक्ञै वीणाय् पोय्विडुम्।

स यदि ब्रूयात् — सहकार्येव केवलं नापेक्षते, न प्रयोजनमपीति। तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यम् — भोगो वा स्यात् , अपवर्गो वा, उभयं वेति। भोगश्चेत् — कीदृशोऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् ? अनिर्मोक्षप्रसङ्गश्च। अपवर्गश्चेत् — प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् , शब्दाद्यनुपलब्धिप्रसङ्गश्च। उभयार्थताभ्युपगमेऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव ।

ज्ञानानन्द-भारती - द्राविडी

सहगारियायुळ्ळदैत्ताऩ् अबेक्षिक्किऱदिल् लैये तविर पिरयोजऩत्तैयुम् अबेक्षिक्कविल्लै यॆऩ्बदिल्लैयॆऩ्ऱु अवऩ् सॊऩ्ऩाल्, अप्पडियुम् पिरदाऩत्तिऩ् पिरविरुत्तिक्कुप् पिरयोजऩम् पोगमायि रुक्कलामा मोक्षमा अल्लदु इरण्डुमा ऎऩ्ऱु पिरित्तुक्काट्ट वेण्डुम्। पोगम् ऎऩ्ऱाल् ऎव्विद विसेषमुम् एऱ्ऱमुडियाद पुरुषऩुक्कु ऎव्विद पोगमाग इरुक्क मुडियुम्; (मेलुम् पिरदाऩम् पोगत्तैये कॊडुत्तुक् कॊण्डिरुक्किऱबडियाल्) मोक्षमेयिल्लै यॆऩ्ऱुम् एऱ्पट्टुविडुम्। मोक्षम् ऎऩ्ऱाल्, पिरविरुत् तिक्कु मुऩ्ऩालेये मोक्षम् सित्तमायिरुप्पदाल् पिरविरुत्ति पिरयोजऩमऱ्ऱदाग आगुम्; सप्तम् मुदलि यदै अऱिवदु ऎऩ्ऱ पोगम् एऱ्पडादु। इरण्डुविद पिरयोजऩङ्गळुम्दाऩ् ऎऩ्ऱु ऒप्पुक्कॊण्डालुम् अऩुबविक्क वेण्डियदायुळ्ळ पिरदाऩत्ताल् वरुम् पोग वस्तुक्कळुक्कु ऎल्लै यिल्लाददिऩाल् मोक्षम् किडैयादु ऎऩ्ऱे एऱ्पडुम्।

न चौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः। न हि प्रधानस्याचेतनस्यौत्सुक्यं सम्भवति। न च पुरुषस्य दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिः, तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव। तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम् ॥ ६ ॥

ज्ञानानन्द-भारती - द्राविडी

(विळैयाट्टैप्पोल) औत्सुक्यत्तै (पेरावलै) निवर्त्ति सॆय्वदै पिरयोजऩमाग उडैयदु पिरविरुत्ति ऎऩ्बदुमिल्लै। एऩॆऩ्ऱाल्, असेदऩमाऩ पिरदाऩत्तिऱ्कु औत्सुक्यम् (आवल्) सम्बविक्कादु; निर्मलऩाय् अंस मऱ्ऱवऩायिरुक्कुम् पुरुषऩुक्कुम् औत्सुक्यम् किडैयादु। पुरुषऩुडैय ञाऩसक्ति पिरदाऩत्तिऩ् स्रुष्टिक्कुम् सक्ति इवै कळुक्कु पिरयोजऩमिल्लात् तऩ्मैयेऱ्पडुमे यॆऩ्ऱ पयत्तिऩाल् पिरविरुत्ति ऎऩ्ऱाल्, अप्पॊऴुदु ञाऩसक्ति नासत्तैयडैयाददु पोल स्रुष्टि सक्तियुम् नासत्तै यडैयाददाल् संसारम् नासत्तैयडैयादु ऎऩ्बदि ऩाल् मोक्षम् एऱ्पडादु ऎऩ्ऱु एऱ्पडुम्। आगैयाल् पिरदाऩत्तिऱ्कु पुरुषऩुडैय पिरयोजऩत्तिऱ्काग पिरविरुत्ति ऎऩ्बदु युक्तमिल्लै।

पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥

ज्ञानानन्द-भारती - द्राविडी

पुरुषाच्मवदिदि सेत्तदाबि ॥ ७ ॥

स्यादेतत् — यथा कश्चित्पुरुषो दृक्शक्तिसम्पन्नः प्रवृत्तिशक्तिविहीनः पङ्गुः अपरं पुरुषं प्रवृत्तिशक्तिसम्पन्नं दृक्शक्तिविहीनमन्धमधिष्ठाय प्रवर्तयति, यथा वा अयस्कान्तोऽश्मा स्वयमप्रवर्तमानोऽप्ययः प्रवर्तयति, एवं पुरुषः प्रधानं प्रवर्तयिष्यति — इति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम्। अत्रोच्यते — तथापि नैव दोषान्निर्मोक्षोऽस्ति। अभ्युपेतहानं तावद्दोष आपतति, प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात् , पुरुषस्य च प्रवर्तकत्वानभ्युपगमात्। कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् ? पङ्गुरपि ह्यन्धं पुरुषं वागादिभिः प्रवर्तयति। नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारोऽस्ति, निष्क्रियत्वान्निर्गुणत्वाच्च ।

ज्ञानानन्द-भारती - द्राविडी

इदु इरुक्कलाम्: ञाऩसक्ति (पार्क्कुम् सक्ति)योडु कूडिय पिरविरुत्ति सक्तियऱ्ऱ (नडक्कुम् सक्ति) नॊण्डियाऩ ऒरु मऩिदऩ् पिरविरुत्ति सक्तियुळ्ळवऩाय् ञाऩसक्तियिल्लादवऩाय् कुरुडऩायिरुक्कुम् वेऱु मऩिदऩै आसिरयित्तुक् कॊण्डु (अवऩै) ऎव्विदम् पिरविरुत्तिक्कुम्बडि सॆय्गिऱाऩो; कान्दक्कल् ताऩ् पिरविरुत्तिक्कामलिरुन्द पोदिलुम् इरुम्बै ऎव्विदम् पिरविरुत्तिक्कुम्बडि सॆय्गिऱदो; अव्विदम् पुरुषऩ् पिरदाऩत्तै पिरविरुत्तिक्कुम्बडि सॆय्यलाम् ऎऩ्ऱु तिरुष्टान् दत्तै नम्बि मऱुबडियुम् आक्षेबम् वरलाम्।

ज्ञानानन्द-भारती - द्राविडी

अङ्गु सॊल्लप्पडुगिऱदु; “अप्पडियुम् कूड” तोषत्तिलिरुन्दु विडुबडुवदेयिल्लै ऒप्पुक् कॊण्डदै विडुवदाऩ तोषम् एऱ्पडुगिऱदु। स्वदन्दिरमायुळ्ळ पिरदाऩत्तिऱ्कु पिरविरुत्तियै ऒप्पुक्कॊण्डिरुप्पदालुम्। पुरुषऩुक्कु पिरविरुत् तिक्कच् चॆय्युम् तऩ्मै किडैयादु ऎऩ्ऱु ऒप्पुक्कॊण्डिरुप् पदालुम् सीऩऩायुळ्ळ पुरुषऩ् पिरदाऩत्तै ऎप्पडि पिरविरुत्तिक्कच् चॆय्य मुडियुम्? नॊण्डियायिरुप् पवऩुम् कुरुडऩाऩ मऩिदऩै पेच्चु मुदलियवैगळाल् पिरविरुत्तिक्कच् चॆय्गिऱाऩ्। पुरुषऩुक्को इव्विदम् पिरविरुत्तिक्कच् चॆय्युम् वियाबारम् ऎदुवुम् किडैयादु। सॆयलऱ्ऱवऩाऩदिऩालुम् कुणमऱ्ऱवऩाऩदिऩालुम्।

नाप्ययस्कान्तवत्सन्निधिमात्रेण प्रवर्तयेत् , सन्निधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात्। अयस्कान्तस्य त्वनित्यसन्निधेरस्ति स्वव्यापारः सन्निधिः, परिमार्जनाद्यपेक्षा चास्यास्ति — इत्यनुपन्यासः पुरुषाश्मवदिति। तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः सम्बन्धयितुरभावात्सम्बन्धानुपपत्तिः। योग्यतानिमित्ते च सम्बन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः। पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः; परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यम् , मायाव्यपाश्रयं च प्रवर्तकत्वम् — इत्यस्त्यतिशयः ॥ ७ ॥

ज्ञानानन्द-भारती - द्राविडी

अयस्कान्दम् पोल समीबत्तिलिरुप्पदिऩालेये पिरविरुत्तिक्कच् चॆय्यादु ऎप्पॊऴुदुम् समीबत्तिलिरुप् पदाल् पिरविरुत्तियुम् ऎप्पॊऴुदुमिरुक्कु मॆऩ्ऱु एऱ्पडु माऩदिऩाल्, अयस्कान्दत्तिऱ्को मुऩ्ऩिरुप्पदु नित्य मिल्लाददिऩाल् मुऩ्ऩिरुप्पदु अदऩ् वियाबारमागिऱदु। अदऱ्कु तुडैप्पदु मुदलियदिऩ् अबेक्षैयुमिरुक्किऱदु ऎऩ्बदिऩाल् “मऩिदऩ् कल्बोल” ऎऩ्ऱु सॊऩ्ऩदु सरियल्ल।

ज्ञानानन्द-भारती - द्राविडी

अप्पडिये पिरदाऩत्तिऱ्कु सैदऩ्यमिल्लाद तिऩालुम् पुरुषऩुक्कु उदासीऩत्तऩ्मै इरुप्पदालुम् इरण्डैयुम् सेर्त्तुवैक्कुम् मूऩ्ऱावदु किडैयाद तिऩालुम् (पिरदाऩम्, पुरुषऩ् इरण्डिऱ्कुम्) सम्बन्दम् पॊरुन्दादु। सम्बन्दम् योक्कियमायिरुक्कुम् तऩ्मैयै निमित्तमायुडैयदु ऎऩ्ऱाल्, योक्कियमायिरुक्कुम् तऩ्मैक्कु नासमिल्लाददिऩाल् मोक्षमिल्लैयॆऩ्ऱे एऱ्पडुम्।

ज्ञानानन्द-भारती - द्राविडी

अप्पडिये पिरदाऩत्तिऱ्कु सैदऩ्यमिल्लाद तिऩालुम् पुरुषऩुक्कु उदासीऩत्तऩ्मै इरुप्पदालुम् इरण्डैयुम् सेर्त्तुवैक्कुम् मूऩ्ऱावदु किडैयाद तिऩालुम् (पिरदाऩम्, पुरुषऩ् इरण्डिऱ्कुम्) सम्बन्दम् पॊरुन्दादु। सम्बन्दम् योक्कियमायिरुक्कुम् तऩ्मैयै निमित्तमायुडैयदु ऎऩ्ऱाल्, योक्कियमायिरुक्कुम् तऩ्मैक्कु नासमिल्लाददिऩाल् मोक्षमिल्लैयॆऩ्ऱे एऱ्पडुम्।

अङ्गित्वानुपपत्तेश्च ॥ ८ ॥

ज्ञानानन्द-भारती - द्राविडी

अङ्गित्वानुबबत्तेच्च ॥ ८ ॥

इतश्च न प्रधानस्य प्रवृत्तिरवकल्पते — यद्धि सत्त्वरजस्तमसामन्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानम् , सा प्रधानावस्था। तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गाङ्गिभावानुपपत्तेः, बाह्यस्य च कस्यचित्क्षोभयितुरभावात् , गुणवैषम्यनिमित्तो महदाद्युत्पादो न स्यात् ॥ ८ ॥

ज्ञानानन्द-भारती - द्राविडी

इदिऩालुम् पिरदाऩत्तिऱ्कु पिरविरुत्ति युक्तमागादु; सत्वरजस्तमो कुणङ्गळुक्कुळ् ऒऩ्ऱुक्कॊऩ्ऱु उळ् पट्टदु मुक्यमायुळ्ळदु ऎऩ्ऱ तऩ्मैयै विट्टु सममाऩ स्वरूबमात्तिरमाग इरुप्पदु ऎदुवो अदु पिरदाऩत्तिऩ् निलै। अन्द निलैयिल् ऎदैयुम् अबेक्षिक् काद स्वरूबमुळ्ळवैगळुक्कु (कुणङ्गळुक्कु) स्वरूबत् तिऱ्कु नासम् एऱ्पट्टुविडुम् ऎऩ्ऱ पयत्तिऩाल् ऒऩ्ऱुक् कॊऩ्ऱु अङ्गम् अङ्गि ऎऩ्ऱ तऩ्मै पॊरुन्दादिऩाल्, कलक्कक्कूडियदाय् वॆळियिलुळ्ळदाय् ऎदुवुम् इल्लाददि ऩाल्, कुणङ्गळुक्कुळ् वैषम्यत्तै निमित्तमायुळ्ळ महत् मुदलियदिऩ् उत्पत्ति एऱ्पड मुडियादु

अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥

ज्ञानानन्द-भारती - द्राविडी

अऩ्यदाअऩुमिदौ स ज्ञसक्तिवियोगात् ॥ ९ ॥

अथापि स्यात् — अन्यथा वयमनुमिमीमहे — यथा नायमनन्तरो दोषः प्रसज्येत। न ह्यनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते, प्रमाणाभावात्। कार्यवशेन तु गुणानां स्वभावोऽभ्युपगम्यते। यथा यथा कार्योत्पाद उपपद्यते, तथा तथैतेषां स्वभावोऽभ्युपगम्यते; चलं गुणवृत्तमिति चास्त्यभ्युपगमः। तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति। एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था एव ।

ज्ञानानन्द-भारती - द्राविडी

अल्लदु, इन्द मुऩ् कण्ड तोषम् ऎप्पडि एऱ्पडादो अप्पडि वेऱुविदमाग अऩुमाऩम् सॆय्गिऱोम् ऎऩ्ऱिरुक्कलाम्। वेऱु ऎदैयुम् अबेक्षिक्काद स्वबावमुळ्ळवैगळाग कूडस्तङ्गळाग ऎङ्गळाल् कुणङ्गळ् ऒप्पुक्कॊळ्ळप्पडुवदिल्लै, पिरमाणमिल्लाददिऩाल्, आऩाल् कार्य वसत्तिऩाल् कुणङ्गळिऩ् स्वबावम् ऒप्पुक्कॊळ्ळप्पडुगिऱदु। ऎप्पडि ऎप्पडि कार्यत्तिऩ् उत्पत्ति पॊरुत्तमागुमो, अप्पडि अप्पडि अवैगळुडैय स्वबावम् ऒप्पुक् कॊळ्ळप्पडुगिऱदु। सलिप्पदु कुणङ्गळिऩ् स्वबावम् ऎऩ्ऱु ऒप्पुक्कॊळ्ळप्पट्टिरुक्किऱदु। अदिऩाल् सममायि रुक्कुम् निलैयिलुम् वैषम्यत्तै अडैय योक्किय तैयुळ्ळदागवे कुणङ्गळ् इरुक्किऩ्ऱऩ; ऎऩ्ऱु। इव्विदमाऩालुम्, पिरदाऩत्तिऱ्कु ञाऩसक्तियिल्लाद पडियाल् रसऩै पॊरुन्दादॆऩ्बदु मुदलाऩ मुऩ् सॊऩ्ऩ तोषङ्गळ् अप्पडियेयिरुक्कुम्।

ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत, चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात्। वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन् , भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन् — इति प्रसज्यत एवायमनन्तरोऽपि दोषः ॥ ९ ॥

ज्ञानानन्द-भारती - द्राविडी

ञाऩसक्तियैयुम् अऩुमाऩम् सॆय्वदायिरुप् पवऩ् पिरदिवादित्तऩ्मैयिलिरुन्दु विलगिविडुवाऩ्, सेदऩमायुळ्ळ ऒऩ्ऱु पलवाग विस्तारत्तैयडैन् दिरुक्किऱ जगत्तिऱ्कु उबादाऩम् ऎऩ्ऱु पिरह्मत्तैच् चॊल्लुम् वादमे आगिविडुमाऩदिऩाल्,

ज्ञानानन्द-भारती - द्राविडी

वैषम्यत्तै अडैयक्कूडिय योक्कियदैयुळ् ळऩवाग इरुन्दालुम् कुणङ्गळ् सममायिरुक्कुम् निलैयिल् निमित्तमिल्लाददिऩाल् वैषम्यत्तै अडैयादु। अडैवदायिरुन्दालो, निमित्तमिल्लै यॆऩ्बदिल् वित्तियासमिल्लाददिऩाल् ऎप्पॊऴुदुमे वैषम्यत्तै अडैन्दिरुक्क वेण्डुमॆऩ्ऱ इन्द वेऱु तोषमुम् एऱ्पडुम्।

विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥

ज्ञानानन्द-भारती - द्राविडी

विप्रदिषेदाच्चासमञ्जसम् ॥ १० ॥

परस्परविरुद्धश्चायं साङ्ख्यानामभ्युपगमः — क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति, क्वचिदेकादश; तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति, क्वचिदहंकारात्; तथा क्वचित्त्रीण्यन्तःकरणानि वर्णयन्ति, क्वचिदेकमिति। प्रसिद्ध एव तु श्रुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या। तस्मादप्यसमञ्जसं साङ्ख्यानां दर्शनमिति ॥

ज्ञानानन्द-भारती - द्राविडी

साङ्गियर्गळुडैय इन्द कॊळ्गै ऒऩ्ऱुक् ॊऩ्ऱु विरुत्तमागवुमिरुक्किऱदु। ऒरु इडत्तिल् इन्दिरियङ्गळ् एऴु ऎऩ्ऱु ऎण्णुगिऱार्गळ्। ऒरु इडत्तिल् पदिऩॊऩ्ऱु ऎऩ्ऱु। अप्पडिये सिलविडङ्गळिल् तऩ्मात्तिरैगळुडैय स्रुष्टि महत्तिलिरुन्दु ऎऩ्गिऱार्गळ्, सिलविडङ्गळिल् अहङ्गारत्तिलिरुन्दु ऎऩ्ऱु। अप्पडिये सिलविडङ् गळिल् उळ् करुविगळ् मूऩ्ऱु ऎऩ्ऱु वर्णिक्किऱार्गळ्। सिलविडङ्गळिल् ऒऩ्ऱु ऎऩ्ऱु। ईसुवरऩैक् कारणमागच् चॊल्लुम् वेदत्तुडऩुम् अदै अऩुसरित्तिरुक्कुम् स्मिरुदियुडऩुम् विरोद मॆऩ्बदु पिरसित्तमे। अदिऩालुम् साङ्गियर्गळिऩ् तर्सऩम् सरियाऩदल्ल ऎऩ्ऱु।

अत्राह — नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनम् , तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात्। एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छताम् — एकस्यैवात्मनो विशेषौ तप्यतापकौ, न जात्यन्तरभूतौ — इत्यभ्युपगन्तव्यं स्यात्। यदि चैतौ तप्यतापकावेकस्यात्मनो विशेषौ स्याताम् , स ताभ्यां तप्यतापकाभ्यां न निर्मुच्येत — इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात्। न ह्यौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते। योऽपि जलतरङ्गवीचीफेनाद्युपन्यासः, तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आविर्भावतिरोभावरूपेण नित्या एव इति, समानो जलात्मनो वीच्यादिभिरनिर्मोक्षः ।

ज्ञानानन्द-भारती - द्राविडी

इङ्गु सॊल्लुगिऱाऩ् उबनिषत्तै ऒप्पुक् कॊळ्ळुबवर्गळुडैय तर्सऩमुम्, तबिक्कप्पडुवदु, तबिक्कच् चॆय्वदु ऎऩ्ऱु तऩित्तऩि इऩमायिरुप्पदै अङ्गीगरिक्काददिऩाल्, सरियाऩदिल्लैदाऩे? ऎल्ला स्वरूबमाय् ऒऩ्ऱाग इरुक्कुम् पिरह्मम् ऎल्ला जगत्तिऱ्कुम् कारणम् ऎऩ्ऱु ऒप्पुक्कॊळ्गिऱवर्गळुक्कु, ऒऩ्ऱागवेयिरुक्कुम् आत्मावुक्कु तबिक्कप्पडुवदु तबिक्कच्चॆय्वदु ऎऩ्ऱ विसेषङ्गळ् वॆव्वेऱु इऩत्तैच् चेर्न्ददिल्लैयॆऩ्ऱु ऒप्पुक्कॊळ्ळ वेण्डियदागुम्। इन्द तबिक्कप्पडुवदु तबिक्कच् चॆय्वदु ऎऩ्ऱ इरण्डुम् ऒरे आत्मावुक्कु विसेषमायिरुक्कुमे याऩाल्, अन्द तबिक्कप्पडुवदु तबिक्कच् चॆय्वदु ऎऩ्बदिलिरुन्दु अदु विडुबडवे मुडियादु ऎऩ्बदिऩाल्, ताबम् विलगुवदऱ्काग सम्यक् तर्सऩत्तै उबदेसिक्कुम् सास्तिरम् पिरयोजऩ मऱ्ऱदाग आगिविडुम्। उष्णत् तैयुम्, पिरगासत्तैयुम् स्वबावमाग उडैय तीबत्तिऱ्कु अन्निलैयिलेये यिरुक्कैयिल् अवैगळिलिरुन्दु विडुबडुवदु पॊरुन्दादल्लवा? जलम् तरङ्गम् अलैनुरै मुदलाऩदाग ऎदु सॊल्लप्पडुगिऱदो, अङ्गेयुम् जलस्वरूबमायुळ्ळ ऒऩ्ऱुक्के अलै मुदलियवैगळाऩ विसेषङ्गळ् तोऩ्ऱुवदु मऱैवदु ऎऩ्ऱ रूबत्तिऩाल् नित्यमे आवदाल् जलस्वरूबमा युळ्ळदिऱ्कु अलै मुदलियवैगळिलिरुन्दु विडुबडुव तिल्लैयॆऩ्बदु समाऩमागुम्।

प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके। तथा हि — अर्थी चार्थश्चान्योन्यभिन्नौ लक्ष्येते। यद्यर्थिनः स्वतोऽन्योऽर्थो न स्यात् , यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति, न तस्य तद्विषयमर्थित्वं स्यात् — यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योऽर्थो नित्यसिद्ध एवेति, न तस्य तद्विषयमर्थित्वं भवति — अप्राप्ते ह्यर्थेऽर्थिनोऽर्थित्वं स्यादिति। तथार्थस्याप्यर्थत्वं न स्यात्। यदि स्यात् स्वार्थत्वमेव स्यात्। न चैतदस्ति। सम्बन्धिशब्दौ ह्येतावर्थी चार्थश्चेति। द्वयोश्च सम्बन्धिनोः सम्बन्धः स्यात् , नैकस्यैव। तस्माद्भिन्नावेतावर्थार्थिनौ ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, इन्द तप्यम्, ताबगम् ऎऩ्बवै वॆव्वेऱु इऩत्तैच् चेर्न्दिरुप्पवै ऎऩ्बदु उलगत्तिल् पिरसित्तम्। अप्पडिये, वेण्डुबवऩ् वेण्डप्पडुवदु ऎऩ्ऱ इरण्डुम् ऒऩ्ऱुक्कॊऩ्ऱु वेऱुबट्टदागवे काणप्पडुगिऩ्ऱऩ। वेण्डुबवऩै विड वेण्डप्पडुवदु ताऩे वेऱाग इल्लैये याऩाल्, ऎन्द वेण्डुबवऩुक्कु ऎदु विषयमाऩ वेण्डुम् तऩ्मैयिरुक्किऱदो अन्द वेण्डप्पडुम् विषयम् अवऩुक्कु ऎप्पॊऴुदुमे सित्तमाऩदिऩाल् अवऩुक्कु अदु विषयमाऩ वेण्डुम् तऩ्मैयेयिरादु; पिरगास स्वरूबमायुळ्ळ तीबत्तिऱ्कु पिरगासमागिऱ विषयम् ऎप्पॊऴुदुम् सित्तमागवेयिरुप्पदाल् अदऱ्कु अदु विषयमाऩ वेण्डुम् तऩ्मै किडैयाददुबोल। किडैक्कामलिरुक्कुम् वस्तुविल्दाऩ् वेण्डुबवऩुक्कु वेण्डुम् तऩ्मै इरुक्कुमादलाल्। अप्पडिये वस्तु विऱ्कुम् वेण्डप्पडुम् तऩ्मैयिरादु। इरुक्कुमे याऩाल् तऩ्ऩैये वेण्डुवदाग एऱ्पडुम्; इदुवो किडैयादु। इन्द वेण्डुबवऩ् वेण्डप्पडुवदु ऎऩ्बदु सम्बन्दप्पडुम् वस्तुक्कळै सॊल्लुम् सप्तङ्गळ्। सम्बन्दप्पडुवदायुळ्ळ इरण्डु पदार्त्तङ् गळुक्कुळ् ताऩ् सम्बन्दम् ऎऩ्बदुण्डु; ऒरे पदार्त्तत् तिऱ्कु किडैयादु। आदलाल् वेण्डप्पडुम् पॊरुळ्, वेण्डुबवऩ् इरण्डुम् वॆव्वेऱाऩ पॊरुळ्गळ्। अप्पडिये वेण्डप्पडाददु वेण्डादवऩ् ऎऩ्ऱ इरण्डुम्।

तथानर्थानर्थिनावपि; अर्थिनोऽनुकूलः अर्थः, प्रतिकूलः अनर्थः। ताभ्यामेकः पर्यायेणोभाभ्यां सम्बध्यते। तत्रार्थस्याल्पीयस्त्वात् , भूयस्त्वाच्चानर्थस्य उभावप्यर्थानर्थौ अनर्थ एवेति , तापकः स उच्यते। तप्यस्तु पुरुषः , य एकः पर्यायेणोभाभ्यां सम्बध्यते इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः। जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति ॥

ज्ञानानन्द-भारती - द्राविडी

वेण्डुबवऩुक्कु अऩुगूलमायिरुप्पदु वेण्डप्पडुवदु, पिरदिगूलमायिरुप्पदु वेण्डप् पडाददु। अव्विरण्डुगळुडऩ् ऒरुवऩे माऱिमाऱि सम्बन्दप्पडुगिऱाऩ्। अङ्गु वेण्डप्पडुवदु अल्बमा यिरुप्पदालुम्, वेण्डप्पडाददु एराळमायिरुप्पदालुम्, वेण्डप्पडुवदु, वेण्डप् पडाददु इरण्डुमे वेण्डप्पडाददुदाऩ् ऎऩ्बदिऩाल् अदु तबिक्कच् चॆय्वदु ऎऩ्ऱु सॊल्लप्पडुगिऱदु। ऎन्द ऒरु पुरुषऩ् इरण्डुडऩ् माऱिमाऱि सम्बन्दप्पडुगिऱाऩो अवऩ् तबिक्कप्पडुगिऱवऩ्। तबिक्कप्पडुवदु तबिक्कच्चॆय्वदु इरण्डुम् ऒरे तऩ्मैयुळ्ळदाऩाल्, मोक्षम् पॊरुन्दादु। वॆव्वेऱु इऩत्तैच् चेर्न्ददु ऎऩ्ऱालो अदऩुडऩ् सेरुवदऱ्कुक् कारणमायुळ्ळदै परिहारम् सॆय्वदाल् ऎप्पॊऴुदावदु मोक्षम् पॊरुन्दक् कूडियदागुम् ऎऩ्ऱु।

अत्रोच्यते — न, एकत्वादेव तप्यतापकभावानुपपत्तेः — भवेदेष दोषः, यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम्। न त्वेतदस्ति, एकत्वादेव; न ह्यग्निरेकः सन्स्वमात्मानं दहति, प्रकाशयति वा, सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च। किमु कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः सम्भवेत्। क्व पुनरयं तप्यतापकभावः स्यादिति ? उच्यते — किं न पश्यसि — कर्मभूतो जीवद्देहस्तप्यः, तापकः सवितेति ? ननु तप्तिर्नाम दुःखम्; सा चेतयितुः; नाचेतनस्य देहस्य। यदि हि देहस्यैव तप्तिः स्यात् , सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति ।

ज्ञानानन्द-भारती - द्राविडी

इङ्गु सॊल्लप्पडुगिऱदु; वस्तु ऒऩ्ऱागवे यिरुप्पदाल् (परमार्त्त निलैयिल्) तबिक्कप्पडुवदु तबिक्कच् चॆय्वदु ऎऩ्ऱ तऩ्मै पॊरुन्दादु ऎऩ्बदु तोषमागादु एगात्म पावनिलैयिल् तबिक्कप्पडुवदु तबिक्कच् चॆय्वदु ऎऩ्ऱु ऒऩ्ऱुक्कॊऩ्ऱु विषयम् विषयी ऎऩ्ऱ तऩ्मैयै उण्मैयाग अडैयुमेयाऩाल् इदु तोषमागलाम्। आऩाल् इदुवो इल्लै। ऒऩ्ऱायिरुप् पदिऩालेये ऒऩ्ऱायिरुक्कुम् अक्ऩि, उष्णम्, पिरगासम् मुदलाऩ धर्मङ्गळ् वेऱुबट्टिरुन्द पोदिलुम्, माऱुबडुम् तऩ्मैयिरुन्दबोदिलुम्, तऩ्ऩैये ऎरिप्पदु पिरगासप्पडुत्तुवदु ऎऩ्बदु किडैयादल्लवा? (अप्पडि यिरुक्क) कूडस्तऩाय् ऒऩ्ऱायिरुक्कुम् पिरह्मत्तिल् तबिक्कप्पडुवदु तबिक्कच् चॆय्वदु ऎऩ्ऱ तऩ्मै ऎप्पडि सम्बविक्कुम्?

ज्ञानानन्द-भारती - द्राविडी

अप्पडियाऩाल् तबिक्कप्पडुवदु तबिक्कच्चॆय्वदु ऎऩ्ऱ तऩ्मै ऎङ्गे इरुक्कुम्? ऎऩ्ऱाल् सॊल्गिऱोम्। विषयमायुळ्ळ उयिरुडऩुळ्ळ तेहम् तबिक्कप्पडुगिऱदु। सूर्यऩ् तबिक्कच्चॆय्गिऱवऩ्, ऎऩ्बदै नी पार्क्क विल्लैया? ताबम् (सूडु) ऎऩ्बदु तुक्कम्; अदु अऱिबव ऩुक्कुत्ताऩे उण्डु, असेदऩमाऩ तेहत्तिऱ्कु किडैयादे? तेहत्तिऱ्के ताऩ् ताबम् ऎऩ्ऱिरुन्दाल्, तेहम् नासमडैयुम्बोदु ताऩागवे अन्द ताबमुम् नासमडैन्दुविडुमाऩदिऩाल् अदु पोवदऱ्काग सादऩत्तै तेड वेण्डियदिल्लैये? ऎऩ्ऱु।

उच्यते — केवलस्य चेतनस्य तप्तिर्न दृष्टा। न च त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते। नापि देहचेतनयोः संहतत्वम् , अशुद्ध्यादिदोषप्रसङ्गात्। न च तप्तेरेव तप्तिमभ्युपगच्छसि। कथं तवापि तप्यतापकभावः ? सत्त्वं तप्यम् , तापकं रजः — इति चेत् , न। ताभ्यां चेतनस्य संहतत्वानुपपत्तेः। सत्त्वानुरोधित्वाच्चेतनोऽपि तप्यत इवेति चेत्; परमार्थतस्तर्हि नैव तप्यत इत्यापतति इवशब्दप्रयोगात्। न चेत्तप्यते नेवशब्दो दोषाय। न हि — डुण्डुभः सर्प इव इत्येतावता सविषो भवति, सर्पो वा डुण्डुभ इव इत्येतावता निर्विषो भवति। अतश्चाविद्याकृतोऽयं तप्यतापकभावः, न पारमार्थिकः — इत्यभ्युपगन्तव्यमिति; नैवं सति ममापि किञ्चिद्दुष्यति ।

ज्ञानानन्द-भारती - द्राविडी

सॊल्गिऱोम्; तेहमिल्लाद पोदुम् वॆऱुम् सेदऩऩुक्कु ताबम् काणप्पडुवदिल्लै। ताबम् ऎऩ्ऱ विगारम् वॆऱुम् सेदऩऩुक्कु ऎऩ्ऱु उऩ्ऩालुम् सॊल्लप्पडुवदिल्लै। तेहमुम्, सेदऩमुम् ऒऩ्ऱाय् सेर्न्दु इरुक्कुम् तऩ्मैयुम् किडैयादु। असुत्ति मुदलाऩ तोषङ्गळ् एऱ्पडुमाऩदिऩाल् ताबत्तिऱ्के ताबम् ऎऩ्ऱु नीयुम् ऒप्पुक्कॊळ्गिऱदिल्लै। उऩक्कुम् तबिक्कप्पडुवदु, तबिक्कच्चॆय्वदु ऎऩ्ऱ तऩ्मै ऎप्पडि? सत्वम् तबिक्कप्पडुवदु, रजस् तबिक्कच् चॆय्वदु, ऎऩ्ऱाल् सरियल्ल। सेदऩऩुक्कु अवैगळुडऩ् सेर्न्दु इरुक्कुम् तऩ्मै पॊरुन्दाददिऩाल्,

ज्ञानानन्द-भारती - द्राविडी

सत्वत्तै अऩुसरिप्पदाल् सेदऩऩुम् तबिक्कप्पडुगिऱदु पोल ऎऩ्ऱाल्, अप्पॊऴुदु वास्तवत्तिल् तबिक्कप्पडविल्लै ऎऩ्ऱु एऱ्पडुगिऱदु ‘पोल’ ऎऩ्ऱ सप्तम् पिरयोगित्तिरुप्पदाल् तबिक्कप् पडविल्लैयाऩाल् “पोल” ऎऩ्ऱ सप्तम् पिसगागादु। टुण्डुबम् (मण्णिलुळ्ळ पाम्बु) सर्प्पम् पोल ऎऩ्ऱदऩाले विषमुळ्ळदाग आगिविडादल्लवा! सर्प्पम् टुण्डुबम् पोल ऎऩ्ऱदऩालुम् विषमऱ्ऱदाग आगिविडादु। आगैयाल् इन्द तबिक्कप्पडुवदु, तबिक्कच्चॆय्वदु ऎऩ्ऱ तऩ्मै अवित्यैयिऩाल् एऱ्पट्टदु, वास्तवमल्ल। ऎऩ्ऱु ऒप्पुक्कॊळ्ळ वेण्डुम्, ऎऩ्ऱु। इव्विदमिरुन्दाल् ऎऩक्कुम् ऎव्विद तोषमुम् इल्लै।

अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि, तवैव सुतरामनिर्मोक्षः प्रसज्येत, नित्यत्वाभ्युपगमाच्च तापकस्य। तप्यतापकशक्त्योर्नित्यत्वेऽपि सनिमित्तसंयोगापेक्षत्वात्तप्तेः, संयोगनिमित्तादर्शननिवृत्तौ आत्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्नः — इति चेत् , न। अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् ।

ज्ञानानन्द-भारती - द्राविडी

अप्पडिक्कऩ्ऩियिल्, सेदऩऩुडैय तबिक्कप्पडुम् तऩ्मै पारमार्त्तिगम्दाऩ् ऎऩ्ऱु ऒप्पुक्कॊण्डाल् मोक्षम् किडैयादु ऎऩ्बदु उऩक्कुत्ताऩ् नऩ्ऱाग एऱ्पडुम् तबिक्कच्चॆय्वदु नित्यमॆऩ्ऱु ऒप्पुक् कॊळ्वदाल्

ज्ञानानन्द-भारती - द्राविडी

तबिक्कप्पडुवदु तबिक्कच्चॆय्वदु इवैगळिल् सक्ति नित्यमायिरुन्दबोदिलुम्, ताबम् ऎऩ्बदु निमित्तत्तोडु कूडिय सेर्क्कैयै अबेक्षिप्पदाल्, सेर्क्कैक्कु निमित्तमायुळ्ळ अऱियामै विलगिऩदुम् सेर्क्कै पूरावुम् निऩ्ऱुविडुम्, अदिलिरुन्दु आत्यन्दि कमाऩ मोक्षम् एऱ्पडक्कूडियदे, ऎऩ्ऱु सॊऩ्ऩाल् सरियल्ल, अऱियामैयागिऱ तमसिऱ्क्कु नित्यत्तऩ्मै ऒप्पुक्कॊळ्ळप्पडुवदाल्।

गुणानां चोद्भवाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्साङ्ख्यस्यैवानिर्मोक्षोऽपरिहार्यः स्यात्। औपनिषदस्य तु आत्मैकत्वाभ्युपगमात् , एकस्य च विषयविषयिभावानुपपत्तेः, विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणात् , अनिर्मोक्षशङ्का स्वप्नेऽपि नोपजायते। व्यवहारे तु — यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव सः — इति न चोदयितव्यः परिहर्तव्यो वा भवति ॥१०॥

ज्ञानानन्द-भारती - द्राविडी

कुणङ्गळुडैय उत्पत्ति मऱैवुगळुक्कु नियदत्तऩ्मैयिल्लाददिऩाल् सेर्क्कैयिऩ् निमित्तमा युळ्ळदऱ्कु विलगुदलुम् नियदमिल्लैयॆऩ्बदिऩाल्, विलगुदलुक्कुम् नियदत्तऩ्मैयिल्लाददाल् साङ्गियऩुक् कुत्ताऩ् मोक्षमिल्लामल् पोवदु परिहरिक्क मुडियाददाग इरुक्कुम् उबनिषत्तै पिरमाणमाग सॊल्गिऱवरुक्को आत्मा ऒऩ्ऱेयॆऩ्ऱु ऒप्पुक्कॊळ् वदालुम्, ऒऩ्ऱायिरुप् पदऱ्कु विषयम् विषयी ऎऩ्ऱ तऩ्मै पॊरुन्दाददालुम्,विगारङ्गळिलुळ्ळ वेऱ्ऱुमै वाक्किऩाल् आरम्बिक्कप्पडुम् तऩ्मै मात्तिरम् ताऩ् ऎऩ्ऱु सॊल्लप्पट्टिरुप्पदिऩालुम्, मोक्षमिल्लामल् पोगुमॆऩ्ऱ सन्देहम् स्वप्ऩत्तिल्गूड एऱ्पडादु। व्यवहार तसैयिलो ऎङ्गे ऎप्पडि तबिक्कप्पडुवदु तबिक्कच्चॆय्वदु ऎऩ्ऱ तऩ्मै पार्क्कप्पडुगिऱदो, अङ्गे अप्पडियेदाऩ् अदु ऎऩ्बदिऩाल् केट्क वेण्डियदो परिहरिक्क वेण्डियदो ऒऩ्ऱुम् किडैयादु।