०८ उपसंहारदर्शनाधिकरणम्

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥

ज्ञानानन्द-भारती - द्राविडी

उबम्हारदर्सऩान्नेदि सेन्न क्षुरवत्ति ॥ २४ ॥

न सम्भवेत्सम्भवेद्वा सृष्टिरेकाद्वितीयतः ॥
नानाजातीयकार्याणां क्रमाज्जन्म न सम्भवि ॥ १५ ॥
अद्वैतं तत्त्वतो ब्रह्म तच्चाविद्यासहायवत् ॥
नानाकार्यकरं कार्यक्रमोऽविद्यास्थशक्तिभिः ॥ १६ ॥

ज्ञानानन्द-भारती - द्राविडी

–वैयासिक-न्यायमाला

ज्ञानानन्द-भारती - द्राविडी

ऒऩ्ऱाग इरण्डावदऱ्ऱदाग इरुप्पदिलिरुन्दु स्रुष्टि एऱ्पडक् कूडुमा? कूडादा? (अदिलिरुन्दु) पलविद ऩङ्गळैच् चेर्न्द कार्यङ्गळुक्कु वरिसैयाग उण्डागुदल् सम्बविक्कादु।

ज्ञानानन्द-भारती - द्राविडी

पिरह्मम् वास्तवत्तिल् इरण्डावदऱ्ऱदु ताऩ्। (आऩालुम्) अदुवे अवित्यै (मायै)यिऩ् सहायत्तै युडैयदाय् पलविद कार्यङ्गळै उण्डु पण्णुगिऱदु। कार्यङ्गळिलुळ्ळ वरिसै अवित्यै(मायै)यिल् उळ्ळ सक्तिगळाल् एऱ्पडुगिऱदु।

चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तम् , तन्नोपपद्यते। कस्मात् ? उपसंहारदर्शनात्। इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्रसलिलाद्यनेककारकोपसंहारेण सङ्गृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते। ब्रह्म चासहायं तवाभिप्रेतम्। तस्य साधनान्तरानुपसङ्ग्रहे सति कथं स्रष्टृत्वमुपपद्येत ? तस्मान्न ब्रह्म जगत्कारणमिति चेत् , नैष दोषः। यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते — यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनम् , तथेहापि भविष्यति। ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्यं साधनमौष्ण्यादिकम्। कथमुच्यते ‘क्षीरवद्धि’ इति ?

ज्ञानानन्द-भारती - द्राविडी

(उलगिल् सेदऩर्गळ् सहायमाग पल सादऩङ् गळै वैत्तुक्कॊण्डुदाऩ् कारियङ्गळै उण्डुबण् णुवदागप् पार्क्किऱोम्। अत्वैद पिरह्मत्तिऱ्कु वेऱु सहायम् ऒऩ्ऱु मिल्लाददाल् अदु पिरबञ्जत्तै ऎप्पडि सिरुष्टिक्कमुडियुम्? मेलुम् ऒरे पिरह्मत्तिलिरुन्दु विसित्रमाऩ पल वस्तुक्कळ् निऱैन्द पिरबञ्जम् किरममाग उण्डाग मुडियादु ऎऩ्ऱु पूर्वबक्षम्।

ज्ञानानन्द-भारती - द्राविडी

पालैप्पोलवुम् तेवदैगळैप् पोलवुम् सहायमिल्लामले पिरम्मम् सिरुष्टिक्कलाम्। मेलुम् मायैयै सहायमागक्कॊण्डु पिरह्मम् पिरबञ्जत्तै सिरुष्टिक्किऱदु। अवित्यैयिलुळ्ळ सक्ति विसेषङ्गळाल् पिरबञ्जम् नानाविदमायुम् किरममायुम् उण्डागिऱदु ऎऩ्ऱु सित्तान्दम्]

ज्ञानानन्द-भारती - द्राविडी

सेदऩमाग ऒऩ्ऱाग इरण्डावदऱ्ऱदाग इरुक्कुम् पिरह्मम् जगत्तिऱ्कुक् कारणम् ऎऩ्ऱु ऎदु सॊल्लप् पट्टदो, अदु पॊरुन्दादु। एऩ्? ऎडुत्तुक्कॊळ्वदु काणप्पडुवदाल्, इङ्गु उलगत्तिल् कुडम् वस्तिरम् मुदलाऩवैगळै सॆय्गिऱ कुयवऩ् मुदलाऩवर्गळ् मण् कम्बु सक्करम् नूल् मुदलाऩ पल कारगङ्गळै (उबगरणङ्गळै) सेर्त्तुक् कॊळ्वदिऩाल् सादऩङ् गळै ऎडुत्तुवैत्तुक् कॊण्डवर्गळाय्क् कॊण्डु अन्दन्द कार्यत्तै सॆय्गिऱवर्गळाग अल्लवा काणप् पडुगिऱार्गळ्? पिरह्ममो सहायमऱ्ऱदॆऩ्ऱु तङ्गळ् अबिप्पिरायम्; अदऱ्कु वेऱु सादऩङ्गळै ऎडुत्तुक् कॊळ्वदु इल्लैयॆऩ्ऱिरुक्कैयिल् स्रुष्टिक्कुम् तऩ्मै ऎप्पडि पॊरुन्दुम्! आगैयिऩाल् पिरह्मम् जगत्तिऱ्कु कारणमल्ल ऎऩ्ऱाल्।

ज्ञानानन्द-भारती - द्राविडी

इदु तोषमल्ल, एऩॆऩ्ऱाल् “पाल्बोल” तिरवियत्तिऩुडैय स्वबावत्तिलुळ्ळ विसेषत्तिऩाल् पॊरुन्दुम्। उलगत्तिल् ऎप्पडि पालो जलमो ताऩागवे वॆळि सादऩत्तै अबेक्षिक्कामल् तयिर् पऩिक्कट्टि रूबमाग माऱुगिऱदो, अप्पडिये इङ्गेयुम् इरुक्कलाम् पाल् मुदलाऩदुम् कूड तयिर् मुदलाऩ रूबमाग माऱुम्बोदु उष्णम् मुदलाऩ वॆळि सादऩत्तै अबेक्षिक्कवे सॆय्गिऱदु ऎऩ्ऱिरुक्कैयिल्, “पाल्बोल अल्लवा?” ऎऩ्ऱु ऎप्पडिच् चॊल्लप् पडुगिऱदु?

नैष दोषः। स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रामनुभवत्येव। त्वार्यते त्वौष्ण्यादिना दधिभावाय। यदि च स्वयं दधिभावशीलता न स्यात् , नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत। न हि वायुराकाशो वा औष्ण्यादिना बलाद्दधिभावमापद्यते। साधनसामग्र्या च तस्य पूर्णता सम्पाद्यते। परिपूर्णशक्तिकं तु ब्रह्म। न तस्यान्येन केनचित्पूर्णता सम्पादयितव्या। श्रुतिश्च भवति — ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ (श्वे. उ. ६। ८) इति। तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात् क्षीरादिवद्विचित्रपरिणाम उपपद्यते ॥ २४ ॥

ज्ञानानन्द-भारती - द्राविडी

इदु तोषमल्ल। पाल् ताऩाग ऎन्द ऎव्वळवु परिणाम अळवै अडैयुमो अव्वळवुदाऩ् तयिराग आवदऱ्कु उष्णम् मुदलाऩदिऩाल् सीक्किरप्पडुत्तप् पडुगिऱदु (पालुक्कु) ताऩाग तयिरागुम् तऩ्मै यिल्लैयाऩाल् उष्णम् मुदलाऩदिऩालुम् कूड पलात्कारमाग तयिर् रूबत्तै अडैयादु। वायुवो आगासमो उष्णम् मुदलाऩदिऩाल् पलात्कारमाग तयिर् रूबत्तै अडैवदिल्लैयल्लवा? सादऩ सामक्रियि ऩाल् अदऱ्कु पूर्णमायिरुक्कुम् तऩ्मै कॊडुक्कप् पडुगिऱदु। पिरह्ममो परिबूर्णमाऩ सक्तियैयुडैयदु; अदऱ्कु वेऱु ऎदिऩालुम् पूर्णत्तऩ्मै एऱ्पडुत्तिक् कॊडुक्कवेण्डियदिल्लै। सुरुदियुम् “अदऱ्कु कार्यम् किडैयादु, करणमुम् किडैयादु। अदऱ्कु सममायुळ्ळदो अदिगमायुळ्ळदो काणप्पडुवदिल्लै। इदिऩुडैय मेलाऩ सक्ति पलविदमागवे स्वबाव सित्तमाग ञाऩम् पलम् सॆयल् ऎऩ्ऱुम् सॊल्लप् पडुगिऱदु। ” (सुवेदा ६-८) ऎऩ्ऱु इरुक्किऱदु। आगैयाल् ऒऩ्ऱायिरुन्दालुम् पिरह्मत्तिऱ्कु विसित्तिरमाऩ सक्तियिऩ् सेर्क्कै यिरुप्पदाल् पाल् मुदलियदैप्पोल विसित्तिरमायुळ्ळ परिणामम् पॊरुन्दुम्।

देवादिवदपि लोके ॥ २५ ॥

ज्ञानानन्द-भारती - द्राविडी

तेवादिवदबि लोगे ॥ २५ ॥

स्यादेतत् — उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात्। चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते। कथं ब्रह्म चेतनं सत् असहायं प्रवर्तेतेति — देवादिवदिति ब्रूमः — यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात्। तन्तुनाभश्च स्वत एव तन्तून्सृजति। बलाका चान्तरेणैव शुक्रं गर्भं धत्ते। पद्मिनी चानपेक्ष्य किञ्चित्प्रस्थानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते। एवं चेतनमपि ब्रह्म अनपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति ।

ज्ञानानन्द-भारती - द्राविडी

इदु इरुक्कट्टुम्; पाल् मुदलाऩ असेदऩङ्गळुक्कु वॆळि सादऩत्तै अबेक्षिक्कामले तयिर् मुदलाऩदाग आवदु। नेरिल् काणप्पडुवदाल् पॊरुत्तमाग आगलाम्। कुयवऩ् मुदलाऩ सेदऩर्गळो सादऩ सामक्रियै अबेक्षित्तुत्ताऩ् अन्दन्द कार्यत्तै उत्तेसित्तु पिरविरुत्तिप्पदाग काणप्पडु किऱार्गळ्। सेदऩमाऩ पिरह्मम् सहायमिल्लामल् ऎप्पडि पिरविरुत्तिक्कुम्? ऎऩ्ऱु

ज्ञानानन्द-भारती - द्राविडी

“तेवर् मुदलाऩवरैप्पोल” ऎऩ्ऱु सॊल्लु किऱोम्। ऎप्पडि उलगत्तिल् तेवर्गळ्, पित्रुक्कळ्, रिषिगळ् ऎऩ्बदु मुदलाऩ महा पिरबावमुळ्ळवर्गळ् सेदऩर्गळाग इरुन्द पोदिलुम् ऎव्विद वॆळि सादऩत्तैयुम् अबेक्षिक्कामल् ऐसुवर्य विसेषत्तिऩ् सेर्क्कैयाल् निऩैप् पदिऩालेये ताऩागवे पलविद निलैयिलुळ्ळ पल सरीरङ्गळैयुम् माळिगै मुदलाऩवैगळैयुम् रदम् मुदलाऩवैगळैयुम् निर्माणम् सॆय्वदाग पिरमाणमाऩ मन्दिरम् अर्त्तवादम् इदिहासम् पुराणम् इवैगळिऩ् मूलम् अऱियप्पडुगिऩ्ऱऩर्।

ज्ञानानन्द-भारती - द्राविडी

सिलन्दियुम् ताऩागवे नूलै स्रुष्टिक्किऱदु; कॊक्कु सुक्किरमिल्लामले कर्प्पम् तरिक्किऱदु; तामरैक्कॊडि पोवदऱ्कु ऎव्विद सादऩत्तैयुम् अबेक्षिक्कामल् ऒरु कुळत्तिलिरुन्दु वेऱु कुळत्तिऱ्कुप् पुऱप्पडुगिऱदु। इव्विदम् सेदऩमायुळ्ळ पिरह्ममुम् वॆळि सादऩत्तै अबेक्षिक्कामल् ताऩाग जगत्तै स्रुष्टिक्कुम्।

स यदि ब्रूयात् — य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा न समाना भवन्ति। शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादने उपादानम्। न तु चेतन आत्मा। तन्तुनाभस्य च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति। बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते। पद्मिनी च चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरोन्तरात्सरोन्तरमुपसर्पति, वल्लीव वृक्षम्। न तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियते। तस्मान्नैते ब्रह्मणो दृष्टान्ता इति — तं प्रति ब्रूयात् — नायं दोषः। कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति — यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते, न देवादयः। तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामः। तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः ॥ २५ ॥

ज्ञानानन्द-भारती - द्राविडी

‘पिरह्मत्तिऱ्कु तिरुष्टान्दमाग ऎन्द इन्द तेवर् मुदलाऩवर्गळ् सॊल्लप्पट्टार्गळो अवर्गळ् तार्ष्टान्दिगमाऩ पिरह्मत्तुडऩ् समाऩमाग इल्लै। तेवादिगळुडैय असेदऩमायुळ्ळ सरीरम् ताऩ् वेऱु सरीरम् मुदलाऩ विबूदिगळै उण्डुबण्णुम् उबादाऩ कारणमे तविर, सेदऩमाऩ आत्मा अल्ल। सिलन्दिक्कुम् तऩ्ऩैविड सिऱिय पूच्चियैत् तिऩ्बदिऩाल् ऎच्चिल् कॆट्टियायिरुक्कुम् तऩ्मैयै अडैन्दु नूलाग आगिऱदु; कॊक्कुम् इडियिऩ् सप्तत्तैक् केट्पदिऩाल् कर्प्पम् तरिक्किऱदु; तामरैक्कॊडियुम् कॊडिमरत्तै यडैवदुबोल, सेदऩत्तिऩाल् एवप्पट्टु असेदऩ माऩ सरीरत्ति ऩालेये ऒरु कुळत्तिलिरुन्दु वेऱु कुळम् पोगिऱदे तविऱ ताऩ् असेदऩमागवेयिरुन्दुगॊण्डु ताऩागवे इऩ्ऩॊरु कुळत्तिऱ्कुप् पोवदिल्लै। आगैयाल् इवै पिरह्मत्तिऱ्कु तिरुष्टान्दङ्गळ् आगादु’ ऎऩ्ऱु अवऩ् सॊल्वाऩेयाऩाल्, अवऩुक्कु पदिल् सॊल्ल वेण्डुम्। इदु तोषमल्ल कुयवऩ् मुदलाऩ तिरुष्टान्दत्तिलिरुन्दु वेऱुबडुवदै मात्तिरम् सॊल्ल विरुम्बुवदाल् ऎऩ्ऱु कुयवऩ् मुदलाऩवर्गळुक्कुम् तेवर् मुदलाऩवर्गळुक्कुम् सेदऩमाय् इरुक्कुम् तऩ्मै समाऩमायिरुन्द पोदिलुम्, कुयवऩ् मुदलाऩवर्गळ् कार्यत्तैयुण्डु पण्ण वॆळि सादऩत्तै अबेक्षिक्किऱार्गळ्, तेवर् मुदलाऩवर्गळ् अबेक्षिक्किऱदिल्लै, ऎऩ्बदु ऎप्पडियो अप्पडिये पिरह्ममुम् सेदऩमायिरुन्द पोदिलुम् वॆळि सादऩत्तै अबेक्षिक्किऱदिल्लै ऎऩ्बदै मात्तिरम् तेवादि तिरुष्टान्दत्तिऩाल् सॊल्ल नाङ्गळ् विरुम्बुगिऱोम्।

ज्ञानानन्द-भारती - द्राविडी

आगैयाल्, ऒरु वस्तुविऩ् सामर्त्तियम् ऎप्पडि काणप्पडुगिऱदो, अप्पडिये ऎल्लावऱ्ऱिऱ्कुम् इरुक्क वेण्डुमॆऩ्बदु अवसियमिल्लैयॆऩ्ऱु अबिप्पिरायम्।