०७ इतरव्यपदेशाधिकरणम्

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥

ज्ञानानन्द-भारती - द्राविडी

इदरव्यबदेसात्तिदागरणा तिदोषप्रयक्ति: ॥ २१ ॥

हिताक्रियादि स्यान्नो वा जीवाभेदं प्रपश्यतः ॥
जीवाहितक्रिया स्वार्था स्यादेषा नहि युज्यते ॥ १३ ॥
अवस्तु जीवसंसारस्तेन नास्ति मम क्षतिः ॥
इति पश्यत ईशस्य न हिताहितभागिता ॥ १४ ॥

ज्ञानानन्द-भारती - द्राविडी

–वैयासिक-न्यायमाला

ज्ञानानन्द-भारती - द्राविडी

जीवऩुडऩ् वेऱ्ऱुमैप्पडाद तऩ्मैयै नऩ्ऱाय् अऱिन्दिरुक्किऱवरुक्कु (ईसुवररुक्कु) हिदत्तै सॆय्दु कॊळ्ळाददु मुदलियदु एऱ्पडुमा? एऱ्पडादा? जीवऩुक्कु अहिदत्तैच् चॆय्वदु तऩ् पॊरुट्टे आगुम्। इदु पॊरुन्दादल्लवा?

ज्ञानानन्द-भारती - द्राविडी

‘जीवऩुडैय संसारम् वास्तवत्तऩ्मैयऱ्ऱदु। अदिऩाल् ऎऩक्कु कॆडुदल् किडैयादु” ऎऩ्ऱु अऱियुम् ईसुवररुक्कु हिदम्, अहिदम् इवैगळिल् पङ्गुळ्ळव रॆऩ्ऱ तऩ्मै किडैयादु।

अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते — चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते। कुतः ? इतरव्यपदेशात्। इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः — ‘स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६। ८। ७) इति प्रतिबोधनात्। यद्वा — इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति — ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २। ६। १) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वदर्शनात्; ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६। ३। २) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती, न ब्रह्मणो भिन्नः शारीर इति दर्शयति। तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेति ।

ज्ञानानन्द-भारती - द्राविडी

[जीवऩुम् पिरह्ममुम ऒऩ्ऱु वेऱल्ल जीवा पिऩ्ऩमाऩ पिरह्मम् जगत्तुक्कु कारणम् ऎऩ्ऱ अत्वैद वेदान्द सित्तान्दम् सरियल्ल। ईसुवरऩ् संसारत्तिल् ईडुबट्ट सिल जीवर्गळुक्कु वैराक्यम् मुदलाऩ हिदत्तै उण्डुबण्णुगिऱार्। आऩाल् पल जीवर्गळुक्कु नरग हेदुवाऩ अदर्मम् मूलम् पन्दत्तैक् कॊडुक्किऱार्। अक्ञाऩियाऩ जीवऩ्दाऩ् पिरह्मम् ऎऩ्बदै उणराविट्टालुम् सर्वक्ञराऩ ईसुवरऩ् ताऩुम् जीवऩुम् ऒऩ्ऱुदाऩ् ऎऩ्बदै उणरामलिरुक्क मुडियादु। आगवे जीवऩुक्कु पन्दत्तैक् कॊडुक्कुम् ईसुवरऩ् जीवा पिऩ्ऩमाऩ तऩक्केदाऩ् अहिदत्तैच् चॆय्गिऱार्। हिदत्तै तऩक्कुच् चॆय्यविल्लै ऎऩ्ऱु आगुम्। इदु तोषमल्लवा! स्वदन्दिरऩाऩ अऱिविऱ् सिऱन्दवऩ् तऩक्के हिदत्तैच् चॆय्यामल् अहिदत् तैच् चॆय्दु कॊळ्वाऩा? ऎऩ्ऱु पूर्वबक्षम्।

ज्ञानानन्द-भारती - द्राविडी

सर्वक्ञऩाऩ ईसुवरऩ् ताऩुम् जीवऩुम् ऒऩ्ऱुदाऩ् ऎऩ्बदै अऱिन्दुगॊळ्वदु पोल् जीवऩुडैय पन्दम् उण्मैयल्ल ऎऩ्बदैयुम् अऱिवाऩ्। तऩ्ऩिडम् ऒऩ्ऱुम् ऒट्टादु ऎऩ्बदैयुम् अऱिवाऩ्। जीवऩुक्के पन्दम् वास्तमिल्लादिरुक्कुम् पॊऴुदु अदैयऱिन्द ईसुवरऩुक्कु ऎप्पडि पन्दम् वरुम्? आगैयाल् जीवाबिऩ्ऩमाऩ ईसुवरऩ् जगत्कारणम् ऎऩ्ऱ सित्तान्दत्तिल् तोषमिल्लै ऎऩ्ऱु सित्तान्दम्]

ज्ञानानन्द-भारती - द्राविडी

सेदऩऩै (जगत्तिऱ्कु) कारणमाग सॊल्लुम् वादम् मऱुबडियुम् वेऱु विदमाग आक्षेबिक् कप्पडुगिऱदु। सेदऩऩिडमिरुन्दु जगत् सिरुष्टि आसिरयिक्कप् पडुमाऩाल्, हिदत्तै सॆय्याददु मुदलाऩ तोषङ्गळ् एऱ्पडुम्। ऎदिऩाल्? “मऱ्ऱॊऩ्ऱुक्कु कुऱिप्पिडप् पडुवदाल्” मऱ्ऱॊऩ्ऱाऩ सारीरऩुक्कु (जीवऩुक्कु) पिरह्म स्वरूबमायिरुक्कुम् तऩ्मैयै सुरुदि कुऱिप्पिडुगिऱदु, ‘अदु आत्मा, हे सुवेदगेदो, अदुवाय् नी इरुक्किऱाय्" (सान्।६-८-७) ऎऩ्ऱु उबदेसिप् पदिऩाल्। अल्लदु मऱ्ऱॊऩ्ऱाऩ पिरह्मत्तिऱ्कु सारीर (जीव) स्वरूबमायिरुक्कुम् तऩ्मैयै कुऱिप्पिडुगिऱदु। “अदु स्रुष्टित्तुविट्टु अदुवे उळ्ळे पुगुन्ददु” (तैत्तिरीय। २-६) ऎऩ्ऱु स्रुष्टि सॆय्गिऱ विगार मडैयाद पिरह्मत्तिऱ्के कार्यत्तिऱ्कुळ् पुगुवदिऩाल् सारीर (जीव) स्वरूबमाय् इरुक्कुम् तऩ्मै काट्टप् पडुवदाल् “इन्द जीव स्वरूबमाग उळ्ळे पुगुन्दु नामरूबङ्गळै वियागरणम् सॆय्वेऩ् (स्तूलमाक् कुवेऩ्)” (सान्।६-३-२) ऎऩ्ऱु परदेवदै (पिरुह्मम्) जीवऩै आत्मा ऎऩ्ऱ सप्तत्तिऩाल् कुऱिप्पिडुगिऱदाय् पिरह्मत्तैविड सारीरऩ् वेऱिल्लैयॆऩ्बदैक् काट्टुगिऱदु। आगैयाल् पिरह्मत्तिऩ् स्रुष्टिक्कुम् तऩ्मै ऎदुवो अदु सारीरऩुडैयदेयॆऩ्ऱु।

अतस्सः स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यात् , नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम्। न हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति। न च स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपेयात्। कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात्। सुखकरं चोपाददीत। स्मरेच्च — मयेदं जगद्बिम्बं विचित्रं विरचितमिति। सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति — मयेदं कृतमिति। यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत्। स्वकीयमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम्। एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते ॥ २१ ॥

ज्ञानानन्द-भारती - द्राविडी

अदिऩाल् अवऩ् स्वदन्दिरऩाग सॆय्गिऱवऩाग इरुन्दुगॊण्डु तऩक्कु हिदमाय् मऩसिऱ्कुप्पिडित्त तैये सॆय्दुगॊळ्वाऩे तविर, पिऱप्पु इऱप्पु मूप्पु पिणि मुदलिय अनेग अऩर्त्तक् कूट्टमाऩ अहिदत्तै सॆय्दुगॊळ्ळमाट्टाऩ्। परदन्दिरऩायिल्लाद ऎवऩुम् तऩक्कु सिऱैक्कट्टिडम् कट्टिक्कॊण्डु अदिल् पुगुन्दु कॊळ्वदिल्लैयल्लवा? ताऩ् वॆगु निर्मलमायिरुन्दु कॊण्डु वॆगु मलत्तोडु कूडिऩ तेहत्तै ताऩ् ऎऩ्ऱु ऎण्णवुम् माट्टाऩ्। एदोवॊरु कारणत्ताल् ऎण्णि विट्टालुम्, ऎदु तुक्कत्तैक् कॊडुक्किऱदो अदै ऎप्पडियावदु तऩ् इच्चैप्पडि विट्टुविडुवाऩ्। सुगत्तैक् कॊडुप्पदै ऎडुत्तुक् कॊळ्वाऩ्। इन्द विसित्तिरमायिरुक्कुम् जगत्तागिय पिम्बम् ऎऩ्ऩाल् उण्डाक्कप्पट्टदॆऩ्ऱु स्मरिप्पाऩ्; ऎल्ला जऩङ्ग ळुम् ऒरु कार्यत्तै सॆय्दुविट्टु इदु ऎऩ्ऩाल् सॆय्यप्पट्टदु ऎऩ्ऱु स्मरिक्किऱार् कळल्लवा? मायावि तऩ्ऩाल् काट्टप्पडुम् मायैयै तऩ् इच्चैयिऩा लेये ऎव्विद सिरममुमऩ्ऩियिल् ऎप्पडि उबसम्हारम् सॆय्दुविडुगिऱाऩो, अप्पडिये सारीरऩुम् इन्द स्रुष्टियै उबसम्हरिक्कवेण्डुम्। आऩाल् सारीरऩ् (जीवऩ्) तऩ् सरीरत्तैक्कूड सिरममऩ्ऩियिल् उबसम् हरिक्क मुडियविल्लै। इव्विदम् हिदत्तै सॆय्दु कॊळ्वदु मुदलियदु काणप्पडाददिऩाल् सेदऩऩिड मिरुन्दु जगत् उण्डाऩदु ऎऩ्बदु न्यायमिल्लै, ऎऩ्ऱु अऱियप्पडुगिऱदु।

अधिकं तु भेदनिर्देशात् ॥ २२ ॥

ज्ञानानन्द-भारती - द्राविडी

अदिगम् तु पेदनिर्देसात् ॥ २२ ॥

तुशब्दः पक्षं व्यावर्तयति। यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत् , तत् वयं जगतः स्रष्टृ ब्रूमः। न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते। न हि तस्य हितं किञ्चित्कर्तव्यमस्ति, अहितं वा परिहर्तव्यम् , नित्यमुक्तस्वभावत्वात्। न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च। शारीरस्त्वनेवंविधः। तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः। न तु तं वयं जगतः स्रष्टारं ब्रूमः ।

ज्ञानानन्द-भारती - द्राविडी

आऩाल् ऎऩ्ऱ सप्तम् (पूर्व) पक्षत्तै विलक्कुगिऱदु। सर्वक्ञमाय् सर्व सक्तियुळ्ळदाय् नित्यमाय् सुत्तमाय् अऱिवाय् विडुबट्ट स्वबाव मुळ्ळदाय् ऎन्द पिरह्मम् सारीरऩुक्कु अदिगमाय्-वेऱाग इरुक्किऱदो, अदै नाङ्गळ् जगत्तै स्रुष्टि सॆय्ददु ऎऩ्ऱु सॊल्गिऱोम्। अदऩिडत्तिल् हिदत्तै सॆय्याददु मुदलिय तोषङ्गळ् एऱ्पडादु। अदऱ्कु सॆय्दुगॊळ्ळ वेण्डियदाग हिदमो, विलक्क वेण्डियदाग अहिदमो, ऒऩ्ऱुम् किडैयादल्लवा, ऎप्पॊऴुदुम् विडुबट्ट स्वबावमुळ्ळदाल्। अदऱ्कु ञाऩत्तिऱ्कु इडैयूऱो, सक्तिक्कु इडैयूऱो ऒरु कालत्तिलुम् किडैयादु, सर्वक्ञमाऩदिऩालुम् सर्व सक्तियुळ्ळदिऩालुम्। सारीरऩो अव्विदमिल्लै; अवऩिडम् हिदत्तै सॆय्दु कॊळ्ळाददु मुदलिय तोषङ्गळ् एऱ्पडुम्। अवऩैयो नाङ्गळ् जगत्तिऩ् स्रुष्टिगर्त्तावाग सॊल्लविल्लै।

कुत एतत् ? भेदनिर्देशात् — ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २। ४। ५) ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८। ७। १) ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६। ८। १) ‘शारीर आत्मा प्राज्ञेनात्मनान्वारूढः’ (बृ. उ. ४। ३। ३५) इत्येवंजातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति। नन्वभेदनिर्देशोऽपि दर्शितः — ‘तत्त्वमसि’ इत्येवंजातीयकः। कथं भेदाभेदौ विरुद्धौ सम्भवेताम् ? नैष दोषः, आकाशघटाकाशन्यायेनोभयसम्भवस्य तत्र तत्र प्रतिष्ठापितत्वात् ।

ज्ञानानन्द-भारती - द्राविडी

इदु एऩ्? “पेदत्तै कुऱिप्पिडुवदाल्”- “अये! आत्मादाऩ् अऱियप्पडवेण्डियदु। केट्कप् पडवेण्डियदु, निऩैक्कप्पडवेण्डियदु। तियाऩम् सॆय्यप्पडवेण्डियदु” (पिरुहत् २-४-५), “अवर् तेडत्तक्कवर् नऩ्गु अऱियत् तक्कवर्” (सान्।८-७-१), “हे सोम्य, अप्पॊऴुदु सत्वस्तुवुडऩ् ऒऩ्ऱुबट्टवऩागिऱाऩ्” (सान्।६-८-१), “सारीरऩाऩ आत्मा पिराक्ञऩाऩ आत्मावोडु कलन्दु” (पिरुहत् ४-३-३५) ऎऩ्बदु पोलुळ्ळ कर्त्ता, कर्म मुदलिय पेदत्तैक् कुऱिप्पिडुवदु जीवऩैविड वेऱुबट्टदाऩ पिरह्मत्तैक् काट्टुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

“तत् त्वम् असि” (अदुवाय् नी इरुक्किऱाय्) ऎऩ्बदु पोलुळ्ळ पेदमिल्लाददै कुऱिप्पिडुवदुम् काट्टप्पट्टिरुक्किऱदे? ( ऒऩ्ऱुक्कॊऩ्ऱु) विरोदमाऩ पेदम्, अबेदम् इरण्डुम् ऎप्पडि सम्बविक्क मुडियुम्? इदु तोषमल्ल, (पॆरिय) आगासम्, कुडत्तिल् आगासम् ऎऩ्ऱ नियायप्पडि इरण्डुम् सम्बविक्कुमॆऩ्ऱु आङ्गाङ्गु उऱुदिप्पडुत्तियिरुप्पदाल्।

अपि च यदा ‘तत्त्वमसि’ इत्येवंजातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति; अपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वम्। समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात्। तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः। अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारः, न तु परमार्थतोऽस्तीत्यसकृदवोचाम — जन्ममरणच्छेदनभेदनाद्यभिमानवत्। अबाधिते तु भेदव्यवहारे ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥ २२ ॥

ज्ञानानन्द-भारती - द्राविडी

मेलुम् “तत्त्वम् असि” ऎऩ्बदु पोलुळ्ळ अबेदम् कुऱिप्पिडुवदिऩाल् ऎप्पॊऴुदु अबेदम् अऱिविक्कप्पट्टुविडुगिऱदो, अप्पॊऴुदु जीवऩुक्कु संसारित्तऩ्मैयुम् पिरह्मत्तिऱ्कु स्रुष्टि सॆय्युम् तऩ्मैयुम् विलगिविडुगिऩ्ऱऩ। मित्यैयाऩ अक्ञाऩत् तिऩाल् पादिक्कप्पट्टुविट्टबडियाल् अन्द निलैयिल् ऎङ्गिरुन्दुदाऩ् स्रुष्टियो ऎङ्गिरुन्दु ताऩ् हिदत्तै सॆय्दुगॊळ्ळाददु मुदलिय तोषङ्गळो एऱ्पड मुडियुम्? अवित्यैयिऩाल् एऱ्पट्ट नाम रूबङ्गळाल् सॆय्यप्पट्टिरुक्किऱ कार्यम् (सरीरम्) करणम् (इन्दिरि यङ्गळ्) इवैगळिऩ् कूट्टमागिऱ उबादियिलिरुन्दु पिरित्तऱियाददिऩाल् एऱ्पट्ट पिरान्दियल्लवा हिदत्तै सॆय्दु कॊळ्ळाददु मुदलियदै लक्षणमायुळ्ळ संसारम् ऎऩ्बदु; वास्तवत्तिलो अदु किडैयादु ऎऩ्ऱु अडिक्कडि सॊल्लियिरुक्किऱोम्। पिऱप्पु इऱप्पु वॆट्टु पिळप्पु मुदलियदिल् अबिमाऩम् पोल पेद व्यवहारम् पादिक्कप्पडामलिरुक्कैयिलो, अवर् तेड वेण्डियवर्, अवर् नऩ्गु अऱिय वेण्डियवर्” ऎऩ्बदु पोलुळ्ळ पेदत्तैक् कुऱिप्पिडुवदाल् अऱियप्पडुगिऱ पिरह्मत्तिऩ् अदिगत् (वेऱाग इरुक्कुम्) तऩ्मै हिदत्तै सॆय्दु कॊळ्ळाददु मुदलिय तोषम् एऱ्पडुवदैत् तडुत्तुविडुगिऱदु। (२२)

अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥

ज्ञानानन्द-भारती - द्राविडी

अच्मादिवच्च तदनुबबत्ति: ॥ २३ ॥

यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयः, अन्ये मध्यमवीर्याः सूर्यकान्तादयः, अन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणाः — इत्यनेकविधं वैचित्र्यं दृश्यते। यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यते। यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति — एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः, परपरिकल्पितदोषानुपपत्तिरित्यर्थः। श्रुतेश्च प्रामाण्यात् , विकारस्य च वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्च — इत्यभ्युच्चयः ॥ २३ ॥

ज्ञानानन्द-भारती - द्राविडी

ऎप्पडि उलगत्तिल् पिरुदिवीयॆऩ्ऱ पॊदुत् तऩ्मैयुडऩ् कूडियिरुन्द पोदिलुम् कऱ्कळिल् सिलदु विलैयुयर्न्द वयिरम्, वैडूर्यम्, मुदलाऩ रत्ऩङ् गळायुम्, वेऱुसिल नडुत्तर मदिप्पुळ्ळ सूर्यगान्दम् मुदलाऩवैगळायुम् वेऱु सिल मिगवुम् मट्टमाय् नाय् काक्कैगळिऩ् पेरिल् विट्टॆरियक्कूडिय कऱ्कळायुम्, ऎऩ्ऱु पलविदमाग विसित्तिरत्तऩ्मै काणप्पडुगिऱदो; ऎप्पडि ऒरे पूमियै आसिरयित्तिरुन्द पोदिलुम् विदैगळुक्कुळ् पलविदमाग इलै, पू, पऴम्, वासऩै, रुसि मुदलिय विसित्तिरत्तऩ्मै सन्दऩम् किम्बागम् (कसप्पुळ्ळ मरम्) मुदलियवैगळिल् काणप्पडुगिऱदो; ऎप्पडि अऩ्ऩरसम् ऒऩ्ऱायि रुन्दालुम् रत्तम् मुदलाऩवैगळुम् केसम् रोमम् मुदलाऩवैगळुम् आगिय विसित्तिरमाऩ कार्यङ्गळ् उण्डागिऩ्ऱऩवो; इव्विदमे पिरह्मम् ऒऩ्ऱाग इरुन्दालुम् जीवऩ् पिराक्ञऩ् ऎऩ्ऱ वेऱुबाडुम्, कार्यत्तिल् विसित्तिरत् तऩ्मैयुम् पॊरुन्दुम्। ऎऩ्बदाल् “अदऱ्कु पॊरुत्त मिल्लामै” पिऱराल् कल्बिक्कप् पडुगिऱ तोषत्तिऱ्कु पॊरुत्तमिल्लामै ऎऩ्ऱु अर्त्तम्।

ज्ञानानन्द-भारती - द्राविडी

“उम्” ऎऩ्बदिऩाल्, सुरुदि पिरमाणमायिरुप्प तिऩालुम्, विगारम् वाक्किऩाल् मात्तिरम् आरम्बिक्कप् पडुवदायिरुप्पदिऩालुम्, स्वप्ऩत्तिल् पार्क्कप्पडुम् वस्तुक्कळुडैय विसित्तिरत् तऩ्मैयैप्पोल् ऎऩ्ऱु सेर्त्तुक्कॊळ्ळ वेण्डियदु।