०६ आरम्भणाधिकरणम्

तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥

ज्ञानानन्द-भारती - द्राविडी

तदनन्यत्वमारम्बणसप्तादिप्य: ॥ १४ ॥

भेदाभेदौ तात्त्विकौ स्तो यदि वा व्यावहारिकौ ॥
समुद्रादाविव तयोर्बाधाभावेन तात्त्विकौ ॥ ११ ॥
बाधितौ श्रुतियुक्तिभ्यां तावतो व्यावहारिकौ ॥
कार्यस्य कारणाभेदादद्वैतं ब्रह्म तात्त्विकम् ॥ १२ ॥

ज्ञानानन्द-भारती - द्राविडी

–वैयासिक-न्यायमाला

ज्ञानानन्द-भारती - द्राविडी

वेऱ्ऱुमै, वेऱ्ऱुमैयिऩ्मै ऎऩ्ऱ इरण्डुम् पिरह्मत्तिल् उण्डु ऎऩ्ऱाल्, अवै वास्तवमागवे पिरह्मत्तिऩ् स्वरूबत्तिल् सेर्न्ददाग इरुक्किऩ्ऱऩवा? अल्लदु व्यवहारत्तिऱ्कागक् कल्बिक्कप्पट्टवैदाऩा? ऎऩ्बदु इङ्गे विषयम्।

ज्ञानानन्द-भारती - द्राविडी

पेदम्, अबेदम् इरण्डुम् वास्तवमाय् इरुक्किऩ्ऱवा? अल्लदु व्यवहारत्तिऱ्काग मात्तिरम् इरुप्पवैगळा? समुत्तिरम् मुदलियदिल् (पेदम्, अबेदम् ऎऩ्ऱ) अवैगळुक्कु पादम् (मऱुप्पु) इल्लाददिऩाल् ऎप्पडि वास्तवमाऩवैगळेर्, अप्पडिये इङ्गेयुम्।

ज्ञानानन्द-भारती - द्राविडी

(इङ्गु सॊल्लप्पडुम् पेदम्, अबेदम् ऎऩ्ऱ) इरण्डुम् वेदत्तिऩालुम्, पुत्तियिऩालुम् पादिक्कप्पडुगिऱदु। आगैयाल् अवैयिरण्डुम् व्यवहारत्तिऱ्काग मात्तिरम् इरुप्पवैगळ्। कार्यम् कारणत्तैविड वेऱुयिल्लाददि ऩाल्, (जगत्तिऩ् कारणमायुळ्ळ) पिरह्मम् इरण्डावदऱ्ऱदु ऎऩ्बदु वास्तवमे।

अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम् ‘स्याल्लोकवत्’ इति परिहारोऽभिहितः। न त्वयं विभागः परमार्थतोऽस्ति, यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते। कार्यमाकाशादिकं बहुप्रपञ्चं जगत्। कारणं परं ब्रह्म। तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते। कुतः ? आरम्भणशब्दादिभ्यः। आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते — ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६। १। ४) इति ।

ज्ञानानन्द-भारती - द्राविडी

[मुऩ् अदिगरणत्तिल् पोक्ता पोक्यम् ऎऩ्ऱु पिरबञ्जम् पलवागक् काणप्पडुवदाल् इदऩ् कारणमुम् पलवागत्ताऩिरुक्कवेण्डुम्, ऒऩ्ऱाग इरुक्कमुडियादु आगैयाल्, अत्वैदमाऩ पिरह्मम् कारणमिल्लै यॆऩ्ऱु आक्षेषबित्तु समुत्रम् ऒऩ्ऱायिरुन्दालुम् अदऩ् कारियमाऩ अलै, नुरै मुदलियवै अनेगमा यिरुप्पदैक् काण्बदाल् कारणम् ऒऩ्ऱागवुम्, कारियम् पलवागवुम् इरुक्कलामॆऩ्ऱु समादाऩम् कूऱप्पट्टदु। इदु पिरत्यक्षम् मुदलियवैगळुक्कु पिरामाण्यत्तै ऒप्पुक्कॊण्डु परिणाम तिरुष्टान्दङ्गळाल् पेदम् अबेदम् इरण्डुम् कूऱप्पट्टदु। इप्पॊऴुदु अत्वैदमाऩ पिरह्मम् ऒऩ्ऱे मुक्कालुमुळ्ळ वास्तवमाऩ पॊरुळ्। पिरबञ्जम् व्यवहार कालत्तिल् मट्टुम् उळ्ळदु पॊय्याऩदु। इदैयऱिविक्कुम् पिरत्यक्षादिगळुम् मुक्यप्र माणमल्ल। सुरुदि ऒऩ्ऱुदाऩ् मुक्यप्रमाणम्। कयिऱ्ऱिल् पल वस्तुक्कळ् तोऩ्ऱुवदु पोल् अत्वैद पिरह्मत्तिल् पिरबञ्जम् तोऩ्ऱुगिऱ तॆऩ्ऱु विवर्त्तवादत्तैक्कॊण्डु अत्वैद पिरह्मगारण वादत्तिऱ्कु विरोदमिल्लै ऎऩ्ऱु कूऱप्पडुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

कारणत्तिऱ्कुम् कारियत्तिऱ्कुम् उळ्ळ पेदम् अबेदम् इरण्डुम् वास्तवमा अल्लदु वियाव हारिगमा ऎऩ्ऱु सन्देहम्। समुत्रत्तिऱ्कुम् अलै मुदलियवैगळुक्कुम् अबेदम् पेदम् इरण्डुम् पिरत्यक्षमागत् तॆरिगिऱदु। इरण्डुम् सत्यम्। इदुबोलवे पिरह्मत्तिऱ्कुम् पिरबञ्जत्तिऱ्कुम् उळ्ळ वेऱ्ऱुमैयुम्, वेऱ्ऱुमै यिऩ्मैयुम् वास्तवम् ऎऩ्ऱु पूर्वबक्षम्। सुरुदि पेदत्तै मऱुक्किऱदु। पेदमुम् अबेदमुम् ऒरे इडत्तिल् इरुक्कादु। कारणत्तैक् काट्टिलुम् कारियम् वेऱु अल्ल ऎऩ्बदु युक्ति। आगवे, पिरबञ्जम् पिरह्म ञाऩम् वरुंवरै व्यवहार कालत्तिल् मट्टुम् इरुक्कक्कूडियदु, पॊय्। अत्वैदमाऩ पिरह्मम् ऒऩ्ऱे परमार्त्तमाऩदॆऩ्ऱु सित्तान्दम्। सूत्रत्तिल् ‘अनन्यत्वम्’ ऎऩ्ऱ सॊल् अबेदत्तैक् कूऱविल्लै वेऱ्ऱुमैयिल्लै ऎऩ्बदु इदऩ् पॊरुळ्।

ज्ञानानन्द-भारती - द्राविडी

व्यवहारत्तिल् इरुन्दुवरुगिऱ इन्द पोक्ता पोक्यम् ऎऩ्ऱ लक्षणमुळ्ळ पिरिवै ऒप्पुक् कॊण्डु"उलगत्तिल् पोल इरुक्कलाम्” ऎऩ्ऱु परिहारम् सॊल्लप्पट्टदु। आऩाल् इन्दप् पिरिवु वास्तवमागक् किडैयादु; एऩॆऩ्ऱाल्, कार्यम्, कारणम् इन्द इरण्डुक्कुम् वेऱुबडात् तऩ्मै अऱियप् पडुगिऱदु। कार्यम् ऎऩ्बदु आगासम् मुदलाऩ वॆगु विस्तारमायुळ्ळ जगत्तु: कारणम् परप्रह्मम् वास्तवत्तिल् अन्दक् कारणत्तिलिरुन्दु वेऱुबडात् तऩ्मै, वेऱाग इल्लामै, कार्यत्तिऱ्कु अऱियप् पडुगिऱदु। ऎदिऩाल्? आरम्बण सप्तम् मुदलियवैगळाल्। आरम्बण सप्तमावदु ऒऩ्ऱै अऱिवदिऩाल् ऎल्ला वऱ्ऱिऩ् अऱिवु (एऱ्पडुम्) ऎऩ्ऱु पिरदिक्ञै सॆय्दु विट्टु, तिरुष्टान्दत्तै अबेक्षिक्कुम्बोदु “हेसो म्य, ऒरु मण् कट्टियिऩाल् मण्णाल् सॆय्यप्पट्टदु ऎल्लाम् ऎप्पडि अऱियप्पट्टदाग आगुमो; विगारम् वाक्किऩाल् आरम्बिक्कप्पडुगिऱदु, वॆऱुम् पॆयर्; मण् ऎऩ्बदे सत्यम्” (सान्। ६-१-१) ऎऩ्बदु।

एतदुक्तं भवति — एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत्। यतो वाचारम्भणं विकारो नामधेयम् — वाचैव केवलमस्तीत्यारभ्यते — विकारः घटः शराव उदञ्चनं चेति। न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति। नामधेयमात्रं ह्येतदनृतम्। मृत्तिकेत्येव सत्यम् — इति

ज्ञानानन्द-भारती - द्राविडी

इदु सॊल्लप्पट्टदाग आगिऱदु; ऒरु मण्गट्टि मण् स्वरूबमाग अऱियप्पडुमेयाऩाल् मण्णाल् सॆय्यप्पट्ट कुडम् सरावम् उदञ्जऩम् मुदलाऩदु ऎल्लाम् मण् स्वरूबमायिरुप्पदिल् वित्तियास मिल्लाददिऩाल्, वास्तवमाग अऱियप्पट्टदाग आगुम्। एऩॆऩ्ऱाल्, विगारम् वाक्किऩाल् आरम्बिक्कप्पडुगिऱदु। वॆऱुम् पॆयर्, वॆऱुम् वाक्किऩाल् मात्तिरम् इरुक्किऱदॆऩ्ऱु, विगारम् कुडम् सरावम् उदञ्जऩम्

ज्ञानानन्द-भारती - द्राविडी

ऎऩ्ऱु, आरम्बिक्कप्पडुगिऱदु; आऩाल्, वास्तव स्तिदियिल् विगारम् ऎदुवुम् इल्लै; इदु वॆऱुम् पॆयर्मात्तिरमल्लवा! पॊय्। मण् ऎऩ्बदुदाऩ् सत्यम्, ऎऩ्ऱु

एष ब्रह्मणो दृष्टान्त आम्नातः। तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते। पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति — ‘अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’ (छा. उ. ६। ४। १) इत्यादिना ।

ज्ञानानन्द-भारती - द्राविडी

इदु पिरह्मत्तिऱ्कु तिरुष्टान्दमाग सॊल्लप् पट्टिरुक्किऱदु। अङ्गे सॊऩ्ऩ वाक्किऩाल् आरम्बिक्कप् पडुगिऱदु ऎऩ्ऱ सप्तत्तिऩाल्, तार्ष्टान्दि कत्तिलुम् पिरह्मत्तिऱ्कु वेऱाग कार्यक्कूट्टत्तिऱ्कु इल्लामै ऎऩ्ऱु अऱियप्पडुगिऱदु। मऱुबडियुम् तेजस् अप्पु अऩ्ऩम् इवैगळुक्कु पिरह्मत्तिऩ् कार्यमायिरुक्कुम् तऩ्मैयै सॊल्लिविट्टु, तेजस् अप्पु अऩ्ऩम् इवैगळिऩ् कार्यङ्गळुक्कुम् तेजस् अप्पु अऩ्ऩम् इवैगळुक्कु वेऱागयिरुक्कुम् तऩ्मैयिऩ् इल्लामै यैयुम्, “अक्ऩियिलिरुन्दु अक्ऩित्तऩ्मै विलगिविडुम्; विगारम् वाक्किऩाल् आरम्बिक्कप्पडुवदु, वॆऱुम् पॆयर्: मूऩ्ऱु रूबङ्गळ् ऎऩ्बदे सत्यम्" (सान्।६-४-१) ऎऩ्बदु मुदलाऩदिऩाल् सॊल्गिऱदु।

आरम्भणशब्दादिभ्य इत्यादिशब्दात् ‘ऐतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि’ (छा. उ. ६। ८। ७) ‘इदँ सर्वं यदयमात्मा’ (बृ. उ. २। ४। ६) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदँ सर्वम्’ (छा. उ. ७। २५। २) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४। ४। १९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम्। न चान्यथा एकविज्ञानेन सर्वविज्ञानं सम्पद्यते। तस्माद्यथा घटकरकाद्याकाशानां महाकाशादनन्यत्वम् , यथा च मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम् , दृष्टनष्टस्वरूपत्वात् स्वरूपेणानुपाख्यत्वात्। एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् ॥

ज्ञानानन्द-भारती - द्राविडी

‘आरम्बण सप्तम् मुदलियवैगळाल्’ ऎऩ्बदिल् ‘मुदलिय’ ऎऩ्ऱ सप्तत्तिऩाल, “इदु ऎल्लाम् इदैये स्वरूबमागवुडैयदु; अदु सत्यम्: अदु आत्मा; अदुवाग नी इरुक्किऱाय्” (सान्।६-८-७) “इदु ऎल्लाम् ऎदुवो अदु इन्द आत्मा" (पिरुहत् २-१-६), “इदु ऎल्लाम् पिरह्ममे” (मुण्डग।२-२-११)। “इदु ऎल्लाम् आत्मावे" (सान्।७-२५-२), ‘इदिल् ऎव्विद वेऱ्ऱुमैयुम् किडैयादु’ (पिरुहत् ४-४-१९), ऎऩ्बदु पोलुळ्ळ, आत्मा ऒऩ्ऱेयॆऩ्ऱु पिरदिबादिक्कुम् वाक्किय समूहत्तैयुम् ऎडुत्तुक्कॊळ्ळ वेणडुम्। वेऱु विदमाग, ऒऩ्ऱिऩ् अऱिविऩाल् ऎल्लावऱ्ऱिऩ् अऱिवु एऱ्पडादु। आगैयाल्, तोऩ्ऱि मऱैयुम् स्वबाव मुळ्ळदालुम्, स्वरूबत्तै विळक्किच्चॊल्ल मुडियाद तालुम् कुडम् करगम् मुदलाऩवैगळिऩ् आगासङ् गळुक्कु ऎप्पडि महागासत्तुडऩ् वेऱ्ऱुमैयिऩ्मैयो, काऩल् जलम् मुदलियवैगळुक्कु, पॊट्टल् पूमि मुदलियवै कळिलिरुन्दु वेऱुबडात् तऩ्मै ऎप्पडियो, अव्विदमे इन्द पोक्यम् पोक्ता मुदलाऩ पिरबञ्ज समूहत्तिऱ्कु पिरह्मत्तिऱ्कु वेऱायिरुक्कुम् तऩ्मैक् किडैयादॆऩ्ऱु अऱियवेण्डुम्।

नन्वनेकात्मकं ब्रह्म। यथा वृक्षोऽनेकशाखः, एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म। अत एकत्वं नानात्वं चोभयमपि सत्यमेव — यथा वृक्ष इत्येकत्वं शाखा इति नानात्वम्। यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् , यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम्। तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति। नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति। एवं च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति ।

ज्ञानानन्द-भारती - द्राविडी

मरम् ऎप्पडि पल किळैगळुडऩ्’ इरुक्किऱदो, अप्पडिये पलविद सक्तिगळुडऩुम्, पिरविरुत्ति कळुडऩुम् पिरह्मम् इरुप्पदाल्, पिरह्मम् अनेग स्वरूबम् उळ्ळदल्लवा? आगैयाल्, ऒऩ्ऱायिरुक्कुम् तऩ्मै, पलवाग इरुक्कुम् तऩ्मै इरण्डुमे सत्यम्दाऩ्। मरम् ऎऩ्ऱु ऒऩ्ऱाय् इरुक्कुम् तऩ्मै, किळैगळ् ऎऩ्ऱु पलवाग इरुक्कुम् तऩ्मै ऎप्पडियो, स्मुत्रस्वरूबत्तिऩाल् ऒऩ्ऱायिरुक्कुम् तऩ्मै, नुरै अलै मुदलाऩ स्वरूबत्तिऩाल् पलवाग इरुक्कुम् तऩ्मै ऎप्पडियो, मण् ऎऩऱ स्वरूबत्तिऩाल् ऒऩ्ऱायिरुक्कुम् तऩ्मै, कुडम् सरावम् मुदलाऩ स्वरूबत्तिऩाल् पलवाग इरुगगुम् तऩ्मै ऎप्पडियो (अप्पडि), अङ्गे ऒऩ्ऱायिरुक्कुम् तऩ्मैयैक् कॊण्डु अऱिविऩाल् मोक्षम् ऎऩ्ऱ व्यवहारम् सित्तिक्कुम्। पलवायिरुक्कुम् तऩ्मैयिऩालेयो कर्मगाण्डत्तै आसरित्तिरुक्कुम् लौगिग वैदिग व्यवहारम् सित्तिक्कुम्। इव्विदमाग मण् मुदलाऩ तिरुष्टान्दङ्गळुम् अऩुरूबङ्गळाग इरुक्कुम् ऎऩ्ऱु।

नैवं स्यात् — ‘मृत्तिकेत्येव सत्यम्’ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् , वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् , दार्ष्टान्तिकेऽपि ‘ऐतदात्म्यमिदँ सर्वं तत्सत्यम्’ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् , ‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति च शारीरस्य ब्रह्मभावोपदेशात्। स्वयं प्रसिद्धं ह्येतच्छारीरस्य ब्रह्मात्मत्वमुपदिश्यते, न यत्नान्तरप्रसाध्यम्। अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं सम्पद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम्। बाधिते च शारीरात्मत्वे तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति, यत्प्रसिद्धये नानात्वांशोऽपरो ब्रह्मणः कल्प्येत ।

ज्ञानानन्द-भारती - द्राविडी

इव्विदम् इरादु; “मण् ऎऩ्बदे सत्यम्” ऎऩ्ऱु तिरुष्टान्दत्तिल् कारण वस्तुविऱ्कु मात्तिरम् सत्यत् तऩ्मै कुऱिप्पिट्टिरुक्किऱबडियाल्; वाक्किऩाल् आरम्बम् ऎऩ्ऱ सप्तत्तिऩाल् विगारक्कूट्टत्तिऱ्कुप् पॊय्यायि रुक्कुम् तऩ्मै सॊल्लप्पट्टिरुप्पदालुम्। तार्ष्टान्दि कत्तिलुम् कूड, “इदु ऎल्लाम् इदैये आत्मागवु टैयदु। अदु सत्यम्” ऎऩ्ऱु परमगारणमायुळ्ळ ऒऩ्ऱिऱ्के सत्यत् तऩ्मै कुऱिप्पिट्टिरुक्किऱबडियालुम्, “अदु आत्मा अदुवाग नी इरुक्किऱाय्, हे सुवेदगेदो” ऎऩ्ऱु सारीरऩुक्कु पिरह्मत्तऩ्मै उबदेसिक्कप्पट्टिरुप्पदालुम् सारीरऩुक्कु स्वयमागवे सित्तमायुळ्ळ पिरह्म स्वरूबत् तऩ्मैये उबदेसिक्कप्पडुगिऱदु। वेऱु एदेऩुम् यत्ऩत्तिऩाल् सादिक्कवेण्डियदल्ल। इदऩालेये इन्द सास्तिरी यमाऩ पिरह्मस्व रूबमायिरुक्कुम् तऩ्मै अऱियप् पट्टवुडऩ् इदु स्वबाव सित्तमायुळ्ळ सारीर स्वरू पमायिरुक्कुम् तऩ्मैक्कु पादगमागिऱदु, कयिऱु मुदलिय अऱिवुगळ् पाम्बु मुदलिय अऱिवुगळुक्कु पादगमाग इरुप्पदु पोल। सारीर स्वरूबमायिरुक्कुम् तऩ्मै पादिक्कप्पडुम्बोदु अदै आसिरयित्तुळ्ळ स्वबाव सित्तमाऩ ऎल्ला व्यवहारमुम् पादिक्कप्पट्टु विडुगिऱदु। अदु (व्यवहारम्) सित्तिप्प तऱ्कागत्ताऩे पिरह्मत्तिऱ्कुप् पलवाग इरुक्कुम् तऩ्मै ऎऩ्ऱु वेऱाऩदु कल्बिक्कवेण्डियिरुक्किऱदु।

दर्शयति च — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४। ५। १५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम्। न चायं व्यवहाराभावोऽवस्थाविशेषनिबन्धनोऽभिधीयते इति युक्तं वक्तुम् , ‘तत्त्वमसि’ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात्। तस्करदृष्टान्तेन चानृताभिसन्धस्य बन्धनं सत्याभिसन्धस्य च मोक्षं दर्शयन् एकत्वमेवैकं पारमार्थिकं दर्शयति, मिथ्याज्ञानविजृम्भितं च नानात्वम्। उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसन्ध इत्युच्येत । ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४। ४। १९) इति च भेददृष्टिमपवदन्नेतदेव दर्शयति ।

ज्ञानानन्द-भारती - द्राविडी

“ऎङ्गे इवऩुक्कु ऎल्लाम् आत्मावाग वेयिरुक्कुमो, अङ्गे ऎदऩाल् ऎदैप् पार्प्पाऩ्?” (पिरुहत्। ४-५-१५) ऎऩ्बदु मुदलाऩदिऩाल् पिरह्मस् वरूबमायिरुक्कुम् तऩ्मैयै पार्क्किऱवर् विषयत्तिल् किरियै कारगम् पलऩ् ऎऩ्ऱलक्षणमुळ्ळ ऎल्ला व्यवहारत्तिऩ् इल्लामैयैक् काट्टुगिऱदु। इन्द व्यवहारमिल्लामै कुऱिप्पिट्ट ऒरु अवस्तैयै (निलैयैयॊट्टिऩदागच् चॊल्लप्पट्टिरुक्किऱदॆऩ्ऱु सॊल्वदु युक्तमिल्लै। ‘तत्त्वम् असि’ (अदुवाय् नी इरुक्किऱाय्) ऎऩ्ऱु सॊल्लप्पडुम् पिरह्मस् वरूबमायिरुत्तल् ऎव्विद कुऱिप्पिट्ट अवस्तैयैयुम् ऒट्टिऩदिल्लैयाऩदिऩाल्।

ज्ञानानन्द-भारती - द्राविडी

तिरुडऩ् तिरुष्टान्दत्तिऩालुम् (सान्।६-१६) पॊय्यिल् पिडिमाऩमुळ्ळवऩुक्कु पन्दम्; सत्यत्तिल् पिडिमाऩमुळ्ळवऩुक्कु विडुदलै ऎऩ्ऱु काट्टुवदुम् ऒऩ्ऱायिरुक्कुम् तऩ्मै ऒऩ्ऱे वास्तवमॆऩ्बदैक् काट्टुगिऱदु। पलवायिरुप्पदु मित्यैयाऩ अक्ञाऩत् तिऩाल् एऱ्पट्टदु। इरण्डुम् सत्यमायिरुक्कुमेया ऩाल्, व्यवहारत्तै विषयमायुळ्ळ मऩिदऩ् पॊय्यिल् पिडिमाऩमुळ्ळवऩॆऩ्ऱु ऎप्पडिच् चॊल्ल मुडियुम्? “ऎवऩ् इदिल् पलबोलप् पार्क्किऱाऩो अवऩ् मरणत्तिलिरुन्दु मरणत्तै अडैगिऱाऩ्” (पिरुहत् ४-४-१९) ऎऩ्ऱु वेऱ्ऱुमैप् पार्वैयै निन्दिप्पदुम् इदैये काट्टुगिऱदु।

न चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात्। उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते। नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन् , निर्विषयत्वात् , स्थाण्वादिष्विव पुरुषादिज्ञानानि। तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत। मोक्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात्तदभावे व्याघातः स्यात्। कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम् इन्द मदत्तिल् ञाऩत्तिऩाल् मोक्षम् ऎऩ्बदु पॊरुन्दादु, सरियाऩ ञाऩत्तिऩाल् पोक्कक्कूडियदाग ऎव्विद मित्यैयाऩ अगञाऩमुम् संसारत्तिऱ्कुक् कारणमाग ऒप्पुक्कॊळ्ळप् पडाददि ऩाल्। इरण्डुम् सत्यमायिरुक्कुमेयाऩाल्, ऒऩ्ऱायि रुक्कुम् तऩ्मैयै अऱिवदऩाल् पलवाग इरुक्कुम् तऩ्मैयिऩ् अऱिवु पोक्कप्पडुगिऱदॆऩ्ऱु ऎप्पडिच् चॊल्लमुडियुम्?

ज्ञानानन्द-भारती - द्राविडी

ऒऩ्ऱायिरुक्कुम् तऩ्मै ऒऩ्ऱुदाऩ् वास्तवमॆऩ्ऱु ऒप्पुक्कॊण्डाल् पलवागविरुक्कुम् तऩ्मै किडैयाददिऩाल् उलगत्तिलुळ्ळ पिरत्यक्षम् मुदलाऩ पिरमाणङ्गळ् विषय मऩ्ऩियिल् पोय्विडु वदाल्, पादिक्कप्पट्टुविडुम्, कट्टै मुदलाऩवैगळिल् मऩिदऩ् मुदलाऩ अऱिवुगळैप् पोल। अप्पडिये, कट्टळैयिडुवदुम् तडुप्पदुमाऩ सास्तिरमुम्, वेऱ्ऱुमैयै अबेक्षिप्पदाल्, अदु (वेऱ्ऱुमै) यिल्लैयाऩाल् पादिक्कप्पट्टुविडुम्। शिष्यऩ् कुरु मुदलाऩ पेदत्तै अबेक्षिप्पदाल् अदु इल्लै याऩाल् मोक्ष सास्तिरत्तिऱ्कुम् कूड पादम् एऱ्पडुम्। मेलुम् पॊय्याऩ मोग क्ष सास्तिरत्तिऩाल् पिरदिबादिक्कप्पडुगिऱ आत्माविऩ् ऒऩ्ऱायिरुक्कुम् तऩ्मैक्कु सत्यमायिरुक्कुम् तऩ्मै ऎप्पडि इरुक्कमुडियुम्?

अत्रोच्यते — नैष दोषः, सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः, स्वप्नव्यवहारस्येव प्राक्प्रबोधात्। यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते। विकारानेव तु ‘अहम्’ ‘मम’ इत्यविद्यया आत्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा। तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः — यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात् , न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् ।

ज्ञानानन्द-भारती - द्राविडी

इव्विषयत्तिल् सॊल्गिऱोम्: इदु तोष मिल्लै। पिरह्ममे आत्मावॆऩ्ऱ ञाऩम् एऱ्पडुव तऱ्कु मुऩ्ऩाल् ऎल्ला व्यवहारङ्गळुक्कुम् ‘सत्यत्तऩ्मै पॊरुन्दुमाऩदिऩाल्, विऴित्तुक्कॊळ् वदऱ्कु मुऩ्ऩाल् स्वप्ऩत्तिलुळ्ळ व्यवहारत्तिऱ् कुप्पोल। ऎदुवरै वास्तवमाऩ आत्माविऩ् ऒऩ्ऱा यिरुक्कुम् तऩ्मैयिऩ् ञाऩम् एऱ्पडविल्लैयो, अदुवरै पिरमाणम् पिरमेयम् पलऩ् ऎऩ्ऱ लक्षण मुळ्ळ विगारङ्गळिल् पॊय् ऎऩ्ऱ ऎण्णम् यारुक्कुमे एऱ्पडा तल्लवा? ऎल्ला पिराणिगळुम्, स्वबावसित् तमाऩ पिरह्मस्व रूबमायिरुक्कुम् तऩ्मैयै विट्टु विट्टु, अवित्यैयिऩाल् विगारङ्गळैये नाऩ् ऎऩ्ऩुडैयदु ऎऩ्ऱु ताऩागवुम् तऩ्ऩुडैयदागवु मुळ्ळ ऎण्णत्तिऩाल् अऱिगिऱदु। आगैयाल् पिरह्ममे आत्मावॆऩ्ऱ अऱिवु एऱ्पडुवदऱ्कु मुऩ्ऩाल् लौगिगमो वैदिगमो ऎल्ला व्यवहारमुम् पॊरुन्दुम्। तूङ्गिक् कॊण्डु स्वप्ऩत्तिल् मेलायुम् कीऴायुमुळ्ळ वस्तुक्कळैप् पार्त्तुक्कॊण्डिरुक्कुम् सामाऩ्य मऩिदऩुक्कु, विऴित्तुक् कॊळ्वदऱ्कु मुऩ्ऩाल्, निच्चयमागवे पिरत्यक्ष मॆऩ्ऱे करुदप्पडुगिऱ ञाऩम् एऱ्पडुगिऱदु; अन्द समयत्तिल् पिरत्यक्षम्बोल् वॆऱुम् तोऱ्ऱम् ऎऩ्ऱ ऎण्णम् इरुप्पदिल्लै, अदैप्पोल।

विश्वास-प्रस्तुतिः

कथं त्व् असत्येन वेदान्त-वाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिर् उपपद्येत ?+++(5)+++
न हि रज्जु-सर्पेण दष्टो म्रियते।
नापि मृग-तृष्णिकाम्भसा
पानावगाहनादि-प्रयोजनं क्रियत इति।

English

But how (to restate an objection raised above) can the Vedānta-texts if untrue convey information about the true being of Brahman? We certainly do not observe that a man bitten by a rope-snake (i.e. a snake falsely imagined in a rope) dies, nor is the water appearing in a mirage used for drinking or bathing 1.

मूलम्

कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ? न हि रज्जुसर्पेण दष्टो म्रियते। नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति।

विश्वास-प्रस्तुतिः

नैष दोषः - शङ्का-विषादि-निमित्त–मरणादि-कार्योपलब्धेः,
स्वप्न-दर्शनावस्थस्य च सर्प-दंशनोदक-स्नानादि-कार्य-दर्शनात्।

English

This objection, we reply, is without force
(because as a matter of fact
we do see real effects to result from unreal causes),
for we observe that death sometimes takes place from imaginary venom,
(when a man imagines himself to have been bitten by a venomous snake,)
and effects (of what is perceived in a dream) such as the bite of a snake or bathing in a river take place with regard to a dreaming person.

मूलम्

नैष दोषः, शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात्।

विश्वास-प्रस्तुतिः

“तत्-कार्यम् अप्य् अनृतम् एवे"ति चेद् ब्रूयात् ,
अत्र ब्रूमः —
यद्य् अपि स्वप्न-दर्शनावस्थस्य सर्प-दंशनोदक-स्नानादि-कार्यम् अनृतम्,
तथा ऽपि तद्-अवगतिः सत्यम् एव फलम् , प्रतिबुद्धस्याप्य् अबाध्यमानत्वात्।

English

But, it will be said, these effects themselves are unreal!

These effects themselves, we reply, are unreal indeed;
but not so the consciousness which the dreaming person has of them.
This consciousness is a real result;
for it is not sublated by the waking consciousness.

मूलम्

तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् , अत्र ब्रूमः — यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम् , तथापि तदवगतिः सत्यमेव फलम् , प्रतिबुद्धस्याप्यबाध्यमानत्वात्।

विश्वास-प्रस्तुतिः

न हि स्वप्नाद् उत्थितः
स्वप्न-दृष्टं सर्प-दंशनोदक-स्नानादि-कार्यं मिथ्येति मन्यमानस्
तद्-अवगतिम् अपि मिथ्येति मन्यते कश्चित्।

English

The man who has risen from sleep
does indeed consider the effects perceived by him in his dream
such as being bitten by a snake, bathing in a river, &c. to be unreal,
but he does not on that account
consider the consciousness he had of them to be unreal likewise.

मूलम्

न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित्।

विश्वास-प्रस्तुतिः

एतेन स्वप्न-दृशो ऽवगत्य्-अबाधनेन देहमात्रात्म-वादो दूषितो वेदितव्यः ।

English

–(We remark in passing that) by this fact of the consciousness of the dreaming person not being sublated (by the waking consciousness) the doctrine of the body being our true Self is to be ‘considered as refuted.

(325:1 Svapna-jāgrad-dehayor vyabhicāre#pi
pratyabhijñānāt tad-anugatātmaikya-siddheś caitanyasya ca
deha-dharmatve rūpādivat
tad-anupalabdhi-prasangād
avagateś cābādhāt
tad-rūpasyātmano dehadvayātireka-siddher dehātrātmavādo na yukta ity arthaḥ. Ān. Gi. )

मूलम्

एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः ।

ज्ञानानन्द-भारती - द्राविडी

वास्तवमिल्लाद वेदान्द वाक्कियत्तिऩाल् सत्यमाय् उळ्ळ पिरह्ममे आत्मावॆऩ्ऱ अऱिवु ऎप्पडि एऱ्पडुम्? कयिऱ्ऱिल् तोऩ्ऱुम् पाम्बिऩाल् कडिबट्टु इऱप्पदु किडैयादे? काऩल् जलत्तैक् कॊण्डु पाऩम् स्नानम् मुदलिय पिरयोजऩम् एऱ्पडुवदुमिल्लैये? ऎऩ्ऱाल् इदु तोषमल्ल।

ज्ञानानन्द-भारती - द्राविडी

सन्देहप्पट्ट विषम् मुदलियदै निमित्त मायुळ्ळ मरणम् मुदलिय कार्यम् काणप्पडुवदाल्, स्वप्ऩम् पार्त्तुक्कॊण्डिरुक्कुम् निलैयिलुळ्ळ वऩुक्कु पाम्बु कडिप्पदु स्नाऩम् सॆय्वदु मुदलिय कार्यम् काणप्पडुवदिऩालुम्, अन्दक् कार्यमुम् पॊय्दाऩे ऎऩ्ऱु सॊऩ्ऩाल्, अङ्गु सॊल्गिऱोम्। स्वप्ऩम् पार्त्तुक् कॊण्डिरुक्कुम् निलैयिल् उळ्ळवऩुक्कु एऱ्पडुगिऱ पाम्बु कडिप्पदु स्नाऩम् सॆय्वदु मुदलिय कार्यम् पॊय्याग इरुन्दबोदिलुम् अप्पडियुम् अदऩ् अऱिवागिय पलऩ् सत्यमेदाऩ्। विऴित्तुक् कॊण्डवऩुक्कुक्कूड (अन्द अऱिवु) पादिक्कप् पडाददिऩाल् स्वप्ऩत्तिलिरुन्दु ऎऴुन्दवऩ् स्वप्ऩत्तिल्गण्ड पाम्बु कडित्तल्, जलत्तिल् स्नाऩम् मुदलाऩ कार्यम् पॊय् ऎऩ्ऱु निऩैप्पवऩ् अदऩ् अऱिवैयुम् (अऩुबवत्तैयुम्) पॊय् ऎऩ्ऱु यारुम् निऩैप्पदिल्लैये। स्वप्ऩम् पार्प्पवऩुडैय इन्द अऱिवु पादिक्कप्पडाददिऩाल् तेहमे आत्मा ऎऩ्ऱ वादम् तूषिक्कप्पट्टदाग अऱियवेण्डुम्।

विश्वास-प्रस्तुतिः

तथा च श्रुतिः —

‘यदा कर्मसु काम्येषु
स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात्
तस्मिन् स्वप्न-निदर्शने’ (छा. उ. ५। २। ८)

इत्य् असत्येन स्वप्न-दर्शनेन
सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति,

English

–Scripture also (in the passage, ‘If a man who is engaged in some sacrifice undertaken for some special wish sees in his dream a woman, he is to infer therefrom success in his work’) declares that by the unreal phantom of a dream a real result such as prosperity may be obtained.

मूलम्

तथा च श्रुतिः —

‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५। २। ८) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति,

विश्वास-प्रस्तुतिः

तथा प्रत्यक्ष-दर्शनेषु केषुचिद् अरिष्टेषु जातेषु

‘न चिरम् इव जीविष्यतीति विद्यात्’

इत्युक्त्वा

‘अथ स्वप्नाः पुरुषं कृष्णं
कृष्णदन्तं पश्यति
स एनं हन्ति’(ऐ॰आ॰ ३-२-४)

इत्यादिना तेन तेनासत्येनैव स्वप्न-दर्शनेन सूच्यत इति दर्शयति।

English

And, again, another scriptural passage, after having declared that from the observation of certain unfavourable omens a man is to conclude that he will not live long, continues ‘if somebody sees in his dream a black man with black teeth and that man kills him,’ intimating thereby that by the unreal dream-phantom a real fact, viz. death, is notified.–

मूलम्

तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ‘न चिरमिव जीविष्यतीति विद्यात्’ इत्युक्त्वा ‘अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’(ऐ॰आ॰ ३-२-४) इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सूच्यत इति दर्शयति।

विश्वास-प्रस्तुतिः

प्रसिद्धं चेदं लोके ऽन्वय-व्यतिरेक-कुशलानाम्
ईदृशेन स्वप्न-दर्शनेन साध्व्-आगमः सूच्यते, ईदृशेनासाध्व्-आगम इति।

English

It is, moreover, known from the experience of persons who carefully observe positive and negative instances that such and such dreams are auspicious omens, others the reverse.

मूलम्

प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति।

विश्वास-प्रस्तुतिः

तथा अकारादि-+++(शब्द-रूप)+++सत्याक्षर-प्रतिपत्तिर् दृष्टा
रेखानृताक्षर-प्रतिपत्तेः ।+++(5)+++

English

And (to quote another example that something true can result from or be known through something untrue) we see that the knowledge of the real sounds A. &c. is reached by means of the unreal written letters.

मूलम्

तथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः ।

ज्ञानानन्द-भारती - द्राविडी

अप्पडिये सुरुदियुम्, “ऎप्पॊऴुदु काम्य कर्माक्कळिल् स्वप्ऩङ्गळिल् स्तिरीयैप् पार्क्किऱाऩो, अन्द स्वप्ऩम् पार्प्पदिऩाल् अवैगळिल् समिरुत् तियै (अन्दक् कर्मा सबलमॆऩ्ऱु) अऱिन्दुगॊळ्ळ वेण्डियदु” (सान्।५-२-९) ऎऩ्ऱु सत्यमिल्लाद स्वप्ऩ तर्सऩत्तिऩाल् सत्यमाऩ समिरुत्तियडैदलैक् काट्टुगिऱदु। अप्पडिये पिरत्यक्षमाय् पार्क्कप्पडुम् सिल अरिष्टङ्गळ् (कॆडुदल्गळ्, अबसगुणङ्गळ्) एऱ्पट्टाल्, “वॆगुनाळ् जीवित्तिरुक्कमाट्टाऩ् ऎऩ्ऱु अऱियवुम्” ऎऩ्ऱु सॊल्लिविट्टु, “इऩि स्वप्ऩङ्गळ् करुत्त पऱ्कळैयुडैय करुप्पाऩ मऩिदऩैप् पार्त्ताल् अदु इवऩैक् कॊल्लुम्” ऎऩ्बदु मुदलाऩदाल् अन्दन्द सत्यमिल्लाद स्वप्ऩ तर्सऩत्तिऩालेये सत्यमाऩ मरणम् सूसिक्कप्पडुगिऱदु ऎऩ्ऱु काट्टुगिऱदु। उलगत्तिलुम् अऩ्वयम्, वियदिरेगम् इवैगळिल् कुसलर्गळायिरुप्पवर्गळुक्कु इव्विद स्वप्ऩ तर्सऩत्तिऩाल् नल्लदु वरुवदु, इव्विद स्वप्ऩ तर्सऩत्तिऩाल् कॆडुदल् वरुवदु सूसिक्कप् पडुगिऱदॆऩ्ऱ इदु पिरसित्तम्। अप्पडिये, कोडागवुळ्ळ पॊय्याऩ अक्षरत्तिऩ् अऱिविऩाल् ‘अ’ मुदलाऩ सत्यमाऩ अक्षरत्तिऩ् ञाऩम् एऱ्पडुवदु पार्क्कप् पडुगिऱदु।

विश्वास-प्रस्तुतिः

अपि चान्त्यम् इदं प्रमाणम् आत्मैकत्वस्य प्रतिपादकम् ,
नातःपरं किञ्चिद् आकाङ्क्ष्यम् अस्ति।

English

Moreover, the reasons which establish the unity of the Self are altogether final, so that subsequently to them nothing more is required for full satisfaction.

(326:1 As long as the ‘vyavahāra’ presents itself to our mind,
we might feel inclined to assume in Brahman an element of manifoldness
whereby to account for the vyavahāra;
but as soon as we arrive at true knowledge,
the vyavahāra vanishes,
and there remains no longer any reason for qualifying in any way the absolute unity of Brahman.)

मूलम्

अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकम् , नातःपरं किञ्चिदाकाङ्क्ष्यमस्ति।

विश्वास-प्रस्तुतिः

यथा हि लोके यजेतेत्य् उक्ते,
किं केन कथम् इत्य् आकाङ्क्ष्यते।

English

An injunction as, for instance, ‘He is to sacrifice’ at once renders us desirous of knowing what is to be effected, and by what means and in what manner it is to be effected;

मूलम्

यथा हि लोके यजेतेत्युक्ते, किं केन कथम् इत्याकाङ्क्ष्यते।

विश्वास-प्रस्तुतिः

नैवं ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्युक्ते,
किञ्चिद् अन्यद् आकाङ्क्ष्यम् अस्ति — सर्वात्मैकत्व-विषयत्वावगतेः।

English

but passages such as, ‘Thou art that,’ ‘I am Brahman,’ leave nothing to be desired because the state of consciousness produced by them has for its object the unity of the universal Self.

मूलम्

नैवं ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्युक्ते, किञ्चिदन्यदाकाङ्क्ष्यमस्ति — सर्वात्मैकत्वविषयत्वावगतेः।

विश्वास-प्रस्तुतिः

सति ह्य् अन्यस्मिन्न् अवशिष्यमाणेऽर्थे
आकाङ्क्षा स्यात्।

English

For as long as something else remains a desire is possible;

मूलम्

सति ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात्।

विश्वास-प्रस्तुतिः

न त्व् आत्मैकत्व-व्यतिरेकेणावशिष्यमाणो ऽन्यो ऽर्थोऽस्ति, य आकाङ्क्ष्येत।

English

but there is nothing else which could be desired in addition to the absolute unity of Brahman.

मूलम्

न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति, य आकाङ्क्ष्येत।

विश्वास-प्रस्तुतिः

न चेयम् अवगतिर् नोत्पद्यत इति शक्यं वक्तुम् ,
‘तद्धास्य विजज्ञौ’ (छा. उ. ६। १६। ३) इत्यादिश्रुतिभ्यः,
अवगति-साधनानां च श्रवणादीनां
वेदानुवचनादीनां च विधानात् ।

English

Nor can it be maintained that such states of consciousness do not actually arise; for scriptural passages such as, ‘He understood what he said’ (Cḥ. Up. VII, 18, 2), declare them to occur,

and certain means are enjoined to bring them about, such as the hearing (of the Veda from a teacher) and the recital of the sacred texts.

मूलम्

न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम् , ‘तद्धास्य विजज्ञौ’ (छा. उ. ६। १६। ३) इत्यादिश्रुतिभ्यः,
अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, आत्माविऩ् ऒऩ्ऱायिरुक्कुम् तऩ्मैयै पिरदिबादिक्किऱ इन्दप्पिरमाणम् कडैसियायुळ्ळदु। इदऱ्कुप् पिऱगु अऱियवेण्डियदाग ऎदुवुम् किडैयादु। उलगत्तिल् “यागम् सॆय्यवुम्” ऎऩ्ऱु सॊऩ्ऩाल् ऎदै ऎदिऩाल् ऎप्पडियॆऩ्ऱु ऎव्विदम् अऱियविरुम्बप् पडुगिऱदो, अव्विदम् “अदुवाय् नी इरुक्किऱाय्”, “नाऩ् पिरह्ममाग इरुक्किऱेऩ्”, ऎऩ्ऱु सॊऩ्ऩाल् वेऱु ऎदुवुम् ऎदिर्बार्क्कप्पडवेण्डियदु किडैयादु। ऎल्ला वऱ्ऱिऱ्कुम् आत्मावुडऩ् ऒऩ्ऱायिरुक्कुम् तऩ्मै विषयमाऩ अऱिवु एऱ्पट्टुविट्टबडियाल्। वेऱु एदेऩुम् विषयम् मीदमिरुन्दालल्लवा आगाङ्ग्षै एऱ्पडुम्? ऎदु आगाङ्ग्षिक्कप्पडुमो अव्विद वेऱु ऎन्द विषयमुम् आत्मा ऒऩ्ऱे ऎऩ्बदऱ्कु वेऱाग मिञ्जुवदायिल्लै।

ज्ञानानन्द-भारती - द्राविडी

इव्विद अऱिवु एऱ्पडादु ऎऩ्ऱु सॊल्लमुडियादु। ‘अदै इवर् अऱिन्दार्” (सान्। ६-१६-३) ऎऩ्बदु मुदलाऩ सुरुदिगळाल्। अऱिवदऱ्कुळ् सादऩमायुळ्ळ सिरवणम् मुदलियवैगळुम् वेदाऩुवसऩम् मुदलियवैगळुम् विदिक्कप् पट्टिरुप्पदालुम्।

विश्वास-प्रस्तुतिः

न चेयम् अवगतिर् अनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् -
अविद्या-निवृत्ति-फल-दर्शनात् , बाधक-ज्ञानान्तराभावाच् च।

English

Nor, again, can such consciousness be objected to on the ground either of uselessness or of erroneousness, because,
firstly, it is seen to have for its result the cessation of ignorance,
and because, secondly, there is no other kind of knowledge by which it could be sublated.

मूलम्

न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम्
अविद्यानिवृत्तिफलदर्शनात् , बाधकज्ञानान्तराभावाच्च।

विश्वास-प्रस्तुतिः

प्राक्चात्मैकत्वावगतेर् अव्याहतः
सर्वः सत्यानृत-व्यवहारो लौकिको वैदिकश् चेत्य् अवोचाम। +++(5)+++

English

And that before the knowledge of the unity of the Self has been reached
the whole real-unreal course of ordinary life, worldly as well as religious, goes on unimpeded,
we have already explained.

मूलम्

प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम।

विश्वास-प्रस्तुतिः

तस्माद् अन्त्येन प्रमाणेन
प्रतिपादिते आत्मैकत्वे
समस्तस्य प्राचीनस्य भेद-व्यवहारस्य बाधितत्वात्
न अनेकात्मक-ब्रह्म-कल्पनावकाशोऽस्ति।

English

When, however, final authority having intimated the unity of the Self, the entire course of the world which was founded on the previous distinction is sublated, then there is no longer any opportunity for assuming a Brahman comprising in itself various elements.

मूलम्

तस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अनेकात्मकब्रह्मकल्पनावकाशोऽस्ति।

ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते। परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति। नेत्युच्यते — ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४। ४। २५) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३। ९। २६) ‘अस्थूलमनणु’ (बृ. उ. ३। ८। ८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यः ब्रह्मणः कूटस्थत्वावगमात्। न ह्येकस्य ब्रह्मणः परिणामधर्मवत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम् ।

ज्ञानानन्द-भारती - द्राविडी

इव्विद अऱिवु पिरयोजऩमऱ्ऱदु अल्लदु पिरान्दि ऎऩ्ऱुम् सॊल्लमुडियादु। अवित्या निविरुत् तियागिऱ पलऩ् काणप्पडुवदालुम्, इदै पादिक्कक्कूडिय वेऱु ञाऩम् इल्लाददिऩालुम्, आत्मा ऒऩ्ऱुदाऩ् ऎऩ्ऱ अऱिवु एऱ्पडुवदऱ्कु मुऩ्ऩाल् लौगिगमो वैदिगमो सत्यम् पॊय् ऎऩ्ऱ व्यवहारम् ऎल्लाम् तडैबडविल्लैयॆऩ्ऱु सॊऩ्ऩोम्। आगैयाल् कडैसि पिरमाणत्तिऩाल् आत्माविऩ् ऒऩ्ऱायिरुक्कुम् तऩ्मै पिरदिबादिक् कप्पट्टवुडऩ् मुऩ्ऩुळ्ळ ऎल्ला पेद व्यवहारमुम् पादिक्कप्पट्टुविडुगिऱबडियाल् पलविद स्वरूबमाग पिरह्ममिरुक्कलामॆऩ्ऱ कल्बऩैक्कु इडमे इल्लै।

ज्ञानानन्द-भारती - द्राविडी

मण् मुदलियदै तिरुष्टान्दमागच् चॊल्लियि रुप्पदाल्, परिणाममुळ्ळ पिरह्मम्दाऩ् सास्तिरत्तिऱ्कु

ज्ञानानन्द-भारती - द्राविडी

सम्मदमाऩदु ऎऩ्ऱु तॆरिगिऱदु। उलगत्तिल् मण् मुदलाऩ पदार्त्तङ्गळ् परिणाममुळ्ळ वैगळागवे अल्लवा अऱियप् पडुगिऩ्ऱऩ? ऎऩ्ऱाल्, अप्पडियल्ल। “अन्द इन्द आत्मा पॆरियदु, पिऱप्पऱ्ऱदु, जरैयऱ्ऱदु, तेय्वऱ्ऱदु, नासमऱ्ऱदु, पयमऱ्ऱदु पिरह्मम्” (पिरुहत् ४-४-२५) “अन्द इन्द आत्मा इदु अल्ल, इदु अल्ल” (पिरुहत्।३-९-२६) “स्तूलम् अल्लाददु, अणुवल्लाददु” (पिरुहत्।३-८-८) ऎऩ्बदु मुदलाऩ ऎल्ला विगारङ्गळैयुम् मऱुक्कुम् सुरुदिगळि लिरुन्दु पिरह्मत्तिऩ् कूडस्तत् तऩ्मै (माऱुदलऱ्ऱ तऩ्मै) अऱियप्पडुवदाल्। ऒरे पिरह्मत्तिऱ्कु परिणाम तर्मत्तुडऩ् इरुत्तल् अन्द तर्ममिल्ला तिरुत्तल् ऎऩ्ऱ इरण्डुम् उण्डु ऎऩ्ऱु अऱिन्दुगॊळ्ळ मुडिया तल्लवा? (ऒऩ्ऱुक्कॊऩ्ऱु विरोदत्ताल्)

स्थितिगतिवत्स्यादिति चेत् , न; कूटस्थस्येति विशेषणात्। न हि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं सम्भवति। कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम। न च यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम् , एवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात्। कूटस्थब्रह्मात्मत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् — ‘स एष नेति नेत्यात्मा’ इत्युपक्रम्य ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४। २। ४) इत्येवंजातीयकम्। तत्रैतत्सिद्धं भवति — ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्याम् , यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि, तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्सन्निधावफलं तदङ्गमितिवत्। न तु स्वतन्त्रं फलाय कल्प्यत इति ।

ज्ञानानन्द-भारती - द्राविडी

निऱ्पदु पोवदु मादिरि इरुक्कलामेयॆऩ्ऱाल् सरियल्ल कूडस्तऩ् ऎऩ्ऱ कुऱिप्पिट्टिरुप्पदाल्, कूडस्त मायिरुक्कुम् पिरह्मत्तिऱ्कु निऱ्पदु पोवदु पोल पल तर्मङ्गळुक्कु आसिरमायिरुक्कुम् तऩ्मै सम्बविक्कादल् लवा? ऎल्लाविद विगारङ्गळुम् मऱुक्कप्पट्टिरुप्पदाल् पिरह्मम्, कूडस्तम्नित्यम् ऎऩ्ऱु सॊल्लियिरुक्किऱोम्।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, पिरह्मत्तै आत्मावुडऩ् ऒऩ्ऱायिरुप् पदाग अऱिवदु मोक्षत्तिऱ्कु सादऩमाग ऎप्पडियिरुक् किऱदो, अप्पडि जगत्तिऩ् उरुवमाग परिणमिक्कुम् तऩ्मैयै अऱिवदुम्गूड स्वदन्दिरमागवे एदेऩुम् पलऩिऩ् पॊरुट्टु उबयोगप्पडुवदाग करुदप्पडविल् लै। पिरमाणम् इल्लाददिऩाल्। “अन्द इन्द आत्मा इदुवल्ल, इदुवल्ल” ऎऩ्ऱु आरम्बित्तु “जऩगरे, नीर् पयमऱ्ऱदैये अडैन्दुविट्टीर्” (पिरुहत् ४-२-४) ऎऩ्बदु पोलुळ्ळ सास्तिरम् कूडस्त पिरह्मम् आत्मा वॆऩ्ऱु अऱिवदिऩाल् ताऩ् पलऩ् एऱ्पडुवदैक् काट्टुगिऱदु। अदिऩाल्, पिरह्म पिरगरणत्तिल् ऎव्विद कुऱिप्पिट्ट तर्ममुमिल्लाद पिरह्मत्तै अऱिवदिऩा लेये पलऩ् सित्तिक्किऱबडियाल्, अङ्गे पिरह्मत्तिऱ्कु जगत्तिऩ् उरुवमाग परिणमिक्कुम् तऩ्मै मुदलाऩदु ऎदु पलऩऩ्ऩियिल् सॊल्लप्पट्टिरुक्किऱदो, अदु पिरह्मत्तै अऱिवदऱ्कु उबायमाग उबयोगप्पडुगिऱदु, पलऩुडऩ् कूडियदिऩ् समीबत्तिल् काणुम् पलऩऱ्ऱ अदऩ् अङ्गम् ऎऩ्बदु पोल; स्वदन्दिरमाग पलऩिऩ् पॊरुट्टु एऱ्पडादु, ऎऩ्ऱ इदु सित्तमाग आगिऱदु।

न हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम् , कूटस्थनित्यत्वान्मोक्षस्य। ननु कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यात् ईशित्रीशितव्याभावे ईश्वरकारणप्रतिज्ञाविरोध इति चेत् , न; अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य । ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २। १। १) इत्यादिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः, नाचेतनात्प्रधानादन्यस्माद्वा — इत्येषोऽर्थः प्रतिज्ञातः — ‘जन्माद्यस्य यतः’ (ब्र. सू. १। १। २) इति; सा प्रतिज्ञा तदवस्थैव, न तद्विरुद्धोऽर्थः पुनरिहोच्यते ।

ज्ञानानन्द-भारती - द्राविडी

परिणामत्तुडऩ् कूडियिरुक्कुम् तऩ्मैयै अऱिवदिऩाल् आत्माविऱ्कु परिमाणत्तुडऩ् कूडियिरुक्कुम् तऩ्मैये पलऩाग इरुक्कलामॆऩ्ऱु सॊल्वदु युक्तमागादु, मोक्षम् कूडस्तमाय् नित्यमायिरुप्पदाल्।

ज्ञानानन्द-भारती - द्राविडी

कूडस्तमाऩ पिरह्ममे आत्मावॆऩ्ऱु सॊल्गिऱवरुक्कु ऒऩ्ऱायिरुक्कुम् तऩ्मैये कडैसि मुडिवायिरुप्पदाल्, आळुबवर् आळप्पडुवदु ऎऩ्बदु इल्लाददाल् ईसुवरऩ् (जगत्तिऱ्कु) कारणमॆऩ्ऱु पिरदिक्ञै सॆय्ददऱ्कु विरोदमागुमे? ऎऩ्ऱाल् अप्पडियल्ल, सर्वक्ञत् तऩ्मैयॆऩ्बदु अवित्या स्वरूबमाऩ नामरूबङ्गळुडैय पीजत्तै वियागरणम् सॆय्वदै अबेक्षित्तु एऱ्पडुवदाल् “अदे इन्द आत्माविलिरुन्दु आगासम् उण्डायिऱ्ऱु” (तैत्तिरीय २-१) ऎऩ्बदु मुदलाऩ वाक्कियङ्गळिलिरुन्दु नित्यमाय् सुत्तमाय् अऱिवाय् विडुबट्टदाऩ स्वरूबमाग उळ्ळ सर्वक्ञराऩ सर्वसक्तियुळ्ळवराऩ ईसुवरऩिडमिरुन्दु जगत्तिऩ् जऩ्मम् स्तिदि पिरळयम् इवै एऱ्पडुगिऩ्ऱऩ, असेदऩमाऩ पिरदाऩत्तिलिरुन्दो वेऱु ऎदिलिरुन्दो इल्लै, ऎऩ्ऱ इन्द विषयम् “इदऩ् जऩ्मम् मुदलियदु ऎदिलिरुन्दो” (सूत्रम् १-१-२) ऎऩ्ऱु पिरदिक्ञै सॆय्यप्पट्टदु। अन्द पिरदिक्ञै अन्निलैयिलेये इरुक्किऱदु। अदऱ्कु विरोदमाऩ विषयम् इङ्गे सॊल्लप्पडविल्लै।

कथं नोच्यते, अत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता ? शृणु यथा नोच्यते — सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते। ताभ्यामन्यः सर्वज्ञ ईश्वरः, ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८। १४। १) इति श्रुतेः, ‘नामरूपे व्याकरवाणि’ (छा. उ. ६। ३। २) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३। १२। ७) ‘एकं बीजं बहुधा यः करोति’ (श्वे. उ. ६। १२) इत्यादिश्रुतिभ्यश्च; एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि। स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये। तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च, न परमार्थतो विद्यया अपास्तसर्वोपाधिस्वरूपे आत्मनि ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते ।

ज्ञानानन्द-भारती - द्राविडी

आत्मा पूरावुम् ऒऩ्ऱुदाऩ्। इरण्डावदऱ्ऱदु, ऎऩ्ऱ सॊल्बवराल् विरोदमागच् चॊल्लविल्लै ऎऩ्बदु ऎप्पडि? सॊल्लविल्लै ऎऩ्बदु ऎप्पडियॆऩ्ऱु (कवऩित्तु) केळु। सर्वक्ञराऩ ईसुवरऩुडैय स्वरूबमायिरुप्पदुबोलवे, अवित्यै यिऩाल् कल्बिक्कप्पट्टु, अदु ऎऩ्ऱुम् वेऱु ऎऩ्ऱुम्

ज्ञानानन्द-भारती - द्राविडी

सॊल्लमुडियाददाय्, संसारमागिय पिरबञ्जत्तिऱ्कु पीजमाग इरुक्किऱ नामरूबङ्गळ् सर्वक्ञराऩ ईसुवरऩुडैय माया सक्ति, पिरगिरुदि ऎऩ्ऱुम् सुरुदिस्मिरुदिगळिल् सॊल्लप्पडुगिऩ्ऱऩ। अवैगळि लिरुन्दु वेऱायिरुप्पवर् ईसुवरऩ्। “आगासम्दाऩ् नामरूबङ्गळै उण्डुबण्णुगिऱदु। अन्द नामरूबङ्गळ् ऎदैक्काट्टिलुम् वेऱो, अदु पिरह्मम्” (सान्।८-१४-१) ऎऩ्ऱ सुरुदियिऩाल्; “नामरूबङ्गळै स्तूलमाक्कुवेऩ्” (सान्।६-३-२), “तीरऩ् ऎल्ला रूबङ्गळैयुम् एऱ्पडुत्ति पॆयर्गळ् कॊडुत्तु व्यवहारम् सॆय्दु कॊण्डिरुक्किऱार्" (तैत्तिरीय आरण्यगम् ३-१२-७) “ऒरु विदैयै ऎवर् पलविदमागच् चॆय्गिऱारो” (सुवेदा।६-१२) ऎऩ्बदु मुदलिय सुरुदिगळालुम् इव्विदम् अवित्यैयिऩाल् एऱ्पडुम् नामरूबमॆऩ्ऱ उबादिगळै अऩुसरित्तु ईसुवरऩागिऱार्। कुडम् करगम् मुदलाऩ उबादिगळै अऩुसरित्तु आगासम् आवदुबोल अवर्, तऩ् स्वरूबमागवे इरुन्दुवरुगिऱ, कुडत्तिलुळ्ळ आगासम् पोऩ्ऱ, अवित्यैयिऩाल् एऱ्पडुत्तप्पट्ट नामरूबङ्गळिऩाल् सॆय्यप्पट्टिरुक्कुम् कार्यम् (सरीरम्), करणम् (इन्दिरियङ्गळ्) इवैगळिऩ् कूट्टत्तै अऩुसरित्तु जीवऩ् ऎऩ्ऱ पॆयरुडैय विज्ञानात् माक्कळ् विषयमाग व्यवहार विषयत्तिल् आळुगिऱार्। आगैयाल् इव्विदम् अवित्यैयै स्वरूबमायुडैय उबादियिऩाल् वरैयऱुक्कप् पडुवदै अबेक्षित् तुत्ताऩ् ईसुवरऩुक्कु ईसुवरत्तऩ्मै, सर्वक्ञत् तऩ्मै, सर्वसक्तियुळ्ळ तऩ्मै; वास्तवत्तिल् वित्यै यिऩाल् ऎल्ला उबादिगळुम् विलक्कप्पट्ट स्वरूब मुडैय आत्माविऩिडत्तिल् आळुबवर्, आळप्पडुवदु, सर्वक्ञत्।

तथा चोक्तम् — ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ (छा. उ. ७। २४। १) इति; ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४। ५। १५) इत्यादि च। एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे। तथेश्वरगीतास्वपि — ‘न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते’ (भ. गी. ५। १४) ॥ ‘नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५। १५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते। व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः — ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ (बृ. उ. ४। ४। २२) इति। तथा चेश्वरगीतास्वपि — ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८। ६१) इति ।

ज्ञानानन्द-भारती - द्राविडी

अप्पडिये “ऎङ्गु वेऱु ऎदैयुम् पार्प्प तिल्लैयो, वेऱु ऎदैयुम् केट्पदिल्लैयो, वेऱु ऎदैयुम् अऱिवदिल्लैयो अदु पॆरिदु” (सान्।७-२४-१) ऎऩ्ऱु। “ऎङ्गु इवऩुक्कु ऎल्लाम् आत्मावागवे इरुक्कुमो, अङ्गे ऎदऩाल् ऎदैप् पार्प्पाऩ्?" (पिरुहत्।४-५-१५) ऎऩ्बदु मुदलियदालुम् सॊल्लप् पट्टिरुक्किऱदु। इव्विदमाग परमार्त्तमाऩ निलैयिल् ऎल्ला व्यवहारङ्गळिऩ् इल्लामैयै ऎल्ला उबनिषत्तुक्कळुम् सॊल्लुगिऩ्ऱऩ। अप्पडिये पगवत् कीदैयिलुम् “उलग सम्बन्दमाय् सॆय्युम् तऩ्मैयै ईसुवरऩ् उण्डुबण्णुवदिल्लै; कर्माक्कळैयुम्, कर्मावुक्कुम् पलऩुक्कुमुळ्ळ सेर्क्कैयैयुम् उण्डु पण्णुवदिल्लै। स्वबावम् ताऩ् पिरविरुत्तिक्किऱदु। ईसुवरऩ् ऎवरुडैय पाबत्तैयुम् एऱ्ऱुक्कॊळ्वदु इल्लै। पुण्णियत्तैयुम् एऱ्ऱुक्कॊळ्वदिल्लै। अक्ञाऩत्तिऩाल् ञाऩम् मूडप्पट्टिरुक्किऱदु; अदऩाल् पिराणिगळ् मोहत्तै अडैगिऱार्गळ्।” (कीदै ५-१४,१५) ऎऩ्ऱु परमार्त्त तसैयिल् आळुबवर् आळप्पडुवदु मुदलिय व्यवहारङ्गळिऩ् इल्लामै काट्टप्पडुगिऱदु। व्यवहार तसैयिलो सुरुदियिल् कूड ईसुवरऩ् मुदलाऩ व्यवहारम् सॊल्लप् पट्टिरुक्किऱदु। “इवर् ऎल्लावऱ्ऱिऱ्कुम् ईसुवरऩ्, इवर् पिराणिगळुक्कु अदिबदि, इवर् पिराणिगळै रक्षिप्पवर्, इन्द उलगङ्गळ् कलन्दुविडामल् इरुप्पदऱ्काग इवर् ताङ्गुगिऱ अणै” (पिरुहत् ४-४-२२) ऎऩ्ऱु। अप्पडिये पगवत्कीदैयिलुम् “हे अर्जूऩा! यन्दिरत्तिल् एऱिऩदु पोलुळ्ळ ऎल्लाप् पिराणिगळैयुम् मायैयिऩाल् सुऴऱ्ऱिक् कॊण्डु ऎल्लाप् पिराणिगळुडैय ह्रुदयदेसत्तिलुम् ईसुवरऩ् इरुन्दुवरुगिऱार्” (कीदै १८-६१) ऎऩ्ऱु।

सूत्रकारोऽपि परमार्थाभिप्रायेण ‘तदनन्यत्वम्’ इत्याह। व्यवहाराभिप्रायेण तु ‘स्याल्लोकवत्’ इति महासमुद्रस्थानीयतां ब्रह्मणः कथयति, अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणेषूपासनेषूपयोक्ष्यत इति ॥ १४ ॥

ज्ञानानन्द-भारती - द्राविडी

सूत्तिरक्काररुम् परमार्त्तमाऩ अबिप्रायत्तिल् ‘अदऱ्कु वेऱुबडात् तऩ्मै” ऎऩ्ऱु सॊल्गिऱार्। व्यवहार अबिप्पिरायत्तिलो ‘उलगत्तिल् पोल इरुक्कलाम्’ ऎऩ्ऱु पॆरिय समुत्तिरम् पोलिरुक्कुम् तऩ्मैयै पिरह्मत्तिऱ्कुच् चॊल्गिऱार्। कार्यमायुळ्ळ पिरबञ्जत्तै मऱुक्कामले, स्कुणमाऩ उबास ऩैगळिल् उबयोगप्पडुमॆऩ्ऱु परिणाम मुऱैयुम् आसिरयक्किऱार्।

भावे चोपलब्धेः ॥ १५ ॥

ज्ञानानन्द-भारती - द्राविडी

पावे सोबलप्ते: ॥ १५ ॥

इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे। तद्यथा — सत्यां मृदि घट उपलभ्यते, सत्सु च तन्तुषु पटः। न च नियमेनान्यभावेऽन्यस्योपलब्धिर्दृष्टा। न ह्यश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते। न च कुलालभाव एव घट उपलभ्यते, सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात् ।

ज्ञानानन्द-भारती - द्राविडी

इन्द कारणत्तिऩालुम् कारियत्तिऱ्कु कारणत् तिलिरुन्दु वेऱुबडात्तऩ्मै; ऎन्दक् कारणमॆऩ्ऱाल्, कारणम् इरुक्कुम्बोदुदाऩ् कार्यम् तॆरिगिऱदु, इल्लादबोदु तॆरिवदिल्लै। ऎप्पडि मण् इरुक्कुम् पोदु कुडम् तॆरिगिऱदु, नूल्गळ् इरुक्कुम् पोदु वस्तिरम् तॆरिगिऱदु। ऎऩ्ऱे अप्पडि ऒऩ्ऱु इरुक्कुम् पोदु मऱ्ऱॊऩ्ऱु नियममागत् तॆरिगिऱ तॆऩ्ऱु पार्क्कप् पडुवदिल्लै; पसुविऱ्कु वेऱायुळ्ळ कुदिरै पसु इरुन्दाल्दाऩ् काणप्पडुगिऱदु ऎऩ्बदु किडैयादु। कुयवऩुक्कुम् कुडत्तिऱ्कुम् निमित्तम् नैमित्तिगम् ऎऩत् तऩ्मै इरुन्दबोदिलुम् वेऱागविरुप्पदाल् कुयवऩ् इरुन्दाल्दाऩ् कुडम् काणप्पडुगिऱदु ऎऩ्बदुम् किडैयादु।

नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति। नेत्युच्यते; उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात्। अथ धूमं कयाचिदवस्थया विशिंष्यात् — ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्चिद्दोषः। तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः। न चासावग्निधूमयोर्विद्यते ।

ज्ञानानन्द-भारती - द्राविडी

ऒऩ्ऱु इरुक्कुम्बोदु मऱ्ऱॊऩ्ऱिऩ् तोऱ्ऱम् नियममागक् काणप्पडुगिऱदे, अक्ऩियिरुक्कुम्बोदु पुगैयैप्पोल, ऎऩ्ऱाल् अप्पडियल्ल ऎऩ्गिऱोम्, अक्ऩियै अणैत्तुविट्ट पिऱगुम् इडैयऩुडैय कुडुक्कै मुदलियदिल् वैक्कप्पट्टिरुक्किऱ पुगै काणप्पडुवदाल् अल्लदु एदेऩुम् ‘अवस्तैयुडऩ् सेर्त्तु पुगैयैक् कुऱिप्पिडलाम्। इव्विदमायुळ्ळ पुगै अक्ऩि इल्लैयाऩाल् इरादु ऎऩ्ऱु, ऎऩ्ऱाल् इप्पडियाऩालुम् कूड ऎव्विददोषमुमागादु। अदु (अन्द कुऱिप्पिट्ट विसेषम्) इरुप्पदुडऩ् कलन्द पुत्तियै अल्लवा कारियत्तिऱ्कुम् कारणत्तिऱ्कुम् वेऱुबडाद तऩ्मैक्कु कारणमाग नाङ्गळ् सॊल्गिऱोम्। इदु अक्ऩि पुगै इवैगळिल् इल्लै।

भावाच्चोपलब्धेः — इति वा सूत्रम्। न केवलं शब्दादेव कार्यकारणयोरनन्यत्वम् , प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः। भवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे। तद्यथा — तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवः, अंशुषु तदवयवाः। अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि, ततो वायुमात्रमाकाशमात्रं चेत्यनुमेयम् , ततः परं ब्रह्मैकमेवाद्वितीयम्। तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ १५ ॥

ज्ञानानन्द-भारती - द्राविडी

अल्लदु सूत्रम् भावच्चोपलब्धे: (पावाच्चो पलप्ते:) ऎऩ्ऱुमिरुक्कलाम्। “तॆरिवदु इरुप्पदिऩालुम्” कार्य कारणङ्गळुक्कुळ् वेऱुबडाद तऩ्मै सप्तत्तिऩाल् मात्तिरमॆऩ्बदिल्लै। पिरत्यक्षमाय् तॆरिवदु इरुप्पदिऩालुम् अवैगळुक्कुळ् वेऱुबडात् तऩ्मै ऎऩ्ऱु अर्त्तम्। कार्य कारणङ्गळुक्कुळ् वेऱुबडात् तऩ्मै विषयत्तिल् पिरत्यक्षमाय् तॆरिवदु इरुक्किऱदल्लवा? ऎप्पडियॆऩिल्, नूल्गळाल् अमैन्द वस्तिरत्तिल् नूल्गळुक्कु वेऱाग वस्तिरम् ऎऩ्ऱ कार्यम् काणप्पडुवदेयिल्लै; कुऱुक्कुम् नॆडुक्कुमाग वॆऱुम् नूल्गळ्दाऩ् नेरिल् तॆरिगिऩ्ऱऩ। अप्पडिये नूल्गळिल् अंसुक्कळ्, अंसुक्कळिल् अवैगळिऩ् अवयवङ्गळ्। इव्विदम् पिरत्यक्षमाय् तॆरिगिऱबडियाल्, सिवप्पु, वॆळुप्पु, करुप्पु (तेजस्, अप्पु, अऩ्ऩम्) ऎऩ्ऱ मूऩ्ऱु रूबङ्गळुम्, अदिलिरुन्दु वायु तऩ्मात्तिरम्, आगास तऩ्मात्तिरम् ऎऩ्ऱुम् अऩुमाऩम् सॆय्यवेण्डुम्। अदिलिरुन्दु ऒऩ्ऱागवे इरण्डावदऱ्ऱदाय् इरुक्किऱ परप्पिरह्मम् ऎल्लाप् पिरमाणङ्गळुक्कुम् ऎल्लै अङ्गेदाऩ् ऎऩ्ऱु सॊल्लियिरुक्किऱोम्। (१५)

सत्त्वाच्चावरस्य ॥ १६ ॥

ज्ञानानन्द-भारती - द्राविडी

सत्त्वाच्चावरस्य ॥ १६ ॥

इतश्च कारणात्कार्यस्यानन्यत्वम् , यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते — ‘सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६। २। १) ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. आ. १। १। १) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात्। यच्च यदात्मना यत्र न वर्तते, न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम्। तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते। यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति, एवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति। एकं च पुनः सत्त्वम्। अतोऽप्यनन्यत्वं कारणात्कार्यस्य ॥ १६ ॥

ज्ञानानन्द-भारती - द्राविडी

इदऩालुम् कार्यत्तिऱ्कु कारणत्तुडऩ् वेऱु पडात्तऩ्मै: ऎऩ्ऩ कारणमॆऩ्ऱाल्, पिऩ्गालत्तिल् एऱ्पडुम् कार्यत्तिऱ्कु उत्पत्तिक्कु मुऩ्ऩाल्, कारणत्तिल् कारण स्वरूबमागवे इरुत्तल् सॊल्लप् पडुगिऱदु। “हे सोम्य! इदु मुऩ्ऩाल् सत्वस्तु वागवे इरुन्ददु” (सान्।६-२-१), “इदु मुऩ्ऩाल् ऒरे आत्मावागवे इरुन्ददु" (ऐदरेय। १-१-१), ऎऩ्बदु मुदलियदिल् ‘इदु’ ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप्पडुम् कार्यत्तिऱ्कु कारणत्तुडऩ् सामाऩादि करण्यम् (ऒऩ्ऱायिरुप्पदु) इरुप्पदाल्, ऎदु ऎदऩ् स्वरूबमाग ऎदिल् इल्लैयो, अदु अदिलिरुन्दु उत्पत्तियागादु, मण्णिलिरुन्दु तैलम् पोल आगैयाल् उत्पत्तिक्कु मुऩ्ऩाल् वेऱुबडात् तऩ्मैयिरुप्पदाल्, एऱ्पट्ट पिऱगुम्गूड कार्यम् कारणत्तिलिरुन्दु वेऱुबट्टदे यिल्लै ऎऩ्ऱु अऱियप्पडुगिऱदु। कारणमायुळ्ळ पिरह्मम् ऎप्पडि मूऩ्ऱु कालङ्गळिलुम् इरुक्कुम् तऩ्मैयै विट्टुविलगुवदिल्लैयो, अप्पडिये कार्यमायुळ्ळ जगत्तुम् मूऩ्ऱु कालङ्गळिलुम् इरुक्कुम् तऩ्मैयै विट्टु विलगुगिऱदिल्लै; इरुक्कुम् तऩ्मैयो ऒरेविदम्। आगैयिऩालुम्गूड कार्यत्तिऱ्कु कारणत्तैविड वेऱुबडात् तऩ्मै सित्तिक्किऱदु। (१६)

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥

ज्ञानानन्द-भारती - द्राविडी

असत्व्यबदेसान्नेदि सेन्न तर्मान्दरेण वाक्यसे षात् ॥ १७ ॥

ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः — ‘असदेवेदमग्र आसीत्’ (छा. उ. ३। १९। १) इति, ‘असद्वा इदमग्र आसीत्’ (तै. उ. २। ७। १) इति च। तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् — नेति ब्रूमः। न ह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः; किं तर्हि ? — व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरम्; तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य ।

ज्ञानानन्द-भारती - द्राविडी

सिलविडङ्गळिल् उत्पत्तिक्कु मुऩ्ऩाल् कार्यत् तिऩ् इल्लामैयै ‘इदु मुऩ्ऩाल् इल्लाददागवे इरुन्ददु’ (सान्।३-१९-१) ऎऩ्ऱुम् ‘इदु मुऩ्ऩाल् इल्लाददागवे इरुन्ददु’ (तैत्तिरीय।२-७-१) ऎऩ्ऱुम्, सुरुदिये सॊल्गिऱदे? अदऩाल् इल्लामै सॊल्लि यिरुक्किऱबडियाल्, उत्पत्तिक्कु मुऩ्ऩाल् कार्यत्तिऱ्कु इरुप्पु किडैयादु, ऎऩ्ऱु सॊऩ्ऩाल् अप्पडियल्ल ऎऩ्गिऱोम् उत्पत्तिक्कु मुऩ्ऩाल् कारियत्तिऱ्कु इन्द इल्लामै सॊल्लुदल्, पूरावुम् इल्लवेयिल्लै ऎऩ्ऱ अबिप्पिरायत्तिल् सॊल्लप्पडविल्लै। अप्पडियाऩाल् ऎप्पडि? वियागरणम् सॆय्यप्पट्ट (स्तूलमाऩ) नाम रूबमुळ्ळ तऩ्मैयाऩ तर्मत्तिलिरुन्दु वेऱु तर्ममो वियागरणम् सॆय्यप्पडाद (सू क्ष्ममाऩ) नाम रूबमुळ्ळ तऩ्मैयाम् अन्द वेऱु तर्मत्तिऩाल् इन्द इल्लामै सॊल्लुदल्, उत्पत्तिक्कु मुऩ्ऩाल् कारण स्वरूबमाग वेऱायिल्लामल् इरुन्दु वरुगिऱ कार्यत्तिऱ्के।

कथमेतदवगम्यते ? वाक्यशेषात्। यदुपक्रमे सन्दिग्धार्थं वाक्यं तच्छेषान्निश्चीयते। इह च तावत् ‘असदेवेदमग्र आसीत्’ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत् , तदेव पुनस्तच्छब्देन परामृश्य, सदिति विशिनष्टि — ‘तत्सदासीत्’ इति — असतश्च पूर्वापरकालासम्बन्धात् आसीच्छब्दानुपपत्तेश्च । ‘असद्वा इदमग्र आसीत्’ (तै. उ. २। ७। १) इत्यत्रापि ‘तदात्मानँ स्वयमकुरुत’ (तै. उ. २। ७। १) इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम्। तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य। नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम्। अतः प्राङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते ॥ १७ ॥

ज्ञानानन्द-भारती - द्राविडी

इदु ऎप्पडि तॆरिगिऱदु? पिऩ्ऩालुळ्ळ वाक्कियत्ताल् आरम्बत्तिल् वाक्यत्तिऩ् पॊरुळिल् सन्देहमिरुक्कुमेयाऩाल् पिऩ्ऩालुळ्ळ वाक्यत्ताल् तीर्माऩिक्कप्पडुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

इङ्गे ‘इदु मुऩ्ऩाल् इल्लाददागवे इरुन्ददु’ ऎऩ्ऱु ‘इल्लाददु’ ऎऩ्ऱ सप्तत्तिऩाल् आरम्बत्तिल् ऎदु कुऱिप्पिडप्पट्टदो, अदैये मऱुबडियुम् ‘अदु’ ऎऩ्ऱ सप्तत्तिऩाल् तॊडर्न्दु सॊल्लि ‘अदु इरुप्पदाग इरुन्ददु’ ऎऩ्ऱु इरुप्पदु ऎऩ्ऱु कुऱिप्पिडुगिऱदु। इल्लाददऱ्कु मुऩ्गालम् पिऩ्गालम् इवैगळुडऩ् सम्बन्दम् किडैयाददालुम् ‘इरुन्ददु’ ऎऩ्ऱ सप्तम् पॊरुन्दाददिऩालुम् इदु मुऩ्ऩाल् इल्लाददाग वेयिरुन्ददु’ ऎऩ्ऱविडत्तिलुम् ‘अदु तऩ्ऩै ताऩागवे सॆय्दु कॊण्डदु’ ऎऩ्ऱ वाक्किय सेषत्तिल् सॆय्ददु ऎऩ्ऱु कुऱिप्पिडुवदाल् पूरावुम् इल्लामैयॆऩ्बदु इल्लै। आगैयाल् उत्पत्तिक्कु मुऩ्ऩाल् कार्यत्तिऱ्कु इन्द इल्लामै सॊल्वदु वेऱु तर्मत्तिऩाल्। नाम रूबङ्गळाल् वियागरणम् सॆय्यप्पट्टुळ्ळ (स्तूल माऩ) वस्तुवे उलगत्तिल् ‘इरुक्किऱदु’ ऎऩ्ऱ सप्तत्तिऱ्कु योक्कियमाग पिरसित्तमायिरुक्किऱदु। आगैयाल् नाम रूब वियागरणत्तिऱ्कु मुऩ्ऩाल् इल्लाददु पोल इरुन्ददु ऎऩ्ऱु उबसारमाय् सॊल्लप्पडुगिऱदु।

युक्तेः शब्दान्तराच्च ॥ १८ ॥

ज्ञानानन्द-भारती - द्राविडी

युक्ते: सप्तान्दराच्च ॥ १८ ॥

युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च ॥

ज्ञानानन्द-भारती - द्राविडी

उत्पत्तिक्कु मुऩ्ऩाल् कार्यत्तिऩुडैय इरुप्पुम्, कारणत्तुडऩ् वेऱुबडात्तऩ्मैयुम् युक्ति ऎऩ्ऱ कारणत्तालुम्, वेऱु सप्तत्तिलिरुन्दुम् अऱियप्पडुगिऱदु।

युक्तिस्तावद्वर्ण्यते — दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते। न हि दध्यर्थिभिर्मृत्तिकोपादीयते, न घटार्थिभिः क्षीरम्। तदसत्कार्यवादे नोपपद्येत। अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते, न मृत्तिकायाः, मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात् ?

ज्ञानानन्द-भारती - द्राविडी

युक्ति इप्पॊऴुदु वर्णिक्कप्पडुगिऱदु। तयिर् कुडम् नगै मुदलियवैगळै विरुम्बुगिऱवर्गळाल् अददऱ्कु एऱ्पट्ट कारणङ्गळागिय पाल्, मण्, तङ्गम् मुदलियवैगळ् ऎडुत्तुक्कॊळ्ळप्पडुवदाग उलगत्तिल् काणप्पडुगिऩ्ऱऩ। तयिर् वेण्डुबवर्गळाल् मण् ऎडुक्कप्पडुवदिल्लै, कुडम् वेण्डुबवर्गळाल् पाल् ऎडुक्कप्पडुवदिल्लै, ऎऩ्बदु पिरसित्तम्। इदु असत् कार्य वादत्तिल् (इल्लाददु उण्डागिऱदु ऎऩ्ऱ वादत्तिल्) पॊरुन्दादु। उण्डावदऱ्कु मुऩ्ऩाल् ऎल्लावऱ्ऱिऱ्कुम् ऎल्लाविडङ्गळिलुम् इल्लामै वित्तियासमऩ्ऩियिल् इरुप्पदाल् पालिलिरुन्दुदाऩ् तयिर् उण्डागिऱदु। मण्णिलिरुन्दु इल्लै, ऎऩ्बदु, ऎऩ्ऩ कारणत्तिऩाल्? मण्णिलिरुन्दुदाऩ् कुडम् उण्डागि ऱदु, पालिलिरुन्दु इल्लै, ऎऩ्बदुम् एऩ्?

अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम् , मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरे — इत्युच्येत — तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः, सत्कार्यवादसिद्धिश्च। शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत् , असत्त्वाविशेषादन्यत्वाविशेषाच्च। तस्मात्कारणस्यात्मभूता शक्तिः, शक्तेश्चात्मभूतं कार्यम् ।

ज्ञानानन्द-भारती - द्राविडी

अल्लदु मुऩ् इल्लामै पॊदुवायिरुन्द पोदिलुम्, पालिल्दाऩ् तयिरिऩ् विसेषम्, एदो इरुक्किऱदु, अदु मण्णिल् इल्लै; मण्णिल् ताऩ् कुडत्तिऩ् विसेषम् एदो इरुक्किऱदु, अदु पालिल् इल्लै: ऎऩ्ऱु सॊल्लप्पडुमाऩाल् अप्पडियाऩाल् अदिलिरुन्दे मुऩ् निलैक्कु कारिय विसेषत्तु टऩिरुक्कुम् तऩ्मैयुण्डु ऎऩ्बदाल् इल्लाददु उण्डागिऱदु ऎऩ्ऱ वादत्तिऱ्कु हाऩियुम्, इरुप्पदु ताऩ् उण्डागिऱदु ऎऩ्ऱ वादत्तिऱ्कु सित्तियुम् एऱ्पडुम्।

ज्ञानानन्द-भारती - द्राविडी

कार्यत्तै नियमऩम् सॆय्य वेण्डियदऱ्काग कारणत्तिऱ्कु सक्ति ऎऩ्ऱु ऒऩ्ऱु कल्बित्ताल्, अदु वेऱायिरुन्दो, इल्लामलेयो, कार्यत्तै नियमऩम् सॆय्यमुडियादु; इल्लामैयिल् वित्यासमिल्लाद तिऩालुम् वेऱु ऎऩ्बदिल् वित्यासमिल्लाददिऩालुम्। आगैयाल् सक्ति ऎऩ्बदु कारणत्तिऩ् स्वरूबमाग वेयुळ्ळदु, सक्तियिऩ् स्वरूबमागवेयुळ्ळदु कार्यम्।

अपि च कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम्। समवायकल्पनायामपि, समवायस्य समवायिभिः सम्बन्धेऽभ्युपगम्यमाने, तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः। अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः। अथ समवायः स्वयं सम्बन्धरूपत्वादनपेक्ष्यैवापरं सम्बन्धं सम्बध्येत, संयोगोऽपि तर्हि स्वयं सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत। तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम् कार्य कारणङ्गळुक्कुळ्ळुम् तिरवियम् कुणम् मुदलियवैगळुक्कुळ्ळुम् कुदिरै ऎरुमैगळुक् कुळ् पोल वेऱ्ऱुमै पुत्तियिल्लाददिऩाल् तादात्म्यम् (ऒऩ्ऱायिरुक्कुम् तऩ्मै) ताऩ् ऒप्पुक्कॊळ्ळ वेण्डुम्। समवायत्तै कल्बऩै सॆय्दालुम्, समवायत्तिऱ्कु समवायिगळुडऩ् सम्बन्दम् ऒप्पुक् कॊळ्ळवेण्डियिरुप्पदाल्, अदऱ्कु अदऱ्कु वेऱु वेऱु सम्बन्दम् कल्बिक्क वेण्डुमाऩदिऩाल् अऩवस्तै (मुडिविल्लादऩ्मै) एऱ्पडुम्; (सम्बन्दम्) ऒप्पुक् कॊळ्ळप्पडविल्लैयाऩाल् विट्टुप्पोय् विडुम्। अल्लदु, समवायम् ऎऩ्बदु ताऩे सम्बन्द रूबमायिरुप्पदाल् वेऱु सम्बन्दत्तै अबेक्षिक्का मले सम्बन्दप्पडुम् ऎऩ्ऱाल्, सम्योगमुम्गूड अप्पॊऴुदुदाऩुम् सम्बन्दरूबमायिरुप्पदाल् समवा यत्तै अबेक्षिक्कामले सम्बन्दप्पडलाम्। तिरवियम्, कुणम् मुदलियवैगळुक्कुळ् तादात्म्यम् (ऒऩ्ऱायि रुक्कुम् तऩ्मै) तॆरिवदिऩालुम् समवायत्तै कल्बिप्पदऱ्कु पिरयोजऩमिल्लै।

कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तेत ? किं समस्तेष्ववयवेषु वर्तेत, उत प्रत्यवयवम् ? यदि तावत्समस्तेषु वर्तेत, ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्याशक्यत्वात्। न हि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते। अथावयवशः समस्तेषु वर्तेत, तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन् , यैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेत। कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति। अनवस्था चैवं प्रसज्येत, तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवयवानां कल्पनीयत्वात् ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, अवयवङ्गळोडु कूडिय तिरवियमागिय कार्यम् अवयव तिरवियङ्गळायिरुक्कुम् कारणङ्गळिल् ऎप्पडि इरुन्दु कॊण्डिरुक्कुम्? ऎल्ला अवयवङ् गळिलुम् सेर्न्दु इरुक्कुमा? अल्लदु ऒव्वॊरु अवयवत्तिलुम् इरुक्कुमा? ऎल्ला अवयवङ्गळिलुम् इरुक्कुमेयाऩाल्, अप्पोदु ऎल्ला अवयवङ्गळोडुम् सम्बन्दमिल्लाददाल् अवयवि तॆरियामले इरुन्दु विडुम्; ‘ऎल्ला आसिरयङ्गळिलुम् इरुन्दु वरुगिऱ पऩ्मै तऩित्तऩि आसिरयत्तै किरहिप्पदाल् किरहिक्कप्पडादु अल्लवा? अल्लदु ऎल्ला अवयवङ्गळिलुमे ऒव्वॊरु अवयवत्तिलुमाग इरुक्किऱदु। ऎऩ्ऱाल् अप्पॊऴुदु आरम्बिक्किऱ (कुडत्तैयुण्डुबण्णुगिऱ) अवयवङ्गळुक्कु वेऱाग अवयविक्कु अवयवङ्गळ् कल्बिक्क वेण्डिवरुम्, ऎवैगळैक्कॊण्डु अवयवी आरम्बिक्किऱ अवयवङ्गळिल् इरुक्कमुडियुमो अवै। उरैयिऩ् अवयवङ्गळुक्कु वेऱागवुळ्ळ अवयवङ्गळि ऩालल्लवा कत्ति उरैयै वियाबिक्किऱदु? इप्पडि याऩाल् अन्दन्द अवयवङ्गळिल् इरुप्पदऱ्कु वेऱु वेऱु अवयवङ्गळ् कल्बिक्कुम्बडि ऎऱ्पडुवदाल् अऩवस्तादोषम् एऱ्पडुम्।

अथ प्रत्यवयवं वर्तेत, तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात्। न हि देवदत्तः स्रुघ्ने सन्निधीयमानस्तदहरेव पाटलिपुत्रेऽपि सन्निधीयते। युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् , देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः। गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् , न; तथा प्रतीत्यभावात्। यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात् , यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते, एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत। न चैवं नियतं गृह्यते। प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात् , तस्य चैकत्वात् , शृङ्गेणापि स्तनकार्यं कुर्यात् , उरसा च पृष्ठकार्यम्। न चैवं दृश्यते ।

ज्ञानानन्द-भारती - द्राविडी

अल्लदु, ऒव्वॊरु अवयवत्तिलुम् इरुक्किऱदु ऎऩ्ऱाल् अप्पॊऴुदु ऒऩ्ऱिलिरुक्कुम् पोदु वेऱॊऩ्ऱिल् इरुक्क मुडियादु। स्रुक्ऩम् ऎऩ्ऱ नगरत्तिल् इरुक्कुम् तेवदत्तऩ् अऩ्ऱैय तिऩमे पाडलीबुत्र नगरत्तिलुम् इरुक्कमुडियादल्लवा? ऒरे समयत्तिल् पलविडङ्गळिल् इरुप्पदाऩाल् पलर् ;ऎऩ्ऱु एऱ्पडुम्, स्रुक्ऩम् पाडलिबुत्रम् इवैगळिल् वसिक्कुम् तेवदत्तऩ् यक्ञदत्तऩ् ऎऩ्बवर्गळैप् पोल।

ज्ञानानन्द-भारती - द्राविडी

कोत्वम् मुदलियदु पोल ऒव्वॊऩ्ऱिलुम् मुडिवडैवदाल् तोषमिल्लै ऎऩ्ऱाल्, सरियल्ल, अव्विदम् अऱिवु एऱ्पडाददिऩाल् कोत्वम् मुदलियदु पोल् अवयवी ऒव्वॊऩ्ऱिलुम् मुडिवडैयुमेयाऩाल्, ऎप्पडि कोत्वमाऩदु ऒव्वॊरु वियक्तियिलुम् पिरत्यक्षमाग अऱियप्पडुगिऱदो अप्पडिये अवयवियुम् ऒव्वॊरु अवयवत्तिलुम् पिरत्यक्षमाग अऱियप्पड वेण्डुम्। इव्विदम् नियदमाग किरहिक्कप्पडुवदिल्लै। ‘अवयवी ऒव्वॊऩ्ऱिलुम् मुडिवुळ्ळदाऩाल्, कार्यत् तुडऩ् सम्बन्दमिरुप्पदालुम्, अदु ऒऩ्ऱाग वेयिरुप्पदालुम् कॊम्बिऩाल् कूड स्तऩत्तिऩ् कार्यम् सॆय्यलाम्, मार्बिऩालुम् मुदुगिऩ् कार्यम् सॆय्यलाम्; आऩाल् इव्विदम् काणप्पडुवदिल्लै।

प्रागुत्पत्तेश्च कार्यस्यासत्त्वे, उत्पत्तिरकर्तृका निरात्मिका च स्यात्। उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति, गत्यादिवत्। क्रिया च नाम स्यात् , अकर्तृका च — इति विप्रतिषिध्येत। घटस्य चोत्पत्तिरुच्यमाना न घटकर्तृका — किं तर्हि ? अन्यकर्तृका — इति कल्प्या स्यात्। तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत। तथा च सति ‘घट उत्पद्यते’ इत्युक्ते, ‘कुलालादीनि कारणान्युत्पद्यन्ते’ इत्युक्तं स्यात्। न च लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते, उत्पन्नताप्रतीतेश्च ।

ज्ञानानन्द-भारती - द्राविडी

उण्डावदऱ्कु मुऩ्ऩाल् कार्यमिल्लै यॆऩ्ऱाल्, उण्डावदु ऎऩ्ऱ क्रियै कर्त्ता (आच्रयम्) अऱ्ऱदागवुम् स्वरूबमऱ्ऱदागवुम् आगुम्। उण्डावदु ऎऩ्बदु ऒरु किरियै, अदु नडप्पदु मुदलियदैप् पोल कर्त्तावैयुडैयदागवेयिरुक्कुम्। किरियैयागवुम् इरुक्कलाम्। कर्त्तावऱ्ऱदायुम् इरुक्कलाम्, ऎऩ्बदु विरोदप्पडुम्। कुडत्तिऱ्कु सॊल्लप्पडुम् उत्पत्ति कुडत्तै कर्त्तावाग उडैयदल्ल अप्पडि आऩाल् ऎऩ्ऩ? वेऱु कर्त्तावुडैयदु ऎऩ्ऱु कल्बिक्क वेण्डुम्। अप्पडिये कबालम् मुदलियवैगळुक्कु सॊल्लप्पडुम् उत्पत्तियुम् वेऱु कर्त्तावुडैयदागवे कल्बिक्क वेण्डुम्। अप्पडियिरुप्पदिऩाल्, कुडम् उण्डागिऱदु ऎऩ्ऱु सॊऩ्ऩाल्, कुयवऩ् मुदलाऩ कारणङ्गळ् उण्डागिऩ्ऱऩ ऎऩ्ऱु सॊऩ्ऩदाग आगुम्। उलगत्तिलो कुडत्तिऩ् उत्पत्ति ऎऩ्ऱु सॊल्लुम्बोदु कुयवऩ् मुदलाऩवैगळुक्कु उत्पत्तियागुम् तऩ्मै तॆरिवदिल्लै, उत्पत्तिया किरुप्पदागवे तॆरिवदिऩालुम्।

अथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत् — कथमलब्धात्मकं सम्बध्येतेति वक्तव्यम्। सतोर्हि द्वयोः सम्बन्धः सम्भवति, न सदसतोरसतोर्वा। अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम्। सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य। न हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यापुत्रः राजा बभूव भवति भविष्यतीति वा विशेष्यते। यदि च वन्ध्यापुत्रोऽपि कारकव्यापारादूर्ध्वमभविष्यत् , तत इदमप्युपापत्स्यत — कार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति। वयं तु पश्यामः — वन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषात् , यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यति, एवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति ।

ज्ञानानन्द-भारती - द्राविडी

कारियत्तिऱ्कु तऩदु कारणत्तुडऩ् समवाय् सम्बन्दमो तऩदु सत्ता ऎऩ्ऱु जादियुडऩ् समवाय सम्बन्दमो ताऩ् उत्पत्ति इदऩाल् कारियत्तिऩ् स्वरूब लाबम् एऱ्पडुगिऱदु, ऎऩ्ऱाल् स्वरूबमऱ्ऱ पदार्त्तम् ऎप्पडि सम्बन्दिक्क मुडियुमॆऩ्ऱु सॊल्ल वेण्डुम्। इरुक्किऱ इरण्डु पदार्त्तङ्गळुक्कुळ् अल्लवा सम्बन्दम् एऱ्पडुम्? सत्तिऱ्कुम् असत्तिऱ् कुमो, ‘इरण्डु असत्तुक् कळुक्कुळ्ळेयो, सम्बन्दम् किडैयादु। तविरवुम् इल्लामैक्कु स्वरूबमिल्लाददि ऩाल् ‘उत्पत्तिक्कु मुऩ्ऩाल्’ ऎऩ्ऱु ऎल्लै कट्टुवदुम् पॊरुन्दादु। उलगत्तिल् इरुप्पुडऩुळ्ळ वयल् वीडु मुदलियवैगळुक्कुत् ताऩ् ऎल्लै काणप्पडुगिऱदु; इल्लामैक्कु अल्ल। ‘पूर्णवर्माविऩ् पट्टाबिषे कत्तिऱ्कु मुऩ्ऩाल् मलडि मगऩ् अरसऩाग इरुन्दाऩ्’ ऎऩ्बदु पोलुळ्ळ ऎल्लै कट्टुवदिऩाल् स्वरूबमऱ्ऱ मलडि मगऩ् अरसऩाग इरुन्दाऩ् इरुक्किऱाऩ् इरुक्कप् पोगिऱाऩ् ऎऩ्ऱु कुऱिप्पिडप्पडुवदु किडैयादल्लवा? कारग वियाबारत् तिऱ्कुप् पिऩ्ऩाल् मलडि मगऩुम् एऱ्पडुवाऩेयाऩाल्, कारग वियाबारत्तिऱ्कु पिऩ्ऩाल् कार्यत्तिऩ् इल्लामैयुम् एऱ्पडलाम्। ऎऩ्ऱ इदुवुम् पॊरुत्तमागलाम्। आऩाल् नाम् पार्प्पदु, मलडि मगऩुक्कुम् कार्यत्तिऩ् इल्लामैक्कुम् इल्लामै यॆऩ्बदिल् वित्तियास मिल्लाददिऩाल्, ऎप्पडि मलडि मगऩ् कारग वियाबारत् तिऱ्कुप् पिऩ्ऩाल् एऱ्पडुवदिल् लैयो अप्पडिये कार्यत्तिऩ् इल्लामैयुम् कारग वियाबारत्तिऱ्कुप् पिऩ्ऩाल् एऱ्पडादु, ऎऩ्ऱु।

नन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत। यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते, एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि न कश्चिद्व्याप्रियेत। व्याप्रियते च। अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभावः कार्यस्येति नैष दोषः। यतः कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यते। कार्याकारोऽपि कारणस्यात्मभूत एव, अनात्मभूतस्यानारभ्यत्वात् — इत्यभाणि। न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति। न हि देवदत्तः सङ्कोचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात्। तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् ।

ज्ञानानन्द-भारती - द्राविडी

अप्पडियाऩाल् कारग वियाबारम् पिरयोजऩ मऱ्ऱदाग आगिविडादा? मुऩ्ऩालेये सित्तमायिरुप् पदिऩाल् कारणत्तिऩ् स्वरूबम् सित्तिप्पदऱ्काग यारुम् पिरविरुत्तिप्पदिल्लै ऎऩ्बदु ऎप्पडियो, अप्पडिये मुऩ्ऩालेये सित्तमायिरुप् पदालुम् कारणत्तिलिरुन्दु वेऱुबडाददिऩालुम् कार्यत्तिऩुडैय स्वरूब सित् तियै उत्तेसित्तुम् यारुम् पिरविरुत्तिक्कक्कूडादु। आऩाल् पिरविरुत् तिक्किऱाऩ्। अदऩाल् कारग वियाबारत् तिऱ्कु पिरयोजऩमुण्डॆऩ्बदऱ्काग, उत्पत्तिक्कु मुऩ्ऩाल् कार्यत्तिऩ् इल्लामै ऎऩ्ऱु अबिप्पिरायप् पडुगिऱरेम्, ऎऩ्ऱाल्, इदु तोषमिल्लै। एऩॆऩ्ऱाल्, कारणत्तै कार्यरूबमाग एऱ्पडुत्तुवदऱ्कु कारग वियाबारम् पिरयोजऩमुळ्ळदाग पॊरुन्दुम्।

ज्ञानानन्द-भारती - द्राविडी

कार्यत्तिऩ् रूबम्गूड कारणत्तिऩ् स्वरूबमा युळ्ळदुदाऩ्, स्वरूबमायिल्लाददऱ्कु उण्डागुम् तऩ्मैगिडैयाददाल्, ऎऩ्ऱु सॊऩ्ऩोम्। विसेषम् काणप्पडुवदाल् मात्तिरम् वेऱु वस्तुवाग आगिविडादु। तेवदत्तऩ् कै काल्गळै सुरुक्किक् कॊण्डिरुप्पवऩ् कै काल्गळै नीट्टिक् कॊण्डि रुप्पवऩ् ऎऩ्ऱु वित्तियासत्तुडऩ् काणप्पट्ट पोदिलुम्, अवऩ्दाऩ् इवऩ् ऎऩ्ऱ पिरत्यबिक्ञै यिरुप्पदाल्, वेऱु वस्तुत् तऩ्मैयै अडैवदिल्लै यल्लवा? अप्पडिये पिरदिदिऩमुम् तगप्पऩार् मुदलाऩवर्गळ् पलविद निलैयिलिरुन्दालुङ्गूड, ऎऩ् तगप्पऩार्, ऎऩ् सहोदरऩ्, ऎऩ् पुत्तिरऩ् ऎऩ्ऱु पिरत्यबिक्ञैयिरुप्पदाल् अवर्गळुक्कु वेऱु वस्तुत् तऩ्मै एऱ्पडुवदिल्लै।

जन्मोच्छेदानन्तरितत्वात्तत्र युक्तम् , नान्यत्रेति चेत् , न; क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात्। अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा। तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा। तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वापत्तिः, सतश्चासत्त्वापत्तिः, तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः। तथा बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च। एतेन क्षणभङ्गवादः प्रतिवदितव्यः ।

ज्ञानानन्द-भारती - द्राविडी

जऩ्मावुम्, नासमुम् इडैयिल् वराददिऩाल् अङ्गे न्यायम्, मऱ्ऱविडङ्गळिल् न्यायमिल्लै, ऎऩ्ऱाल् अप्पडियल्ल। पाल् मुदलाऩवैगळुक्कुम्गूड तयिर् मुदलाऩ रूबत्तुडऩ् इरुप्पदु पिरत्यक्षमायि रुप्पदाल्। पार्क्कप्पडामलिरुक्किऱ आलम् विदै मुदलिय वैगळुक्कु, समाऩ जादीयमाऩ वेऱु अवयवङ्गळ् सेर्न्दु तुळिर् मुदलाऩ रूबत्तुडऩ् पार्प्पदऱ्कु विषयमागुम् तऩ्मैयेऱ्पट्टदुडऩ् जऩ्मा ऎऩ्ऱ पॆयर्; अन्द अवयवङ्गळुक्के कुऱैवु एऱ्पडुवदिऩाल् पार्क्क मुडियामल् पोगुम्बोदु नासम् ऎऩ्ऱु पॆयर्। अङ्गु इव्विद जऩ्मावुम् नासमुम् एऱ्पडुवदिऩाल्, इल्लाददऱ्कु इरुक्कुम् तऩ्मै, इरुप्पदऱ्कु इल्लाददऩ्मै, एऱ्पडुगिऱदु ऎऩ्ऱाल्, अप्पडियाऩाल् कर्प्पत्तिलिरुक्कुम् कुऴन्दैक्कुम् पिऩ्ऩाल् वॆळिये मल्लान्दु पडुत्तिरुक्कुम् अदे कुऴन्दैक्कुम् पेदम् ऎऩ्ऱु एऱ्पडुम्। अप्पडिये पाल्यम् यौवऩम् किऴत्तऩ्मै ऎऩ्बदिलुम् पेदम् एऱ्पडुम्। तगप्पऩार् ऎऩ्बदु मुदलाऩ व्यवहारङ्गळुक्कुम् हाऩि एऱ्पडुम्। इदिऩाले क्षणबङ्गवादमुम् पदिल् सॊल्लप्पड वेण्डियदु।

यस्य पुनः प्रागुत्पत्तेरसत्कार्यम् , तस्य निर्विषयः कारकव्यापारः स्यात् , अभावस्य विषयत्वानुपपत्तेः — आकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत्। समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् , न; अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात्। समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् , न; सत्कार्यतापत्तेः। तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम्। तथा मूलकारणमेव आ अन्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते। एवं युक्तेः, कार्यस्य प्रागुत्पत्तेः सत्त्वम् , अनन्यत्वं च कारणात् , अवगम्यते ॥

ज्ञानानन्द-भारती - द्राविडी

उत्पत्तिक्कु मुऩ्ऩाल् कार्यम् ऎवऩुक्कु इल्लाददो, अवऩुक्कु कारगवियाबारम् विषयमऱ्ऱदाग आगुम्, इल्लाददिऱ्कु विषयत्तऩ्मै पॊरुन्दाद तिऩाल्, आगासत्तै नासम् सॆय्व तॆऩ्बदै पिरयोज ऩमाग वैत्तु कत्ति मुदलाऩ पलविद आयुदङ्गळै पिरयोगिप्पदु पोल। कारग वियाबारम् समवायि कारणत्तैये विषयमा युळ्ळदाग इरुक्कलामे यॆऩ्ऱाल् सरियल्ल, ऒऩ्ऱै विषयमायुळ्ळ कारग वियाबारत्तिऩाल् मऱ्ऱॊऩ्ऱु एऱ्पडुमॆऩ्ऱाल् अदिप् पिरसङ् गमावदाल्। समवायि कारणत्तिऩुडैयवे स्वरूब विसे षम् कार्यम् ऎऩ्ऱाल् सरियल्ल, सत्कार्यत् तऩ्मैयेयागु माऩदिऩाल्।

ज्ञानानन्द-भारती - द्राविडी

आगैयाल् पाल् मुदलिय तिरवियङ्गळ्दाऩ् तयिर् मुदलिय रूबमाग इरुन्दुगॊण्डु कार्यमॆऩ्ऱ पॆयरै अडैगिऩ्ऱऩ ऎऩ्बदिऩाल् कारणत्तैविट्टु कार्यम् वेऱु ऎऩ्ऱु निच्चयिक्क नूऱु वरुषङ्गळा ऩालुम् मुडियादु। अप्पडिये मूलगारणमे कडैसिक्कार्यम् वरै अन्दन्द कार्य रूबत्तुडऩिरुन्दु कॊण्डु, नडऩ्बोल, ऎल्लाविद व्यवहारङ्गळुक्कुम् आस्पद मायिरुक्कुम् तऩ्मैयै अडैगिऱदु। इव्विदम् युक्ति यिऩाल् उण्डावदऱ्कु मुऩ्ऩाल् कार्यत्तिऩ् इरुप्पु, कारणत्तिलिरुन्दु वेऱुबडात् तऩ्मै, इवै अऱियप्पडुगिऩ्ऱऩ।

शब्दान्तराच्चैतदवगम्यते — पूर्वसूत्रेऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम् — ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६। २। १) इत्यादि। ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इति चासत्पक्षमुपक्षिप्य, ‘कथमसतः सज्जायेत’ इत्याक्षिप्य, ‘सदेव सोम्येदमग्र आसीत्’ इत्यवधारयति। तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात् , सत्त्वानन्यत्वे प्रसिध्यतः। यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात् , पश्चाच्चोत्पद्यमानं कारणे समवेयात् , तदान्यत्कारणात्स्यात् , तत्र ‘येनाश्रुतँ श्रुतं भवति’ (छा. उ. ६। १। ३) इतीयं प्रतिज्ञा पीड्येत। सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥ १८ ॥

ज्ञानानन्द-भारती - द्राविडी

इदु वेऱु सप्तत्तिऩालुम् अऱियप्पडुगिऱदु। मुन्दिऩ सूत्तिरत्तिल् असत्तै (इल्लाददै) कुऱिक् कुम् सप्तम् सॊल्लप्पट्टिरुप्पदाल्, अदऱ्कु वेऱागिय सत्तै (इरुप्पदै) कुऱिक्कुम् सप्तम् ‘वेऱुसप्तम्” आगुम्। “हे, सोम्य, इदु मुऩ्ऩाल् सत्तागवे यिरुन्ददु ऒऩ्ऱागवे, इरण्डावदऱ्ऱदाग” ऎऩ्बदु मुदलियदु। “इदु मुऩ्ऩाल् असत्तागवेयिरुन्ददॆऩ्ऱ सिलर् अदैच् चॊऩ्ऩार्गळ्” ऎऩ्ऱु असत्पक्षत्तै यॆडुत्तुक्कॊण्डु, “असत्तिलिरुन्दु सत् ऎप्पडि उण्डागुम्?” ऎऩ्ऱु आक्षेषबित्तु “हेसोम्य, इदु सत्तागत्ताऩ् मुऩ्ऩाल् इरुन्ददु” (सान्। VI २-१) ऎऩ्ऱु तीर्माऩिक्किऱदु। अङ्गे “इदु” ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप्पडुगिऱ कार्यत्तिऱ्कु उण्डावदऱ्कु मुऩ्ऩाल्, “सत् ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप्पडुगिऱ कारणत्तुडऩ् सामाऩादिगरण्यम् सॊल्लप् पट्टिरुप्पदिऩाल्, इरुप्पुम् वेऱुबडात्तऩ्मैयुम् सित्तिक्किऩ्ऱऩ।

ज्ञानानन्द-भारती - द्राविडी

उत्पत्तिक्कु मुऩ्ऩाल् कार्यम् असत्तायिरुक्कु मेयाऩाल् पिऩ्ऩाल् उत्पत्तियागिऱबोदु कारणत् तुडऩ् सेरुमेयाऩाल्, अप्पॊऴुदु (अदु) कारणत्तै विड वेऱागयिरुक्कलाम्; अप्पडियाऩाल् ‘ऎदिऩाल् केट्कप्पडाददु केट्कप्पट्टदाग आगिऱदो” (सान्। ६-१-३) ऎऩ्ऱ इन्द पिरदिक्ञै पादिक्कप्पडुम्। इरुप्पु, वेऱुबडात्तऩ्मै, इवै अऱियप्पट्टालो इन्द पिरदिक्ञै सरियागिविडुम्।

पटवच्च ॥ १९ ॥

ज्ञानानन्द-भारती - द्राविडी

पडवच्च ॥ १९ ॥

यथा च संवेष्टितः पटो न व्यक्तं गृह्यते — किमयं पटः, किं वान्यद्द्रव्यमिति। स एव प्रसारितः, यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते। यथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारो गृह्यते। स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते — न संवेष्टितरूपादन्योऽयं भिन्नः पट इति, एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् , तुरीवेमकुविन्दादिकारकव्यापारादभिव्यक्तं स्पष्टं गृह्यते। अतः संवेष्टितप्रसारितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः ॥ १९ ॥

ज्ञानानन्द-भारती - द्राविडी

ऎप्पडि नऩ्गु सुरुट्टि वैत्तिरुक्किऱ वस्तिरम् इदु वस्तिरमा अल्लदु वेऱु एदेऩुम् तिरवियमा ऎऩ्ऱु तॆळिवाग अऱियप्पडुवदिल्लै; अदुवे पिरिक्कप्पट्टु विट्टाल्, ऎदु सुऱ्ऱप्पट्टिरुन्द तिरवियमो अदु वस्तिरम् ताऩ् ऎऩ्ऱु पिरिप्पदिऩाल् इदु तॆळिवाग किरहिक्कप् पडुगिऱदु। ऎप्पडि सुऱ्ऱियिरुक्किऱ मैयत्तिल् वस्तिरम् ऎऩ्ऱु तॆरिन्दालुम् ऎव्वळवु अगलम् नीळमुळ्ळदॆऩ्ऱु अऱियप्पडुवदिल्लै; अदुवे विरिक्कप्पडुम् समयत्तिल् इव्वळवु अगलम् नीळमुळ्ळदॆऩ्ऱु अऱियप्पडुगिऱदु सुरुट्टियिरुन्द रूबत्तैयुडैयदै विड इदु वेऱुबट्ट इऩ्ऩॊरु वस्तिरम् ऎऩ्ऱु अऱियप्पडुवदिल्लै। इव् विदमे नूल् मुदलाऩ कारणमाग इरुक्कुम् निलैयिल् स्पष्टमिल्लामल् इरुक्कुम् वस्तिरम् मुदलाऩ कार्यम् तुरी वेमम् नॆसवाळि मुदलाऩ कारगङ्गळिऩ् वियाबारम् मुदलियवैगळाल् वियक्तमागि स्पष्टमाय् अऱियप् पडुगिऱदु। आगैयाल् सुरुट्टिप्पिरित्त वस्तिरत्तिऩ् नियायप्पडिक्केदाऩ् कार्यम् कारणत्तैविड वेऱु पडाददु ऎऩ्ऱु तात्पर्यम्।

यथा च प्राणादि ॥ २० ॥

ज्ञानानन्द-भारती - द्राविडी

तदा स प्राणादि ॥ २० ॥

यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते, नाकुञ्चनप्रसारणादिकं कार्यान्तरम्। तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते। न च प्राणभेदानां प्रभेदवतः प्राणादन्यत्वम् , समीरणस्वभावाविशेषात् — एवं कार्यस्य कारणादनन्यत्वम्। अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा — ‘येनाश्रुतँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६। १। ३) इति ॥ २० ॥

ज्ञानानन्द-भारती - द्राविडी

उलगत्तिल् पिराणऩ् अबाऩऩ् मुदलाऩ वॆव्वेऱु पिराणऩ्गळ् पिराणायामत्तिऩाल् कट्टुप् पडुत्तप्पडुम्बोदु कारणमात्तिरमायुळ्ळ रूबत्तुडऩ् इरुक्कुम्बोदु, उयिरुडऩ् इरुप्पदु मात्तिरमाऩ कार्यम् नडत्तप्पडुगिऱदु। सुरुक्कुवदु नीट्टुवदु मुदलाऩ वेऱु कार्यम् सॆय्यप्पडुवदिल्लै। अन्द वॆव्वेऱु पिराणऩ्गळे मऱुबडियुम् पिरविरुत्तिक्कुम्बोदु, उयिरु टऩिरुप्पदऱ्कु अदिगमाग सुरुक्कुवदु नीट्टुवदु मुदलाऩ वेऱु कार्यमुम् सॆय्यप्पडुगिऱदु। पिराणऩुडैय पिरिवुगळुक्कु वेऱ्ऱुमैयैयुडैय पिराणऩिलिरुन्दु वेऱायिरुक्कुम् तऩ्मै किडैयादु। काऱ्ऱु ऎऩ्ऱ स्वबावत्तिल् वित्तियासम् इल्लाददिऩाल्। इव्विदमे कार्यत्तिऱ्कु कारणत्तिलिरुन्दु वेऱुबडात् तऩ्मै। अदिलिरुन्दे जगत् पूरावुक्कुम् पिरह्मत्तिऩ् कार्यमायि रुक्कुम् तऩ्मैयिरुप्पदिऩालुम्, अदऱ्कु वेऱु पडात्तऩ् मैयिरुप्पदिऩालुम्, ‘ऎदिऩाल् केट्काददु केट्कप्पट्ट तागवुम्, निऩैक्काददु निऩैक्कप् पट्टदागवुम्, अऱिया तदु अऱियप्पट्टदागवुम्, आगुमो” (सान्।६-१-१) ऎऩ्ऱ इन्द वेदत्तिऩ् पिरदिक्ञै सित्तमाग आगिऱदु। (२०)


  1. 324:1 I.e. ordinary experience does not teach us that real effects spring from unreal causes. ↩︎