०७ प्रकृत्यधिकरणम्

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥

ज्ञानानन्द-भारती - द्राविडी

प्रक्रुदिच्च प्रदिज्ञात्रुष्टान्दानुबरोदात् ॥ २३ ॥

निमित्तमेव ब्रह्म स्यादुपादानं च वीक्षणात् ॥
कुलालवन्निमित्तं तन्नोपादानं मृदादिवत् ॥ १३ ॥
बहु स्यामित्युपादानभावोऽपि श्रुत ईक्षितुः ॥
एकबुद्ध्या सर्वधीश्च तस्माद्ब्रह्मोभयात्मकम् ॥ १४ ॥
–वैयासिकन्यायमाला

ज्ञानानन्द-भारती - द्राविडी

पिरह्मम् निमित्त कारणम् मात्तिरम्दाऩा? उबादाऩ कारणमुमा? “आलोसिप्पदु" ऎऩ्बदिऩाल् अदु कुयवऩैप् पोल निमित्तमे। मण् मुदलियदैप् पोल उबादाऩम् अल्ल।

ज्ञानानन्द-भारती - द्राविडी

“नाऩ् पलवाग आवेऩ” ऎऩ्बदिऩाल् आलोसिप्प वरुक्कु उबादऩमाय् इरुक्कुम् तऩ्मैयुम् सॊल्लप् पट्टिरुक्किऱदु। ऒऩ्ऱै अऱिवदिऩाल् ऎल्लावऱ्ऱिऩ् अऱिवुम् (सॊल्लप्पट्टिरुक्किऱदु) आगैयाल् पिरह्मम् इरण्डु तऩ्मैगळैयुमुडैयदु।

यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञास्यमित्युक्तम्। ब्रह्म च ‘जन्माद्यस्य यतः’ (ब्र. सू. १। १। २) इति लक्षितम्। तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः — किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति ।

ज्ञानानन्द-भारती - द्राविडी

(जगत्तुक्कुक् कारणमायिरुप्पदु पिरह्मम् ऎऩ्ऱु पिरह्मत्तिऱ्कु लक्षणम् (सूत्। १-१-२) सॊल्लप् पट्टदु। पिरह्मम् जगत्तिऱ्कु निमित्त कारणम् मट्टुत्ताऩा? अल्लदु निमित्तगारणमायुम् उबादाऩ कारणमायुम् उळ्ळदा? ऎऩ्ऱु सन्देहम्। पिरह्मम् सङ्गल्बम् सॆय्दु स्रुष्टित्तदागक् कूऱियिरुप्पदाल् कुयवऩ् मादिरि पिरह्मम् निमित्त कारणम्दाऩ् उबादाऩ कारणमल्ल ऎऩ् पूर्वबक्षम्, पिरह्मत्तैयऱिन्दाल् ऎल्लाम् अऱिन्ददाग आगुम् ऎऩ्ऱु पिरदिज्ञै सॆय्दु इदऱ्कु मण् मुदलियवैगळै तिरुष्टान्दमागक् कूऱियुळ्ळदु। मण्णैप्पोल् उबादाऩगारणमाग इरुन्दाल्दाऩ् इदु पॊरुन्दुम्। मेलुम् पिरह्मम् सङ्गल्बम् सॆय्दु अदुवे पिरबञ्जमाग आऩदागच् चॊल्लियिरुप्पदालुम् पिरह्मम् उबादाऩगारणमागवुम् निमित्त कारण मागवुम् आगिऱदु ऎऩ्ऱु सित्तान्दम्)।

ज्ञानानन्द-भारती - द्राविडी

अप्यदयत्तिऱ्कु कारणमायिरुप्पदाल् तर्मम् ऎप्पडि विसारिक्कप्पडवेण्डियदो, अप्पडिये निच्रेयसत्तिऱ्कुक् कारणमायिरुप्पदाल् पिरह्मम् विसारिक्कप्पडवेण्डियदु ऎऩ्ऱु सॊल्लप्पट्टदु। पिरह्मत्तिऱ्कु ‘ऎदिलिरुन्दु इदऩ् उत्पत्ति मुदलियदो’ (सूत्रम् १-१-२) ऎऩ्ऱु लक्षणम् काट्टप्पट्टदु। अन्द लक्षणम् कुडम्, नगै मुदलाऩवैगळुक्कु मण्, तङ्गम् मुदलाऩवैगळैप् पोल पिरगिरुदियायिरुप्पदिलुम्, कुयवऩ् तट्टाऩ् मुदलाऩवर्गळैबोल निमित्तमा यिरुप्पदिलुम्, पॊदु ऎऩ्ऱ इन्द कारणत्तिऩाल्, पिरह्मत्तिऩ् (जगत्तिऱ्कु) कारणमायिरुक्कुम् तऩ्मै ऎत्तगैयदाग इरुक्कुम् ऎऩ्ऱु विसारम् एऱ्पडुगिऱदु।

तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति। कस्मात् ? ईक्षापूर्वककर्तृत्वश्रवणात् — ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते — ‘स ईक्षाञ्चक्रे’ (प्र. उ. ६। ३) ‘स प्राणमसृजत’ (प्र. उ. ६। ४) इत्यादिश्रुतिभ्यः। ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम्। अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा। स च न्याय आदिकर्तर्यपि युक्तः सङ्क्रमयितुम्। ईश्वरत्वप्रसिद्धेश्च — ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते ।

ज्ञानानन्द-भारती - द्राविडी

पूर्वबक्षम्: अङ्गु निमित्त कारणमाग मात्तिरम्दाऩ् इरुक्कुमॆऩ्ऱु तोऩ्ऱुगिऱदु एऩ्? आलोसऩैयै मुऩ्ऩिट्टु सॆय्ददाग सॊल्वदाल्। आलोसऩैयै मुऩ्ऩिट्टल्लवा पिरह्मत्तिऱ्कु कर्त्रुत्वम् (सॆय्युम् तऩ्मै) अऱियप्पडुगिऱदु। ‘अवर् आलोसित्तार् अवर् पिराणऩै सिरुष्टित्तार्’ (पिरच् ६-३,४) ऎऩ्बदु मुदलाऩ सुरुदिगळाल्, आलोसऩैयै मुऩ्ऩिट्टु सॆय्गिऱ तऩ्मै निमित्तगारणमाऩ कुयवऩ् मुदलियवर्गळिडम्दाऩ् काणप्पट्टु इरुक्किऱदु। पलविदमाऩ कारगङ्गळै मुऩ्ऩिट्टे सॆय्युम् कारियत्तिऩ् पलऩ् एऱ्पडुवदु पार्क्कप्पट्टिरुक्किऱदु। अन्द नियायत्तै मुदलावदु कर्त्ताविडमुम् ईडुबडुत् तुवदुदाऩ् न्यायम् ईसुवरऩ् ऎऩ्ऱ पिरसित्ति इरुप्प तालुम् अडक्कियाळक्कूडिय अरसर्गळाऩ वैवस्वदमनु मुदलाऩवर्गळुक्कु निमित्तगारणत्तऩ्मै मट्टुम्दाऩ् तॆरिगिऱदु। अदैप्पोलवे परमेसुवरऩुक्कुम् निमित्त कारणमायिरुक्कुम् तऩ्मैयै मात्तिरमे अऱिवदु युक्तम्।

तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम्। कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते। कारणेनापि तस्य तादृशेनैव भवितव्यम् , कार्यकारणयोः सारूप्यदर्शनात्। ब्रह्म निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६। १९) इत्यादिश्रुतिभ्यः। पारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् , ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते ब्रूमः —

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, कार्यमायुळ्ळ इन्द जगत्तु अवयवङ् गळुडऩ् कूडियदु, असेदऩम्, असुत्तम् ऎऩ्ऱु काणप् पडुगिऱदु; (अदऩाल्) अदऩ् कारणमुम् अप्पडिये ताऩ् इरुक्क वेण्डुम्। कार्यम्, कारणम् इरण्डुम् ऒरे मादिरियागक् काणप्पडुवदाल्, पिरह्ममो अव्विद लक्षणमुळ्ळदाग अऱियप् पडविल्लै, “अवयवमऱ्ऱदु, किरियैयऱ्ऱदु, अडङ्गिऩदु। तोषमऱ्ऱदु, अऴुक्कऱ्ऱदु” (सुवेदा ६-१९) ऎऩ्बदु मुदलाऩ सुरुदिगळिऩाल्।

ज्ञानानन्द-भारती - द्राविडी

पिरह्मम् कारणमॆऩ्ऱु सॊल्लुम् सुरुदिक्कु निमित्तमाय् इरुप्पदिल् मात्तिरम् मुडिवुळ्ळदाल्, मिञ्जुवदिऩाल्, पिरह्मत्तिऱ्कु वेऱाग सुत्तमिल्लात् तऩ्मै मुदलिय कुणङ्गळुडऩ् कूडियदाय् साङ्ग्य स्मिरुदि पिरसित्तमाय् उळ्ळ पिरदाऩम्, उबादाऩ कारणम् ऎऩ्ऱु ऒप्पुक्कॊळ्ळ वेण्डुम्।

प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् , निमित्तकारणं च। न केवलं निमित्तकारणमेव। कस्मात् ? प्रतिज्ञादृष्टान्तानुपरोधात्। एवं हि प्रतिज्ञादृष्टान्तौ श्रौतौ नोपुरुध्येते। प्रतिज्ञा तावत् — ‘उत तमादेशमप्राक्ष्यो येनाश्रुतँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६। १। ३) इति। तत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयते। तच्चोपादानकारणविज्ञाने सर्वविज्ञानं सम्भवति, उपादानकारणाव्यतिरेकात्कार्यस्य। निमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात् ।

ज्ञानानन्द-भारती - द्राविडी

सित्तान्दम्: इव्विदम् वरुम्बोदु सॊल्गिऱोम्: ‘पिरगिरुदियुम्’उबादाऩ कारणमागवुम् पिरह्मम् ऒप्पुक्कॊळ्ळप्पडवेण्डुम्, निमित्तगारणमागवुम्, वॆऱुम् निमित्तगारणम्दाऩ् ऎऩ्बदिल्लै। ऎदिऩाल्? ‘पिरदिक्ञैयुम् तिरुष्टान्दमुम् कॆडामलिरुप्पदाल्’ इव्विदमाऩाल् ताऩ् वेदत्तिल् सॊल्लिय पिरदिक्ञैयुम् तिरुष्टान्दमुम् कॆडामल् इरुक्कुम्।

ज्ञानानन्द-भारती - द्राविडी

पिरदिक्ञै ऎऩ्बदु ‘अप्पडियाऩाल् अन्द आदेसत्तैक् केट्टाया? ऎदिऩाल् केट्कप्पडाददु केट्कप्पट्टदाग, निऩैक्कप्पडाददु निऩैक्कप् पट्टदाग, अऱियप्पडाददु अऱियप्पट्टदाग आगुमो’ (सान्।६-१-२) ऎऩ्ऱु अङ्गे ऒऩ्ऱु अऱियप्पडुवदाल् अऱियप्पडाददुमऱ्ऱदु ऎल्लाम् कूड अऱियप्पट्टदाग आगिऱदु ऎऩ्ऱु तॆरिगिऱदु। अन्द ऎल्लावऱ्ऱैयुम् अऱिवदो उबादाऩ कारणत्तै अऱिवदिऩाल् सम्बविक्किऱदु, कार्यम् उबादाऩ कारणत्तैत् तविर वेऱु इल्लाददिऩाल् निमित्त कारणत्तिऱ्कु वेऱाग इल्लाद तऩ्मैयो कार्यत्तिऱ्कुक् किडैयादु। उलगत्तिल् तच्चऩ् माळिगैयैविड वेऱाग इरुप्पदाग तॆरिवदाल्।

दृष्टान्तोऽपि ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६। १। ४) इत्युपादानकारणगोचर एवाम्नायते। तथा ‘एकेन लोहमणिना सर्वं लोहमयं विज्ञातँ स्यात्’ (छा. उ. ६। १। ५) ‘एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातँ स्यात्’ (छा. उ. ६। १। ६) इति च। तथान्यत्रापि ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १। १। ३) इति प्रतिज्ञा; ‘यथा पृथिव्यामोषधयः सम्भवन्ति’ (मु. उ. १। १। ७) इति दृष्टान्तः ।

ज्ञानानन्द-भारती - द्राविडी

तिरुष्टान्दमुम् ‘सोम्य, ऎप्पडि ऒरु मण् पिण्डत्तिऩाल् मण्णाल् सॆय्यप्पट्टदॆल्लाम् अऱिप्पट्टदाग आगिऱदो; विगारम् वाक्किऩाल्मात्तिरम् आरम्बिक्कप्पडुवदु वॆऱुम् पॆयर्दाऩ्, मण् ऎऩ्बदु ताऩ् सत्यम्’ ऎऩ्ऱु उबादाऩ कारणत्तै विषयमागवुळ्ळदागवे सॊल्लप्पडुगिऱदु। अप्पडिये ‘ऒरु लोहमणियिऩाल् लोहत्तिऩाल् सॆय्यप्पट्टदु ऎल्लाम् अऱियप्पट्टदाग आगुम्, ऒरु नगमॆडुप्पदिऩाल् इरुम्बिऩाल् सॆय्यप्पट्टदु ऎल्लाम् अऱियप्पट्टदाग आगुम्’ (सान्। ६-१-४, ५, ६) ऎऩ्ऱुम्।

ज्ञानानन्द-भारती - द्राविडी

अप्पडिये वेऱु इडत्तिलुम् ‘हे पगवऩ् ऎदु अऱियप्पट्टाल् इदु ऎल्लाम् अऱियप्पट्टदाग आगुम्?’ (मुण्डग। १-१-२) ऎऩ्ऱु पिरदिक्ञै ‘ऎप्पडि पूमियिल् ओ षदिगळ् उण्डागिऩ्ऱऩवो’ (मुण्डग १-१-७) ऎऩ्ऱु तिरुष्टान्दम्।

तथा ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदँ सर्वं विदितम्’ (बृ. उ. ४। ५। ६) इति प्रतिज्ञा; ‘स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’ (बृ. उ. ४। ५। ८) इति दृष्टान्तः। एवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ। यत इतीयं पञ्चमी — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३। १। १) इत्यत्र ‘जनिकर्तुः प्रकृतिः’ (पा. सू. १। ४। ३०) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या ।

ज्ञानानन्द-भारती - द्राविडी

अप्पडिये ‘अये, आत्मा पार्क्कप्पट्टाल्, केट्कप्पट्टाल्, निऩैक्कप्पट्टाल्, अऱियप्पट्टाल्, इदु ऎल्लाम् तॆरिन्ददाग आगुम्?’ ऎऩ्ऱु पिरदिक्ञै तुन्दुबिवाक्यम् अडिक्कप्पडुम् पॊऴुदु सामाऩ्य सप्तम् ताऩ् तॆरिगिऱदु। अदिल् विसेष सप्तङ्गळैक् केट्टालुम्, सामाऩ्य सप्तत्तैक् काट्टिलुम् वेऱाग अदैयारुम् अऱिन्दुगॊळ्ळमुडियादु। आऩालुम् सामाऩ्य सप्तत्तिलेये विसेष सप्तङ्गळ् अडङ्गियि रुप्पदालुम् सामाऩ्य सप्तत्तैक् काट्टिलुम् विसेष सप्तम् वेऱाग इल्लाददालुम् सामाऩ्य सप्तत्तै अऱिन्ददालेये अदिलुळ्ळ विसे ष सप्तङ्गळुम् अऱियप्पट्टदाग आगिऱदु। तुन्दुबि सप्तमॆऩ्ऱेदाऩ् अदऩ् विसेषसप्तङ्गळुम् अऱियप्पडुगिऱदु। इदुबोलवेदाऩ् अदिलुळ्ळ अवान्दर विसेष सप्तङ् गळुम् आगवे सामाऩ्य सप्तत्तै अऱिवदऩालेये अऱियप्पडुगिऱ विसेष सप्तङ्गळ् ऎप्पडि अदैक् काट्टिलुम् वेऱु अल्लवो, अदुबोल आत्म पिरगासत् तालेये विळङ्गुगिऱ पिरबञ्जमुम् आत्मावैक् काट्टिलुम् वेऱु अल्ल।

ज्ञानानन्द-भारती - द्राविडी

इप्पडिये ऒव्वॊरु उबनिषत्तिलुम् प्रक्रुदित् तऩ्मैयै सादिक्किऱ पिरदिक्ञैयुम् तिरुष्टान्दमुम् उसिदम्बोल् तॆरिन्दुगॊळ्ळ वेण्डियदु।

ज्ञानानन्द-भारती - द्राविडी

‘ऎदिलिरुन्दु इन्द पूदङ्गळ् उण्डागिऩ्ऱऩवो’ ऎऩ्गिऱविडत्तिल् ‘ऎदिलिरुन्दु’ ऎऩ्ऱ इन्द ऐन्दाम् वेऱ्ऱुमै ‘जऩिगर्दु: पिरगिरुदि:’ ऎऩ्ऱु विसेषमाग स्मरित्तिरुप्पदाल् (पाणिऩि सूत्रम् १-४-३०), पिरगिरुदियै लक्षणमायुडैय अबादाऩत्तिल्दाऩ् ऎऩ्ऱु अऱिय वेण्डुम्।

निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम्। यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातॄनपेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति, प्रागुत्पत्तेः ‘एकमेवाद्वितीयम्’ इत्यवधारणात्। अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः — अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासम्भवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात्। तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ॥ २३ ॥

ज्ञानानन्द-भारती - द्राविडी

निमित्तत्तऩ्मैयो वेऱु अदिष्टादा इल्लाददिऩाल् अऱिन्दुगॊळ्ळ वेण्डुम्। उलगत्तिल् मण्, तङ्गम् मुदलिय उबादाऩ कारणम् कुयवऩ्, तट्टाऩ् मुदलाऩ अदिष्टादाक्कळै अबेक्षित्तु ऎप्पडि पिरविरुत्तिक्किऱदो, अप्पडि उबादाऩगारणमाऩ पिरह्मत्तिऱ्कु वेऱु अदिष्टादा अबेक्षिक्कप्पड विल्लै, उण्डावदऱ्कु मुऩ्ऩाल् ऒऩ्ऱु ताऩ् इरण्डावदऱ्ऱदु ऎऩ्ऱु उऱुदियाय् सॊल्लियिरुप्पदाल्। वेऱु अदिष्टादा इल्लै यॆऩ्बदुम् पिरदिक्ञै तिरुष्टान्दम् इवैगळुक्कु विरोदमिल्लाददिऩालेये सॊल्लप्पट्टदाग अऱिय वेण्डुम्। उबादाऩत्तिऱ्कु वेऱाग अदिष्टादा ऒप्पुक्कॊळ्ळप्पट्टाल्, मऱुबडियुम् ऒऩ्ऱैयऱिवदिऩाल् ऎल्लाम् अऱियप्पडुगिऱदॆऩ्बदु सम्बविक्का तदिऩाल्, पिरदिक्ञैक्कुम् तिरुष्टान्दत् तिऱ्कुम् विरोदम्दाऩ् एऱ्पडुम्।

ज्ञानानन्द-भारती - द्राविडी

आगैयाल्, वेऱु अदिष्टादा इल्लाददिऩाल् आत्माविऱ्कु सॆय्युम् तऩ्मै (निमित्तगारणत्तऩ्मै), वेऱु उबादाऩमिल्लादिऩाल् पिरगिरुदित्तऩ्मै (उबादाऩ कारणत्तऩ्मै)युम्।

कुतश्चात्मनः कर्तृत्वप्रकृतित्वे ? —

ज्ञानानन्द-भारती - द्राविडी

इऩ्ऩमुम् ऎदिऩाल् आत्माविऱ्कु सॆय्युम् तऩ्मैयुम् पिरगिरुदित् तऩ्मैयुम्?

अभिध्योपदेशाच्च ॥ २४ ॥

ज्ञानानन्द-भारती - द्राविडी

अबित्योबदेसाच्च ॥ २४ ॥

अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति — ‘सोऽकामयत बहु स्यां प्रजायेय’ (तै. उ. २। ६। १) इति, ‘तदैक्षत बहु स्यां प्रजायेय’ (छा. उ. ६। २। ३) इति च। तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते। बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते ॥ २४ ॥

ज्ञानानन्द-भारती - द्राविडी

‘अवर् पलवाग आवेऩ्, पिऱप्पेऩ् ऎऩ्ऱु इच्चैप्पट्टार्’ ऎऩ्ऱुम्, ‘अदु पलवाग आवेऩ् पिऱप्पेऩ् ऎऩ्ऱु आलोसित्तदु’ ऎऩ्ऱुम् निऩैप्पदै उबदेसित्तिरुप्पदुम् आत्माविल् सॆय्युम् तऩ्मैयैयुम् पिरगिरुदित् तऩ्मैयैयुम् अऱिविक्किऱदु। अङ्गे निऩैप्पदै मुऩ्ऩिट्टु स्वदन्दिरमाऩ पिरविरुत्तियि रुप्पदाल् कर्त्ता (सॆय्गिऱवर्) ऎऩ्ऱु अऱियप्पडुगिऱदु। ‘पलवाग आवेऩ्’ ऎऩ्ऱु पलवाग आवदै ऎण्णिऩदु पिरत्यगात्मावै विषयमायुडैयदाल् पिरगिरुदि ऎऩ्ऱुम् अऱियप्पडुगिऱदु।

साक्षाच्चोभयाम्नानात् ॥ २५ ॥

ज्ञानानन्द-भारती - द्राविडी

साक्षाच्चोबयाम्नानात् ॥ २५ ॥

प्रकृतित्वस्यायमभ्युच्चयः। इतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेते — ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति’ (छा. उ. १। ९। १) इति। यद्धि यस्मात्प्रभवति, यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् , यथा व्रीहियवादीनां पृथिवी। ‘साक्षात्’ इति च — उपादानान्तरानुपादानं दर्शयति ‘आकाशादेव’ इति। प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ॥ २५ ॥

ज्ञानानन्द-भारती - द्राविडी

पिरगिरुदित् तऩ्मैक्कु इदु पलम् कट्टुगिऱदु। इदिऩालेयुम् पिरह्मम् पिरगिरुदि ऎदऩाल् ऎऩ्ऱाल् नेरागवे पिरह्मत्तैक् कारणमाग वैत्तु उत्पत् तियुम् पिरळयमुम् आगिय इरण्डुम् सॊल्लप्पडुगिऱदु। ‘इन्द ऎल्ला पूदङ्गळुमे आगासत्तिलिरुन्दे उण्डा किऩ्ऱऩ आगासत्तिल् लयमडैगिऩ्ऱऩ’ (सान्।१-९-१) ऎऩ्ऱु। ऎदु ऎदिलिरुन्दु उण्डागिऱदो ऎदिल् लयत्तै युम् अडैगिऱदो अदऱ्कु अदुवे उबादाऩम् ऎऩ्बदु पिरसित्तम्, नॆल्, यवम् मुदलियवैगळुक्कु पूमिबोल ‘नेरागवे’ ऎऩ्बदु ‘आगासत्तिलिरुन्दे’ ऎऩ्ऱु वेऱु उबादाऩत्तै ऎडुत्तुक्कॊळ्ळाददैक् काट्टुगिऱदु। लयमुम् उबादाऩत्तैत् तविर वेऱु इडत्तिल् कार्यत्तिऱ्कु पार्क्कप्पडुवदिल्लै।

आत्मकृतेः परिणामात् ॥ २६ ॥

ज्ञानानन्द-भारती - द्राविडी

आत्मक्रुदे: परिणामात् ॥ २६ ॥

इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ‘तदात्मानं स्वयमकुरुत’ (तै. उ. २। ७। १) इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति; आत्मानमिति कर्मत्वम् , स्वयमकुरुतेति कर्तृत्वम्। कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम् ?

ज्ञानानन्द-भारती - द्राविडी

इदिऩालुम् पिरह्मम् पिरगिरुदि ऎदऩाल् ऎऩ्ऱाल् पिरह्मत्तै सॊल्लुम् पिरगरणत्तिल् ‘अदु तऩ्ऩैदाऩे सॆय्दुगॊण्डदु’ (तैत्तिरीय २-७) ऎऩ्ऱु तऩक्के कर्मत्वम् (विषयमायिरुक्कुम् तऩ्मै) कर्त्रुत्वम् (सॆय्गिऱवऩायिरुक्कुम् तऩ्मै) इरण्डैयुम् काट्टुगिऱदु। ‘तऩ्ऩै’ ऎऩ्ऱु कर्मत्वम्, ‘ताऩे सॆय्दु कॊण्डदु’ ऎऩ्ऱु कर्त्रुत्वम्।

परिणामादिति ब्रूमः — पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति। विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः। स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते ।

ज्ञानानन्द-भारती - द्राविडी

मुऩ्ऩालेये सित्तमायिरुक्किऱ, कर्त्तावाग निलैत्तिरुप्पदऱ्कु सॆय्यप्पडुम् तऩ्मैयै ऎप्पडि कॊडुक्कमुडियुम्? परिणामत्तिऩाल् ऎऩ्ऱु सॊल्गि ऱोम्। आत्मा मुऩ्ऩालेये सित्तमायिरुन्द पोदिलुम् तऩ्ऩै विसेषमाग, विगार स्वरूबमाग, माऱ्ऱिक् कॊण्डदु। विगार स्वरूबमाग माऱुवदु मण् मुदलाऩ पिरगिरुदि (कारणम्)कळिल् काणप्पडुगिऱदु। ‘ताऩे’ ऎऩ्ऱु कुऱिप्पिडुवदिऩाल् वेऱु निमित्तत्तै अबेक्षिप् पदिल्लै ऎऩ्बदुम् तॆरिगिऱदु।

‘परिणामात्’ इति वा पृथक्सूत्रम्। तस्यैषोऽर्थः — इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ‘सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च’ (तै. उ. २। ६। १) इत्यादिनेति ॥ २६ ॥

ज्ञानानन्द-भारती - द्राविडी

‘परिणामत्तिऩाल्’ ऎऩ्बदु तऩि सूत्तिरमागवु मिरुक्कलाम्। अदऱ्कु अर्त्तम् इदु: इदिऩालुम् पिरह्मम् पिरगिरुदि, एऩॆऩ्ऱाल् पिरह्मत्तिऱ्के विगारस्वरूब माग माऱुदल् सामाऩादिगरण्यत्तिऩाल् सॊल्लप्पडु किऱदु। ‘सत् आगवुम् (पिरुत्वि अप् तेजस् आगवुम्) त्यत् आगवुम् (वायु आगासम् आगवुम्), ऎडुत्तुच्चॊल्लक् कूडियदागवुम् ऎडुत्तुच्चॊल्ल मुडियाददागवुम् आयिऱ्ऱु’ (तैत्तिरीय २-६) ऎऩ्बदु मुदलाऩदिऩाल्, ऎऩ्ऱु।

योनिश्च हि गीयते ॥ २७ ॥

ज्ञानानन्द-भारती - द्राविडी

योऩिच्च हि कीयदे ॥ २७ ॥

इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु — ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ (मु. उ. ३। १। ३) इति ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १। १। ६) इति च। योनिशब्दश्च लोके — ‘पृथिवी योनिरोषधिवनस्पतीनाम्’ इति। स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम् ।

ज्ञानानन्द-भारती - द्राविडी

इदिऩालुम् प्रह्मम्-पिरगिरुदि। ऎदऩालॆऩ्ऱाल्, ‘योऩि’ ऎऩ्ऱु कूड उबनिषत्तुक्कळिल् सॊल्लप्पडु किऱदु। ‘कर्त्तावाय् आळ्बवराय् पुरुषऩाय् योऩियाय् पिरह्मम्’ (मुण्डग ३-१-३) ऎऩ्ऱुम्, ‘ऎन्द पूदयोऩियै तीरर्गळ् पार्क्किऱार्गळो’ (मुण्डग१-१-६)ऎऩ्ऱुम्, योऩि सप्तमो उलगत्तिल् पिरगिरुदियैच् चॊल्वदाग अऱियप् पट्टिरुक्किऱदु। ‘ओषदि, वऩस्पदिगळुक्कु पूमि योऩि’ ऎऩ्ऱु स्तिरीगळिऩ् योऩिक्कुम्गूड अव्यवङ्गळिऩ् मूलमाऩ कर्बत्तै युत्तेसित्तु उबादाऩ कारणत् तऩ्मै इरुक्किऱदु।

क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः ‘योनिष्ट इन्द्र निषदे अकारि’ (ऋ. सं. १। १०४। १) इति। वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते — ‘यथोर्णनाभिः सृजते गृह्णते च’ (मु. उ. १। १। ७) इत्येवंजातीयकात्। तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम् ।

ज्ञानानन्द-भारती - द्राविडी

सिल इडङ्गळिल् स्ताऩत्तैच् चॊल्वदागवुम् योऩि ऎऩ्ऱ सप्तम् काणप्पडुगिऱदु। ‘हे इन्दिरा उऩक्कु उट्कारुवदऱ्कु योऩि ऎऩ्ऩाल् सॆय्यप्पट्टि रुक्किऱदु।’ (रिक् सम्हिदै १-१०४-१) ऎऩ्ऱु। आऩाल् इङ्गे ‘ऎप्पडि सिलन्दि सिरुष्टिक्किऱदो, इऴुत्तुक् कॊळ्गिऱदो’ ‘ऎऩ्बदुबोलुळ्ळ वाक्यसेषत्ताल् योऩि सप्तम् पिरगिरुदियैच् चॊल्वदाग ’ ऎडुत्तुक् कॊळ्ळप्पडुगिऱदु। इव्विदम् पिरह्मत्तिऱ्कु प्रगिरुदित् तऩ्मै पिरसित्तम्।

यत्पुनरिदमुक्तम् , ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम् , नोपादानेष्वित्यादि; तत्प्रत्युच्यते — न लोकवदिह भवितव्यम्। न ह्ययमनुमानगम्योऽर्थः। शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम्। शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम। पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ २७ ॥

ज्ञानानन्द-भारती - द्राविडी

आलोसऩैयै मुऩ्ऩिट्टुच् चॆय्युन्दऩ्मै, कुयवऩ् मुदलाऩ निमित्त कारणङ्गळिल् ताऩ् उलगत्तिल् पार्क्कप्पडुगिऱदु। उबादाऩङ्गळिलिल्लै ऎऩ्बदु मुदलाऩदु ऎदु सॊल्लप्पट्टदो, अदऱ्कुप् पदिल् सॊल्लप्पडुगिऱदु; उलगत्तिल् पोल इङ्गे इरुक्कवेण्डुमॆऩ्बदिल्लै। एऩॆऩ्ऱाल्, इदु अऩुमाऩत्तिऩाल् अऱियप्पडुम् विषयमिल्लै। इन्द विषयमो सप्तत्तिऩालेये अऱियप्पड वेण्डियदा यिरुप्पदाल् सप्तम् ऎप्पडियो, अप्पडित्ताऩ् इङ्गे इरुक्क वेण्डुम्। सप्तमो आलोसिक्कुम् ईसुवरऩुक्कु प्रगिरुदित्तऩ्मैयै ऎडुत्तुच्चॊल्गिऱदु ऎऩ्ऱु सॊऩ्ऩोम्। मऱुबडियुम् इदऱ्कॆल्लाम् विस्तारमाग पदिल् सॊल्लप्पोगिऱोम्।