०३ संख्योपसङ्ग्रहाधिकरणम्

न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥

ज्ञानानन्द-भारती - द्राविडी

न सङ्ग्योबसङ्ग्रहादबि नानाबावाददिरेगाच्च ॥ ११ ॥

पञ्च पञ्चजनाः साङ्ख्यतत्त्वान्याहो श्रुतीरिताः ॥
प्राणाद्याः साङ्ख्यतत्त्वानि पञ्चविंशतिभासनात् ॥ ५ ॥
न पञ्चविंशतेर्भानमात्माकाशातिरेकतः ॥
संज्ञा पञ्चजनेत्येषा प्राणाद्याः संज्ञिनः श्रुताः ॥ ६ ॥
–वैयासिकन्यायमाला

ज्ञानानन्द-भारती - द्राविडी

पञ्ज पञ्ज जऩङ्गळ् ऎऩ्बदु साङ्गियर् सॊल्लुम् तत्वङ्गळा? अल्लदु वेदत्तिल् सॊल्लिय पिराणऩ् मुदलियवैगळा? इरुबत्तैन्दु ऎऩ्ऱु तॆरिवदिऩाल् साङ्गियर् सॊल्लुम् तत्वङ्गळ्दाऩ्।

ज्ञानानन्द-भारती - द्राविडी

आत्मावुम् आगासमुम् अदिगमायिरुप्पदाल् इरुबत् तैन्दु ऎऩ्ऱु तॆरिवदिल्लै। “पञ्जजऩङ्गळ्” ऎऩ्ऱ इदु वॆऱुम् पॆयर्। अप्पॆयरुळ्ळवैगळ् वेदत्तिल् कण्ड पिराणऩ् मुदलियवै।

एवं परिहृतेऽप्यजामन्त्रे पुनरन्यस्मान्मन्त्रात्साङ्ख्यः प्रत्यवतिष्ठते — ‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्’ (बृ. उ. ४। ४। १७) इति। अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषया अपरा पञ्चसंख्या श्रूयते, पञ्चशब्दद्वयदर्शनात्। त एते पञ्च पञ्चकाः पञ्चविंशतिः सम्पद्यन्ते। तया च पञ्चविंशतिसंख्यया यावन्तः संख्येया आकाङ्क्ष्यन्ते तावन्त्येव च तत्त्वानि साङ्ख्यैः संख्यायन्ते — ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः’ इति। तया श्रुतिप्रसिद्धया पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम् ॥

यसिमन् पञ्च पञ्चजना आकाशश्व प्रतिष्ठितरू ।
तमेव मन्य आत्मानं विद्वान् ब्रहमामृतोऽमृतम् ।।
(7.8.X25)

ज्ञानानन्द-भारती - द्राविडी

(ऎदऩिडत्तिल् ऐन्दु पञ्जजऩर्गळुम् आगासमुम् अत्यस्तमाग उळ्ळऩवो अन्द आत्मावैये अमिरुदमाऩ पिरह्ममाग अऱिगिऱेऩ्। पिरह्मत्तै यऱिन्द नाऩ् अमिरुदऩाग आगिऱेऩ्) इन्द सुरुदियिल् कूऱप्पट्ट ऐन्दु पञ्जजऩर्गळ् ऎऩ्बदु साङ्गयर्गळिऩ् तत्वङ्गळैक् कुऱिक्किऱदा अल्लदु सुरुदियिल् कूऱप्पट्ट पिराणऩ् मुदलियवैगळैक् कूऱुगिऱदा ऎऩ्ऱु सन्देहम्। इङ्गु ऐन्दु वगैयाऩ ऐन्दु जऩङ्गळ् कूऱप्पट्टुळ्ळऩ। मॊत्तम् २५ आगिऱदु। आगवे साङ्ग्यर्गळिऩ् २५ तत्तुवङ्गळैये इदु कुऱिक्किऱदु ऎऩ्ऱु पूर्वबक्षम्। साङ्ग्य तत्वङ्गळ् पलवाग उळ्ळऩ। इवैगळै ऐन्दैन्दाग वगुत्तु अवर्गळ् कूऱविल्लै। मेलुम् २५क्कु मेले आत्मा आगासम् इङ्गु कूऱप्पट्टुळ्ळदु। आगवे इदु साङ्ग्यदत्वङ्गळै कुऱिक्कविल्लै, पिराणऩ् मुदलाऩ ऒव्वॊऩ्ऱुक्कुम् पञ्जजऩम् ऎऩ्ऱु पॆयर् ऎऩ्ऱु सित्तान्दम्)।

ज्ञानानन्द-भारती - द्राविडी

इव्विदम् ‘अजा’ मन्दिरम् परिहरिक्कप्पट्ट पोदिलुम्, मऱुबडियुम् साङ्गियऩ् वेऱु मन्दिरत्तिऩाल् ऎदिर्क्किऱाऩ्; “ऎदऩिडत्तिल् ऐन्दु पञ्जजऩङ्गळिरुक् किऩ्ऱऩवो आगासमुम् निलैत् तिरुक्किऱदो, अदैये आत्मावाग मऩऩम् सॆय्गिऱेऩ्। मरणमऱ्ऱ पिरह्मत्तै अऱिन्दु मरणमऱ्ऱवऩाग (नाऩुम् इरुक्किऱेऩ्)" (पिरुहत्। ४-४-१७) ऎऩ्ऱु इन्द मन्दिरत्तिल् “ऐन्दु पञ्जजऩङ्गळ्” ऎऩ्ऱु ऐन्दु ऎऩ्ऱ ऎण्णिक्कैयै विषयमायुळ्ळ वेऱु ऐन्दु ऎऩ्गिऱ ऎण्णिक्कै काणप्पडुगिऱदु। इरण्डु ऐन्दु ऎऩ्ऱ सप्तम् काणुवदाल्। अन्द इन्द ऐन्दु ऐन्दु इरुबत्तैन्दु आगिऩ्ऱऩ। अप्पडि इरुबत्तैन्दु ऎऩ्ऱ ऎण्णिक्कैयाल् ऎण्ण वेण्डियदाग ऎत्तऩै ऎदिर्बार्क्कप्पडुगिऩ्ऱऩवो, अत्तऩैये (२५) तत्वङ्गळ् साङ्गियर्गळाल् ऎण्णप्पडुगिऩ्ऱऩ; “विगारमडैयाद मूलप्पिरगिरुदि ऒऩ्ऱु, पिरगिरुदि यागवुम्, विगिरुदियागवुम् इरुक्किऱ महत् मुदलिय एऴु, विगारम् पदिऩाऱु, पिरगिरुदियुमिल्लामल् विगिरुदि युमिल्लाद पुरुषऩ् ऒऩ्ऱु" (साङ्ग्यगारिगै) ऎऩ्ऱु, सुरुदियिल् पिरसित्तमायिरुक्कुम् अन्द इरुबत्तैन्दु ऎऩ्ऱ ऎण्णिक्कैयाल्, स्मिरुदिप् पिरसित्तमाऩ अन्द इरुबत्तैन्दु तत्वङ्गळ् सॊल्लप्पडुवदाल्, पिरदाऩम् मुदलियवैगळुक्कु मऱुबडियुम् वेद सप्तमुळ्ळ तऩ्मैये एऱ्पडुगिऱदु।

ततो ब्रूमः — न संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्या। कस्मात् ? नानाभावात्। नाना ह्येतानि पञ्चविंशतिस्तत्त्वानि। नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन्। न ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते। अथोच्येत — पञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथा ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’ इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति; तदपि नोपपद्यते। अयमेवास्मिन्पक्षे दोषः, यल्लक्षणाश्रयणीया स्यात् ।

ज्ञानानन्द-भारती - द्राविडी

सित्तान्दम्: अदऩाल् सॊल्गिऱोम्; ऎण्णिक् कैयै सॊल्वदिऩालुम्गूड पिरदाऩम् मुदलियवै कळुक्कु वेद सप्तमुळ्ळ तऩ्मै ऎऩ्बदिल् आसै वैत्तुक्कॊळ्ळ वेण्डाम्। एऩ्? पलवाग इरुप्पदाल्, इन्द इरुबत्तैन्दु तत्वङ्गळ् पलवागवल्लवा इरुक्किऩ्ऱऩ? इवैगळुक्कुळ् ऐन्दु ऐन्दाग (पिरिक्कुम्बडि) पॊदुवाऩ तर्मम् ऎदुवुमिल्लै। ऎदु इरुन्दाल् इरुबत्तैन्दुक्कुळ्ळे वेऱु ऐन्दु ऐन्दु ऎण्णिक्कैगळ् नुऴैयमुडियुमो अप्पडि, एदेऩु मॊरु सम्बन्दमऩ्ऩियिल् पलविद पदार्त्तङ्गळुक्कुळ् इरण्डु मुदलाऩ ऎण्णिक्कैगळ् नुऴैय मुडिया तल्लवा?

ज्ञानानन्द-भारती - द्राविडी

अवयवङ्गळ् मूलमाग इरुबत्तैन्दु ऎऩ्ऱ इदुदाऩ् कुऱिक्कप्पडुगिऱदु, ‘ऐन्दु, एऴु वरुषङ्गळ् इन्दिरऩ् मऴैबॆय्यविल्लै’ ऎऩ्ऱु पऩ्ऩिरण्डु वरुषगालमिरुन्द मऴैयिल्लामैयै ऎप्पडि सॊल्गिऱार्गळो, अप्पडि ऎऩ्ऱु सॊऩ्ऩाल्, अदुवुम् पॊरुन्दादु। इन्दप् पक्षत्तिल् लक्षणैयै आसिरयिक्क वेण्डियिरुप्पदु ऎदुवो अदुवे तोषम्।

परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकेण स्वरेणैकपदत्वनिश्चयात्। प्रयोगान्तरे च ‘पञ्चानां त्वा पञ्चजनानाम्’ (तै. सं. १। ६। २। २) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात्। समस्तत्वाच्च न वीप्सा ‘पञ्च पञ्च’ इति। तेन न पञ्चकद्वयग्रहणं पञ्च पञ्चेति। न च पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम् ‘पञ्च पञ्चकाः’ इति, उपसर्जनस्य विशेषणेनासंयोगात् ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, इङ्गे पिऩ्ऩालुळ्ळ पञ्ज ऎऩ्ऱ सप्तम् पञ्जजऩङ्गळ् ऎऩ्ऱु जऩ ऎऩ्ऱ सप्तत्तुडऩ् सेर्न्दि रुक्किऱदु। परिबाषैप्पडिक्कुळ्ळ स्वरत्तिऩाल् ऒरे पदमॆऩ्ऱु निच्चयप्पडुवदाल्, वेऱु पिरयोगत्तिलुम् “उऩ्ऩै ऐन्दु पञ्ज जऩङ्गळुक्काग” ऎऩ्ऱु ऒरे पदम्, ऒरे स्वरम्, ऒरे विबक्ति ऎऩ्ऱु तॆरिवदाल्, समस्तमायिरुप्पदाल् (सेर्न्दु ऒरे पदमायिरुप्पदाल्) ऐन्दु ऐन्दु ऎऩ्ऱु तिरुम्बच् चॊल्लप्पडविल्लै। ऐन्दु ऐन्दु ऎऩ्ऱु इरण्डु ऐन्दै किरहिप्पदुमिल्लै। ऒरु ऐन्दु ऎऩ्ऱ ऎण्णिक्कैक्कु मऱ्ऱ ऐन्दु ऎऩ्ऱ ऎण्णिक् कैयुडऩ् ऐन्दु ऐन्दायुळ्ळवै ऎऩ्ऱु विसेषणमु मिल्लै उबसर्जऩत्तिऱ्कु (पिरदाऩमल्लाददऱ्कु) विसेषणत्तुडऩ् सेर्क्कै किडैयाददिऩाल्।

नन्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत्। नेति ब्रूमः। युक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम्। इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत्। भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्; तत्र चोक्तो दोषः। तस्मात्पञ्च पञ्चजना इति न पञ्चविंशतितत्त्वाभिप्रायम् ।

ज्ञानानन्द-भारती - द्राविडी

ऐन्दु ऎऩ्ऱ ऎण्णिक्कैयुडऩ् सेर्क्कप्पट्ट जऩङ्गळे मऱुबडियुम् ऐन्दु ऎऩ्ऱ ऎण्णिक्कैयिऩाल् विसेषिक्कप्पडुम् पोदु इरुबत्तैन्दु ऎऩ्ऱु अऱियप्पडुगिऱार्गळ् ऎप्पडि “ऐन्दु ऐन्दु कोरैगळ्” ऎऩ्ऱाल् इरुबत्तैन्दु कोरैगळ् अऱियप्पडुगिऱदो अदैप्पोल; ऎऩ्ऱाल्, अप्पडियल्ल ऎऩ्गिऱोम्। पञ्जबूलि सप्तत्तिऱ्कु ऐन्दु कोरैगळिऩ् कूट्टङ्गळ् ऎऩ्ऱु पॊरुळ्। कूट्टङ्गळ् ऎत्तऩै ऎऩ्ऱु वेऱ्ऱुमै पऱ्ऱिक्केळ्विवरुम्बोदु ऐन्दु कोरैगळिऩ् कूट्टम् ऐन्दु ऎऩ्ऱु कुऱिप्पिडुवदु न्यायम् इङ्गे ऐन्दु जऩङ्गळ् ऎऩ्ऱु मुदलिलेये वेऱुबडुत्तिच् चॊल्लि यिरुप्पदाल् ऎत्तऩैयॆऩ्ऱु वेऱुबडुत्तित् तॆरिय विरुप्पमिल्लाददिऩाल् ‘ऐन्दु ऐन्दु जऩङ्गळ्’ ऎऩ्बदु विसेषणमागादु। इदु विसेषणमाऩालुम् कूड ऐन्दु ऎऩ्ऱ ऎण्णिक्कैक्कुत्ताऩ् विसेषणमागुम्; अव्विषयत् तिलो तोषम् सॊल्लप्पट्टुविट्टदु। आगैयाल् ‘ऐन्दु ऐन्दु जऩङ्गळ्’ ऎऩ्बदु इरुबत्तैन्दु तत्वङ्गळै अबिप्पिरायमागवुळ्ळदिल्लै।

अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम्। अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाः। आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्’ इति सप्तमीसूचितस्य ‘तमेव मन्य आत्मानम्’ इत्यात्मत्वेनानुकर्षणात्। आत्मा च चेतनः पुरुषः; स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमाधेयत्वं च युज्यते। अर्थान्तरपरिग्रहे च तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत। तथा ‘आकाशश्च प्रतिष्ठितः’ इत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य न पृथगुपादानं न्याय्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम् ।

ज्ञानानन्द-भारती - द्राविडी

‘अदिगमिरुप्पदालुम्” इरुबत्तैन्दु तत्तुव अबिप्रायमिल्लै। आत्मा, आगासम्, इरण्डिऩालुम् इरुबत्तैन्दु ऎऩ्ऱ ऎण्णिक्कैक्कु अदिगमागवे इरुक्किऱदु। इरुप्पदऱ्कु आदारमाग इङ्गे आत्मा कुऱिप्पिडप्पट्टिरुक्किऱदु। “ऎदऩिडत्तिल्” ऎऩ्ऱु एऴाम् वेऱ्ऱुमैयाल् सूसिक्कप्पट्टदै “अन्द आत्मा वैये मऩऩम् सॆय्गिऱेऩ्” ऎऩ्ऱु आत्मावाग इऴुत्तुच् चॊल्वदाल् आत्मावो सेदऩऩाऩ पुरुषऩ्, अवरो इरुबत्तैन्दुक्कुळ्ळेये अडङ्गि यिरुप्पदाल्, अवरुक्के आदारमायिरुक्कुम् तऩ्मै आदेयमा यिरुक्कुम् तऩ्मै ऎऩ्बदु पॊरुन्दादु। अदु वेऱु पदार्त्तम् ऎऩ्ऱु वैत्तुक्कॊण्डालो, तत्तुवङ्गळिऩ् ऎण्णिक्कैक्कु अदिगमाग सित्तान्दत्तिऱ्कु विरोदमाग एऱ्पट्टुविडुम्।

ज्ञानानन्द-भारती - द्राविडी

अप्पडिये ‘आगासमुम् निलैत्तिरुक्किऱदु’ ऎऩ्ऱु इरुबत्तु ऐन्दिल् अडङ्गियुळ्ळ आगासत्तैयुम् तऩियाग ऎडुत्तुक्कॊळ्वदु न्यायमिल्लै। अदु वेऱु पदार्त्तम् ऎऩ्ऱु वैत्तुक् कॊण्डालो मुऩ्सॊऩ्ऩ तोषम्।

कथं च संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वेष्वरूढत्वात् , अर्थान्तरोपसङ्ग्रहेऽपि संख्योपपत्तेः। कथं तर्हि पञ्च पञ्चजना इति ? उच्यते — ‘दिक्संख्ये संज्ञायाम्’ (पा. सू. २। १। ५०) इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः। ततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, न साङ्ख्यतत्त्वाभिप्रायेण। ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते। पञ्चजना नाम ये केचित् , ते च पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ ११ ॥

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, ऎण्णिक्कै मात्तिरम् सॊल्लियिरुक् कैयिल्, सुरुदियिल् केळ्विप्पडाद इरुबत्तैन्दु तत्तुवङ्गळै ऎडुत्तुक्कॊळ्वदु ऎप्पडि एऱ्पड मुडियुम्? जऩ ऎऩ्ऱ सप्तत्तिऱ्कु तत्तुवङ्गळिल् रूडियिल् लाददिऩाल्। वेऱु अर्त्तत्तै ऎडुत्तुक्कॊण्डालुम् कूड ऎण्णिक्कै पॊरुन्दु माऩदिऩाल्।

ज्ञानानन्द-भारती - द्राविडी

अप्पडियाऩाल्, ऐन्दु ऐन्दु जऩङ्गळ् ऎऩ्बदु ऎप्पडि? सॊल्लप्पडुगिऱदु ‘तिक्सङ्ग्ये सम्ज्ञायाम्’ (पाणिऩि। २-१-५०) ऎऩ्ऱु कुऱिप्पिट्टु स्मरिक्कप्पट्टि रुप्पदाल्, पॆयर् ऎऩ्बदिल् ताऩ् पञ्ज ऎऩ्ऱ सप्तत्तिऱ्कु जऩ ऎऩ्ऱ सप्तत्तुडऩ् समासम्। आगैयाल् रूडम् ऎऩ्ऱ अबिप्पिरायत्तिऩालेये पञ्ज जऩङ्गळ् ऎऩ्ऱु सिलर् सॊल्ल विरुम्बप्पडुगिऱार्गळ्, साङ्गिय ऩुडैय तत्तुव अबिप्पिरायत्तिऩाल् इल्लै। अवै ऎत्तऩै ऎऩ्ऱु अऱिय विरुम्बुगैयिल् मऱुबडियुम् ऐन्दु ऎऩ्ऱु पिरयोगिक्कप्पट्टिरुक्किऱदु। पञ्ज जऩङ्गळ् ऎऩ्ऱु ऎन्द सिलर् पिरसित्त मायिरुक्किऱार्गळो, अवर्गळ् ऐन्दु ताऩ् ऎऩ्ऱु अर्त्तम्। सप्तरिषिगळ् एऴु ऎऩ्बदुबोल। (११)

के पुनस्ते पञ्चजना नामेति, तदुच्यते —

ज्ञानानन्द-भारती - द्राविडी

अप्पडियाऩाल्, अन्द पञ्ज जऩङ्गळ् यार्? ऎऩ्ऱु, अदु सॊल्लप्पडुगिऱदु:-

प्राणादयो वाक्यशेषात् ॥ १२ ॥

ज्ञानानन्द-भारती - द्राविडी

प्राणादयो वाक्यसे षात् ॥ १२ ॥

‘यस्मिन्पञ्च पञ्चजनाः’ इत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः — ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः’ इति। तेऽत्र वाक्यशेषगताः सन्निधानात्पञ्चजना विवक्ष्यन्ते ।

ज्ञानानन्द-भारती - द्राविडी

“ऎदिल् ऐन्दु पञ्जजऩङ्गळ्” ऎऩ्ऱ मन्दिरत्तिऱ्कु मेलुळ्ळ मन्दिरत्तिल् पिरह्मत्तिऩ् स्वरूबत्तै निरूबणम् सॆय्वदऱ्काग पिराणऩ् मुदलियवैगळ् ऐन्दु कुऱिप्पिडप्पट्टिरुक्किऩ्ऱऩ। “पिराणऩुक्कुप् पिराणऩ्, अप्पडिये कण्णुक्कुक् कण्, अप्पडिये कादुक्कुक् कादु, अऩ्ऩत्तिऱ्कु अऩ्ऩम्, मऩसिऱ्ऱु मऩस् ऎऩ्ऱु ऎवर् अऱिगिऱार्गळो” ऎऩ्ऱु। वाक्किय सेषत्तिलुळ्ळ अवैगळ्, समीबत्तिलिरुप्पदाल्, इङ्गु पञ्जजऩङ्गळ् ऎऩ्ऱु सॊल्ल उत्तेसिक्कप्पडुगिऩ्ऱऩ।

कथं पुनः प्राणादिषु जनशब्दप्रयोगः ? तत्त्वेषु वा कथं जनशब्दप्रयोगः ? समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्ति। जनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति। जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः — ‘ते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३। १३। ६) इत्यत्र । ‘प्राणो पिता प्राणो ह माता’ (छा. उ. ७। १५। १) इत्यादि च ब्राह्मणम्। समासबलाच्च समुदायस्य रूढत्वमविरुद्धम् ।

ज्ञानानन्द-भारती - द्राविडी

पिराणऩ् मुदलियवैगळिल् जऩम् ऎऩ्ऱ सप्तप्रयोगम् ऎप्पडि? तत्वङ्गळिल्दाऩ् जऩम् ऎऩ्ऱ सप्तप्रयोगम् ऎप्पडि? पिरसित्तियै मीऱुवदु समाऩमायिरुक्कैयिल्, वाक्कियसेषत्तिऩ् पलत्तिऩाल् पिराणऩ् मुदलियऩदाऩ ऎडुत्तुक्कॊळ्ळवेण्डिय वैगळाग इरुक्किऩ्ऱऩ। मेलुम्, जऩङ्गळुडऩ् सम्बन्दमिरुप्पदाल् पिराणऩ् मुदलाऩवै जऩम् ऎऩ्ऱ सप्तत्तै अडैन्दवैगळाग आगिऩ्ऱऩ। जऩत्तैच् चॊल्लुम् पुरुषऩ् ऎऩ्ऱसप्तम् पिराणऩ्गळिल् पिरयोगम् सॆय्यप्पट्टिरुक्किऱदु। “अन्द इन्द ऐन्दुम् पिरह्मबुरुषर्गळ्” (सान्। ३-१३-६) ऎऩ्ऱविडत्तिल् “पिराणऩे पिदा, पिराणऩे मादा” (सान्।७-१५-१) ऎऩ्बदु मुदलाऩ पिराह्मणमुम् इरुक्किऱदु। समासबलत्तिऩालुम् मॊत्तत्तिऱ्कु रूडत्तऩ्मै विरोदमिल्लै।

कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् ? शक्या उद्भिदादिवदित्याह — प्रसिद्धार्थसन्निधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते; यथा ‘उद्भिदा यजेत’ ‘यूपं छिनत्ति’ ‘वेदिं करोति’ इति। तथा अयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यते ।

ज्ञानानन्द-भारती - द्राविडी

मुऩ्ऩाल् पिरयोगमिल्लामल् रूडियै ऎप्पडि आसिरयिक्क मुडियुम्? ‘उत्पित्’ मुदलाऩदैप्पोल मुडियुम् ऎऩ्गिऱार्। पिरसित्तमाऩ अर्त्तत्तैयुडैय पदत्तिऱ्कु समीबत्तिल् पिरयोगम् सॆय्यप्पट्टिरुक्किऱ पिरसित्तमाऩ अर्त्तमिल्लाद सप्तम् सेर्न्दु सॊल्लप् पडुवदाल्, अदैये विषयमाय् उळ्ळदॆऩ्ऱु नियमिक्कप्पडुगिऱदु। १“उत्पित्तिऩाल् यागम् सॆय्यवुम्”, “यूबत्तै वॆट्टुगिऱाऩ्”, “वेदियैच् चॆय्गिऱाऩ्” ऎऩ्बदुबोल अप्पडिये इन्द पञ्ज जऩ ऎऩ्ऱ सप्तमुम् समासमाग (स्वरत्तैक् कॊण्डु ऒरे पदमाग) सॊल्लप्पट्टिरुप्पदाल्, पॆयरायिरुक्कुम् तऩ्मैयुळ्ळ तॆऩ्ऱु अऱियप्पट्टु, पॆयरिडप्पट्टदु ऎऩ्ऩवॆऩ्ऱु विरुम्बि, वाक्कियसे षत्तिल् सेर्न्दु सॊल्लप् पट्टिरुक्किऱ पिराणऩ् मुदलाऩदुगळैच् चॊल्गिऱदु।

कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः। अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः। क्वचिच्च ‘यत्पाञ्चजन्यया विशा’ (ऋ. सं. ८। ६३। ७) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यते। तत्परिग्रहेऽपीह न कश्चिद्विरोधः। आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतया ‘प्राणादयो वाक्यशेषात्’ इति जगाद ॥ १२ ॥

ज्ञानानन्द-भारती - द्राविडी

सिलर्गळालो, तेवर्गळ्, पित्रुक्कळ्, कन्दर्वर्गळ्, असुरर्गळ्, राक्षसर्गळ् ऎऩ्ऱ ऐवर्गळ् पञ्जजऩङ्गळ् ऎऩ्ऱु वियाक्याऩम् सॆय्यप् पट्टिरुक्किऱदु। वेऱु सिलराल् नाऩ्गु वर्णङ्गळ् ऐन्दावदाऩ निषादऩैच् चेर्त्तु पञ्ज जऩङ्गळाग ऎडुत्तुक्कॊळ्ळप्पडुगिऩ्ऱऩ। सिलविडत्तिल् “यत् पाञ्जजऩ्यया विसा” (रिक्सम्हिदै ८-५८-७) ऎऩ्ऱु पिरजै ऎऩ्ऱ तात्पर्यमुळ्ळदाग पञ्जजऩ सप्तत्तिऱ्कु पिरयोगम् काणुगिऱदु। इवैगळै ऎडुत्तुक् कॊण्डालुम्गूड इङ्गे ऎव्विद विरोदमुम् इल्लै। वियासासार्यरो इरुबत्तैन्दु तत्वङ्गळुक्कु इङ्गे तोऱ्ऱम् किडैयादु ऎऩ्ऱ इव्विद तात्पर्यत्तिऩाल् “पिराणऩ् मुदलियवै, वाक्कियसेषत्तिऩाल्” ऎऩ्ऱु सॊऩ्ऩार्।

भवेयुस्तावत्प्राणादयः पञ्चजना माध्यन्दिनानाम् , येऽन्नं प्राणादिष्वामनन्ति। काण्वानां तु कथं प्राणादयः पञ्चजना भवेयुः, येऽन्नं प्राणादिषु नामनन्तीति — अत उत्तरं पठति —

ज्ञानानन्द-भारती - द्राविडी

ऎवर्गळ् पिराणऩ् मुदलियवैगळिल् अऩ्ऩत्तै सॊल्लुगिऱार्गळो, अन्द मात्यन्दिऩर् कळुक्कु पिराणऩ् मुदलियवैगळ् पञ्जजऩङ्गळाग इरुक्कलाम्; ऎवर्गळ् पिराणऩ् मुदलियवैगळिल् अऩ्ऩत्तैच् चॊल्लविल्लैयो, अन्द काण्वर्गळुक्कु पिराणऩ् मुदलियवै ऎप्पडि पञ्जजऩङ्गळाग इरुक्कमुडियुम्? ऎऩ्ऱु अदिल् पदिल् सॊल्गिऱार्:

ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥

ज्ञानानन्द-भारती - द्राविडी

ज्योदिषैगे षामसत्यन्ने ॥ १३ ॥

असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येत। तेऽपि हि ‘यस्मिन्पञ्च पञ्चजनाः’ इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते ‘तद्देवा ज्योतिषां ज्योतिः’ इति। कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषाञ्चिद्गृह्यते केषाञ्चिन्नेति

ज्ञानानन्द-भारती - द्राविडी

काण्वर्गळुक्कु अऩ्ऩम् इल्लामल् पोऩालुम्, अवर्गळुक्कु ऐन्दु ऎऩ्ऱ ऎण्णिक्कै ज्योदिसिऩाल् पूर्त्तियागिविडुम्। अवर्गळुम्गूड “ऎदिल् ऐन्दु पञ्ज जऩङ्गळ्” ऎऩ्बदऱ्कु मुन्दिऩ मन्दिरत्तिल्, पिरह्म स्वरूबत्तै निरूबणम् सॆय्वदऱ्कागवे, “अन्द ज्योदिस्कळुक्कु ज्योदि साऩदै तेवर्गळ्” ऎऩ्ऱु ज्योदिसै सॊल्गिऱार्गळ्।

ज्ञानानन्द-भारती - द्राविडी

इरण्डु सागैक्कारर्गळुक्कुम्गूड ऒरेमादिरि इन्द ज्योदिस् सॊल्लप्पट्टिरुप्पदु समाऩमाऩ मन्दिरत्तिलुळ्ळ ऐन्दु ऎऩ्ऱ ऎण्णिक्कैयाल् सिलरुक्कु ऎडुत्तुक्कॊळ्ळप्पडुगिऱदु। सिलरुक्कु इल्लै, ऎऩ्बदु ऎप्पडि?

अपेक्षाभेदादित्याह — माध्यन्दिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्यपेक्षा भवति। तदलाभात्तु काण्वानां भवत्यपेक्षा। अपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे। यथा समानेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे, तद्वत्। तदेवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति। स्मृतिन्यायप्रसिद्धी तु परिहरिष्येते ॥ १३ ॥

ज्ञानानन्द-भारती - द्राविडी

अबेक्षैयिल् वित्तियासमिरुप्पदाल् ऎऩ्ऱु सॊल्गिऱार्। मात्यन्दिऩर्गळुक्कु समाऩमाऩ मन्दिरत् तिल् सॊल्लप्पडुम् (अऩ्ऩत्तुडऩ् सेर्त्तु) पिराणऩ् मुदलाऩ पञ्ज जऩङ्गळ् किडैत्तु विडुवदाल्, वेऱु मन्दिरत्तिल् सॊल्लिय इन्द ज्योदिस् विषयमाग अबेक्षैयिल्लै। (अऩ्ऩम् पडिक्कप्पडाददाल्) अदु किडैक्काददाल् काण्वर्गळुक्कु अबेक्षैयिरुक्किऱदु। मन्दिरम् समाऩमायिरुन्दुम्गूड, अबेक्षैयिलुळ्ळ पेदत्तिऩाल् ज्योदिसै ऎडुत्तुक्कॊळ्वदुम्, ऎडुत्तुक्कॊळ्ळाददुम् एऱ्पडुगिऱदु। ऎप्पडि अदिरात्तिरम् ऎऩ्बदु समाऩमायिरुन्दालुम्, वसऩत्तिलुळ्ळ पेदत्तिऩाल्, षोडसिक्कु ऎडुत्तुक्कॊळ्वदुम् ऎडुत्तुक् कॊळ्ळाददुम् एऱ्पडुगिऱदो, अदैप्पोल।

ज्ञानानन्द-भारती - द्राविडी

आगैयाल् इव्विदम् पिरदाऩ विषयमाग ऎव्विद सुरुदि पिरसित्तियुम् किडैयादु। स्मिरुदि न्यायम् इवैगळिलुळ्ळ पिरसित्तियो पिऩ्ऩाल् परिहरिक्कप् पडुम्।