आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
ज्ञानानन्द-भारती - द्राविडी
आऩुमानिगमप्येगे षामिदि सेन्न सरीररूबगविन्यस्तक्रुहीदेर्दर्सयदि स ॥ १ ॥
महतः परमव्यक्तं प्रधानमथवा वपुः ॥
प्रधानं साङ्ख्यशास्त्रोक्ततत्त्वानां प्रत्यभिज्ञया ॥ १ ॥
श्रुतार्थप्रत्यभिज्ञानात्परिशेषाच्च तद्वपुः ॥
सूक्ष्मत्वात्कारणावस्थमव्यक्ताख्यां तदर्हति ॥ २ ॥
–वैयासिकन्यायमाला
ज्ञानानन्द-भारती - द्राविडी
महत्तिऱ्कु मेलाऩदागच् चॊल्लप्पडुम् अव्यक्तम् पिरदाऩमा? अल्लदु सरीरमा? साङ्गिय सास्तिरत्तिल् सॊल्लप्पट्टिरुक्कुम् तत्वङ्गळिऩ् ञाबग मेऱ्पडुवदाल् पिरदाऩम् ताऩ्।
ज्ञानानन्द-भारती - द्राविडी
वेदत्तिल् कण्ड विषयम् ञाबगत्तिऱ्कु वरुवदालुम् मिञ्जुवदिऩालुम्, अदु सरीरम्। कारण अवस् तैयिलिरुक्किऱ अदु सूक्ष्ममायिरुप्पदाल् अव्यक्तम् ऎऩ्ऱ पॆयरै अदऱ्कु कॊडुप्पदु उसिदम्।
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् — ‘जन्माद्यस्य यतः’ (ब्र. सू. १। १। २) इति। तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम् — ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १। १। ५) इति। गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन ।
ज्ञानानन्द-भारती - द्राविडी
(नाऩ्गावदु पादत्तिल् पदत्तै मट्टुम् ऎडुत्तुक् कॊण्डु विसारम् सॆय्दु उबनिषत्तुक्कळुक्कु प्रह्मत्तिल् तात्पर्यम् तीर्माऩिक्कप्पडुगिऱदु। मुदलावदु पादत्तिल् ईक्षत्यदिगरणत्तिल् पिरदाऩत्तैच् चॊल्गिऱ सप्तम् वेदत्तिल् इल्लै। आगैयाल् उबनिषत्तु कळुक्कु प्रह्मत्तिल्दाऩ् तात्पर्यम् ऎऩ्ऱु कूऱप्पट्टदु। अदै आक्षेबित्तु कडोब निषत्तिल् अव्यक्तबदम् प्रदाऩत्तैक् कूऱुगिऱबडियाल् प्रह्मत्तिल्दाऩ् उबनिषत्तुक्कळुक्कु तात्पर्यम् ऎऩ्ऱु तीर्माऩिक्क मुडियादु ऎऩ्ऱ केळ्विक्कु पदिल् कूऱप्पडुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
महत: परमव्य कतं ऎऩ्ऱ कडोबनिषत्तिल् महत्तैक् काट्टिलुम् मेलाऩदागक् कूऱप्पट्ट अव्यक्तम् प्रदाऩमा सरीरमा ऎऩ्ऱु सन्देहम्। साङ्ग्य सास्तिरत्तिल् कूऱप्पट्ट महत्, अव्यक्तम् पुरुषऩ् ऎऩ्ऱ तत्वङ्गळ् अदे वरिसैयिल् इङ्गुम् कूऱप्पडुवदाल् अदऩ् ञाबगम् वरुगिऱबडियाल् इङ्गु उळ्ळ अव्यक्तबदम् साङ्ग्यर्गळिऩ् प्रदाऩत्तैत् ताऩ् कूऱुगिऱदु ऎऩ्ऱु पूर्वबक्षम्। च्रुदियिल् सॊल्लप्पट्ट विषयम्दाऩ् मुदलिल् ञाबगत्तुक्कु वरुमाऩदिऩालुम् कीऴे सॊल्लप्पट्टवैगळिल् सरीरम् मीदियाग इरुप्पदालुम् इङ्गु अव्यक्तबदम् सरीरत्तैत्ताऩ् कुऱिक्कुम् पिरदाऩत्तैक् कुऱिक्कादु। कारणम् वियक्तमाग इल्लामल् मिग सूक्ष्ममाग इरुप्पदाल् सरीरम् अव्यक्त पदत्ताल् कुऱिक्कप्पडुगिऱदु ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
पिरह्म विसारत्तै पिरदिक्ञै सॆय्दु, इदऩुडैय पिऱप्पु मुदलियदु ऎदिलिरुन्दो’ (सूत्रम् १-१-२) ऎऩ्ऱु पिरह्मत्तिऩ् लक्षणम् सॊल्लप्पट्टदु। अन्द लक्षणम् पिरदाऩत्तिऱ्कुम्गूड पॊदुवेयॆऩ्ऱु आसङ्गै सॆय्दु कॊण्डु पार्प्पदिऩाल् सप्तमऱ्ऱदु (पिरदाऩम्) अल्ल’ (सूत्रम् १-१-५) ऎऩ्ऱु सप्तमऱ्ऱ तऩ्मैयिऩाल् (वेदत्तिल् सॊल्लप्पडाददिऩाल्) अदु निरागरिक् कप्पट्टदु। वेदान्द वाक्कियङ्गळुक्कु पिरह्मत्तैक् कारणमागच् चॊल्वदिल् ऒरे विदमाऩ पोक्कु इरुक्किऱदु, पिरदाऩत्तैक् कारणमागच् चॊल्वदिल् इल्लैयॆऩ्ऱुम् सॆऩ्ऱ किरन्द पागत्तिऩाल् विस्तरिक्कप्पट्टदु।
इदं त्विदानीमवशिष्टमाशङ्क्यते — यदुक्तं प्रधानस्याशब्दत्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात्। अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते। तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत्। अतस्तेषामन्यपरत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते ॥
ज्ञानानन्द-भारती - द्राविडी
इप्पॊऴुदु मीदमुळ्ळ इदु सङ्गिक्कप्पडुगिऱदु। पिरदाऩत्तिऱ्कु , वेद सप्तमऱ्ऱ तऩ्मै ऎदु सॊल्लप्पट्टदो, अदु सित्तमिल्लै, सिल वेद सागैगळिल् पिरदाऩत्तैक् कुऱिप्पदु पोलुळ्ळ सप्तङ्गळ् सॊल्लप्पट्टिरुक्किऱबडियाल्, आगैयाल् वेदत्तिऩाले सित्तमायुळ्ळ पिरदाऩत्तिऩ् कारणत् तऩ्मैदाऩ् । कबिलर् मुदलाऩ पॆरिय उत्तममाऩ रिषिगळाल् ऎडुत्तुक्कॊळ्ळप्पट्टिरुक्किऱदु ऎऩ्ऱु एऱ्पडुगिऱदु। आगैयाल् अन्द सप्तङ्गळुक्कु वेऱु तात्पर्यमॆऩ्ऱु ऎदुवरै पिरदिबादिक्कप्पडविल्लैयो, अदु वरै सर्वक्ञमायुळ्ळ पिरह्मम् जगत्तिऱ्कुक् कारणमॆऩ्ऱु पिरदिबादिक्कप्पट्टिरुप्पदुम् कलङ्गिऩदाग आगिविडुम्। अदऩाल् अवैगळुक्कु वेऱु तात्पर्य मुळ्ळ तऩ्मैयैक् काट्टुवदऱ्काग मेलुळ्ळ सन्दर्प्पम् (किरन्द पागम्) पिरविरुत्तिक्किऱदु।
आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम् , एकेषां शाखिनां शब्दवदुपलभ्यते; काठके हि पठ्यते — ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ (क. उ. १। ३। ११) इति; तत्र य एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धाः, त एवेह प्रत्यभिज्ञायन्ते। तत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च न व्यक्तमव्यक्तमिति व्युत्पत्तिसम्भवात् , स्मृतिप्रसिद्धं प्रधानमभिधीयते। अतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम्। तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत्,
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम्: ‘आऩुमाऩिगमुम्’, अऩुमाऩत्तिऩाल् निरूबिक्कप्पट्ट पिरदाऩमुम्गूड, सिल सागिगळुक्कु सप्त मुळ्ळदागक् काणप्पडुगिऱदु। काडगत्तिल् ‘महत्तिऱ्कु मेल् अव्यक्तम्, अव्यक्तत्तिऱ्कु मेले पुरुषऩ्’ (काडग १-३-११) ऎऩ्ऱल्लवा सॊल्लप्पडुगिऱदु? अङ्गे महत्, अव्यक्तम्, पुरुषऩ् इवै ऎन्द पॆयरुळ्ळवैगळाग ऎन्द वरिसैयुळ्ळवैगळाग स्मिरुदियिल् पिरसित्तमाग इरुक्किऩ्ऱऩवो, अवैगळे इङ्गे ञाबगप्पडुत्तु किऩ्ऱऩ। अङ्गे अव्यक्तम् ऎऩ्ऱु स्मिरुदियिल् पिरसित् तियिरुप्पदिऩालुम्, सप्तम् मुदलियदु इल्लाददिऩाल् व्यक्तमिल्लै ऎऩ्बदिऩाल् अव्यक्तम् ऎऩ्ऱु व्युत् पत्ति सम्बविप्पदिऩालुम्, स्मिरुदियिल् पिरसित्तमाऩ पिरदाऩम् ताऩ् सॊल्लप्पडुगिऱदु। अदऱ्कु सप्तमुळ्ळ तऩ्मै इरुप्पदाल् सप्तमऱ्ऱदॆऩ्बदु पॊरुन्दादु। सुरुदि स्मिरुदि न्यायम् इवैगळिल् पिरसित्ति उळ्ळदाल् अदुदाऩ् जगत्तिऱ्कुक् कारणम्, ऎऩ्ऱाल्
नैतदेवम् — न ह्येतत्काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम्। न ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम् , तादृशं प्रत्यभिज्ञायते। शब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते। स च शब्दः — न व्यक्तमव्यक्तमिति — यौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते। न चायं कस्मिंश्चिद्रूढः। या तु प्रधानवादिनां रूढिः, सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: इदु अव्विदमल्ल। इन्द काडगत् तिलुळ्ळ वाक्कियम् स्मिरुदियिल् पिरसित्तमायुळ्ळ महत्तिऩुडैयवुम्, अव्यक्तत्तिऩुडैयवुम् इरुप्पिल् तात्पर्यमुळ्ळदल्ल। स्मिरुदियिल् पिरसित्तमाऩ स्वदन्दिरगारणमाऩ मूऩ्ऱु कुणङ्गळैयुडैय पिरदाऩम् ऎव्विदमो, अव्विदम् इङ्गे ञाबगप्पडुत् तप्पडविल्लै। इङ्गु ‘अव्यक्तम्’ ऎऩ्ऱ सप्तम् मट्टुम्दाऩ् ञाबगप्पडुत्तप्पडुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
अन्द सप्तमुम् वियक्तमिल्लाददु अव्यक्तम् ऎऩ्ऱु अवयवार्त्तत्तैच् चॊल्वदाल् सूक्ष्ममाय् ऎळिदाग अऱिय मुडियाददायुळ्ळ वेऱु वस्तुविलुम् पिरयोगिक्कमुडियुम्। इन्द सप्तम् ऎदिलुम् रूडियिल्लै। पिरदाऩत्तैच् चॊल्लुगिऱवर्गळुक्कुळ् रूडि ऎऩ्बदु ऎदुवो अदु अवर्गळुक्कुळ् ताऩ् परिबाषैयिऩाल् (सङ्गेत्तिऩाल्) उळ्ळदे तविर वेदत्तिऩ् अर्त्तत्तै निरूबणम् सॆय्गिऱ विषयत्तिल् कारणत्तऩ्मैयै अडैयादु।
न च क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवति, असति तद्रूपप्रत्यभिज्ञाने। न ह्यश्वस्थाने गां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यति। प्रकरणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तगृहीतेः। शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते ।
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, अददऩ् स्वरूबम् ञाबगत्तिऱ्कु वरामलिरुक्कैयिल् वरिसै मात्तिरम् समाऩमायिरुप्प ताल् समाऩमाऩ वस्तुविऩ् अऱिवु एऱ्पडुमॆऩ्बदु किडैयादु; कुदिरै इरुक्कुम् इडत्तिल् पसुवैप् पार्क्किऱ मुट्टाळल्लादवऩ् इदु कुदिरै ऎऩ्ऱु तीर्माऩिक्कमाट्टाऩ् अल्लवा?
ज्ञानानन्द-भारती - द्राविडी
इङ्गे पिरगरणत्तै कवऩिक्कुम्बोदुम् मऱ्ऱवराल् कल्बिक्कप्पडुम् पिरदाऩम् अऱियप्पड विल्लै। “रूबगमाग कल्बिक्कप्पट्ट सरीरमे किरहिक्कप् पडुगिऱबडियाल्” रदरूबमागक् कल्बिक्कप्पट्ट सरीरमल्लवा इङ्गे अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् किरहिक्कप्पडु किऱदु एऩ्? पिरगरणत्तिऩालुम् मीदम् इरुप्पदिऩालुम्।
कुतः ? प्रकरणात् परिशेषाच्च। तथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपककॢप्तिं दर्शयति — ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥’ (क. उ. १। ३। ३) ‘इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १। ३। ४) इति। तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति इति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् , तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयति — ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥’ (क. उ. १। ३। १०) ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १। ३। ११) इति;
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये अडुत्तु मुऩ्ऩुळ्ळ किरन्दत्तिल् ‘आत्मावै रदस्वामियागवुम् सरीरत्तै रदमॆऩ्ऱेयुम् अऱि; पुत्तियै सारदियागवुम् मऩसै कडिवाळक् कयिऱागवुम् अऱि; इन्दिरियङ्गळै कुदिरैगळागवुम् विषयङ्गळै अवऱ्ऱिऩ् मार्क्कङ्गळागवुम् सॊल्गि ऱार्गळ्। सरीरम् इन्दिरियम् मऩस् इवैगळुडऩ् सेर्न्दवऩै पोक्ता ऎऩ्ऱु अऱिञर्गळ् सॊल्लु किऱार्गळ्’ (काडग १-३-३,४) ऎऩ्ऱु आत्मा सरीरम् मुदलियवैगळुक्कु रदस्वामि रदम् मुदलिय रूबगङ्गळैक् कल्बिप्पदैक् काट्टुगिऱदु। अडक्कप् पडाद अन्द इन्दिरियङ्गळिऩाल् संसारत्तै अडैगिऱाऩ्; अडक्किऩवैगळालो मार्क्कत्तिऩ् मुडिवाऩ अन्द वियाबगरुडैय उत्तममाऩ स्ताऩत्तै अडैगिऱाऩ्; ऎऩ्ऱु काट्टिविट्टु, अन्द मार्क्कत्तिऩ् मुडिवाऩ वियाबगरुडैय उत्तम स्ताऩमागक् काट्टुगिऱदु। ‘इन्दिरियङ्गळुक्कु मेले विषयङ्गळ्; विषयङ्गळुक्कुमेले मऩस्; मऩसिऱ्कुम् मेले पुत्ति, पुत्तिक्कु मेले महत् ऎऩ्ऱ आत्मा; महत्तिऱ्कु मेले अव्यक्तम्; अव्यक्तत्तिऱ्कु मेले पुरुषऩ्; पुरुषऩुक्कु मेले ऎदुवुम् किडैयादु; अदु ऎल्लै; अदु मेलाऩ कदि’ (काडग १-३-१०, ११) ऎऩ्ऱु।
तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः, त एवेह परिगृह्यन्ते, प्रकृतहानाप्रकृतप्रक्रियापरिहाराय। तत्र इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह च समानशब्दा एव। अर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टाः, तेषां चेन्द्रियेभ्यः परत्वम् , इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम् इति श्रुतिप्रसिद्धेः। विषयेभ्यश्च मनसः परत्वम् , मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य। मनसस्तु परा बुद्धिः — बुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति। बुद्धेरात्मा महान्परः — यः, सः ‘आत्मानं रथिनं विद्धि’ इति रथित्वेनोपक्षिप्तः। कुतः ? आत्मशब्दात् , भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेः। महत्त्वं चास्य स्वामित्वादुपपन्नम् ।
ज्ञानानन्द-भारती - द्राविडी
अङ्गे, मुऩ्ऩाल् रदमाग रूबग कल्बऩै सॆय्युम्बोदु कुदिरै मुदलाऩ तऩ्मैयुडऩ् ऎन्द इन्दिरियङ्गळ् मुदलाऩवै पिरगिरुदमायुळ्ळवैगळो, अवैगळे ताऩ् इङ्गे ऎडुत्तुक्कॊळ्ळप्पडुगिऩ्ऱऩ। पिरगिरुदत्तै विडुवदु पिरगिरुदमिल्लाददै ऎडुत्तुक् कॊळ्वदु ऎऩ्ऱ तोषङ्गळ् एऱ्पडामलिरुप्पदऱ्काग अवऱ्ऱिल् इन्दिरियम्, मऩस्, पुत्ति ऎऩ्बवैगळ् मुऩ्ऩालुम् इङ्गेयुम् ऒरे सप्तङ्गळागवेयिरुक् किऩ्ऱऩ। ‘अर्त्तङ्गळ्’ ऎऩ्बदु इन्दिरियङ्गळाागिय कुदिरैगळुक्कु मार्क्कमाग कुऱिप्पिट्ट ऎन्द सप्तम् मुदलाऩ विषयङ्गळो अवै अवैगळुक्कु इन्दिरियङ्गळुक्कु मेलेयिरुक्कुम् तऩ्मै ‘‘इन्दिरियङ् गळुक्कु किरगमायिरुक्कुम् तऩ्मै, विषयङ्गळुक्कु अदिगिरहमायिरुक्कुम् तऩ्मै’ (पिरुहत् ३-२) ऎऩ्ऱु सुरुदियिल् पिरसित्तियिरुप्पदाल् विषयङ्गळैविड मेलेयिरुक्कुम् तऩ्मै मऩसिऱ्कु, विषयम् इन्दिरियम् इवैगळिऩ् व्यवहारत्तिऱ्कु मऩस् मूलमायिरुप् पदाल्। मऩसिऱ्कु मेलेयो पुत्ति; पुत्तियिल् एऱिक्कॊण्डुदाऩे पोक्य समूहम् पोक्तावै नॆरुङ्गिच् चॆल्गिऱदु। पुत्तिक्कु मेल् महत्ताऩ आत्मा, ‘आत्मावै तेरिऩ् स्वामियाग अऱि’ ऎऩ्ऱु ऎवर् रदस्वामियाग सॊल्लप्पट्टारो अवर्। एऩ्? आत्मा ऎऩ्ऱसप्तमिरुप्पदाल्; पोक्ताविऱ्कु पोग सादऩङ् गळैविडमेलायिरुक्कुम् तऩ्मै पॊरुन्दुमादलाल्। स्वामियायिरुप्पदाल् महत्तऩ्मैयुम् पॊरुन्दुम्।
अथवा — ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः। प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यते’ इति स्मृतेः, ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ (श्वे. उ. ६। १८) इति च श्रुतेः , या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः, सा सर्वासां बुद्धीनां परमा प्रतिष्ठा; सेह महानात्मेत्युच्यते। सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः। एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात् ।
ज्ञानानन्द-भारती - द्राविडी
अल्लदु, ‘मऩस्, महाऩ्, मदि, पिरह्मा, पू:, पुत्ति, कियादि, ईसुवरऩ्, पिरक्ञै, संवित् सिदि, स्मिरुदि ऎऩ्ऱु सॊल्लप्पडुगिऱदु’ ऎऩ्ऱु स्मिरुदियिलिरुन्दुम्, ‘ऎवर् मुऩ्ऩाल् प्रह्मावै, स्रुष्टिक्किऱारो, ऎवरे वेदङ्गळै अवरुक्कु अऩुप्पुगिऱारो’ (सुवेदा ६-१८) ऎऩ्ऱ सुरुदियिलिरुन्दुम्, मुदलिल् उण्डाऩ हिरण्य कर्प्परुडैय पुत्ति ऎदुवो अदु ऎल्ला पुत्तिगळुक्कुम् मेलाऩदु, आदारमाळ्ळदु। अदु इङ्गे महाऩ् आत्मा ऎऩ्ऱु सॊल्लप्पडुगिऱदु। अदु मुऩ्ऩमे पुत्तियै सॊऩ्ऩदिऩालेये किरहिक्कप्पट्टिरुन्दुम् इङ्गु तऩियाग उबदेसिक्कप्पडुगिऱदु। अदऱ्कु नम्मुडैय पुत्ति कळैविड मेलायिरुक्कुम् तऩ्मै पॊरुन्दुमाऩदाल्।
ज्ञानानन्द-भारती - द्राविडी
आऩाल् इन्द पक्षत्तिल् परमात्म विषयमाऩ परबुरुष सप्तत्ताल् रदस्वामियाऩ आत्मावै किरहिप्पदाग अऱिय वेण्डुम्। वास्तवत्तिल् परमात् माविऱ्कुम् विज्ञानात्माविऱ्कुम् पेदमिल्लाददिऩाल्।
तदेवं शरीरमेवैकं परिशिष्यते तेषु। इतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते। शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता। तथा च ‘एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ (क. उ. १। ३। १२) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति — ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’ (क. उ. १। ३। १३) इति ।
ज्ञानानन्द-भारती - द्राविडी
आगवे इव्विदम् सरीरम् ऒऩ्ऱुदाऩ् मिञ्जुगिऱदु। मऱ्ऱ पिरगिरुदमायुळ्ळ इन्दिरियम् मुदलियवैगळैये, मेलाऩ स्ताऩत्तैक् काट्ट उत्तेसित्तु, वरिसैयाग सॊल्लिवन्दु इङ्गे मिञ्जुगिऱ कडैसियाऩ अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् पिरगिरुदमाय् मिञ्जुगिऱ सरीरत्तै काट्टुगिऱदु ऎऩ्ऱु तॆरिगिऱदु। सरीरम् इन्दिरियम् मऩस् पुत्ति विषयङ्गळ् उणर्च्चि इवैगळुडऩ् कूडिऩ, अवित्यैयैयुडैय, पोक्ताविऱ्कु सरीरम् मुदलाऩदु कळै रदम् मुदलाऩ रूबमाग कल्बऩै सॆय्वदु मूलमाय् संसार कदियैयुम् मोक्षगदियैयुम् निरूबणम् सॆय्दवऩ्मूलम् उळ्ळेयुळ्ळ आत्मा पिरह्मम् ऎऩ्ऱु अऱिवदु इङ्गु सॊल्ल विरुम्बप् पट्टिरुक्किऱदु।
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये ‘ऎल्ला पिराणिगळिलुम् ऒळिन्दिरुक्कुम् इन्द आत्मा पिरगासिप्पदिल्लै। आऩाल् सूक्ष्मत्तै अऱियक्कूडियवर्गळाल् कूर्मैयाऩ सूक्ष्ममाऩ पुत्तियिऩाल् पार्क्कप्पडुगिऱदु’ (काडग १-३-१२) ऎऩ्ऱु वैष्णवमाऩ परमबदत्तिऩ् सुलबमाग अऱियक् कूडात्तऩ्मैयै सॊल्लि, अदै अऱिवदऱ्काग योगत्तै काट्टुगिऱदु; अऱिवाळियाऩवऩ्, वाक्कै मऩसिल् अडक्क वेण्डुम्। अदै ञाऩ आत्माविल् अडक्कवेण्डुम्। ञाऩ आत्मावै महत् आत्माविल् अडक्क वेण्डुम्। अदैच् चान्द आत्माविल् अडक्क वेण्डुम्। (काडग १-३-१३) ऎऩ्ऱु।
एतदुक्तं भवति — वाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत। मनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् तामपि बुद्धिं महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति। तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः ॥ १ ॥
ज्ञानानन्द-भारती - द्राविडी
इदु सॊऩ्ऩदाग आगिऱदु: वाक्कै मऩसिल् अडक्क वेण्डुम्; वाक्कु मुदलिय वॆळि इन्दिरिय वियाबारत्तै विट्टुविट्टु मऩस् मात्तिरमाग इरुक्क वेण्डुम्। विषयत्तैप् पऱ्ऱि विगल्बम् सॆय्वदिल् ईडुबडुम् मऩसैयुम्, विगल्बत्तिलुळ्ळ तोषत्तैप् पार्प्पदिऩाल्, ञाऩम् ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप् पडुम्, तीर्माऩम् सॆय्वदै स्वबावमायुळ्ळ पुत्तियिल् निऱुत्त वेण्डुम्। अन्द पुत्तियैयुम् महत् आत्माविल् पोक्ताविल् अल्लदु एगाक्र पुत्तियिल्, पुत्तियै सूक्ष्ममागच् चॆय्वदिऩाल्, अडक्क वेण्डुम्। अन्द महत् आत्मावैयो सान्द आत्माविल्, पिरगिरुद मायुळ्ळ मेलाऩ ऎल्लैयाऩ मेलाऩ पुरुषऩिल्, निऱुत्त वेण्डुम् ऎऩ्ऱु।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् इव्विदम् मुऩ्बिऩ् आलोसऩै सॆय्वदिल् इङ्गु मऱ्ऱवर् कल्बिक्किऱ पिरदाऩत्तिऱ्कु इडम् इल्लै।
सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
ज्ञानानन्द-भारती - द्राविडी
सूक्ष्मम् तु तदर्हत्वात् ॥ २ ॥
उक्तमेतत् — प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम् , न प्रधानमिति। इदमिदानीमाशङ्क्यते — कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हम् , अस्पष्टवचनस्त्वव्यक्तशब्द इति ।
ज्ञानानन्द-भारती - द्राविडी
पिरगरणत्तिऩालुम्, मिञ्जुवदऩालुम् अव्यक्तम् ऎऩ्ऱ सप्तत्ताल् सॊल्लप्पडुवदु सरीरम्; पिरदाऩ मिल्लै - ऎऩ्ऱु इदु सॊल्लप्पट्टदु। इप्पॊऴुदु इदु आसङ्गिक्कप्पडुगिऱदु: सरीरत्तिऱ्कु ‘अव्यक्तम् ऎऩ्ऱु सॊल्लक्कूडिय योक्यदै ऎप्पडि? वॆगु तॆळिवाग इरुक्किऱ इन्द सरीरम् स्तूलमायिरुप्पदाल्, “व्यक्तम्” ऎऩ्ऱ सप्तत्तिऱ्कु अर्हमाग उळ्ळदु। ‘अव्यक्तम्’ ऎऩ्ऱ सप्तमो स्पष्टमिल्लाददैच् चॊल्वदल्लवा? ऎऩ्ऱु।
अत उत्तरमुच्यते — सूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात्। यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति, तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति। प्रकृतिशब्दश्च विकारे दृष्टः — यथा ‘गोभिः श्रीणीत मत्सरम्’ (ऋ. सं. ९। ४६। ४) इति। श्रुतिश्च — ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १। ४। ७) इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं दर्शयति ॥ २ ॥
ज्ञानानन्द-भारती - द्राविडी
अदऩाल् पदिल् सॊल्लप्पडुगिऱदु: इङ्गेयो सरीरम् कारण स्वरूबत्तिऩाल् सूक्ष्मम् ऎऩ्ऱु सॊल्लप्पडुगिऱदु, सूक्ष्मम् अव्यक्तमॆऩ्ऱ सप्तत् तिऱ्कु अर्हमाऩदिऩाल्। इन्द सरीरम् स्तूलमायिरुन्दु कॊण्डु, ताऩे अव्यक्तम् ऎऩ्ऱ सप्तत्तिऱ्कु अर्हमिल्लामल् पोऩालुम्, अप्पडियुम् अदै आरम्बित्तु वैत्त पूद सूक्ष्मम् अव्यक्तम् ऎऩ्ऱ सप्तत्तिऱ्कु अर्हमायुळ्ळदु। कारणत्तै सॊल्लुम् सप्तम् कार्यत्तिलुम् काणप्पडुगिऱदु। ‘कोक्कळिऩाल् सोमत्तै कलक्कवुम्’ (रिक्सम्हिदै, ९-६-४) ऎऩ्ऱु ‘अप्पॊऴुदु इदुवे अव्यागिरुदमाग इरुन्ददु’ पिरुहत् (१-४-७) ऎऩ्ऱु, वियागरणम् सॆय्यप्पट्ट नामरूबङ्गळाल् पलविदमाय् वेऱुबट्टिरुक्किऱ इन्द जगत्ते, मुऩ् निलैयिल् वियागरणम् सॆय्यप्पट्ट नामरूबङ्गळै विट्टु, पीजसक्ति निलैयिलुळ्ळदु अव्यक्तम् ऎऩ्ऱ सप्तत्तिऱ्कु योक्कियमाग इरुन्ददु ऎऩ्बदैक् काट्टुगिऱदु।
तदधीनत्वादर्थवत् ॥ ३ ॥
ज्ञानानन्द-भारती - द्राविडी
तददीनत्वादर्दवत् ॥ ३ ॥
अत्राह — यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना च शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत; अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादिति। अत्रोच्यते — यदि वयं स्वतन्त्रां काञ्चित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्जयेम तदा प्रधानकारणवादम्। परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतोऽभ्युपगम्यते, न स्वतन्त्रा ।
ज्ञानानन्द-भारती - द्राविडी
इङ्गे सॊल्गिऱाऩ्; इन्द जगत्तु नामरूबम् वियक्तमागामल् पीजस्वरूबमाय् मुऩ् निलैयिलिरुन्ददु अव्यक्तम् ऎऩ्ऱ सप्तत्तिऱ्कु अर्हमॆऩ्ऱु ऒप्पुक् कॊळ्ळप्पट्टु, अन्द स्वबावत्तिऩाल् सरीरत्तिऱ्कु कूड अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप्पडुवदऱ्कु अर्हदैयुण्डॆऩ्ऱु पिरदिक्ञै सॆय्यप्पट्टाल्, अप्पॊऴुदु इव्विदमिरुन्दाल् अदुवे पिरदाऩत्तैक् कारणमाय् सॊल्लुम् वादमागिविडुम्, इन्द जगत्तिऩ् मुऩ्निलैयैये पिरदाऩमाग ऒप्पुक्कॊळ्गिऱबडियाल्, ऎऩ्ऱाल् अङ्गु सॊल्लप्पडुगिऱदु; स्वदन्दिरमाय् ऒरु मुऩ्निलैयै जगत्तिऱ्कुक् कारणमाग नाङ्गळ् ऒप्पुक्कॊण्डाल्, अप्पॊऴुदु पिरदाऩ कारणवादत् तै पुगुत्तिऩदाग आगुम्। आऩाल् ऎङ्गळाल् जगत्ति ऩुडैय इन्द मुऩ्निलै परमेसुवरऩुक्कु अदीऩमाग ऒप्पुक्कॊळ्ळप्पडुगिऱदु, स्वदन्दिरमाग इल्लै।
सा चावश्याभ्युपगन्तव्या। अर्थवती हि सा। न हि तया विना परमेश्वरस्य स्रष्टृत्वं सिध्यति। शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः। मुक्तानां च पुनरनुत्पत्तिः। कुतः ? विद्यया तस्या बीजशक्तेर्दाहात्। अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः ।
ज्ञानानन्द-भारती - द्राविडी
अदु अवसियम् ऒप्पुक्कॊळ्ळ वेण्डियदु, एऩॆऩ्ऱाल् अदु पिरयोजऩमुळ्ळदायिरुक्किऱदु। अदु इल्लामल् परमेसुवरऩुक्कु स्रुष्टिक्कुम् तऩ्मै एऱ्पडादल्लवा? सक्तियिल्लाद अवरुक्कु पिरविरुत्ति पॊरुन्दादिऩाल्, मुक्तर्गळुक्कुम् मऱुबडियुम् उत्पत्ति यिल्लामलिरुप्पदु (अदु इल्लामलिरुन्दाल् एऱ्पडादु)। एऩ्? वित्यैयिऩाल् अन्द पीज सक्ति ऎरिन्दु विडुवदाल् अन्द पीजसक्ति अवित्या स्वरूबमुळ्ळदु, अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् कुऱिप्पिडप्पडुवदु; परमेसुवरऩै आसिरयित्तुळ्ळदु, मायामयम्, पॆरियदुक्कम्, ऎदिल् स्वरूब अऱिविल्लामल् संसारिगळाऩ जीवर्गळ् पडुत्तिरुक्किऱार्गळो, अदु।
तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ (बृ. उ. ३। ८। ११) इति श्रुतेः; क्वचिदक्षरशब्दोदितम् — ‘अक्षरात्परतः परः’ (मु. उ. २। १। २) इति श्रुतेः; क्वचिन्मायेति सूचितम् — ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४। १०) इति मन्त्रवर्णात्। अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात्। तदिदं ‘महतः परमव्यक्तम्’ इत्युक्तम् — अव्यक्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान् ।
ज्ञानानन्द-भारती - द्राविडी
अन्द अव्यक्तम् ऎऩ्ऱ इदु सिलविडङ्गळिल् आगासम् ऎऩ्ऱ सप्तत्तिऩाल् कुऱिप्पिडप्पट्टिरुक्किऱदु: ‘हे कार्क्कि, इन्द अक्षरत्तिल् अल्लवा आगासम् कुऱुक्केयुम्, नॆडुगिलुम् कोर्क्कप्पट्टिरुक्किऱदु’ (पिरुहत् ३-८-११) ऎऩ्ऱ सुरुदियिऩाल्। सिलविडङ्गळिल् ‘अक्षरम्’ ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप्पट्टिरुक्किऱदु; ‘मेलेयुळ्ळ अक्षरत्तिऱ्कुम् मेले’ (मुण्डग २-१-२) ऎऩ्ऱ सुरुदियिऩाल् सिलविडङ्गळिल् ‘मायै’ ऎऩ्ऱु सूसिक्कप्पट्टिरुक्किऱदु; ‘मायैयै पिरगिरुदियॆऩ्ऱु अऱियवुम्, मायियागवे महेसुवरऩै’ (सुवेदा ४-१०) ऎऩ्ऱ मन्दिरवर्णत्तिऩाल्, अन्द मायै, अदुवॆऩ्ऱुम् अदऱ्कु वेऱु निरूबणम् सॆय्यमुडियाददिऩाल्, अव्यक्तम् ताऩे। आगैयाल्, ‘महत्तिऱ्कु मेल् अव्यक्तम्’ ऎऩ्ऱु इदु सॊल्लप्पट्टदु, महत् ऎऩ्बदु हिरण्यगर्प्परुडैय पुत्तियॆऩ्गिऱबोदु, महत् अव्यक्तत्तिलिरुन्दु उण्डोयिरुप्पदाल्।
यदा तु जीवो महान् तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम्। अविद्या ह्यव्यक्तम्; अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः सन्ततो वर्तते। तच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते। सत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम् , इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात्, परिशिष्टत्वाच्च शरीरस्य ॥
ज्ञानानन्द-भारती - द्राविडी
महत् ऎऩ्बदु जीवऩ् ऎऩ्गिऱबोदो, अप्पॊऴुदुम् जीवत्तऩ्मै अव्यक्कत्तिऱ्कु अदीऩमा यिरुप्पदाल्, महत्तिऱ्कु मेले अव्यक्तम् ऎऩ्ऱु सॊल्लप्पट्टदु, अवित्यैदाऩे अव्यक्तम्। अवित्यै युळ्ळवऩायिरुप्पदिऩालेये जीवऩुक्कु ऎल्ला व्यवहारमुम् तॊडर्न्दु इरुन्दु कॊण्डेयिरुक्किऱदु।
ज्ञानानन्द-भारती - द्राविडी
अदऩ् (अव्यक्तत्तिऩ्) विगारमागिय सरीरत्तिल् इरण्डिऱ्कुम् अबेदत्तै मऩदिल् कॊण्डु महत्तिऱ्कु मेलायिरुक्कुम् तऩ्मै, उबसारमाग कल्बिक्कप्पडुगिऱदु। सरीरत्तैप्पोलवे इन्दिरियङ्गळ् मुदलाऩवैगळुक् कुम् अदऩ् विगारमायिरुक्कुम् तऩ्मैयिल् वित्यासमिल् लामलिरुन्द पोदिलुम्, सरीरम् मात्तिरत्तिऱ्कुत्ताऩ्, अबेदत्तै ऎण्णि उबसारमाग, अव्यक्तम् ऎऩ्ऱ सप्तत्ताल् ऎडुत्तुक्कॊळ्वदु, इन्दिरियम् मुदलिय वैगळ् अन्दन्द सप्तङ्गळिऩालेये किरहिक्कप्पट्टि रुप्पदालुम् सरीरम् मात्तिरम् मीदमिरुप्पदिऩालुम्।
अन्ये तु वर्णयन्ति — द्विविधं हि शरीरं स्थूलं सूक्ष्मं च; स्थूलम् , यदिदमुपलभ्यते; सूक्ष्मम् , यदुत्तरत्र वक्ष्यते — ‘तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्’ (ब्र. सू. ३। १। १) इति। तच्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन सङ्कीर्तितम्; इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात्; तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवात्तस्य परत्वम्। यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति ।
ज्ञानानन्द-भारती - द्राविडी
वेऱु सिलर् सॊल्गिऱार्गळ्; सरीरम् स्तूलम् सूक्ष्मम् ऎऩ्ऱु इरण्डु विदमल्लवा? ऎन्द इदु तॆरिगिऱदो अदु स्तूलम्; सूक्ष्मम् ऎऩ्बदु मेलाल् ‘वेऱु तेहत्तै अडैयुम्बोदु पूदसूक्ष् मङ्गळुडऩ् कूडप्पोगिऱाऩ् केळ्वियिलिरुन्दुम् निरूबणत्तिलिरुन्दुम्’ (सूत्रम् ३-१-१) ऎऩ्ऱु ऎदु सॊल्लप्पडप्पोगिऱादो अदु। अन्द इरण्डुविद सरीरमुमे वित्यासमऩ्ऩियिल् मुऩ्ऩाल् रदमाग सॊल्लप्पट्टिरुक्किऱदु। इङ्गेयो सूक्ष्म सरीरम् अव्यक्त सप्तत्तिऩाल् सॊल्लप्पडुगिऱदु।
ज्ञानानन्द-भारती - द्राविडी
सूक्ष्मत्तिऱ्कु अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् कुऱिप्पिड अर्हदैयिरुप्पदाल्, अदऱ्कु अदीऩमागवे पन्दम् मोक्षम् ऎऩ्ऱ व्यवहारम् इरुप्पदाल्, अदऱ्कु जीवऩुक्कु मेलागविरुक्कुम् तऩ्मै; ऎप्पडि इन्दिरियङ् गळिऩ् वियाबारम् विषयङ्गळुक्कु अदीऩमाय् इरुप्पदाल्, इन्दिरियङ्गळुक्कु मेलागविरुक्कुम् तऩ्मै विषयङ् गळुक्कु सॊल्लप्पट्टदो अप्पडि, ऎऩ्ऱु।
तैस्त्वेतद्वक्तव्यम् — अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन सङ्कीर्तितत्वात् , समानयोः प्रकृतत्वपरिशिष्टत्वयोः, कथं सूक्ष्ममेव शरीरमिह गृह्यते, न पुनः स्थूलमपीति। आम्नातस्यार्थं प्रतिपत्तुं प्रभवामः, नाम्नातं पर्यनुयोक्तुम् , आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति, नेतरत् , व्यक्तत्वात्तस्येति चेत् , न। एकवाक्यताधीनत्वादर्थप्रतिपत्तेः। न हीमे पूर्वोत्तरे आम्नाते एकवाक्यतामनापद्य कञ्चिदर्थं प्रतिपादयतः; प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात्। न चाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्तिरस्ति। तत्राविशिष्टायां शरीरद्वयस्य ग्राह्यत्वाकाङ्क्षायां यथाकाङ्क्षं सम्बन्धेऽनभ्युपगम्यमाने एकवाक्यतैव बाधिता भवति, कुत आम्नातस्यार्थस्य प्रतिपत्तिः ?
ज्ञानानन्द-भारती - द्राविडी
आऩाल् अवर्गळाल् इदु सॊल्लप्पड वेण्डुम्, वित्यासिमिल्लामल् इरण्डुविद सरीरमुम्, मुऩ्ऩाल् रदमाग सॊल्लप्पट्टिरुप्पदाल् पिरगिरुद मायिरुक्कुम् तऩ्मै, मीदप्पडुम् तऩ्मै इरण्डुम् पॊदुवागयिरुक्कुम्, पोदु सूष्मसरीरम् मात्तिरम् इङ्गे ऎडुत्तुक्कॊळ्ळप्पडुगिऱदु। स्तूल सरीरम् ऎडुत्तुक्कॊळ्ळप्पडविल्लै, ऎऩ्बदु ऎप्पडि? सॊल्लि यिरुप्पदिऩुडैय अर्त्तत्तै अऱिन्दुगॊळ्ळ मात्तिरम् नमक्कु अदिगारमे तविर, सॊल्लियिरुप्पदै आक्षिेबिक् अदिगारम् किडैयादु। सॊल्लियिरुक्किऱ अव्यक्तम् ऎऩ्ऱ वार्त्तै सूक्ष्मत्तैत् ताऩ् ऎडुत्तुक्काट्टमुडियुम्, वेऱु ऎदैयुम् मुडियादु अदु व्यक्तमायिरुप्पदाल्, ऎऩ्ऱाल्, अप्पडियल्ल, अर्त्तत्तै अऱिदल् ऒरे वाक्कियत्तऩ्मैक्कु अदीऩ मायिरुप्पदाल्, मुऩ्बिऩ् सॊल्लप्पट्टिरुक्किऱ इवै ऒरे वाक्किय मायिरुक्कुम्। तऩ्मैयै अडैयामल् ऎव्विद अर्त्तत्तैयुम् ऎडुत्तुक्काट्टुवदिल्लै, पिरगिरुदत्तै विडुवदु पिरगिरुदमिल्लाददै ऎडुप्पदु ऎऩ्ऱ तोषमेऱ्पडुमाऩदिऩाल्, आगाङ्ग्षैयऩ् ऩियिलो ऒरे वाक्कियमॆऩ्गिऱ अऱिवु एऱ्पडादु। अप्पडि यिरुप्पदाल्, ऎडुत्तुक्कॊळ्ळवेण्डिय आगाङ्ग्षै इरण्डु सरीरत्तिऱ्कुम् वित्यासमऩ्ऩियिल् पॊदुवाग इरुक्कुम् पोदु, आगाङ्ग्षैयै अऩुसरित्तु सम्बन्दम् ऒप्पुक्कॊळ्ळप्पड विल्लैयाऩाल्, ऒरे वाक्किय मॆऩ्बदे पादिक्कप्पट्टुविडुम्; अप्पॊऴुदु सॊल्लि इरुप्पदिऩ् अर्त्तत्तिऩ् अऱिवु ऎप्पडि एऱ्पडुम्?
न चैवं मन्तव्यम् — दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणम् , स्थूलस्य तु दृष्टबीभत्सतया सुशोधत्वादग्रहणमिति। यतो नैवेह शोधनं कस्यचिद्विवक्ष्यते। न ह्यत्र शोधनविधायि किञ्चिदाख्यातमस्ति। अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते। तथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा, ‘पुरुषान्न परं किञ्चित्’ इत्याह। सर्वथापि त्वानुमानिकनिराकरणोपपत्तेः, तथा नामास्तु; न नः किञ्चिच्छिद्यते ॥ ३ ॥
ज्ञानानन्द-भारती - द्राविडी
सिरमप्पट्टु सोदिक्क वेण्डियिरुप्पदाल् सूक्ष्म सरीरत्तिऱ्कुत्ताऩ् इङ्गे ऎडुत्तुक्कॊळ्ळल्, स्तूलत्तिऱ्को वॆऱुक्कप्पडुम् तऩ्मै नेरिल् पार्क्कप्पट्टबडियाल् सुलबमाग सोदिक्कक्कूडियदाल् इङ्गे ऎडुत्तुक्कॊळ्ळविल्लै, ऎऩ्ऱु इव्विदम् ऎण्णक्कूडादु; एऩॆऩ्ऱाल्, इङ्गे ऎदु विषय मागवुम् सोदिप्पदु ऎऩ्बदे सॊल्ल उत्तेसिक्कप् पडविल्लै। इङ्गु सोदिप्पदै विदिक्कुम् ऎव्विद वार्त्तैयुम् इल्लै। अडुत्ताऱ्पोल् सॊल्लप्पट्टि रुप्पदिऩालो, अन्द विष्णुविऩ् परमबदम् ऎदु ऎऩ्ब तऱ्कु इदु ऎऩ्ऱु इङ्गे सॊल्ल विरुम्बप् पडुगिऱदु। अप्पडिये इदु इदैविड मेलाऩदु, इदु इदैविड मेलाऩदु ऎऩ्ऱु सॊल्लि ‘पुरुषऩुक्कु मेल् ऎदुवुमिल्लै’ ऎऩ्ऱु सॊल्गिऱदु।
ज्ञानानन्द-भारती - द्राविडी
ऎप्पडियिरुन्दालुम् आऩुमाऩिगत्तिऱ्कु (पिरदा ऩत्तिऱ्कु) निरागरणम् पॊरुन्दुमाऩदिऩाल्, अप्पडिये वेण्डुमाऩालुम् इरुक्कट्टुम्; ऎङ्गळुक्कु ऎदुवुम् कॆट्टुविडविल्लै।
ज्ञेयत्वावचनाच्च ॥ ४ ॥
ज्ञानानन्द-भारती - द्राविडी
ज्ञेयत्वावसनाच्च ॥ ४ ॥
ज्ञेयत्वेन च साङ्ख्यैः प्रधानं स्मर्यते, गुणपुरुषान्तरज्ञानात्कैवल्यमिति वदद्भिः — न हि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति। क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति। न चेदमिहाव्यक्तं ज्ञेयत्वेनोच्यते। पदमात्रं ह्यव्यक्तशब्दः, नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति। न चानुपदिष्टं पदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम्। तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते। अस्माकं तु रथरूपककॢप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम् ॥ ४ ॥
ज्ञानानन्द-भारती - द्राविडी
कुणत्तिऱ्कुम् पुरुषऩुक्कुमुळ्ळ पेदत्तै अऱिवदिऩाल् कैवल्यम् ऎऩ्ऱु सॊल्लुम् साङ्गियर्गळाल् पिरदाऩम् अऱियप्पडवेण्डियदाग सॊल्लप्पडुगिऱदु। कुणङ्गळिऩ् स्वरूबत्तै अऱियामल् कुणङ्गळिलिरुन्दु पुरुषऩुक्कुळ्ळ पेदत्तै अऱिय मुडियादल्लवा ऎऩ्ऱु। सिल विडङ्गळिल् सिऱन्द विबूदिगळै अडैवदऱ्कागवुम् पिरदाऩम् अऱियप्पड वेण्डुमॆऩ्ऱु स्मरिक्कप् पडुगिऱदु। इङ्गेयो इन्द अव्यक्तम् अऱियप्पड वेण्डियदाग सॊल्लप्पडविल्लै; वॆऱुम् वार्त्तैयागिय अव्यक्तम् ऎऩ्ऱ सप्तम्दाऩ् इरुक्किऱदु। इङ्गु अव्यक्तम् अऱियप्पडवेण्डियदु उबासिक्क वेण्डियदु ऎऩ्ऱु वाक्कियमिल्लै। उबदेसम् सॆय्यप्पडाद पदार्त्तत्तिऩ् ञाऩम् पुरुषार्त्तम् ऎऩ्ऱु अऱिय मुडियादु। आगैयिऩालुम् अव्यक्तम् ऎऩ्ऱ प्तत्तिऩाल् पिरदाऩम् सॊल्लप्पडविल्लै। ऎङ्गळुक्को, रदरूबमागक् कल्बिक्कप्पट्ट सरीरम् मुदलियदै अऩुसरित्तु विष्णुविऩ् परमबदत्तै काट्टुवदऱ्कागवे इन्द उबऩ्यास मॆऩ्बदाल्, तोषमऱ्ऱदु।
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
ज्ञानानन्द-भारती - द्राविडी
वददीदि सेन्न: प्राज्ञो हि प्रगरणात् ॥ ५ ॥
अत्राह साङ्ख्यः — ज्ञेयत्वावचनात् , इत्यसिद्धम्। कथम् ? श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम् — ‘अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १। ३। १५) इति। अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम्, तादृशमेव निचाय्यत्वेन निर्दिष्टम्। तस्मात्प्रधानमेवेदम्। तदेव चाव्यक्तशब्दनिर्दिष्टमिति ।
ज्ञानानन्द-भारती - द्राविडी
इङ्गु साङ्गियऩ् सॊल्लुगिऱाऩ्; “अऱिय वेण्डियदाग सॊल्लाददिऩाल्” ऎऩ्बदु सित्त मिल्लै। एऩ्? मेले अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप्पडुगिऱ पिरदाऩत्तिऱ्कु अऱियप्पडुम् वसऩम् सॊल्लप्पट्टिरुक्किऱदे? “सप्तमऱ्ऱदु, स्पर्समऱ्ऱदु, रूबमऱ्ऱदु, कुऱैवऱ्ऱदु, अप्पडिये रसमऱ्ऱदु, नित्यमायुळ्ळदु, कन्दमऱ्ऱदु, ऎदुवो अन्द आदियुम् अन्दमुमऱ्ऱदाय् महत्तिऱ्कु मेलेयुळ्ळदाय्, स्तिरमाय्, इरुक्किऱ अदै अऱिन्दु मिरुत्युविऩ् वायिलिरुन्दु नऩ्गु विडुबडुगिऱाऩ्” (काडग।२-३-१५) ऎऩ्ऱु। इङ्गेयो सप्तम् मुदलियदिल्लाददाय् महत्तिऱ्कु मेलाऩदाय् ऎव्विदम् पिरदाऩम् साङ्ग्य स्मिरुदियिल् वर्णिक्कप्पट्टिरुक्किऱदो, अव्विदमा युळ्ळदे अऱियप्पड वेण्डियदाग कुऱिप्पिडप् पट्टिरुक्किऱदु। आगैयाल् इदु पिरदाऩम् ताऩ्। अदुवेदाऩ् अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् कुऱिप्पिडप् पट्टिरुप्पदु, ऎऩ्ऱु।
अत्र ब्रूमः — नेह प्रधानं निचाय्यत्वेन निर्दिष्टम्। प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यते। कुतः ? प्रकरणात्। प्राज्ञस्य हि प्रकरणं विततं वर्तते — ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ इत्यादिनिर्देशात्, ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते’ इति च दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात्, ‘यच्छोद्वाङ्मनसी प्राज्ञः’ इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्। मृत्युमुखप्रमोक्षणफलत्वाच्च ।
ज्ञानानन्द-भारती - द्राविडी
इङ्गु सॊल्गिऱोम्; इङ्गु अऱियप्पड वेण्डियदाय् पिरदाऩम् सॊल्लप्पडविल्लै। पिराक्ञऩाऩ परमात्मा अल्लवा अऱियप्पड वेण्डियदाग इङ्गे कुऱिप्पिडप्पट्टिरुक्किऱदु? एऩ्? पिरगरणत्तिऩाल्; पिराक्ञऩुडैय पिरगरणमल्लवा विस्तारमाग इरुन्दु वरुगिऱदु? ‘पुरुषऩुक्कु मेल् ऎदुवुम् किडैयादु। अदु ऎल्लै। अदु मेलाऩ कदि’ ऎऩ्बदु मुदलाऩदु कण्डिरुप्पदिऩालुम्; ‘इन्द आत्मा ऎल्ला पिराणिगळिलुम् ऒळिन्दुगॊण्डु पिरगासिप्पदिल् लै’ ऎऩ्ऱु अऱियप्पडाद तऩ्मैयै सॊल्वदिऩाल् अवरुक्के अऱियप्पडुम् तऩ्मै ऎदिर्बार्क्कप्पडुव तालुम्; ‘पिराक्ञऩ् वाक्कै मऩसिल् अडक्क वेण्डुम्’ ऎऩ्ऱु अवरै अऱिवदऱ्कागवे वाक्कु मुदलियदै अडक्कुवदु विदिक्कप्पट्टिरुप्पदालुम्; मिरुत्युविऩ् वायिलिरुन्दु विडुबडुवदु पलऩायिरुप्पदिऩालुम्।
न हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति साङ्ख्यैरिष्यते। चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमः। सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यते। तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा ॥ ५ ॥
ज्ञानानन्द-भारती - द्राविडी
पिरदाऩत्तै मात्तिरम् अऱिन्दु मिरुत्युविऩ् वायिलिरुन्दु विडुबडुगिऱाऩ् ऎऩ्ऱु साङ्गियर्गळाल् ऒप्पुक्कॊळ्ळप्पडुवदिल्लैये; सेदऩऩाऩ आत्मावै अऱिवदिऩाल्लवा मिरुत्युविऩ् वायिलिरुन्दु विडुबडु किऱाऩ् ऎऩ्ऱु अवर्गळ् ऒप्पुक्कॊळ्वदु?
ज्ञानानन्द-भारती - द्राविडी
ऎल्ला उबनिषत्तुक्कळिलुम् पिराक्ञऩाऩ आत्माविऱ्के सप्तमऱ्ऱदु मुदलिय तर्मत्तुडऩिरुक्कुम् तऩ्मै सॊल्लप्पडुगिऱदु। आगैयाल् इङ्गे पिरदाऩत्तिऱ्कु अऱियप्पडुम् तऩ्मैयो अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् कुऱिप्पिडप्पडुम् तऩ्मैयो किडैयादु।
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
ज्ञानानन्द-भारती - द्राविडी
त्रयाणामेव सैवमुबन्यास: प्रच्नच्च ॥ ६ ॥
इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा; यस्मात्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यते। तद्विषय एव च प्रश्नः। नातोऽन्यस्य प्रश्न उपन्यासो वास्ति। तत्र तावत् ‘स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्’ (क. उ. १। १। १३) इत्यग्निविषयः प्रश्नः । ‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १। १। २०) इति जीवविषयः प्रश्नः । ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १। २। १४) इति परमात्मविषयः ।
ज्ञानानन्द-भारती - द्राविडी
इदऩालुम् पिरदाऩत्तिऱ्कु । अव्यक्तम् ऎऩ्ऱ सप्तत्तिऩाल् सॊल्लप्पडुम् तऩ्मैयो अऱियप्पडुम् तऩ्मैयो किडैयादु। एऩॆऩ्ऱाल्, इन्द किरन्दत्तिल् कडवल्लिगळिल् अक्ऩि जीवऩ् परमात्मा ऎऩ्ऱ मूऩ्ऱु विषयङ्गळुक्कुत्ताऩ्, वरऩ्गॊडुत्त पलत्तिऩाल् सॊल्लवेण्डियदाग उबन्यासम् काणप्पडुगिऱदु। अवै विषयमागवे ताऩ् केळ्वियुम्। इदैविड वेऱु विषयमाग केळ्वियो उबन्यासमो किडैयादु। अवैगळुक्कुळ्, ‘हे मिरुत्यो अन्द नीर् स्वर्क्क सादऩमाऩ ऎन्द अक्ऩियै अऱिन्दिरुक्किऱीरो, सिरत्तैयुडऩिरुक्कुम् ऎऩक्कु अदैच्चॊल्लुम्’ (काडग १-१-१३) ऎऩ्ऱु अक्ऩि विषयमाऩ केळ्वि। ‘मऩुष्यऩ् इऱन्दुविट्टाल् इरुक्किऱाऩ् ऎऩ्ऱु सिलर्, इल्लै यॆऩ्ऱु सिलर्, ऎऩ्ऱु ऎन्द इन्द सन्देहमो अदै उम्माल् उबदेसिक्कप्पट्टु नाऩ् अऱिय वेण्डुम्; इदु वरऩ्गळुक्कुळ् मूऩ्ऱावदु वरऩ्’ (काडग।१-१-२०) ऎऩ्ऱु जीव विषयमाऩ केळ्वि। ‘तर्मत्तिलिरुन्दु वेऱायुम् अदर्मत्तिलिरुन्दु वेऱायुम्, इन्द सॆय्यप्पट्टदु, सॆय्यप्पडाददु इवैगळिलिरुन्दु वेऱायुम्, उण्डाऩ तिलिरुन्दु वेऱायुम् उण्डागप्पोवदिलिरुन्दुम् वेऱायुम् ऎदैप् पार्क्किऱीरो अदैच् चॊल्लुम्’ (काडग १-२-१४) ऎऩ्ऱु परमात्म विषयमाऩ केळ्वि।
प्रतिवचनमपि — ‘लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’ (क. उ. १। १। १५) इत्यग्निविषयम् । ‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्। यथा च मरणं प्राप्य आत्मा भवति गौतम ।’ (क. उ. २। २। ६) ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (क. उ. २। २। ७) इति व्यवहितं जीवविषयम् । ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १। २। १८) इत्यादिबहुप्रपञ्चं परमात्मविषयम्। नैवं प्रधानविषयः प्रश्नोऽस्ति। अपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति ॥
ज्ञानानन्द-भारती - द्राविडी
पदिल् सॊल्वदुम् ‘उलगत्तिऱ्कु कारणमाऩ अन्द अक्ऩियै अवऩुक्कु सॊऩ्ऩार्; ऎऩ्ऩ कऱ्कळ्, ऎत्तऩै, ऎप्पडियुळ्ळवै ऎऩ्ऱुम्’ (काडग १-१-१५) ऎऩ्बदु अक्ऩि विषयमाऩदु। ‘उऩक्कु इप्पॊऴुदु इन्द रहस्यमाय् ऎप्पॊऴुदुमुळ्ळ इन्द पिरह्मत्तैच् चॊल्गिऱेऩ्; मरणत्तै अडैन्द पिऱगु आत्मा ऎप्पडि यिरुक्किऱदु ऎऩ्ऱु, हे कौदमा; तेहमुळ्ळवर्गळ् सिलर् (वेऱु) तेहम् अडैवदऱ्काग योऩियै अडैगिऱार्गळ्। सिलर् स्तावरत्तैयडैगिऱार्गळ्, अवरवर्गळ् कर्माविऱ्कुत् तक्कबडि, अवरवर् अऱिविऱ्कुत् तक्कबडि’ (काडग २-५-६,७) ऎऩ्ऱु कॊञ्जम् तळ्ळि जीवविषयमायुळ्ळदु। ‘अऱिवु स्वरूबरायिरुप्पवर् पिऱप्पदुमिल्लै इऱप्पदुमिल्लै’ ऎऩ्बदु मुदलाऩदु वॆगु विस्तारमाय् परमात्म विषयमायुळ्ळदु।
ज्ञानानन्द-भारती - द्राविडी
इव्विदम् पिरदाऩ विषयमाग केळ्वि किडैयादु; केट्कप्पडाददिऩाल् अदऱ्कु उबऩ्यासम् सॆय्य वेण्डियदऩ्मैयुम् किडैयादु ऎऩ्ऱु।
अत्राह — योऽयमात्मविषयः प्रश्नः — ‘येयं प्रेते विचिकित्सा मनुष्येऽस्ति’ इति, किं स एवायम् ‘अन्यत्र धर्मादन्यत्राधर्मात्’ इति पुनरनुकृष्यते, किं वा ततोऽन्योऽयमपूर्वः प्रश्न उत्थाप्यत इति। किं चातः ? स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत, तदा द्वयोरात्मविषययोः प्रश्नयोरेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नोपन्यासाविति। अथान्योऽयमपूर्वः प्रश्न उत्थाप्यत इत्युच्येत, ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोषः; एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति ॥
ज्ञानानन्द-भारती - द्राविडी
इङ्गु सॊल्गिऱाऩ्; ‘मऩुष्यऩ् इऱन्दु विट्टाल् इरुक्किऱाऩा इल्लैया ऎऩ्ऱु इन्द सन्देहम्’ ऎऩ्ऱु आत्म विषयमाग ऎन्द इन्द केळ्वियो, अदुवेदाऩ् इन्द ‘तर्मत्तिऱ्कु वेऱाग अदर्मत्तिऱ्कु वेऱाग’ ऎऩ्ऱ इदुवाग मऱुबडियुम् तॊडर्न्दु केट्कप्पडुगिऱदा? अल्लदु अदैक् काट्टिलुम् वेऱाग इन्दप्पुदिय केळ्वि किळप्पप् पडुगिऱदा? ऎऩ्ऱु। ऎप्पडियिरुन्दाल् ऎऩ्ऩ? अदे इन्द केळ्वि मऱुबडियुम् तॊडर्न्दु केट्कप् पडुगिऱदॆऩ्ऱु सॊऩ्ऩाल् आत्म विषयमाऩ इरण्डु केळ्विगळुम् ऒऩ्ऱागप्पोय् विडुगिऱबडियाल्, अक्ऩि विषयम् आत्म विषयम् ऎऩ्ऱु इरण्डे केळ्विगळ् इरुप्पदाल्, मूऩ्ऱुक्कु केळ्वि उबन्यासम् ऎऩ्ऱु सॊल्लक्कूडादु।
ज्ञानानन्द-भारती - द्राविडी
अल्लदु इन्दक् केळ्वि वेऱाग पुदिदाग किळप्पप्पट्टदु ऎऩ्ऱु सॊऩ्ऩाल्, अप्पॊऴुदु वरऩ् कॊडुत्तदैत् तविर अदिगमाग केळ्वियै कल्बिप्पदिल् तोषमिल्लैयॆऩ्ऱु ऎप्पडि आगुमो, अव्विदमे केळ्विगळैत्तविरवुम् वेऱाग (केळ्वियिल्लामले) पिरदाऩ विषयमाऩ उबन्यासत्तै कल्बिप्पदुम् तोषमिल्लैयॆऩ्ऱु आगुम्। ऎऩ्ऱु।
अत्रोच्यते — नैव वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात्। वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः आ समाप्तेः कठवल्लीनां लक्ष्यते। मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ। नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् — ‘येयं प्रेते’ इति ‘वराणामेष वरस्तृतीयः’ (क. उ. १। १। २०) इति लिङ्गात्। तत्र यदि ‘अन्यत्र धर्मात्’ इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येत ।
ज्ञानानन्द-भारती - द्राविडी
इव्विषयत्तिल् सॊल्लप्पडुगिऱदु; नाङ्गळ् इव्विदम् इङ्गे वरऩ् कॊडुत्तदैत् तविर वेऱाग ऎव्विद केळ्वियैयुम् कल्बिक्कविल्लै। वाक्कियत्तिऩ् आरम्बत्तिऩुडैय पलत्तिऩाल् वरऩ् कॊडुत्तदै आरम्बमुळ्ळदाग मिरुत्युविऱ्कुम् नसिगेदसुक्कुम् संवाद रूबमाग, कडवल्लिगळ् मुडियुंवरै, वाक्कि यङ्गळिऩ् पिरविरुत्ति काणप्पडुगिऱदु। पिदाविऩाल् अऩुप्पप्पट्ट नसिगेदसुक्कु मिरुत्यु मूऩ्ऱु वरऩ्गळैक् कॊडुत्तार्। अवैगळिल् मुदल् वरऩाग नसिगेदस् पिदाविऩुडैय सौमऩस्यत्तै (सुमुगमायिरुक्क वेण्डुमॆऩ्बदै) केट्टाऩ्; इरण्डावदाग अक्ऩि वित्यैयै; मूऩ्ऱावदाग आत्म वित्यैयै। ‘इऱन्दाल् ऎदु - वरऩ्गळुक्कुळ् इदु मूऩ्ऱावदु’ (काडग १-१-२० ऎऩ्ऱ लिङ्गत्तिलिरुन्दु, अप्पडियिरुक्कैयिल् ‘तर्मत्तिऱ्कु वेऱाग’ ऎऩ्ऱु वेऱु पुदिदाग केळ्वि किळप्पप्पट्टदेयाऩाल् अप्पॊऴुदु वरऩ् कॊडुत्तदैत्तविर वेऱाग केळ्वियै कल्बिप्पदाल् वाक्कियम् पादिक्कप्पडुम्।
ननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हति। पूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात्। जीवश्च धर्मादिगोचरत्वात् न ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति। प्राज्ञस्तु धर्माद्यतीतत्वात् ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति। प्रश्नच्छाया च न समाना लक्ष्यते। पूर्वस्यास्तित्वनास्तित्वविषयत्वात् , उत्तरस्य धर्माद्यतीतवस्तुविषयत्वात्। तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः;
ज्ञानानन्द-भारती - द्राविडी
केट्कवेण्डिय विषयत्तिल् पेदमिरुप्पदाल्, इन्द केळ्वि पुदिदायिरुप्पदे न्यायम् अल्लवा? मुऩ्ऩुळ्ळ केळ्वियो जीवऩै विषयमायुळ्ळदु,
ज्ञानानन्द-भारती - द्राविडी
‘मऩुष्यऩ् इऱन्दाल् इरुक्किऱाऩा इल्लैया ऎऩ्ऱु ऎन्द इन्द सन्देहमो’ ऎऩ्ऱु सन्देहत्तै सॊल्वदिऩाल्। जीवऩो तर्मम् मुदलाऩदिऱ्कु उळ्बट्टिरुप्पदाल्, ‘तर्मत्तिऱ्कु वेऱाग’ ऎऩ्ऱ केळ्विक्कु विषयमागादु। पिराक्ञऩो तर्मम् मुदलियदैक् कडन्दिरुप्पदाल् ‘तर्मत्तिऱ्कु वेऱाग’ ऎऩ्ऱ केळ्विक्कु उरियवऩ्। केळ्विगळिऩ् मुऱैयुम् ऒरे मादिरियिल्लै, मुऩ्ऩुळ्ळदु ‘इरुक्किऱाऩो इल्लैया’ ऎऩ्बदै विषयमायुळ्ळदु, पिऩ्ऩालुळ्ळदु तर्मम् मुदलियदिऱ्कु अदीदमाऩ वस्तुवै विषयमायुळ्ळदु, ऎऩ्बदिऩाल्। अदिल् पिरत्यबिक्ऩञ (अदुदाऩ् इदु ऎऩ्ऱ ञाबगम्) इल्लाददिऩाल् केळ्विगळ् वॆव्वेऱु।
न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्। न; जीवप्राज्ञयोरेकत्वाभ्युपगमात्। भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात्। न त्वन्यत्वमस्ति, ‘तत्त्वमसि’ इत्यादिश्रुत्यन्तरेभ्यः। इह च ‘अन्यत्र धर्मात्’ इत्यस्य प्रश्नस्य प्रतिवचनम् ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १। २। १८) इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति। सति हि प्रसङ्गे प्रतिषेधो भागी भवति। प्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, न परमेश्वरस्य ।
ज्ञानानन्द-भारती - द्राविडी
मुऩ्ऩुळ्ळदिऱ्के पिऩ्ऩाल् तॊडर्बु ऎऩ्बदु इल्लै ऎऩ्ऱाल्, अप्पडियल्ल, जीवऩुक्कुम्, पिराक्ञ ऩुक्कुम् ऒऩ्ऱायिरुक्कुम् तऩ्मै ऒप्पुक्कॊळ्ळप्पडुगिऱ पडियाल्। जीवऩ् पिराक्ञऩैविड वेऱायिरुन्दाल्, केट्क वेण्डियदिल् पेदमिरुप्पदाल्, केळ्वियिल् पेदम् एऱ्पडुम्। आऩाल् वेऱ्ऱुमै ऎऩ्बदु इल्लै, ‘तत् त्वम् असि’ ऎऩ्बदु मुदलाऩ वेऱु सुरुदिगळाल्। इङ्गेयुम्, ‘तर्मत्तिऱ्कु वेऱाग’ ऎऩ्ऱ केळ्विक्कु ‘ञाऩस्वरूबऩ्, पिऱप्पदिल्लै, इऱप्पदुमिल्लै’ ऎऩ्ऱु पिऱप्पु इऱप्पु इवैगळै मऱुत्तु सॊल्लप्पडुम् पदिलुम्, सारीरऩुक्कुम् परमेसुवरऩुक्कुम् पेदमिल्लामैयै काट्टुगिऱदु। एऱ्पडुम् ऎऩ्ऱिरुन्दाल्लवा मऱुप्पु उसिदमागुम्? सरीर सम्बन्दमिरुप्पदाल् सारीरऩुक्कु पिऱप्पु, इऱप्पु इवै वरलाम्। परमेसुवरऩुक्कु पिरसक्तियेयिल्लै।
तथा — ‘स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ (क. उ. २। १। ४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति। प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः। तथाग्रे — ‘यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (क. उ. २। ४। १०) इति जीवप्राज्ञभेददृष्टिमपवदति ।
ज्ञानानन्द-भारती - द्राविडी
मेलुम्, ‘स्वप्ऩावस्त्तै जागरावस्त्तै, इवै इरण्डैयुम् ऎवराल् पार्क्किऱाऩो, अन्द पॆरिय वियाबगराऩ आत्मावै अऱिन्दु तीरऩ् सोगमडैवदिल्लै’ (काडग। ३-४-४) ऎऩ्ऱु स्वप्ऩ जागरङ्गळै पार्क्किऱ, पॆरियदायिरुक्कुम् तऩ्मै वियाबगमायिरुक्कुम् तऩ्मै इवैगळै विसेषण मायुडैय, जीवऩैये अऱिवदिऩाल् सोगम् विलगु वदैक् काट्टुगिऱ वेदम्, पिराक्ञऩैविड जीवऩ् वेऱु इल्लैयॆऩ्ऱु काट्टुगिऱदु। पिराक्ञऩै अऱिवदिऩाल् अल्लवा सोगम् विलगुदल् ऎऩ्बदु वेदान्द सित्तान्दम्। अप्पडिये मेलेयुम् ‘ऎदु इङ्गेयो अदुदाऩ् अङ्गेयुम् ऎदु अङ्गेयो अदैयऩुसरित् तुत्ताऩ् इङ्गे। इदऩिडत्तिल् ऎवऩ् पलबोल पार्क्किऱाऩो अवऩ् मिरुत्युविलिरुन्दु मिरुत्युवै अडैगिऱाऩ्’ (काडग २-४-१०) ऎऩ्ऱु जीवऩुक्कुम् पिराक्ञऩुक्कुम् पेदत्तैप् पार्प्पदैत् तडुक्किऱदु।
तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् ‘अन्यं वरं नचिकेतो वृणीष्व’ इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा न चचाल, तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च ‘विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त’ (क. उ. १। २। ४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच — ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १। २। १२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यते ।
ज्ञानानन्द-भारती - द्राविडी
अप्पडिये, जीवविषयमाग इरुक्किऱाऩा इल्लैया ऎऩ्ऱ केळ्विक्कुप् पिऱ्पाडु ‘हे नसिगेदस्, वेऱु वरऩैक्केळ्’ ऎऩ्ऱु आरम्बित्तु मिरुत्युविऩाल् अन्दन्द कामङ्गळाल् आसै काट्टप्पट्टुम्गूड ऎप्पॊऴुदु नसिगेदस् असैया मलिरुन्दाऩो अप्पॊऴुदु मिरुत्यु, अप्युदयम् निसिरेयसम् ऎऩ्ऱ पिरिवैक्काट्टि, वित्यै अवित्यै ऎऩ्ऱ पिरिवैयुम् काट्टि ‘वॆगुवायुळ्ळ कामङ्गळ् उऩ्ऩै आसैप्पडच् चॆय्यविल्लै, वित्यैयैये अडैय विरुम्बु किऱवऩाग नसिगेदसै ऎण्णुगिऱेऩ्’ (काडग १-२-४) ऎऩ्ऱु अवऩै सिलागित्तुविट्टु, अवऩुडैय केळ्वियैयुम् सिलागित्तुक्कॊण्डु सुलबमाग अऱिय मुडियाददाय्, ऒळिन्दिरुप्पदाय्, उळ्ळे पुगुन्दिरुप्पदाय्, कुहैयिल् वैक्कप्पट्टिरुप्पदाय्, आऴत्तिल् इरुप्प ताय्, पुराणमाय् इरुक्कुम् तेवऩै (स्वयम् पिरगाास माऩदै) अत्यात् मयोगत्तै अडैवदिऩाल् अऱिन्दु तीरऩ् हर्षत्तैयुम् सोगत्तैयुम् विट्टुविडुगिऱाऩ्’ (काडग।१-२-१२) ऎऩ्ऱु ऎदु सॊऩ्ऩारो, अदिऩालुम्गूड जीवऩुक्कुम् पिराक्ञऩुक्कुम् अबेदम्दाऩ् इङ्गे सॊल्ल उत्तेसिक्कप्पट्टदु ऎऩ्ऱु तॆरिगिऱदु।
यत्प्रश्ननिमित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् , अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात्। तस्मात् ‘येयं प्रेते’ इत्यस्यैव प्रश्नस्यैतदनुकर्षणम् ‘अन्यत्र धर्मात्’ इति। यत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् , तददूषणम्। तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात्। पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् , उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इति। यावद्ध्यविद्या न निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते। तन्निवृत्तौ तु प्राज्ञ एव ‘तत्त्वमसि’ इति श्रुत्या प्रत्याय्यते ।
ज्ञानानन्द-भारती - द्राविडी
ऎन्द केळ्वि निमित्तमाग नसिगेदस् मिरुत्यु विऩुडैय विसेषमाऩ सिलागिप्पदैप् पॆऱ्ऱाऩो, अदै विट्टुविट्टु सिलागित्तदिऱ्कुप् पिऱगु वेऱु केळ्वियैये केट्टिरुप्पाऩेयाऩाल्, विस्तारमाग सिलागित्तदु अदु ऎल्लाम् उसिदमिल्लामल् पोय्विडुम्। आगैयाल् इऱन्दाल् ऎन्द इदु’ ऎऩ्ऱ इन्द केळ्वियिऩुडैय तॊडर्च्चिदाऩ् ‘तर्मत्तिऱ्कु वेऱाग’ ऎऩ्ऱ इदु।
ज्ञानानन्द-भारती - द्राविडी
केळ्विगळिऩ् मुऱैयिल् वित्यासमिरुक्किऱ तॆऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदु तोषमिल्लै। अदऩुडैय विसेषत्तैये मऱुबडियुम् केट्पदाल्। मुऩ्ऩाल् तेहम् मुदलियदिऱ्कु वेऱायुळ्ळ आत्माविऩ् इरुप्पु केट्कप्पट्टदु; पिऱ्पाडो अदऱ्के संसारियऱ्ऱ तऩ्मै केट्कप्पडुगिऱदु ऎऩ्ऱु। ऎदुवरै अवित्यै विलगविल्लैयो अदु वरै जीवऩुक्कु तर्मम् मुदलियदिऱ्कु उळ्बट्टिरुक्कुम् तऩ्मैयुम् जीवऩायिरुक्कुम् तऩ्मैयुम् विलगुवदिल्लै; अदु विलगिविट्टालो पिराक्ञऩे ताऩ् ऎऩ्ऱु ‘तत्तुवम् असि’ ऎऩ्ऱ सुरुदियिऩाल् अऱियप्पडुगिऱदु।
न चाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चिद्विशेषोऽस्ति। यथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात् ‘मा भैषीः नायमहिः रज्जुरेव’ इति। स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च। न त्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् — तथैवैतदपि द्रष्टव्यम्। ततश्च ‘न जायते म्रियते वा’ इत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम् ।
ज्ञानानन्द-भारती - द्राविडी
अवित्यैयुडऩ् इरुक्कुम् पोदुम् अदु विलगिऩबोदुम् वस्तुविऱ्कु ऎव्विद विसेषमुम् (वित्यासमुम्) किडैयादु। ऒरुवऩ् इरुट्टिल् किडक्कुम् ऒरु कयिऱ्ऱै पाम्बु ऎऩ्ऱु निऩैत्तुक् कॊण्डु पयन्दु नडुङ्गिक्कॊण्डु ओडुगिऱाऩ्; वेऱॊरुवऩ् ‘पयप्पडादे, इदु पाम्बु अल्ल, कयिऱुदाऩ्’ ऎऩ्ऱु अवऩिडम् सॊल्लुवाऩ्; अवऩ् अदैक्केट्टु पाम्बिऩाल् एऱ्पट्ट पयत्तैयुम् नडुक्कत्तैयुम्, ओडुवदैयुम् विट्टुविडुवाऩ्; आऩाल् पाम्बु ऎऩ्ऱु ऎण्णिऩ कालत्तिलुम् अदु विलगिविट्ट कालत्तिलुम्, वस्तुविऱ्कु ऎव्विद विसेषमुम् इरुक्कादु अदु ऎप्पडियो, अप्पडिये इदुवुम् ऎऩ्ऱु अऱिय वेण्डुम्।
ज्ञानानन्द-भारती - द्राविडी
अदऩाल्दाऩ् इरुक्किऱाऩा इल्लैया ऎऩ्ऱ केळ्विक्कु ‘पिऱप्पदुमिल्लै, इऱप्पदुमिल्लै’ ऎऩ्बदु मुदलाऩदुम् पदिलाग एऱ्पट्टिरुक्किऱदु।
सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् — एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्तरस्य तु धर्माद्यत्ययसङ्कीर्तनात्प्राज्ञविषयत्वमिति। ततश्च युक्ता अग्निजीवपरमात्मकल्पना। प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम् ॥ ६ ॥
ज्ञानानन्द-भारती - द्राविडी
सूत्तिरमो अवित्यैयिऩाल् कल्बिक्कप्पट्ट जीवऩुक्कुम् पिराक्ञऩुक्कुम् उळ्ळ पेदत्तै अबेक्षित्तु सरिप्पडुत्तिक्कॊळ्ळप्पड वेण्डियदु आत्म विषयमाऩ केळ्वि, ऒऩ्ऱागवेयिरुन्द पोदिलुम्गूड मरणनिलैयिल् तेहत्तिऱ्कु वेऱाग इरुक्किऱदावॆऩ्ऱु मात्तिरम् सन्देहप्पडुवदाल् कर्त्रुत्वम् मुदलाऩ संसार स्वबावम् विलगाद तिऩाल्, मुन्दिऩ पर्यायत्तिऱ्कु जीवविष यमायिरुक्कुम् तऩ्मै ऎण्णप्पडुगिऱदु; मेलुळ्ळ पर्यायत्तिऱ्को तर्मम् मुदलियदै ताण्डियदु सॊल्लियिरुप्पदाल् पिराक्ञ विषयमायिरुक्कुम् तऩ्मै ऎऩ्ऱु (ऎण्णप् पडुगिऱदु)। अदऩालेये अक्ऩि, जीवऩ्, परमात्मा ऎऩ्ऱु कल्बिप्पदु उसिदम्। पिरदाऩत्तै कल्बित्तालो (अदु विषयमाय्) वरऩ् कॊडुक्कवुमिल्लै, केळ्वियुमिल्लै, पदिलुमिल्लै ऎऩ्ऱु वित्तियासम्।
महद्वच्च ॥ ७ ॥
ज्ञानानन्द-भारती - द्राविडी
महत्वच्च ॥ ७ ॥
यथा महच्छब्दः साङ्ख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तः, न तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते, ‘बुद्धेरात्मा महान्परः’ (क. उ. १। ३। १०) ‘महान्तं विभुमात्मानम्’ (क. उ. १। २। २२) ‘वेदाहमेतं पुरुषं महान्तम्’ (श्वे. उ. ३। ८) इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यः। तथाव्यक्तशब्दोऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति। अतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम् ॥ ७ ॥
ज्ञानानन्द-भारती - द्राविडी
महत् ऎऩ्ऱ सप्तम् साङ्गियर्गळाल् मुदलिल् उण्डाऩ “इरुप्पु” ऎऩ्बदिल् मात्तिरम् पिरयोगिक्कप् पडुगिऱदो, अदैये वैदिगमाऩ पिरयोगत्तिलुम् सॊल्लुगिऱदु ऎऩ्बदिल्लै। “पुत्तिक्कुमेलुळ्ळदु महत्ताऩ् आत्मा” (काडग १-३-१०), “महाऩागवुम् विबुवायुमुळ्ळ आत्मावै” (काडग।१-२-२२) “इन्द महाऩाऩ पुरुषऩै नाऩ् अऱिवेऩ्” (सुवेदा ३-८) ऎऩ्ऱु इदु मुदलाऩदिल् आत्म सप्तत्तिऩ् पिरयोग मिरुक्किऱदु ऎऩ्बदु मुदलाऩ कारणङ्गळाल्। अप्पडिये “अव्यक्तम्” ऎऩ्ऱ सप्तमुम्गूड वैदिगमाऩ पिरयोगत्तिल् पिरदाऩत्तैच् चॊल्वदु न्यायमिल्लै। इदिऩालेयुम् आऩुमाऩिगत्तिऱ्कु (पिरदाऩत्तिऱ्कु) सप्तमुळ्ळ तऩ्मै किडैयादु।