१३ सुषुप्त्युत्क्रान्त्यधिकरणम्

विश्वास-प्रस्तुतिः

सुषुप्त्य्-उत्क्रान्त्योर् भेदेन +++(व्यपदेशात्)+++॥ ४२ ॥

English
  1. And (on account of the designation) (of the highest Self) as different (from the individual soul) in the states of deep sleep and departing.
मूलम्

सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥

ज्ञानानन्द-भारती - द्राविडी

सु षुप्त्युत्क्रान्द्योर्बेदेन ॥ ४२ ॥

स्याद्विज्ञानमयो जीवो ब्रह्म वा जीव इष्यते ॥
आदिमध्यावसानेषु संसारप्रतिपादनात् ॥ २७ ॥
विविच्य लोकसंसिद्धं जीवं प्राणाद्युपाधितः ॥
ब्रह्मत्वमन्यतोऽप्राप्तं बोध्यते ब्रह्म नेतरत् ॥ २८ ॥
–वैयासिकन्यायमाला

ज्ञानानन्द-भारती - द्राविडी

विज्ञानमयऩ् ऎऩ्बदु जीवऩायिरुक्कुमा? अल्लदु पिरह्ममा? (उबनिषत्तिऩ्) आरम्बत्तिलुम, मत्तियिलुम्, कडैसियिलुम् संसारमे पिरदिबादिक्कप्पट्टिरुप्पदाल् जीवऩ् ऎऩ्ऱु करुदप्पडुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

उलगत्तिल् उऱुदियाय् तॆरिन्दुळ्ळ जीवऩै पिराणऩ् मुदलाऩ उबादिगळिलिरुन्दु पिरित्तॆडुत्तु (अवऩुक्के) वेऱु ऎन्द पिरमाणत्तिऩालुम् अऱियक्कूडाद पिरह्म मायिरुक्कुम् तऩ्मै पोदिक्कप्पडुगिऱदु। (आगैयाल् विक् ञाऩमयऩ् ऎऩ्बदु) पिरह्ममे वेऱु ऎदुवुमिल्लै।

विश्वास-प्रस्तुतिः

व्यपदेशाद् इत्य् अनुवर्तते।

मूलम्

व्यपदेशाद् इत्य् अनुवर्तते।

विश्वास-प्रस्तुतिः

बृहदारण्यके षष्ठे प्रपाठके

“कतम आत्मेति
यो ऽयं विज्ञानमयः प्राणेषु हृद्य्,
अन्तर्-ज्योतिः पुरुषः”
(बृ. उ. ४। ३। ७)

इत्य् उपक्रम्य
भूयान् आत्म-विषयः प्रपञ्चः कृतः।

English

In the sixth prapāṭḥaka of the Br̥hadāraṇyaka
there is given, in reply to the question,
‘Who is that Self?’
a lengthy exposition of the nature of the Self,

‘He who is within the heart, among the prāṇas, the person of light, consisting of knowledge’ (Br̥. Up. IV, 3, 7).

मूलम्

बृहदारण्यके षष्ठे प्रपाठके

“कतम आत्मेति
यो ऽयं विज्ञानमयः प्राणेषु हृद्य् अन्तर्-ज्योतिः पुरुषः”
(बृ. उ. ४। ३। ७)

इत्य् उपक्रम्य
भूयान् आत्म-विषयः प्रपञ्चः कृतः।

विश्वास-प्रस्तुतिः

तत् किं संसारि-स्वरूप-मात्रान्वाख्यान-परं वाक्यम्,
उत असंसारि-स्वरूप-प्रतिपादन-परम् इति विशयः।

English

Here the doubt arises,
whether the passage merely aims at making an additional statement about the nature of the transmigrating soul (known already from other sources),
or at establishing the nature of the non-transmigrating Self.

मूलम्

तत् किं संसारि-स्वरूप-मात्रान्वाख्यान-परं वाक्यम्,
उत असंसारि-स्वरूप-प्रतिपादन-परम् इति विशयः।

ज्ञानानन्द-भारती - द्राविडी

ऎऩ्ऱ सुरुदि वाक्यम् संसारियाऩ जीवऩै पोदिक्किऱदा अल्लदु असंसारियाऩ प्रह्मत्तै पोदिक्किऱदा ऎऩ्ऱु सन्देहम्।

ज्ञानानन्द-भारती - द्राविडी

आदियिलुम्, नडुविलुम् मुडिविलुम् संसार तर्मङ्गळैक् कूऱियिरुप्पदाल् संसारियाऩ जीवऩ्दाऩ् इङ्गु प्रदिबात्यऩ् ऎऩ्ऱु पूर्वबक्षम्। सुषुप्तियिलुम्, उत्क्रान्दियिलुम् संसारियाऩ जीवऩैक्काट्टिलुम् वेऱाग परमेसुवरऩैक् कूऱियिरुप्पदाल् प्रह्मत्तै पोदिप्पदिल्दाऩ् इन्द वाक्कियत्तिऱ्कु तात्पर्यम् उबादिगळुडऩ् सेर्न्दु संसारियाऩ जीवऩै यऩुवादम् सॆय्दु उबादिगळै विलक्कि जीवऩुडैय सुत्तमाऩ स्वरूबत्तै काट्टि अदुवे परप्रह्मम् ऎऩ्ऱु अबेदत्तै काट्टुगिऱदु ऎऩ्ऱु सित्तान्दम्]।

ज्ञानानन्द-भारती - द्राविडी

‘सॊल्लियिरुप्पदाल्’ ऎऩ्बदु (मुऩ् सूत्तिरत् तिलिरुन्दु) तॊडर्न्दु वरुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

पिरुहदारण्यत्तिल् आऱावदु पिरबाडगत्तिल् ‘ऎवर् आत्मा ऎऩ्ऱु। ऎवर् पिराणङ्गळिल् ह्रुदयत्तिल् उळ्ळे ज्योदिस्साय् इन्द विज्ञाऩमयऩाऩ पुरुषऩो’ (पिरुहत् ४-३-७) ऎऩ्ऱु आरम्बित्तु आत्मा विषयमाग अदिगमाग विस्तारम् सॆय्यप्पट्टिरुक्किऱदु। अन्द वाक्कियम् संसारियिऩुडैय स्वरूबत्तै मात्तिरम् सॊल्वदिल् तात्पर्यमुळ्ळदा अल्लदु संसारियल्लाद स्वरूबत्तै ऎडुत्तुक्काट्टुवदिल् तात्पर्यमुळ्ळदा, ऎऩ्ऱु सन्देहम्।

विश्वास-प्रस्तुतिः

किं तावत् प्राप्तम्?
संसारि-स्वरूप-मात्र-विषयम् एवेति।

English

The pūrvapakshin maintains that the passage is concerned with the nature of the transmigrating soul,

मूलम्

किं तावत् प्राप्तम्?
संसारि-स्वरूप-मात्र-विषयम् एवेति।

विश्वास-प्रस्तुतिः

कुतः? उपक्रमोपसंहाराभ्याम्।

English

on account of the introductory and concluding statements.

मूलम्

कुतः? उपक्रमोपसंहाराभ्याम्।

विश्वास-प्रस्तुतिः

उपक्रमे ‘यो ऽयं विज्ञानमयः प्राणेषु’ इति शारीर-लिङ्गात्।

English

For the introductory statement, ‘He among the prāṇas who consists of knowledge,’ contains marks indicatory of the embodied soul,

मूलम्

उपक्रमे ‘यो ऽयं विज्ञानमयः प्राणेषु’ इति शारीर-लिङ्गात्।

विश्वास-प्रस्तुतिः

उपसंहारे च ‘स वा एष महान् अज आत्मा यो ऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४। ४। २२) इति तद्-अपरित्यागात्।

English

and so likewise the concluding passage,
‘And that great unborn Self is he
who consists of cognition,’ &c. (IV, 4, 22).

मूलम्

उपसंहारे च ‘स वा एष महान् अज आत्मा यो ऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४। ४। २२) इति तद्-अपरित्यागात्।

विश्वास-प्रस्तुतिः

मध्ये ऽपि +++(प्र)+++बुद्धान्ताद्य्-अवस्थोपन्यासेन तस्यैव प्रपञ्चनाद्

English

We must therefore adhere to the same subject-matter in the intermediate passages also,
and look on them as setting forth the same embodied Self, represented in its different states, viz. the waking state, and so on.

मूलम्

मध्ये ऽपि बुद्धान्ताद्य्-अवस्थोपन्यासेन तस्यैव प्रपञ्चनाद्

विश्वास-प्रस्तुतिः

इत्य् एवं प्राप्ते ब्रूमः —

English

In reply to this,

मूलम्

इत्य् एवं प्राप्ते ब्रूमः —

ज्ञानानन्द-भारती - द्राविडी

पूर्वबक्षम्: ऎदु न्यायम्? संसारि स्वरूबत्तै मात्तिरम् विषयमाग उळ्ळदेयॆऩ्ऱु। एऩ्? आरम्बत् तिलिरुन्दुम्, मुडिविलिरुन्दुम्, आरम्बत्तिल् ‘ऎवर् इन्द पिराणऩ्गळिल् विज्ञानमयरो’ ऎऩ्ऱु सारीरऩुडैय लिङ्गमिरुप्पदाल् मुडिविलुम्, ‘ऎवर् पिराणऩ्गळिल् विज्ञानमयरो, अवर्दाऩ् इन्द पॆरिय पिऱप्पऱ्ऱ, आत्मा’ (पिरुहत् ४-४-२२) ऎऩ्ऱु अदै विडाददिऩालुम्, मत्तियिलुम् जाक्किरत् मुदलाऩ निलैगळैच् चॊल्लि अदैये विस्तरिप्पदिऩालुम्, ऎऩ्ऱु।

विश्वास-प्रस्तुतिः

परमेश्वरोपदेश-परम् एवेदं वाक्यम् ,
न शारीर-मात्रान्वाख्यानपरम्।

English

we maintain that the passage aims
only at giving information about the highest Lord,
not at making additional statements about the embodied soul.

मूलम्

परमेश्वरोपदेशपरमेवेदं वाक्यम् , न शारीरमात्रान्वाख्यानपरम्।

विश्वास-प्रस्तुतिः

कस्मात् ? सुषुप्ताव् उत्क्रान्तौ च
शारीराद् भेदेन
परमेश्वरस्य व्यपदेशात्।

English

Why?
On account of the highest Lord being designated as different from the embodied soul,
in the states of deep sleep and of departing from the body.

मूलम्

कस्मात् ? सुषुप्तावुत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात्।

विश्वास-प्रस्तुतिः

सुषुप्तौ तावत्

‘अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो
न बाह्यं किञ्चन वेद, नान्तरम्’
(बृ. उ. ४। ३। २१)

इति शारीराद् भेदेन परमेश्वरं व्यपदिशति।

English

His difference from the embodied soul in the state of deep sleep is declared in the following passage,

‘This person embraced by the intelligent (prājña) Self knows nothing that is without,
nothing that is within.’

मूलम्

सुषुप्तौ तावत् ‘अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४। ३। २१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति।

विश्वास-प्रस्तुतिः

तत्र पुरुषः शारीरः स्यात् ,
तस्य वेदितृत्वात्,
+++(वेदितृत्वञ्च)+++ बाह्याभ्यन्तर-वेदन-प्रसङ्गे सति +++(एव)+++ तत्-प्रतिषेध-सम्भवात्।

English

Here the term, ’the person,’ must mean the embodied soul;
for of him it is possible to deny that he knows,
because he, as being the knower, may know what is within and without.

मूलम्

तत्र पुरुषः शारीरः स्यात् ,
तस्य वेदितृत्वात्,
बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसम्भवात्।

विश्वास-प्रस्तुतिः

प्राज्ञः परमेश्वरः,
सर्वज्ञत्व-लक्षणया प्रज्ञया नित्यम् अवियोगात्।

English

The ‘intelligent Self,’ on the other hand, is the highest Lord,
because he is never dissociated from intelligence, i.e.–in his case–all-embracing knowledge.

मूलम्

प्राज्ञः परमेश्वरः,
सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात्।

विश्वास-प्रस्तुतिः

तथोत्क्रान्ताव् +++(←मृतौ)+++ अपि

‘अयं शारीर आत्मा
प्राज्ञेनात्मनान्वारूढ
उत्सर्जन् याति’
(बृ. उ. ४। ३। ३५)

इति जीवाद्भेदेन परमेश्वरं व्यपदिशति।

English

Similarly, the passage treating of departure, i.e. death
(’this bodily Self mounted by the intelligent Self moves along groaning’),
refers to the highest Lord as different from the individual Self.

मूलम्

तथोत्क्रान्तावपि ‘अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति’ (बृ. उ. ४। ३। ३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति।

विश्वास-प्रस्तुतिः

तत्रापि शारीरो जीवः स्यात् , शरीरस्वामित्वात्।

English

There also we have to understand by the ’embodied one’ the individual soul
which is the Lord of the body,

मूलम्

तत्रापि शारीरो जीवः स्यात् , शरीरस्वामित्वात्।

विश्वास-प्रस्तुतिः

प्राज्ञस्तु स एव परमेश्वरः ।

English

while the ‘intelligent one’ is again the Lord.

मूलम्

प्राज्ञस्तु स एव परमेश्वरः ।

ज्ञानानन्द-भारती - द्राविडी

सित्तान्दम्: इव्विदम् वरुम्बोदु सॊल्गिऱोम्। इन्द वाक्कियम् परमेसुवरऩै उबदेसिप्पदिलेये तात्पर्यमुळ्ळदु। सारीरऩैमात्तिरम् सॊल्वदिल् तात्पर्य मुळ्ळदल्ल। एऩ्? सुषुप्तियिलुम् उत्किरान्दियिलुम् सारीरऩैविड वेऱाग परमेसुवरऩै कुऱिप्पिडुवदाल्।

ज्ञानानन्द-भारती - द्राविडी

सुषुप्तियिल् ‘इन्द पुरुषऩ् पिराक्ञऩाऩ आत्माविऩाल् नऩ्गु आलिङ्गऩम् सॆय्यप्पट्टु वॆळियिलुळ्ळदैयो उळ्ळे उळ्ळदैयो ऎदैयुम् अऱिवदिल्लै’ (पिरुहत् ४-३-२१) ऎऩ्ऱु सारीरऩैविड वेऱाग परमेसुवरऩै कुऱिप्पिडुगिऱदु। अङ्गे ‘पुरुषऩ्’ ऎऩ्बदु सारीरऩागत्ताऩिरुक्कलाम्। अवऩुक्कु अऱियुम् तऩ्मैयिरुप्पदाल्। वॆळियिलुळ्ळदु उळ्ळेयुळ्ळदु इवैगळै अऱिवदऱ्कु पिरसङ्गम् (इडम्) इरुक्किऱ विडत्तिल्दाऩ् अदऩ् मऱुप्पु सम्बविक्कुमाऩदिऩाल्। ‘पिराक्ञऩ्’ ऎऩ्बदु परमेसुवरऩ्, सर्वक्ञत् तऩ्मैयागिय पिरक्ञैयिलिरुन्दु ऎप्पॊऴुदुम् विलगाद तिऩाल् अप्पडिये उत्किरान्दियिलुम् ‘इन्द सारीर आत्मा पिराक्ञऩाऩ आत्मावुडऩ् सेर्न्दु सप्तम् पोट्टुक् कॊण्डु पोगिऱाऩ्’ (पिरुहत् ४-३-३५) ऎऩ्ऱु जीवऩैविड वेऱाग परमेसुवरऩैक् कुऱिप्पिडुगिऱदु। अङ्गेयुम् ‘सारीर्गऩ्’ ऎऩ्बदु जीवऩ्, सरीरत्तिऱ्कु स्वामियायिरुप्पदाल्। ‘पिराक्ञऩ्’ ऎऩ्बदो अदे परमेसुवरऩ्दाऩ्।

विश्वास-प्रस्तुतिः

तस्मात् सुषुप्त्युत्क्रान्त्योर् भेदेन व्यपदेशात्
परमेश्वर एव अत्र विवक्षित इति गम्यते।

English

We thus understand that ‘on account of his being designated as something different, in the states of deep sleep and departure,’ the highest Lord forms the subject of the passage.

मूलम्

तस्मात् सुषुप्त्युत्क्रान्त्योर् भेदेन व्यपदेशात् परमेश्वर एव अत्र विवक्षित इति गम्यते।

विश्वास-प्रस्तुतिः

यद् उक्तम् आद्यन्त-मध्येषु शारीर-लिङ्गात्
तत्-परत्वम् अस्य वाक्यस्य

इति, अत्र ब्रूमः —

English

With reference to the pūrvapakshin’s assertion that the entire chapter refers to the embodied Self,
because indicatory marks of the latter are found in its beginning, middle, and end,
we remark that

मूलम्

यद् उक्तम् आद्यन्त-मध्येषु शारीर-लिङ्गात्
तत्-परत्वम् अस्य वाक्यस्य

इति, अत्र ब्रूमः —

विश्वास-प्रस्तुतिः

उपक्रमे तावत्
‘यो ऽयं विज्ञानमयः प्राणेषु’ इति
न संसारि-स्वरूपं विवक्षितम् —

English

in the first place the introductory passage (‘He among the prāṇas who consists of cognition’) does not aim at setting forth the character of the transmigrating Self,

मूलम्

उपक्रमे तावत्
‘यो ऽयं विज्ञानमयः प्राणेषु’ इति
न संसारि-स्वरूपं विवक्षितम् —

विश्वास-प्रस्तुतिः

किं तर्हि? —
अनूद्य संसारि-स्वरूपं
परेण ब्रह्मणास्यैकतां विवक्षति।

English

but rather, while merely referring to the nature of the transmigrating Self as something already known,
aims at declaring its identity with the highest Brahman;

मूलम्

किं तर्हि? —
अनूद्य संसारि-स्वरूपं
परेण ब्रह्मणास्यैकतां विवक्षति।

विश्वास-प्रस्तुतिः

यतः ‘ध्यायतीव लेलायतीव’ इत्य्-एवम्-आद्य्-उत्तर-ग्रन्थ-प्रवृत्तिः संसारि-धर्म-निराकरण-परा लक्ष्यते।

English

for it is manifest that the immediately subsequent passage, ‘as if thinking, as if moving’ 1,
aims at discarding the attributes of the transmigrating Self.

मूलम्

यतः ‘ध्यायतीव लेलायतीव’ इत्य्-एवम्-आद्य्-उत्तर-ग्रन्थ-प्रवृत्तिः संसारि-धर्म-निराकरण-परा लक्ष्यते।

विश्वास-प्रस्तुतिः

तथा उपसंहारे ऽपि यथोपक्रममेवोपसंहरति —

English

The concluding passage again is analogous to the initial one;

मूलम्

तथा उपसंहारे ऽपि यथोपक्रममेवोपसंहरति —

विश्वास-प्रस्तुतिः

‘स वा एष महान् अज आत्मा यो ऽयं विज्ञानमयः प्राणेषु’ इति।

English

for the words, ‘And that great unborn Self is he who,’ &c., mean:

मूलम्

‘स वा एष महान् अज आत्मा यो ऽयं विज्ञानमयः प्राणेषु’ इति।

विश्वास-प्रस्तुतिः

यो ऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते,
स वा एष महान् अज आत्मा परमेश्वर एवास्माभिः प्रतिपादित

इत्य् अर्थः।

English

We have shown that that same cognitional Self, which is observed among the prāṇas, is the great unborn Self, i.e. the highest Lord.

मूलम्

यो ऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते, स वा एष महान् अज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्य् अर्थः।

ज्ञानानन्द-भारती - द्राविडी

आगैयाल् सुषुप्तियिलुम्,, उत्किरान्दियिलुम् वेऱाग कुऱिप्पिडुवदाल्, इङ्गे परमेसुवरऩ् ताऩ् सॊल्ल उत्तेसिक्कप्पट्टवर् ऎऩ्ऱु तॆरिगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

आरम्बम्, मुडिवु मत्ति इवैगळिल् सारीरऩुक्कु लिङ्गमिरुप्पदाल् इन्द वाक्कियत्तिऱ्कु अदिलेये तात्पर्यम् ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो, अव्विष यत्तिल् सॊल्गिऱोम्; आरम्बत्तिल् ‘ऎवर् पिराणऩ्गळिल् इन्द विज्ञानमयरो’ ऎऩ्बदिऩाल् संसारियिऩुडैय स्वरूबम् सॊल्लविरुम् पप्पडविल्लै, अप्पडियाऩाल् ऎदु? संसारियिऩुडैय स्वरूबत्तै इरुक्किऱबडि ऎडुत्तुच्चॊल्लि इदऱ्कु परबिरह्मत्तुडऩ् ऒऩ्ऱाग यिरुक्कुम् तऩ्मैयै सॊल्ल उत्तेसिक्किऱदु। एऩॆऩ् ऱाल्, ‘तियाऩम् सॆय्गिऱदु पोल, सेष्टिक्किऱदु पोल’ ऎऩ्बदु मुदलाऩ मेलुळ्ळ किरन्दत्तिऩ् पिरविरुत्ति संसारियिऩुडैय तर्मङ्गळै निरागरणम् पण्णुवदिल् तात्पर्यमुळ्ळदागत् तॆरिगिऱदु। अप्पडिये मुडिविलुम्गूड आरम्बत्तिलुळ्ळदैप् पोलवे “पिराणऩ्गळिल् ऎवर् इन्द विज्ञानमयरो, अवरे इन्द पॆरिय पिऱप्पऱ्ऱ आत्मा” ऎऩ्ऱु मुडिक्किऱदु। ऎन्द इन्द विज्ञानमयऩ् पिराणऩ्गळिल् संसारियागत् तॆरिगिऱारो, अवरे इन्द पॆरिय पिऱप्पऱ्ऱ आत्मा परमेसुवरऩे ऎङ्गळाल् ऎडुत्तुक्काट्टप्पट्टार् ऎऩ्ऱु अर्त्तम्।

विश्वास-प्रस्तुतिः

यस् तु मध्ये बुद्धान्ताद्य्-अवस्थोपन्यासात् संसारि-स्वरूप-विवक्षां मन्यते,
स प्राचीम् अपि दिशं प्रस्थापितः
प्रतीचीम् अपि दिशं प्रतिष्ठेत। +++(5)+++

English

He, again, who imagines that the passages intervening (between the two quoted) aim at setting forth the nature of the transmigrating Self by representing it in the waking state, and so on, is like a man who setting out towards the east, wants to set out at the same time towards the west.

मूलम्

यस् तु मध्ये बुद्धान्ताद्य्-अवस्थोपन्यासात् संसारि-स्वरूप-विवक्षां मन्यते,
स प्राचीम् अपि दिशं प्रस्थापितः
प्रतीचीम् अपि दिशं प्रतिष्ठेत। +++(5)+++

यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षितं — किं तर्हि? — अवस्थारहितत्वम् असंसारित्वं च। कथम् एतद् अवगम्यते? यत् ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४। ३। १४) इति पदे पदे पृच्छति। यच् च ‘अनन्वागतस् तेन भवत्य् असङ्गो ह्य् अयम् पुरुषः’ (बृ. उ. ४। ३। १५) इति पदे पदे प्रतिवक्ति। ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ् शोकान् हृदयस्य भवति’ (बृ. उ. ४। ३। २२) इति च। तस्माद् असंसारि-स्वरूप-प्रतिपादन-परम् एवैतद्-वाक्यम् इत्य् अवगन्तव्यम् ॥ ४२ ॥

ज्ञानानन्द-भारती - द्राविडी

मत्तियिल् जाक्किरत् मुदलाऩ निलैगळै सॊल्लियिरुप्पदाल् संसारियिऩ् स्वरूबत्तैच् चॊल्ल ऎण्णमॆऩ्ऱु ऎवऩ् निऩैक्किऱाऩो अवऩ् किऴक्कुदिक्किल् पोग पुऱप्पट्टवऩ्, मेऱ्कु तिक्किल् पोवाऩ्। एऩॆऩ्ऱाल्, जाक्किरत् मुदलाऩ निलैगळै सॊल्लुवदाल् अन्द निलैयुडऩिरुक्कुम् तऩ्मैयै यावदु संसारित्तऩ्मैयैयावदु सॊल्ल, उत्तेस मिल्लै। अप्पडियाऩाल् ऎदै? अव्विद निलैयऱ्ऱि रुक्कुम् तऩ्मैयुम् संसारियिल्लाद तऩ्मैयुम् (सॊल्ल उत्तेम्) इदु ऎप्पडित् तॆरिगिऱदु? ऎदऩाल्, इदऱ्कुमेल् मोक्षत्तिऩ् पॊरुट्टु सॊल्लुम्’ ऎऩ्ऱु ऒव्वॊरुबडियिलुम् केट्किऱाऩ्, ‘अदऩाल् तॊडरप्पडामल् इन्द पुरुषऩ् पऱ्ऱऱ्ऱवऩागवे इरुक्किऱाऩ्’ (पिरुहत् ४-३-१४, १५) ऎऩ्ऱु ऒव्वॊरु पडियिलुम् सॊल्गिऱार्; पुण्णियत्तिऩाल् तॊडरप् पडाददु। पाबत्ताल् तॊडरप्पडाददु। अप्पॊऴुदु ह्रुदयत्तिलुळ्ळ ऎल्ला लोगङ्गळैयुम् निच्चयमाय् कडन्दु विडुगिऱाऩ्’ (पिरुहत् ४-२-२२) ऎऩ्ऱुम्।

ज्ञानानन्द-भारती - द्राविडी

आगैयाल् संसारियिल्लाद स्वरूबत्तै ऎडुत्तुच्चॊल्वदिलेये तात्पर्यमुळ्ळदु इन्द वाक्कियम् ऎऩ्ऱु अऱियवुम्।

पत्यादिशब्देभ्यः ॥ ४३ ॥

ज्ञानानन्द-भारती - द्राविडी

पत्यादिसप्तेप्य: ॥ ४३ ॥

इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्; यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति — ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः’ इत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः। ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्’ इत्येवंजातीयकाः संसारिस्वभावप्रतिषेधनाः। तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ ४३ ॥

ज्ञानानन्द-भारती - द्राविडी

इदिऩालुम् संसारियल्लाद स्वरूबत्तै ऎडुत्तुच् चॊल्वदिलेये तात्पर्य मुळ्ळदु इन्द वाक्कियम् ऎऩ्ऱु अऱियवेण्डुम्। ऎदिऩाल्, इन्द वाक्कियत्तिल् “पदि” मुदलाऩ सप्तङ्गळ् संसारि यिल्लाद स्वरूबत्तै ऎडुत्तुक् काट्टुवदिल् तात्पर्य मुळ्ळवैगळागवुम् संसारियिऩ् स्वरूबत्तै मऱुक्किऱवैगळागवुम् इरुक्किऩ्ऱऩ्। “ऎल्लावऱ्ऱैयुम् वसत्तिल् वैत्तुक्कॊण्डिरुप्पवर्, ऎल्लावऱ्ऱैयुम् आळुबवर्, ऎल्लावऱ्ऱिऱ्कुम् अदिबदि” ऎऩ्ऱु इव्विदम् पोलुळ्ळवैगळ् संसारियिल्लाद स्वबावत्तै ऎडुत्तुक्काट्टुवदिल् तात्पर्यमुळ्ळवैगळ्; ‘अवर् नल्ल कर्माविऩाल् पॆरियवरावदिल्लै, कॆट्ट कर्माविऩाल् सिऱियवरावदुमिल्लै’ ऎऩ्बदु पोलुळ्ळवैगळ् संसारि स्वबावत्तै मऱुप्पवैगळ्। आगैयाल् संसारियिल्लाद परमेसुवरऩ् इङ्गे सॊल्लप्पट्टि रुक्किऱारॆऩ्ऱु अऱियप्पडुगिऱदु।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥

முதலாவது அத்யாயத்தில் மூன்றாவது பாதம் முற்றிற்று.


  1. 235:1 The stress lies here on the ‘as if.’ which intimate that the Self does not really think or move. ↩︎