०२ भूमाधिकरणम्

भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥

ज्ञानानन्द-भारती - द्राविडी

पूमा सम्ब्रसादादत्युबदेसात् ॥ ८ ॥

भूमा प्राणः परेशो वा प्रश्नप्रत्युक्तिवर्जनात् ॥
अनुवर्त्यातिवादित्वं भूमोक्तेश्चासुरेव सः ॥ ३ ॥
विच्छिद्यैष त्विति प्राणं सत्यस्योपक्रमात्तथा ॥
महोपक्रम आत्मोक्तेरीशोऽयं द्वैतवारणात् ॥ ४ ॥
–वैयासिकन्यायमाला

ज्ञानानन्द-भारती - द्राविडी

पूमा ऎऩ्बदु पिराणऩा? अल्लदु परमेसुवररा? केळ्वि पदिल् ऎऩ्ऱ मुऱै विडप्पट्टिरुप्पदालुम्, “अदिवादियागविरुत्तल” ऎऩ्बदैत् तॊडर्न्दे पूमा सॊल्लप्पडुवदालुम्, अदु पिराणऩ् ताऩ्।

ज्ञानानन्द-भारती - द्राविडी

“एष तु” “इवरो ऎऩ्ऱाल्” ऎऩ्ऱु पिराणऩै विट्टुविट्टु, सत्यत्तैप्पऱ्ऱि आरम्बित्तिरुप्पदालुम्, अप्पडिये उबनिषत्तिऩ् मुदल् आरम्बत्तिल् आत्मावै सॊल्लियिरुप्पदालुम्, इरण्डायिरुप्पदु निरागरिक्कप् पडुवदालुम् इदु ईसुवरर्दाऩ्।

इदं समामनन्ति — ‘भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।’ (छा. उ. ७। २३। १) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’ (छा. उ. ७। २४। १) इत्यादि। तत्र संशयः — किं प्राणो भूमा स्यात् , आहोस्वित्परमात्मेति। कुतः संशयः ? भूमेति तावद्बहुत्वमभिधीयते । ‘बहोर्लोपो भू च बहोः’ (पा. सू. ६। ४। १५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मरणात्। किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायाम् ‘प्राणो वा आशाया भूयान्’ (छा. उ. ७। १५। १) इति सन्निधानात् प्राणो भूमेति प्रतिभाति। तथा ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति। सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७। १। ३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति। तत्र कस्योपादानं न्याय्यम् , कस्य वा हानमिति भवति संशयः ।

ज्ञानानन्द-भारती - द्राविडी

(सान्दोक्य उबनिषत्तिल् नारदर् सऩत् कुमाररिडम् शिष्य मुऱैयिल् सॊऩ्ऱु नाऩ् रुक्वेदम् मुदलाऩ ऎल्ला वित्यैगळैयुम् कऱ्ऱुम् तुऩ्बप्पडु किऱेऩ्। आत्मावैयऱिन्दवऩुक्कुत्ताऩ् सोगम् नीङ्गुम् ऎऩ्ऱु केळ्विप्पट्टिरुक्किऱेऩ्। ताङ्गळ् ऎऩ् सोगत्तै नीक्क वेण्डुम् ऎऩ्ऱु केट्टार्। नी कऱ्ऱुक्कॊण्ड रुक्वेदम् मुदलाऩदॆल्लाम् ‘नामा’ताऩ्। नामावै प्रह्मम् ऎऩ्ऱु उबासिक्किऱ वऩुक्कुम् पलऩ् उण्डु, ऎऩ्ऱुसॊल्ल ‘नामावुक्कुमेल् एदावदु उण्डा’ ऎऩ्ऱु नारदर् केट्टार्। ‘नामावुक्कुमेलाग उळ्ळदु’ ऎऩ्ऱु सनत्कुमारर् सॊऩ्ऩार्। इव्वाऱु नारदर् केट्कक्केट्क सनत्कुमारर् मऩस्, सङ्गल्बम्, सित्तम्, त्याऩम्, विज्ञाऩम्, पलम्, अऩ्ऩम्, जलम्, तेजस्, आगासम्, स्मरणम्, आसै पिराणऩ् इवैगळै मुऱैये मेल्बट्टदागच् चॊल्लि पिराणोबास्कऩै ‘अदिवादी” ऎऩ्ऱुम् सॊऩ्ऩार्। नारदर् पिराणऩैये ऎल्ला वऱ्ऱिऱ्कुम् मेल्बट्टदाग ऎण्णिक्कॊण्डु मेले केळ्वि केट्कविल्लै। सनत्कुमारर् सत्यवादि अदिवादियागिऱाऩ् ऎऩ्ऱु कूऱि सत्यम्, विज्ञाऩम्, मदि, सिरत्तै, निष्टै, क्रुदि, सुगम् इवैगळै अऱिन्दु कॊळ्ळ वेण्डुमॆऩ्ऱु कूऱि ‘पूमा, सुगम्, अल्बत्तिल् सुगमिल्लै वेऱु पॊरुळै पार्प्पदु, केट्पदु अऱिवदु ऎऩ्बदु ऎदिल् इल्लैयो अदु पूमा। ऎदिल् वेऱु पॊरुळै पार्क्किऱाऩो, केट्किऱाऩो, अऱिगिऱाऩो, अदु अल्बम्’ ऎऩ्ऱु उबदेसिक्किऱार्। इदु इन्द अदिगरणत्तिऱ्कु विषयम्।

ज्ञानानन्द-भारती - द्राविडी

इङ्गु पूमा ऎऩ्ऱ सप्तत्ताल् कूऱप्पडुम् पॊरुळ् पिराणऩा, परमात्मावा ऎऩ्ऱु सन्देहम् पिराणऩ् ऎऩ्ऱु पूर्वबक्षम्। नामा मुदल् ऒव्वॊऩ्ऱिलुम् अदऱ्कु मेल् ऎऩ्ऩ ऎऩ्ऱु केट्ट नारदर्, पिराणऩुक्कु मेऱ्पट्टदु ऎऩ्ऩ ऎऩ्ऱु केट्कविल्लै। इदु पिराणऩुक्कु मेल्बट्टदु ऎऩ्ऱु सनत्कुमाररुम् पदिल् सॊल्लविल्लै। पिराणऩै उबासिक्किऱवऩ् ‘अदिवादि ऎऩ्ऱु कूऱि इदैत् तॊडर्न्दे पिऩ्ऩाल् पूमाप् पऱ्ऱिक्कूऱुवदाल् पिराणवायुदाऩ् पूमा ऎऩ्ऱु पूर्वबक्षम्।

ज्ञानानन्द-भारती - द्राविडी

‘एष तु वा अतिवदति’ ऎऩ्ऱु ‘तु’ सप्तत्ताल् मुऩ् सॊऩ्ऩ पिराणऩै विलक्कि तऩियाग सत्यत्तैत् तॊडङ्गि इरुप्पदाल् पूमा पिराणऩिल्लै। आरम्बत्तिल् आत्मसप्तम् इरुप्पदालुम् पूमाविल् वेऱ्ऱुमैये किडैयादु ऎऩ्ऱु सॊल्लि यिरुप्पदालुम् अत्वैदमाऩ सत्यमाऩ पिरह्मम्दाऩ् पूमा ऎऩ्ऱु सित्तान्दम्)।

ज्ञानानन्द-भारती - द्राविडी

‘पूमावेदाऩ् नऩ्गु अऱिय विरुम्बप्पड वेण्डियदु ऎऩ्ऱु, ऎङ्गे वेऱु ऎदैयुम् पार्प्पदिल्लैयो, वेऱु ऎदैयुम् केट्पदिल्लैयो, वेऱु ऎदैयुम् अऱिवदिल्लैयो, अदु पूमा, इऩि ऎङ्गे मऱ्ऱदै पार्क्किऱाऩो, मऱ्ऱदै केट्किऱाऩो, मऱ्ऱदै अऱिगिऱायो, अदु अल्बम्’ ऎऩ्बदु मुदलिय इदै सॊल्गिऱार्गळ्। अङ्गे पूमा ऎऩ्बदु पिराणऩाग इरुक्कुमा अल्लदु परमात्मावा ऎऩ्ऱु सन्देहम्।

ज्ञानानन्द-भारती - द्राविडी

ऎदऩाल् सन्देहम्? “पहोर्लोबो पू सबहो:’ (पाणिऩि सूद: ६-४-१५८) ऎऩ्ऱु पूम सप्तम् ‘तऩ्मै’ ऎऩ्ऱ अर्त्तत्तिल् उळ्ळ पिरत्ययत्तै कडैसियिल् उळ्ळदाग सॊल्लियिरुप्पदाल् पूमा ऎऩ्बदाल् वॆगुवाग इरुत्तल् सॊल्लप्पडुगिऱदु। अन्द पगुत्तऩ्मै ऎऩ्ऩ स्वबावत्तुडऩ् कूडिऩदु ऎऩ्ऱु विसे षत्तै अऱिय निऩैक्कैयिल्, ‘पिराणऩ्दाऩ् आसैयैविड पॆरिदु’ (सान्। ७ १५-१) ऎऩ्ऱु समीबत्तिलिरुप्पदाल्, (पिरगरणत्ताल्) पिराणऩ् पूमा ऎऩ्ऱु तोऩ्ऱुगिऱदु। अप्पडिये ‘आत्मावै अऱिबवऩ् सोगत्तै कडन्दु विडुगिऱाऩ् ऎऩ्ऱु ऎऩ्ऩाल् तङ्गळैप्पोलुळ्ळवरिडमिरुन्दु केट्कप्पट्टेयिरुक् किऱदु हे पगवऩ्, अन्द (अव्विदम् केट्ट) नाऩ् सोगत्तुडऩिरुक्किऱेऩ्। अन्द ऎऩ्ऩै पगवाऩ् (ताङ्गळ्) सोगत्तिऩ् करैयै कडक्कच्चॆय्य वेण्डुम्’ (सान् ७-१-३) ऎऩ्ऱु पिरगरणम् आरम्बिप्पदाल् परमात्मा पूमा ऎऩ्ऱुम् तोऩ्ऱुगिऱदु। अवैगळिल् ऎदै ऎडुत्तुक्कॊळ्वदु न्यायम्, ऎदैत् तळ्ळवेण्डुम्, ऎऩ्ऱु सन्देहम् एऱ्पडुगिऱदु।

किं तावत्प्राप्तम् ? प्राणो भूमेति। कस्मात् ? यथा हि ‘अस्ति भगवो नाम्नो भूयः’ इति, ‘वाग्वाव नाम्नो भूयसी’ इति; तथा ‘अस्ति भगवो वाचो भूयः’ इति, ‘मनो वाव वाचो भूयः’ इति च — नामादिभ्यो हि आ प्राणात् प्रवृत्तः नैवं प्राणात्परं दृश्यते — ‘अस्ति भगवः प्राणाद्भूयः’ इति, ‘अदो वाव प्राणाद्भूयः’ इति। प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् — ‘प्राणो वा आशाया भूयान्’ इत्यादिना सप्रपञ्चमुक्त्वा, प्राणदर्शिनश्चातिवादित्वम् ‘अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत’ इत्यभ्यनुज्ञाय, ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति प्राणव्रतमतिवादित्वमनुकृष्य, अपरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यते ।

ज्ञानानन्द-भारती - द्राविडी

पूर्वबक्षम्: ऎदु न्यायम्? पिराणऩ् पूमा ऎऩ्ऱु, ऎदऩाल्? मेलाऩदु ऎदु ऎऩ्ऱ केळ्वियुम्, पदिलुम् तॊडर्च्चियाग काणप्पडुवदाल् ‘पगवऩ्, नामावैविड अदिगप्पॆरिदु उण्डा’ ऎऩ्ऱुम्, ‘वाक्कुत्ताऩ् नामावै विड अदिगप्पॆरिदु’ ऎऩ्ऱुम्, अप्पडिये ‘पगवऩ्, वाक्कैविड अदिगप्पॆरिदु उण्डा’ ऎऩ्ऱुम्, मऩस्ताऩ् वाक्कैविड अदिगप्पॆरिदु ऎऩ्ऱुम् नामा मुदलिय तिलिरुन्दु पिराणऩ् वरैयिल् ‘अदिगप्पॆरिदु ऎदु’ ऎऩ्ऱ केळ्विगळुम्, पदिल्गळुम् अडङ्गिय पिरवाहम् ऎव्विदम् एऱ्पट्टिरुक्किऱदो, इव्विदम् पिराणऩुक्कुप् पिऱगु, ‘पगवऩ्, पिराणऩै विड अदिगप्पॆरिदु उण्डा’ ऎऩ्ऱुम् ‘इदुदाऩ् पिराणऩैविड अदिगप्पॆरिदु’ ऎऩ्ऱुम्, मुऩ्बोल अदिगप्पॆरिदु विषयमाय् केळ्वियो, पदिलो काणविल्लै। नामा मुदल् आसै मुडियवुळ्ळ वैगळैक्काट्टिलुम् अदिगप्पॆरिदाग ‘पिराणऩ्दाऩ् आसैयैविड अदिगप्पॆरिदु’ ऎऩ्बदु मुदलियदाल् विस्तारमाग पिराणऩैये सॊल्लि विट्टु, पिराणऩै अऱिन्दवऩुक्कु ‘नी अदिवादि ऎऩ्ऱाल्, नाऩ् अदिवादियाय् इरुक्किऱेऩ् ऎऩ्ऱु सॊल्ललाम् मऱैक्कवेण्डाम्’ ऎऩ्ऱु अदिवादित् तऩत्तिऱ्कु अऩुमदि कॊडुत्तुविट्टु, ‘ऎवऩ् सत्यत्तिऩाल् अदिवदऩम् सॆय्गिऱाऩो अवऩ् ताऩल्लवा अदिवदऩम् (मेलाऩदैच् चॊल्लुदल्) सॆय्गिऱाऩ्’ ऎऩ्ऱु पिराणविरदमाऩ। अदिवादित् तऩत्तै इऴुत्तुक्कॊण्डु पिराणऩै विट्टु विडामले सत्यम् मुदलिय वरिसैयाग पूमावैक् कॊण्डु वरुगिऱवर् पिराणऩैत्ताऩ् पूमावाग ऎण्णुगिऱार् ऎऩ्ऱु तॆरिगिऱदु।

कथं पुनः प्राणे भूमनि व्याख्यायमाने ‘यत्र नान्यत्पश्यति’ इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यते — सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापि ‘यत्र नान्यत्पश्यतीति’ एतल्लक्षणम्। तथा च श्रुतिः — ‘न शृणोति न पश्यति’ इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा, ‘प्राणाग्नय एवैतस्मिन्पुरे जाग्रति’ (प्र. उ. ४। ३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति ।

ज्ञानानन्द-भारती - द्राविडी

पिराणऩै पूमा ऎऩ्ऱु वियाक्याऩम् सॆय्दाल् ‘ऎङ्गे मऱ्ऱदै पार्प्पदिल्लैयो’ ऎऩ्ऱु पूमाविऱ्कु लक्षणत्तै सॊल्लुम् इन्द वसऩम् ऎव्विदम् वियाक्याऩम् सॆय्यप्पडुमॆऩ्ऱाल् सॊल्गिऱोम्; नल्लदूक्क निलैयिल् इन्दिरियङ्गळ् पिराणऩिल् ऒडुङ्गिऩवैगळाग इरुक्कुम् पोदु पार्वै पिराणऩुक्कुम् ‘ऎङ्गे मऱ्ऱदै पार्प्पदिल्लैयो’ ऎऩ्ऱ इन्द लक्षणम् सम्बविक्कुम्। अप्पडिये सुरुदियुम् ‘केट्किऱाऩिल्लै, पार्क्किऱाऩिल्लै’ ऎऩ्बदु मुदलि यदाल् ऎल्ला इन्दिरियङ्गळुडैय वियाबारङ्गळुक्कुम् ओय्वु ऎऩ्ऱ स्वरूबमुळ्ळ नल्ल तूक्क निलैयैच् चॊल्लिविट्टु ‘पिराणऩ्गळागिऱ अक्ऩिगळ् मात्तिरम् इन्द परत्तिल् (सरीरत्तिल्) विऴित्तुक्कॊण्डिरुक्किऩ्ऱऩ’ (पिरच्ऩ। ४-२-८) ऎऩ्ऱु अन्द निलैयिलेये ऐन्दु विरुत्तिगळैयुडैय पिराणऩुक्कु विऴित्तुक् कॊण्डिरुप्पदैच् चॊल्वदु नल्लदूक्क निलैयै ‘पिराणऩै पिरदाऩमा युळ्ळ’तॆऩ्ऱु काट्टुगिऱदु।

यच्चैतद्भूम्नः सुखत्वं श्रुतम् — ‘यो वै भूमा तत्सुखम्’ (छा. उ. ७। २३। १) इति, तदप्यविरुद्धम् । ‘अत्रैष देवः स्वप्नान्न पश्यत्यथैतस्मिञ्शरीरे सुखं भवति’ (प्र. उ. ४। ६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात्। यच्च ‘यो वै भूमा तदमृतम्’ (छा. उ. ७। २४। १) इति, तदपि प्राणस्याविरुद्धम् । ‘प्राणो वा अमृतम्’ (बृ. उ. १। ६। ३) इति श्रुतेः। कथं पुनः प्राणं भूमानं मन्यमानस्य ‘तरति शोकमात्मवित्’ इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ? प्राण एवेहात्मा विवक्षित इति ब्रूमः। तथाहि — ‘प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः’ (छा. उ. ७। १५। १) इति प्राणमेव सर्वात्मानं करोति, ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्’ इति च सर्वात्मत्वारनाभिनिदर्शनाभ्यां च सम्भवति वैपुल्यात्मिका भूमरूपता प्राणस्य। तस्मात्प्राणो भूमेत्येवं प्राप्तम् ॥

ज्ञानानन्द-भारती - द्राविडी

पूमाविऱ्कु सुगत्तऩ्मै ‘ऎदु पूमावो अदुवे सुगम्’ (सान्। ७-२३-१) ऎऩ्ऱु ऎन्द इदु सॊल्लप् पट्टिरुक्किऱदोा, अदुवुम्गूड विरोद मिल्लै। ‘इङ्गे इन्द तेवऩ् स्वप्ऩङ्गळै पार्प्पदिल्लै। अप्पॊऴुदु इन्द सरीरत्तिल् सुगम् इरुक्किऱदु’ (पिरच्ऩ ४-६) ऎऩ्ऱु नल्ल तूक्क निलैयिलेये सुगम् सॊल्लप्पडुवदाल्

ज्ञानानन्द-भारती - द्राविडी

‘ऎदु पूमावो अदुवे अमिरुदम्’ (सान्। ७-२४-१) ऎऩ्बदु ऎदुवो अदुवुम् कूड पिराणऩुक्कु विरोदमिल्लै, ‘पिराणऩे अमिरुदम्’ (कौषीदगी। ३-२) ऎऩ्ऱु सुरुदियिरुप्पदाल्।

ज्ञानानन्द-भारती - द्राविडी

पिराणऩै पूमा ऎऩ्ऱु ऎण्णुगिऱवऩुक्कु ‘आत्मावै अऱिबवऩ् सोगत्तै ताण्डुगिऱाऩ्’ ऎऩ्ऱु आत्मावै अऱियुम् ऎण्णत्तुडऩ् पिरगरणम् आरम्बिक्कप्पट्टदु ऎप्पडि पॊरुन्दुम्? ऎऩ्ऱाल्, इङ्गे पिराणऩैत्ताऩ् आत्मावाग सॊल्ल उत्तेसम् ऎऩ्ऱु सॊल्गिऱोम्। अप्पडिये ‘पिराणऩ् ताऩ् पिदा, पिराणऩ् मादा, पिराणऩ् सहोदरऩ्, पिराणऩ् सहोदरि, पिराणऩ् आसार्यर्, पिराणऩ् पिराह्माणऩ्’ (सान्। ७-१५-१), ऎऩ्ऱु पिराणऩैयै ऎल्ला स्वरूबमागक् काट्टुगिऱदु। ‘ऎप्पडि आरक्काल्गळ् नाबियिल् वैक्कप् पट्टिरुक्किऩ्ऱऩवो अप्पडिये इन्द पिराणऩिल् ऎल्लाम् वैक्कप्पट्टिक्किऱदु’ ऎऩ्ऱुम् ऎल्ला स्वरूबमायिरुक्कुम् तऩ्मै। आरक्काल् नाबि तिरुष्टान्दम्, इवै इरण्डिलिरुन्दुम् विस्तारमायिरुक्कुम् तऩ्मैयागिय पूमस्वरूबत् तऩ्मै पिराणऩुक्कुम् सम्बविक्किऱदु।

ज्ञानानन्द-भारती - द्राविडी

आगैयाल् पिराणऩ् पूमा ऎऩ्ऱु इव्विदम् एऱ्पट्टदु।

तत इदमुच्यते — परमात्मैवेह भूमा भवितुमर्हति, न प्राणः। कस्मात् ? सम्प्रसादादध्युपदेशात्। सम्प्रसाद इति सुषुप्तं स्थानमुच्यते; सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात्। बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात्। तस्यां च सम्प्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र सम्प्रसादोऽभिप्रेयते। प्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थः। प्राण एव चेद्भूमा स्यात् , स एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेवैतत्स्यात्। न हि नामैव ‘नाम्नो भूयः’ इति नाम्न ऊर्ध्वमुपदिष्टम्। किं तर्हि ? नाम्नोऽन्यदर्थान्तरमुपदिष्टं वागाख्यम् ‘वाग्वाव नाम्नो भूयसी’ इति। तथा वागादिभ्योऽपि आ प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम्। तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हति ।

ज्ञानानन्द-भारती - द्राविडी

सित्तान्दम्: अदऩाल् इदु सॊल्लप्पडुगिऱदु। परमात्मा ताऩ् इङ्गे पूमावाग इरुप्पदु न्यायम्, पिराणऩ् अल्ल। एऩ्? ‘“सम्बिरसादत्तिऱ्कु मेले उबदेसिक्कप्पट्टिरुप्पदाल्’ ‘सम्बिरसादम्’ ऎऩ्बदाल् नल्ल तूक्क निलै सॊल्लप्पडुगिऱदु। अदिल् नऩ्ऱाग पिरसऩ्ऩमाग आगिऱाऩ् (तॆळिवु अडैगिऱाऩ्) ऎऩ्ऱ निर्वसऩत्तिऩाल्।

ज्ञानानन्द-भारती - द्राविडी

पिरुहदारण्यगत्तिल् स्वप्न जागरस्ताऩङ् गळुडऩ्गूड सम्ब्रसात्तै पडित्तिरुप्पदाल् सम्ब्रसादबदम् सुषुप्तियै कुऱिक्किऱदु। अन्द सम्बिरसाद निलैयिल् ‘पिराणऩ्’ विऴित्तुक् कॊण्डि रुक्किऱदु ऎऩ्बादल् इङ्गे पिराणऩ् सम्बिरसाद मॆऩ्ऱु अबिप्पिरायप्पट्टिरुक्किऱदु। पिराणऩुक्कु मेलाग पूमा उबदेसिक्कप्पडुवदाल्, ऎऩ्ऱु (सूत्रत् तिऱ्कु) अर्त्तम्। पिराणऩे पूमावाग इरुन्दाल्, अदुवे अदऱ्कुमेल् उबदेसिक्कप्पडुगिऱदु ऎऩ्ऱु पॊरुत्तमऱ्ऱ तागवे इदु एऱ्पडुम्। नाममे नामत्तैविड अदिगप् पॆरिदु ऎऩ्ऱु नामत्तिऱ्कु मेलाग उबदेसिक्कप्पड विल्लैये। अप्पडियाऩाल् ऎप्पडि? ‘नामत्तैविड वाक्कुत्ताऩ् अदिगप्पॆरिदु’ ऎऩ्ऱु नामत्तै विट्टु वेऱायुळ्ळ इऩ्ऩॊरु वस्तु वाक्कु ऎऩ्ऱु पॆयरुळ्ळदु उबदेसिक्कप्पट्टिरुक्किऱदु। अप्पडिये पिराणऩ् वरैयिल्, वाक्कु मुदलाऩ वैगळैक् काट्टिलुम् वेऱु वेऱु वस्तुवे अङ्गे अङ्गे मेलाग उबदेसिक्कप्पट्टिरुक्किऱदु। अदैप् पोल, पिराणऩुक्कु मेलाग उबदेसिक्कप्पडुगिऱ पूमा ऎऩ्बदु पिराणऩैविड वेऱु वस्तुवायिरुप्पदुदाऩ् न्यायम्।

नन्विह नास्ति प्रश्नः — ‘अस्ति भगवः प्राणाद्भूयः’ इति। नापि प्रतिवचनमस्ति ‘प्राणाद्वाव भूयोऽस्ति’ इति; कथं प्राणादधि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः — ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति। तस्मान्नास्ति प्राणादध्युपदेश इति। अत्रोच्यते — न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुम् , विशेषवादात् ‘यः सत्येनातिवदति’ इति ।

ज्ञानानन्द-भारती - द्राविडी

इङ्गे ‘पगवऩ् पिराणऩैविड अदिगप्पॆरिदु उण्डा?’ ऎऩ्ऱ केळ्वि इल्लैये; ‘पिराणऩैविड अदिगप्पॆरिदु उण्डु’ ऎऩ्ऱु पदिलुम् इल्लैये: पिराणऩुक्कु मेले पूमा उबदेसिक्कप्पडुगिऱदॆऩ्ऱु ऎप्पडि सॊल्लप्पडुगिऱदु? ऎवऩ् सत्तियत्तिऩाल् अदिवदऩम् सॆय्गिऱाऩो अवऩेदाऩ् अदिवदऩम् सॆय्गिऱाऩ्’ ऎऩ्ऱु मेलेयुम् इऴुत्तुक् कॊळ्ळप्पडुगिऱ अदिवादियायिरुप्पदु पिराणऩैये विषयमायुळ्ळ तॆऩ्ऱु पार्क्किऱोम्। आगैयाल् पिराणऩुक्कु मेले उबदेसम् इल्लै, ऎऩ्ऱु? इङ्गु सॊल्गिऱोम्; पिराणऩै विषयमायुळ्ळ अदिवादित् तऩ्मैक्कुत्ताऩ् पिऩ् इऴुत्तुत् तॊडर्च्चि ऎऩ्ऱु सॊल्लमुडियादु, ‘ऎवऩ् सत्यत्तिऩाल् अदिवदऩम् सॆय्गिऱाऩो’ ऎऩ्ऱु विसेषमाय् सॊल्लियिरुप्पदाल्।

ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यति। कथम् ? यथा ‘एषोऽग्निहोत्री, यः सत्यं वदति’ इत्युक्ते, न सत्यवदनेनाग्निहोत्रित्वम्। केन तर्हि ? अग्निहोत्रेणैव; सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते। तथा ‘एष तु वा अतिवदति, यः सत्येनातिवदति’ इत्युक्ते, न सत्यवदनेनातिवादित्वम्। केन तर्हि ? प्रकृतेन प्राणविज्ञानेनैव। सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति। नेति ब्रूमः; श्रुत्यर्थपरित्यागप्रसङ्गात्। श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते —

ज्ञानानन्द-भारती - द्राविडी

इन्द विसे षमाय् सॊल्लियिरुप्पदु कूड पिराण विषयमायिरुक्कलामे? ऎप्पडि? ‘ऎवर् सत्यम् सॊल्गिऱारो अवर् अक्ऩिहोत्री ’ ऎऩ्ऱु सॊऩ्ऩाल्, अक्ऩिहोत्रित् तऩ्मै सत्यम् सॊल्वदिऩाल् इल्लै। अप्पडियाऩाल् ऎदऩाल्? अक्ऩिहोत् रत्तिऩाल्दाऩ् सत्यम् सॊल्वदु ऎऩ्बदो अक्ऩिहोत्रिक्कु ऒरु विसेषमाग सॊल्लप्पडुगिऱदु ऎऩ्बदु ऎप्पडियो अप्पडिये ‘ऎवर् सत्यत्तिऩाल् अदिवदऩम् सॆय्गिऱाऩो अवऩ्दाऩ् अदिवदऩम् सॆय्गिऱाऩ्’ ऎऩ्ऱु सॊऩ्ऩाल्, सत्यम् सॊल्वदिऩाल् अदिवादित्तऩ्मै इल्लै। अप्पडियाऩाल् ऎदऩाल्? पिरगिरुदमाऩ पिराणऩै अऱिवदिऩाल्दाऩ्। सत्यम् सॊल्वदो पिराणऩै अऱिन्दवऩुक्कु विसेषमाग सॊल्ल उत्तेसिक्कप्पडुगिऱदु, ऎऩ्ऱु।

ज्ञानानन्द-भारती - द्राविडी

अप्पडियल्ल ऎऩ्ऱु सॊल्गिऱोम्; सुरुदियिऩ् अर्त्तत्तै विट्टुविडुम्बडि एऱ्पडुमाऩदिऩाल्, इङ्गे ‘ऎवऩ् सत्यत्तिऩाल् अदिवदऩम् सॆय्गिऱाऩो अवऩ् अदिवदऩम् सॆय्गिऱाऩ्’ ऎऩ्ऱ सुरुदियिऩाल् अदिवादित् तऩ्मै सत्यत्तै सॊल्वदिऩाल् ऎऩ्ऱु तॆरिगिऱदु; इङ्गे पिराणऩै अऱिवदु ऎऩ्बदैप्पऱ्ऱि सॊल्ल विल्लै। पिरगरणत्तिऩाल्दाऩ् पिराणविज्ञानम् सम्बन्दप्पडवेण्डुम्; अप्पॊऴुदु पिरगरणत्तै अऩुसरित्तु (नेरिल् सॊल्लुम्) सुरुदि विडप्पट्टदाग आगिविडुम्।

‘यः सत्येनातिवदति सोऽतिवदति’ इति। नात्र प्राणविज्ञानस्य सङ्कीर्तनमस्ति। प्रकरणात्तु प्राणविज्ञानं सम्बध्येत। तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात्। प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न सङ्गच्छेत — ‘एष तु वा अतिवदति’ इति । ‘सत्यं त्वेव विजिज्ञासितव्यम्’ (छा. उ. ७। १६। १) इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति। तस्माद्यथैकवेदप्रशंसायां प्रकृतायाम् , ‘एष तु महाब्राह्मणः, यश्चतुरो वेदानधीते’ इत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते, तादृगेतद्द्रष्टव्यम् ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम् इवऩोवॆऩिल् अदिवदऩम् सॆय्गिऱाऩ्’ ऎऩ्ऱु पिरगिरुदत्तै विलक्कक्कूडिय अर्त्तमुळ्ळ‘तु’ ऎऩ्ऱ सप्तम् पॊरुत्तमागादु ‘सत्यमेदाऩ् नऩ्गु अऱियप्पडवेण्डुम्’ ऎऩ्ऱु वेऱायुळ्ळ पिरयत्तिऩत्तैक् कण्डिरुप्पदुम् वेऱु विषयत्तै सॊल्लविरुप्पमॆऩ्बदै सूसिक्किऱदु। आगैयाल्, ऒरुवेदमऱिन्दवरैप् पुगऴ्वदु पिरगिरुदमा यिरुक्कुम् पोदु ‘इवरो महाबिराह्मणर्, ऎवर् नाऩ्गु वेदङ्गळैयुम् अत्ययऩम् सॆय्गिऱारो’ ऎऩ्ऱु ऒरु वेदमुळ्ळवर्गळुक्कु वेऱायिरुप्पवराऩ नाऩ्गु वेदमुळ्ळवर् ऎप्पडि पुगऴप्पडुगिऱारो, अदैप् पोलवे इदु ऎऩ्ऱु अऱिय वेण्डुम्।

न च प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति; प्रकृतसम्बन्धासम्भवकारितत्वादर्थान्तरविवक्षायाः। तत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति — यत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् — ‘एष तु वा अतिवदति, यः सत्येनातिवदति’ इति। तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात्; ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २। १। १) इति च श्रुत्यन्तरात्। तथा व्युत्पादिताय नारदाय ‘सोऽहं भगवः सत्येनातिवदानि’ इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशति ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, वेऱुविषयत्तै सॊल्ल निऩैप्पदु केळ्वि, पदिल् ऎऩ्ऱ रूबमागवे इरुक्कवेण्डु मॆऩ्ऱु नियमम् किडैयादु। पिरगिरुद विषयत्तुडऩ् तॊडर्बु ऒट्टामल् इरुप्पदुदाऩ् वेऱु विषयत्तै सॊल्वदिल् तात्पर्यत्तिऱ्कु कारणम् अङ्गे पिराणऩ् मुडिय उबदेसत्तैविट्टु सुम्माविरुन्द नारदरुक्कु ताऩागवे सनत्कुमारर् पोदिक्किऱार्। उण्डाऩदाय् वास्तव मल्लाददै विषयमायुळ्ळ पिराण विज्ञानत्तिऩाल् एऱ्पडुगिऱ अदिवादित्तऩम् ऎदुवो अदु अदिवादत्तऩम् इल्लै, ‘ऎवऩ् सत्यत्तिऩाल् अदिवदऩम् सॆय्गिऱाऩो अवऩ्दाऩ् वास्तवत्तिल् अदिवदऩम् सॆय्गिऱाऩ्’ ऎऩ्ऱु, अङ्गे सत्यम्ऎऩ्ऱु परबिरह्मम् सॊल्लप्पडुगिऱदु, वास्तवमाऩ स्वरूबमायिरुप्पदाल्, ‘सत्यम् ञाऩम् अऩन्दम् पिरह्म’ (तैत्तिरीय २-१) ऎऩ्ऱु वेऱु सुरुदियिऩालुम् इव्विदम् अऱिविक्कप्पट्टु, ‘पगवऩ्, अन्द नाऩ् सत्यत्तिऩाल् अदिवदऩम् सॆय्वेऩ्’ ऎऩ्ऱु आरम्बित्त नारदरुक्कु ‘विज्ञानम् मुदलाऩ सादऩङ्गळ् मूलम् पूमावै उबदेसिक्किऱार्।

तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम् , तदेवेह भूमेत्युच्यत इति गम्यते। तस्मादस्ति प्राणादधि भूम्न उपदेश इति — अतः प्राणादन्यः परमात्मा भूमा भवितुमर्हति। एवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति। प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते। न हि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति। न चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६। १५) इति श्रुत्यन्तरात् ।

ज्ञानानन्द-भारती - द्राविडी

अङ्गे पिराणऩुक्कु मेले। ऎन्द सत्यम् सॊल्लवेण्डियदाग पिरदिक्ञै सॆय्यप्पट्टदो, अदुवे ताऩ् इङ्गे पूमा ऎऩ्ऱु सॊल्लप्पडुगिऱ तॆऩ्ऱु तॆरिगिऱदु। आगैयाल् पिराणऩुक्कु मेल् पूमा विऱ्कु उबदेसम् इरुक्किऱदु ऎऩ्बदिऩाल् पिराणऩै विड वेऱागिय परमात्मा पूमावाग इरुप्पदु न्यायम्।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, इप्पडियाऩाल्दाऩ् आत्मावै अऱिय विरुप्पत्तुडऩ् पिरगरणम् आरम्बत्तिरुप्पदु उसिदमागुम्। पिराणऩ् ताऩ् इङ्गे आत्मावाग सॊल्ल विरुप्पप् पट्टदॆऩ्बदुम् पॊरुन्दादु। पिराणऩुक्कु मुक्किय विरुत्तियाल् (नेर् अर्त्तमाग) आत्मत्तऩ्मै किडैया तल्लवा?

ज्ञानानन्द-भारती - द्राविडी

मेलुम् परमात्मावै अऱिवदैत्तविर वेऱु ऎङ्गेयुम् सोगत्तिऩ् निविरुत्ति किडैयादु। ‘मोक्षत् तिऱगु वेऱु वऴि किडैयादु’ (सुवेदा ६-१५) ऎऩ्ऱु वेऱु सुरुदियिरुप्पदाल्,

‘तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७। १। ३) इति चोपक्रम्योपसंहरति — ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७। २६। २) इति। तम इति शोकादिकारणमविद्योच्यते। प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्येत । ‘आत्मतः प्राणः’ (छा. उ. ७। २६। १) इति च ब्राह्मणम्। प्रकरणान्ते परमात्मविवक्षा भविष्यति; प्राण एवेति चेत् , न; ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७। २४। १) इत्यादिना भूम्न एव आ प्रकरणसमाप्तेरनुकर्षणात्। वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ ८ ॥

ज्ञानानन्द-भारती - द्राविडी

‘पगवाऩ्, अन्द ऎऩ्ऩै सोगत्तिऩ् करैयै ताण्डिविडुङ्गळ्’ (सान्।७ १-३) ऎऩ्ऱु आरम्बित्तु, ‘तोषम् विलगिविट्ट अवऩुक्कु पगवाऩ् सनत्कुमारर् इरुट्टिऩ् करैयैक्काट्टुगिऱार् ऎऩ्ऱु मुडित्तु मिरुक्किऱदु’। ‘इरुट्टु’ ऎऩ्ऱु सोगम् मुदलियदऱ्कुक् कारणमायुळ्ळ अवित्यै सॊल्लप् पडुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

पिराणऩुडऩ् मुडिगिऱदाग उबदेसमिरुक्कु माऩाल्, पिराणऩुक्कु वेऱॊऩ्ऱुक्कु उट्पट्टिरुक्कुम् तऩ्मै सॊल्लियिरुक्कक्कूडादु, ‘आत्माविलिरुन्दु पिराणऩ्’ (सान् ७ २६-१) ऎऩ्ऱु पिराह्मणम् कूऱुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

पिरगरणत्तिऩ् मुडिविल् परमात्मावैप्पऱ्ऱि सॊल्ल विरुप्पमिरुक्कलाम्; पूमामात्तिरम् पिराणऩ् ताऩ्; ऎऩ्ऱाल् सरियल्ल। ‘पगवऩ्, अदु ऎदिल् निलैत्तिरुक्किऱदु ऎऩ्ऱु तऩ् महिमैयिल्’ (सान्७-२४-१) ऎऩ्बदु मुदलाऩदिऩाल् पिरगरणम् मुडियुम्रै पूमावैयेदाऩ् इऴुत्तुच् चॊल्लप् पट्टिरुप्पदाल्, विस्ताररूबमाऩ पूमत्तऩ्मै, ऎल्लावऱ्ऱिऱ्कुम् कारणमायिरुप्पदाल् परमात्मावुक्कु त्ताऩ् वॆगु नऩ्ऱागप् पॊरुन्दुम्।

धर्मोपपत्तेश्च ॥ ९ ॥

ज्ञानानन्द-भारती - द्राविडी

तर्मोबबत्तेच्च ॥ ९ ॥

अपि च ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते। ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ इति दर्शनादिव्यवहाराभावं भूमनि अवगमयति। परमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतः — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४। ५। १५) इत्यादिश्रुत्यन्तरात्। योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, न प्राणस्वभावविवक्षया, परमात्मप्रकरणात् ।

ज्ञानानन्द-भारती - द्राविडी

मेलुम्, पूमा विषयमाग ऎन्द धर्मङ्गळ् सॊल्लप्पडुगिऩ्ऱऩवो, अवै परमात्माविडत्तिल् पॊरुन्दुगिऩ्ऱऩ।

ज्ञानानन्द-भारती - द्राविडी

“ऎङ्गे वेऱु ऎदैयुम् पार्क्किऱाऩिल्लैयो, वेऱु ऎदैयुम् केट्किऱाऩिल्लैयो, वेऱु ऎदैयुम् अऱिगिऱाऩ् इल्लैयो, अदु पूमा” ऎऩ्ऱु पार्वै मुदलिय व्यवहारङ्गळिऩ् इल्लामैयै पूमाविल् अऱिविक्किऱदु। इन्द पार्वै मुदलिय व्यवहारङ् गळिऩ् इल्लामै, ‘ऎङ्गे इवऩुक्कु ऎल्लाम् आत्मावागवेयिरुक्कुमो, अप्पॊऴुदु ऎदऩाल् ऎदै पार्प्पाऩ्’ (पिरुहत् ४-५-१५) ऎऩ्बदु मुदलाऩ वेऱु सुरुदियिऩाल्, परमात्मा विषयत्तिल् अऱियप् पट्टिरुक्किऱदु।

ज्ञानानन्द-भारती - द्राविडी

नल्ल तूक्कनिलैयिल् ऎन्द पार्वै मुदलिय व्यवहारङ्गळिऩ् इल्लामै सॊल्लप्पट्टिरुप्पदु ऎदुवो, अदुवुम्गूड आत्मावुक्कुत्ताऩ् पऱ्ऱऱ्ऱ तऩ्मैयैच् चॊल्लुम् विरुप्पत्तुडऩ् सॊल्लप् पट्टिरुक्किऱदे तविर, पिराणऩुडैय स्वबावत्तैच् चॊल्ल विरुम्बियदाल् इल्लै। परमात्माविऩ् पिरगरणमाग इरुप्पदाल्।

यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम्; यत आह — ‘एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४। ३। ३२) इति। इहापि ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्’ इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति। ‘यो वै भूमा तदमृतम्’ इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति। विकाराणाममृतत्वस्यापेक्षिकत्वात् , ‘अतोऽन्यदार्तम्’ (बृ. उ. ३। ४। २) इति च श्रुत्यन्तरात्। तथा च सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्र। तस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥

ज्ञानानन्द-भारती - द्राविडी

अन्द निलैयिल् ऎन्द सुगम् सॊल्लप्पट्टदो, अदुवुम् आत्माविऩुडैयवे सुगस्व रूबत्तैच् चॊल्ल विरुम्बि सॊल्लप्पट्टदु, ‘इदु इवऩुडैय मेलाऩ आऩन्दम्। मऱ्ऱ पिराणिगळ् इदऩुडैयवे आऩन्दत्तिऩ् लेसत्तै अऩुसरित्तु जीविक्किऱार्गळ्’ (पिरुहत् ४-३-३२) ऎऩ्ऱु सॊल्लियिरुप्पदाल्, इङ्गेयुम् ‘ऎदु पूमावो अदु सुगम्, अल्बत्तिल् सुगम् किडैयादु; पूमादाऩ् सुगम्’ ऎऩ्ऱु तोषमुळ्ळ सुगत्तै निरागरणम् सॆय्दु पिरह्ममे सुगम्, पूमा ऎऩ्ऱु काट्टुगिऱदु।

ज्ञानानन्द-भारती - द्राविडी

‘ऎदु पूमावो अदुवे अमिरुदम्’ ऎऩ्ऱु सॊल्लप्पडुम् अमिरुदत्तऩ्मैयुम् इङ्गे परम् कारणमायुळ्ळदैत् तॆरिविक्किऱदु, ‘इदैविड मऱ्ऱदु अर्त्तम् (तोषमुळ्ळदु)’ (पिरुहत् ३-४-२) ऎऩ्ऱ वेऱु सुरुदियिऩाल् उण्डागिऱ वस्तुक्कळुक्कु अमिरुदत् तऩ्मै आबेक्षिगमाय् (वेऱॊऩ्ऱै उत्तेसित्तु) इरुप्पदाल्,

ज्ञानानन्द-भारती - द्राविडी

आगवे, सत्यमायिरुक्कुम् ़ तऩ्मै, तऩ् महिमैयिल् (स्वरूबत्तिल्) निलैत्तिरुत्तल्, ऎङ्गुम् इरुत्तल्, ऎल्लामाग इरुत्तल्, आगिय सॊल्लप्पडुम् धर्मङ्गळ् परमात्माविऩिडत्तिल् ताऩ् पॊरुन्दुम्; वेऱु ऎङ्गेयुम् पॊरुन्दादु। आगैयाल् पूमा ऎऩ्बदु परमात्मा ऎऩ्ऱु सित्तम्।