गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
ज्ञानानन्द-भारती - द्राविडी
कुहाम् प्रविष्टावात्मानौ हि तत्तर्सनात् ॥ ११ ॥
गुहां प्रविष्टौ धीजीवौ जीवेशौ वा हृदि स्थितेः ॥
छायातपाभ्यां दृष्टान्ताद्धीजीवौ स्तो विलक्षणौ ॥ ५ ॥
पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः ॥
हृत्स्थानमुपलब्ध्यै स्याद्वैलक्षण्यमुपाधितः ॥ ६ ॥
–वैयासिकन्यायमाला
ज्ञानानन्द-भारती - द्राविडी
(पुत्ति) कुहैयिल् पुगुन्दिरुप्पदु पुत्तियुम् जीवऩुमा? अल्लदु जीवऩुम् ईसुवरऩुमा? ह्रुदयत्तिल् इरुप्पदागच् चॊल्वदिऩालुम्, निऴल् वॆय्यिल् ऎऩ्ऱु तिरुष्टान्दम् सॊल्लियिरुप्पदिऩालुम्, ऒऩ्ऱुक्कॊऩ्ऱु (जडम् सैदऩ्यम् ऎऩ्ऱु) वेऱुबट्टुळ्ळ पुत्तियुम् जीवऩुमागत्ताऩ् इरुक्क वेण्डुम्।
ज्ञानानन्द-भारती - द्राविडी
अरुन्दुगिऱवर्गळ् ऎऩ्बदाल् इरुवरुक्कुम् अऱिवु इरुक्क वेण्डुम्। आगैयाल् इवरिरुवरुम् जीवऩुम् ईसुवर रुम् ताऩ्। ह्रुदयत्तिल् इरुत्तल् अऱिय वेण्डियदऱ् कागवागुम्। ऒरुवरुक्कॊरुवर् वेऱुबडुदल् उबादिगळिऩाल् इरुक्कक्कूडुम्।
कठवल्लीष्वेव पठ्यते — ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’ (क. उ. १। ३। १) इति। तत्र संशयः — किमिह बुद्धिजीवौ निर्दिष्टौ, उत जीवपरमात्मानाविति। यदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसङ्घाताद्विलक्षणो जीवः प्रतिपादितो भवति। तदपीह प्रतिपादयितव्यम् , ‘येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १। १। २०) इति पृष्टत्वात् ।
ज्ञानानन्द-भारती - द्राविडी
ऎऩ्ऱ वाक्कियम् इन्द अदिगरणत्तिऱ्कु विषयम्। इङ्गु सरीरत्तिल् ह्रुदयत्तिल् कुहैयिल् पिरवेसित्तवर्गळाग इरुवर्गळ् कुऱिप्पिडप्पट्टुळ्ळऩर्। इवर्गळ् पुत्ति जीवर्गळा? जीवबरमात्माक्कळा ऎऩ्ऱु सन्देहम्। निऴलैयुम्, वॆय्यिलैयुम् तिरुष्टान्दमागक् कूऱियिरुप्पदाल् जडर्, सेदऩर् ऎऩ्ऱु माऱुबट्ट स्वबावमुळ्ळ । पुत्ति जीवर्गळैत्ताऩ् इम्मन्दिरम् कुऱिक्किऱदु। ऒरे मादिरि स्वबावमुळ्ळ सेदऩर्गळाऩ जीवेच्वरर्गळैयल्ल ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
पिबन्तौ ऎऩ्ऱु सेदऩ तर्ममाऩबाऩम् सॊल्लि यिरुप्पदाल् सेदऩर्गळाऩ जीवेसुवरर्गळ् ताऩ् कुहैयिल् इरुप्पवर्गळ्। ऎङ्गुम् निऱैन्द ईसुवरऩै अऱिन्दु कॊळ्वदऱ्काग ह्रुदय स्ताऩम् सॊल्लप् पट्टदु। इरुवर्गळुम् सेदऩर्गळाऩालुम् उबादि मूलम् वैलक्षण्यमुम् उण्डु ऎऩ्ऱु सित्तान्दम्]
ज्ञानानन्द-भारती - द्राविडी
कडवल्लिगळिलेये ‘अवसियम् एऱ्पडुम् कर्म पलऩै अऩुबविक्किऱवर्गळाग, ताऩ् सॆय्द कर्माविऩ् कार्यमाऩ तेहत्तिल् हिरुदयत्तिलुळ्ळ कुगैयिल् निऴलुम्, वॆय्यिलुम् पोल, इरुवर् पुगुन्दिरुक्किऱार्गळ् ऎऩ्ऱु पिरह्मत्तै अऱिन्दवर्गळुम्, ऎवर्गळ् नासिगेदाक्किऩियै मूऩ्ऱु तरम् सयऩम् सॆय्दवर्गळाय् ऐन्दु अक्ऩिगळुडऩिरुक्किऱार्गळो अवर्गळुम् सॊल्लुगिऱार्गळ्’ (काडग १-३-१) ऎऩ्ऱु सॊल्लप्पट्टि रुक्किऱदु। इङ्गे कुऱिप्पिट्टिरुक्कुम् इरुवर् पुत्तियुम् जीवऩुमा, अल्लदु जीवऩुम् परमात्मावुमा, ऎऩ्ऱु अङ्गे सन्देहम्।
ज्ञानानन्द-भारती - द्राविडी
पुत्तियुम्, जीवऩुम् ऎऩ्ऱिरुन्दाल्, अप्पॊऴुदु पुत्तियै पिरदाऩमागवुडैय सरीर इन्दिरियङ्गळिऩ् कूट्टत्तिलिरुन्दु वेऱुबट्टदाग जीवऩ् पिरदिबादिक्कप् पट्टदाग आगुम्। अदुवुम् इङ्गे पिरदिबादिक्कप्पड वेण्डियदुदाऩ्, ‘मऩुषियऩ् इऱन्दुविट्टाल् इवऩ् इरुक्किऱाऩ् ऎऩ्ऱु सिलर्, इवऩ् इल्लै ऎऩ्ऱु सिलर् ऎऩ्ऱु इन्द संसयम् ऎदुवो, अदै तङ्गळाल् सॊल्लप्पट्टु नाऩ् तॆरिन्दु कॊळ्ळवेण्डुम्। वरऩ्गळुक्कुळ् इदु मूऩ्ऱावदु वरऩ्’ (काडग। १-१-२०) ऎऩ्ऱु केट्कप्पट्टिरुप्पदिऩाल्।
अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति। तदपीह प्रतिपादयितव्यम् — ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १। २। १४) इति पृष्टत्वात्। अत्राहाक्षेप्ता — उभावप्येतौ पक्षौ न सम्भवतः। कस्मात् ? ऋतपानं कर्मफलोपभोगः, ‘सुकृतस्य लोके’ इति लिङ्गात्। तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति, नाचेतनाया बुद्धेः। ‘पिबन्तौ’ द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः। अतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न सम्भवति ।
ज्ञानानन्द-भारती - द्राविडी
अल्लदु, जीवऩुम् परमात्मावुम् ऎऩ्ऱिरुन्दाल्, अप्पॊऴुदु जीवऩुक्कु वेऱायुळ्ळ परमात्मा पिरदिबादिक्कप्पट्टदाग आगुम्। अदुवुम् इङ्गे पिरदिबादिक्कप्पड वेण्डियदुदाऩ्, ‘तर्मत्तिलिरुन्दु वेऱायुम्, अदर्मत्तिलिरुन्दु वेऱायुम् सॆय्यप्पट्टदु, सॆय्यप्पडाददु ऎऩ्ऱ इदिलिरुन्दु वेऱायुम्, उण्डाऩदिलिरुन्दुम् उण्डागप्पोवदिलिरुन्दुम् वेऱायुम्, ऎन्द अदैप् पार्क्किऱीरो, अदैच् चॊल्लुम्’ (काडग। १-२-१४) ऎऩ्ऱु केट्कप् पट्टिरुप्पदिऩाल्।
ज्ञानानन्द-भारती - द्राविडी
इङ्गे आक्षिेबिक्किऱवऩ् सॊल्गिऱाऩ्: इन्द इरण्डु पक्षङ्गळुमे सम्बविक्कादु। एऩ्? ‘रुदबाऩम्’ ऎऩ्बदु, ‘नऩ्गु सॆय्यप्पट्टदिऩ् कार्यमाऩ तेहत्तिल्’ ऎऩ्ऱ लिङ्गत्तिऩाल्, कर्मबलऩै अऩुबविप्पदु ऎऩ्ऱु आगिऱदु; अदु सेदऩऩाऩ क्षेत्तिरक्ञऩुक्कु (जीवऩुक्कु) सम्बविक्कुम्, असेदऩमाऩ पुत्तिक्कु सम्बविक्कादु। ‘साप्पिडुगिऱ इरुवर्’ ऎऩ्ऱु त्विवसऩत्तिऩाल् इरण्डु पेर्गळुक्कु साप्पिडुवदै सुरुदि काट्टुगिऱदु। आगैयिऩालुम् पुत्तियुम्, जीवऩुम् ऎऩ्ऱ पक्षम् सम्बविक्कादु।
अत एव क्षेत्रज्ञपरमात्मपक्षोऽपि न सम्भवति। चेतनेऽपि परमात्मनि ऋतपानासम्भवात् , ‘अनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३। १। १) इति मन्त्रवर्णादिति। अत्रोच्यते — नैष दोषः; छत्रिणो गच्छन्तीत्येकेनापि च्छत्रिणा बहूनामच्छत्रिणां छत्रित्वोपचारदर्शनात्। एवमेकेनापि पिबता द्वौ पिबन्तावुच्येयाताम्। यद्वा जीवस्तावत्पिबति। ईश्वरस्तु पाययति। पाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृत्वप्रसिद्धिदर्शनात्। बुद्धिक्षेत्रज्ञपरिग्रहोऽपि सम्भवति; करणे कर्तृत्वोपचारात्। ‘एधांसि पचन्ति’ इति प्रयोगदर्शनात्। न चाध्यात्माधिकारेऽन्यौ कौचिद्द्वावृतं पिबन्तौ सम्भवतः। तस्माद्बुद्धिजीवौ स्यातां जीवपरमात्मानौ वेति संशयः ॥
ज्ञानानन्द-भारती - द्राविडी
अदऩालेये जीवऩुम्, परमात्मावुम् ऎऩ्गिऱ पक्षमुम् सम्बविक्कादु, सेदऩऩायिरुन्द पोदिलुम् परमात्माविऩिडत्तिल् ‘रुदबाऩम्’ (कर्मबलऩै अऩुबविप्पदु) सम्बविक्काददिऩाल्, ‘साप्पिडामल् मऱ्ऱवर् पिरगासित्तुक् कॊण्डिरुक्किऱार्’ ऎऩ्ऱ मन्दिर वर्णत्तिऩाल्, ऎऩ्ऱु
ज्ञानानन्द-भारती - द्राविडी
इङ्गु सॊल्गिऱोम्; इदु तोषमिल्लै। ऒरुवऩ् मात्तिरम् कुडैयुडऩिरुन्दालुम् कूड ‘कुडैयुळ्ळवर्गळ् पोगिऱार्गळ्’ ऎऩ्ऱु पलर्गळुक्कु कुडैयुळ्ळ तऩ्मै उबसारमाग काणुवदाल्, अव्विदमे ऒरुवर् साप्पिट्टालुम्गूड इरुवरुम् साप्पिट्टदाग सॊल्लप्पडलाम्। अल्लदु जीवऩ् साप्पिडुगिऱाऩ्। ईसुवरऩो साप्पिडुम्बडिच् चॆय्गिऱाऩ्। साप्पिडच् चॆय्गिऱवऩुम्गूड साप्पिडुगिऱाऩ् ऎऩ्ऱु सॊल्लप् पडुवाऩ्। पागम् (समैयल्) सॆय्विप्पवऩिडत्तिलुम् पागम् सॆय्गिऱवऩ् ऎऩ्ऱ पिरसित्ति काणुवदाल्।
ज्ञानानन्द-भारती - द्राविडी
पुत्तियैयुम्, जीवऩैयुम् ऎडुत्तुक्कॊळ्वदुम् सम्बविक्कुम्, करुवियिऩिडत्तिल् सॆय्युम् तऩ्मैक्कु उबसारमाय् पिरयोगमिरुप्पदिऩाल्, विऱगु पागम् सॆय्गिऱदु ऎऩ्ऱु पिरयोगम् काणुवदाल्।
ज्ञानानन्द-भारती - द्राविडी
अत्यात्मत्तैच् चॊल्लुम् पिरगरणत्तिल् कर्मबलऩै साप्पिडुगिऱवर्गळाग वेऱु इरण्डु यारुम् सम्बविक्कादु आगैयाल् पुत्तियुम्, जीवऩुम् इरुक्कलाम्, अल्लदु जीवऩुम् परमात्मावुम् इरुक्कलाम् ऎऩ्बदिऩाल् सन्देहम्।
किं तावत्प्राप्तम् ? बुद्धिक्षेत्रज्ञाविति। कुतः ? ‘गुहां प्रविष्टौ’ इति विशेषणात्। यदि शरीरं गुहा, यदि वा हृदयम् , उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते। न च सति सम्भवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम्। ‘सुकृतस्य लोके’ इति च कर्मगोचरानतिक्रमं दर्शयति। परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते, ‘न कर्मणा वर्धते नो कनीयान्’ (बृ. उ. ४। ४। २३) इति श्रुतेः। ‘छायातपौ’ इति च चेतनाचेतनयोर्निर्देश उपपद्यते, छायातपवत्परस्परविलक्षणत्वात्। तस्माद्बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः—
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम्: ऎदु न्यायम्? पुत्तियुम्, जीवऩुम् ऎऩ्ऱु, एऩ्? “कुगैयिल् पुगुन्दिरुप्पवर्गळ्” ऎऩ्ऱु कुऱिप्पिट्टिरुक्किऱबडियाल्, कुहै ऎऩ्बदु सरीरमाऩालुम् अल्लदु ह्रुदयमाऩालुम्, इरण्डु मुऱैयिलुम् पुत्तियुम् जीवऩुम् कुहैयिल् पुगुन्दिरुप्पवर्गळ् ऎऩ्बदु पॊरुन्दुम्। इदु सम्बविक्कुम्बोदु, ऎङ्गुमुळ्ळ पिरह्मत्तिऱ्कु कुऱिप्पिट्ट तेसमुळ्ळदाऩ तऩ्मैयै कल्बिप्पदु युक्तमिल्लै। “नऩ्गु सॆय्यप्पट्टदिऩ् कार्यमाऩ तेहत्तिल्” ऎऩ्ऱु कर्माविऱ्कु उळ्बट्टु मीऱामल् इरुप्पदैक् काट्टुगिऱदु। परमात्मावो नल्लदाग सॆय्यप्पट्टदऱ्को कॆडुदलाय् सॆय्यप् पट्टदऱ्को उळ्बट्टत्तिल् इरुप्पदिल्लै, “कर्माविऩाल् विरुत्तियडैवदिल्लै। कुऱैन्दवऩाग आवदुमिल्लै” ऎऩ्ऱु सुरुदियिऩाल्। मेलुम्, “निऴल् वॆय्यिल्” ऎऩ्बदिऩाल् सेदऩत्तैयुम् असेदऩत् तैयुम् कुऱिप्पिडुवदु पॊरुन्दुम्, निऴलैयुम्, वॆय्यिलैयुम् पोल, ऒऩ्ऱुक्कॊऩ्ऱु माऱुबट्टि रुप्पदाल्, आगैयाल् पुत्तियुम् जीवऩुम् इङ्गे सॊल्लप्पडुगिऱार्गळ् ऎऩ्ऱु।
विज्ञानात्मपरमात्मानाविहोच्येयाताम्। कस्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ। संख्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते। ‘अस्य गोर्द्वितीयोऽन्वेष्टव्यः’ इत्युक्ते, गौरेव द्वितीयोऽन्विष्यते, नाश्वः पुरुषो वा। तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयते ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: इव्विदम् एऱ्पडुम्बोदु सॊल्गि ऱोम्; विज्ञानात्मा (जीवऩ्) परमात्मा ऎऩ्ऱ इरुवर् इङ्गे सॊल्लप्पडुगिऱार्गळ्। ऎऩ्ऩ कारणत्तिऩाल्? अव्विरुवर्गळुम् ‘आत्माक्कळ्’ सेदऩर्गळ्, समाऩमाऩ स्वबावमुळ्ळवर्गळ्, अल्लवा? ऎण्णिक्कैयैक् केट्टदुम् समाऩमाऩ स्वबावमुळ्ळवैगळ् विषयमागवे उलगत्तिल् अऱिवदु काणप्पडुगिऱदु। ‘इन्दप् पसुमाट्टिऱ्कु इरण्डावदु तेडप्पडवेण्डुम्’ ऎऩ्ऱु सॊऩ्ऩाल्, इरण्डावदाग पसुमाडुदाऩ् तेडप्पडुम्। कुदिरैयो, मऩिदऩो अल्ल। अदिऩाल् इङ्गे कर्मबलऩै साप्पिडुगिऱदॆऩ्ऱ लिङ्गत्तिऩाल् ऒऩ्ऱु विज्ञानात्मावॆऩ्ऱु निच्चयिक्कप्पडुवदाल्, इरण्डावदै तेडुम्बोदु समाऩमाऩ स्वबावत् तैयुडैय सेदऩऩाऩ परमात्मादाऩ् अऱियप्पडुम्।
ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति; गुहाहितत्वदर्शनादेव परमात्मा प्रत्येतव्य इति वदामः। गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यते — ‘गुहाहितं गह्वरेष्ठं पुराणम्’ (क. उ. १। २। १२) ‘यो वेद निहितं गुहायां परमे व्योमन्’ (तै. उ. २। १। १) ‘आत्मानमन्विच्छ गुहां प्रविष्टम्’ इत्याद्यासु ।
ज्ञानानन्द-भारती - द्राविडी
कुगैयिल् इरुप्पदु ऎऩ काणुवदाल् परमात्मा ऎऩ्ऱु अऱियक्कूडादु ऎऩ्ऱु सॊल्लप्पट्टदेयॆऩ् ऱाल्, कुहैयिल् इरुप्पदु ऎऩ काणुवदिऩालेये परमात्मा ऎऩ्ऱु अऱिय वेण्डुम् ऎऩ्ऱु सॊल्गिऱोम्। कुहैयिल् इरुप्पदु ऎऩ्बदो परमात्मावुक्कुत्ताऩ् सुरुदिस्मिरुदिगळिल् पलदडवै काणप्पडुगिऱदु। ‘कुहैयिल् इरुप्पवराय् मिगवुम् ऒळिन्दिरुप्पवराय् पुराणराय्’ (काडग १-२-१२), ‘ऎवर् कुहैयिल् उत्तममाऩ आगासत्तिल् इरुप्पवरै अऱिगिऱारो’ (तैत्तिरीय २−१) ‘कुहैयिल् पुगुन्दिरुक्कुम् आत्मावै तेडियडै’ ऎऩ्बदु मुदलियवैगळिल्।
सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न विरुध्यत इत्येतदप्युक्तमेव। सुकृतलोकवर्तित्वं तु च्छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम्। ‘छायातपौ’ इत्यप्यविरुद्धम्; छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः, अविद्याकृतत्वात्संसारित्वस्य पारमार्थिकत्वाच्चासंसारित्वस्य। तस्माद्विज्ञानात्मपरमात्मानौ गुहां प्रविष्टौ गृह्येते ॥ ११ ॥
ज्ञानानन्द-भारती - द्राविडी
ऎङ्गुमुळ्ळ पिरह्मत्तिऱ्कुम् अऱिय वेण्डिय तऱ्काग कुऱिप्पिट्ट इडत्तै उबदेसिप्पदु विरुत्त मिल्लै ऎऩ्गिऱ इदुवुम् सॊल्लप्पट्टदे। नऩ्गु सॆय्यप्पट्ट कर्माविऩ् पलऩागिय लोगत्तिल् (सरीरत्तिल्) इरुप्पदुम्, कुडैबिडिक्कुम् तऩ्मैबोल, ऒरुवरिडत्तिल् इरुप्पदु इरुवरुक्कुम् सॊल्लप् पडुवदु विरुत्तमिल्लै। निऴल्, वॆय्यिल् ऎऩ्बदुम् विरुत्तमिल्लै। संसारित् तऩ्मैयुम् संसारि यिल्लाद तऩ्मैयुम्, निऴल्, वॆय्यिल् पोल, ऒऩ्ऱुक् कॊऩ्ऱु वेऱुबट्टिरुप्पदाल्; संसारित्तऩ्मै अवित्तैयिऩाल् एऱ्पट्टदिऩालुम् संसारियिल्लात् तऩ्मै वास्तवमायुळ्ळदिऩालुम्।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् विज्ञानात्मावुम् परमात्मावुम् ताऩ् कुहैयिल् पुगुन्दिरुप्पवर्गळॆऩ्ऱु अऱियप्पडुगिऱदु।
कुतश्च विज्ञानात्मपरमात्मानौ गृह्येते ? —
ज्ञानानन्द-भारती - द्राविडी
विज्ञानात्मावुम् परमात्मावुम् ताऩ् ऎऩ्ऱु वेऱु ऎन्दक् कारणत्तिऩाल् अऱियप्पडुगिऱदु?-
विशेषणाच्च ॥ १२ ॥
ज्ञानानन्द-भारती - द्राविडी
विसे षणाच्च ॥ १२ ॥
विशेषणं च विज्ञानात्मपरमात्मनोरेव भवति । ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’ (क. उ. १। ३। ३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयति । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ (क. उ. १। ३। ९) परमात्मानं गन्तव्यं कल्पयति। तथा ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १। २। १२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ। प्रकरणं चेदं परमात्मनः। ‘ब्रह्मविदो वदन्ति’ इति च वक्तृविशेषोपादानं परमात्मपरिग्रहे घटते। तस्मादिह जीवपरमात्मानावुच्येयाताम् ।
ज्ञानानन्द-भारती - द्राविडी
विसे षणमुम्, विज्ञानात्मा परमात्मा इवर्गळुक्कुत् ताऩ् इरुक्किऱदु। ‘आत्मावै रदस्वामियागवुम् सरीरत्तै रदमागवुमे अऱिन्दुगॊळ्’ (काडग १-३-३) ऎऩ्बदु मुदलिय मेलुळ्ळ किरन्दत्तिऩाल् रदस्वामि रदम् मुदलाऩ रूबगङ्गळैक् कल्बिप्पदिऩाल्, रदस्वामियाऩ विज्ञानात्मावै संसारम् मोक्षम् इवैगळिल् पोगिऱवऩाग कल्बिक्किऱदु। ‘अवऩ् वऴियिऩुडैय ऎल्लैयै अडैगिऱाऩ्; अदु विष्णुविऩ् (वियाबगमाऩ पिरह्मत्तिऩ्) उत्तममाऩ स्ताऩम्’ (काडग। १-३-९) ऎऩ्ऱु परमात्मावै अडैयप्पड वेण्डियवरागवुम् कल्बिक्किऱदु। अप्पडिये मुऩ्ऩुळ्ळ किरन्दत्तिलुम् ‘सुलबमाय् पार्क्क मुडियाददाय्, मऱैन्दुळ्ळदाय्, उळ्ळेनुऴैन्ददाय्, कुहैयिलिरुप्पदाय्, आऴत्तिल् इरुप्पदाय्, पुराणमाय्, इरुक्कुम् तेवऩै (स्वयम् पिरगास वस्तुवै) अत्यात्मयोगत्तिऩाल् (आत्माविल् सित्तत्तै निऱुत्तुवदाल्) एऱ्पडुम् अऱिविऩाल् अऱिन्दु तीरऩाय् (सुत्तमाऩ पुत्तियुळ्ळवऩाय्) इरुप्पवऩ् हर्षत् तैयुम्, सोगत्तैयुम् विट्टुविडुवाऩ्’ (काडग। १-२-१२) ऎऩ्ऱु अऱिगिऱवऩागवुम्, अऱियप्पडुवदागवुम् इन्द इरण्डु आत्माक्कळे कुऱिप्पिडप्पट्टिरुक्किऱार्गळ्। इन्द पिरगरणमुम्, परमात्मावैच् चेर्न्ददु ‘पिरह्मत्तै अऱिन्दवर्गळ् सॊल्लुगिऱार्गळ्’ ऎऩ्ऱु सॊल्लुगिऱवर्गळिऩ् विसेषत्तैक् काट्टुवदुम् परमात्मावै ऎडुत्तुक्कॊण्डाल् ताऩ् पॊरुत्त मागुम्। आगैयाल् इङ्गे जीवऩुम् परमात्मावुमे सॊल्लप्पडुगिऱार्गळ्।
एष एव न्यायः ‘द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३। १। १) इत्येवमादिष्वपि। तत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते। ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इत्यदनलिङ्गाद्विज्ञानात्मा भवति । ‘अनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३। १। १) इत्यनशनचेतनत्वाभ्यां परमात्मा। अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि — ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३। १। २) इति ॥
ज्ञानानन्द-भारती - द्राविडी
इदे न्यायम्दाऩ् “कूडवे सेर्न्दु इरुक्कुम् नण्बर्गळाऩ इरण्डु करुडर्गळ्” (मुण्डग ३-१-१) ऎऩ्बदु मुदलिय इडङ्गळिलुम्, अङ्गेयुम् अत्यात्म पिरगरणमाऩदिऩाल् सादारण करुडर्गळ् सॊल्लप् पडविल्लै। “अवैगळिल् ऒऩ्ऱु कर्म पलऩै नऩ्गु साप्पिडुगिऱदु” ऎऩ्ऱु साप्पिडुवदाऩ लिङ्गत्तिऩाल् विज्ञानात्मावाग आगिऱदु। “मऱ्ऱवर् साप्पिडामल् पिरगासित्तुक्कॊण्डिरुक्किऱार्” ऎऩ्ऱु साप्पिडाद तिऩालुम् अऱिवुळ्ळदिऩालुम् परमात्मावाग आगिऱदु। अडुत्त मन्दिरत्तिलुम् अव्विरुवर्गळैये पार्क्किऱ वऩागवुम् पार्क्कप्पडुवदागवुम् उळ्ळ तऩ्मैयुडऩ् वित्तियासत्तै काट्टुगिऱदु। “ऒरे मरत्तिल् आळुम् तऩ्मैयिल्लाददिऩाल् मूऴ्गिऩवऩाय् मोहमडैन् दवऩाय् पुरुषऩ् तुक्कमडैगिऱाऩ्। ऎप्पॊऴुदु सेविक्कप्पडुबवराय् आळुबवराय् उळ्ळ मऱ्ऱवरैप् पार्क्किऱाऩो अप्पॊऴुदु इवरुडैय महिमैयै अडैगिऱाऩ् तुक्कम् विलगिऩवऩाग आगिऱाऩ्” (मुण्डग ३-१-२) ऎऩ्ऱु।
अपर आह — ‘द्वा सुपर्णा’ इति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते, पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् — ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ’ इति। सत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते, तन्न; सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात्। तत्रैव च व्याख्यातत्वात् — ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ’ इति। नाप्यस्याधिकरणस्य पूर्वपक्षं भजते। न ह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यते ।
ज्ञानानन्द-भारती - द्राविडी
वेऱॊरुवर् सॊल्गिऱार्- ‘इरण्डु करुडर्गळ्’ ऎऩ्ऱ इन्द रुक् इन्द अदिगरणत्तिऩुडैय सित्तान् दत्तै तऴुविऩदाग इल्लै। पैङ्गिरहस्य पिराह्मणत्तिऩाल् वेऱु विदमाग वियाक्याऩम् सॆय्यप्पट्टिरुक्किऱबडियाल्, ‘अवै इरण्डिल् ऒऩ्ऱु कर्म पलऩै नऩ्गु साप्पिडुगिऱदु ऎऩ्बदु सत्वम् (पुत्ति); मऱ्ऱॊऩ्ऱु साप्पिडामल् पिरगासिक्किऱदु ऎऩ्बदु ञऩ् (जीवऩ्) अवै इन्द सत्वमुम् (पुत्तियुम्) क्षेत्तिरक्ञऩुम् (जीवऩुम्)’ ऎऩ्ऱु; सत्वम् ऎऩ्ऱ सप्तत्ताल् जीवऩुम्, क्षेत्रक्ञऩ् ऎऩ्ऱ सप्तत्ताल् परमात्मावुम् कुऱिक्कप्पडुगिऱदु ऎऩ्ऱु ऎदु सॊल्लप् पडुगिऱदो, अदु सरियल्ल, सत्व सप्तमुम् क्षेत्तिरक् ञसप्तमुम् अन्द:करणत्तिलुम् (पुत्तियिलुम्) सारीरऩिडत् तिलुम् (जीवऩिडत्तिलुम्) तात्पर्यमुळ्ळदाग पिरसित्तमा ऩदिऩाल् मेलुम् अङ्गेये ‘ऎदऩाल् स्वप्ऩत्तैप् पार्क्किऱाऩो अदु इन्द सत्वम्, ऎन्द इदु सरीरत्तिल् इरुन्दु कॊण्डु पार्त्तुक् कॊण्डिरुक् किऱदो अदु क्षेत्तिरक्ञऩ्; अवै इन्द सत्वमुम् क्षेत्तिरक् ञऩुम् ऎऩ्ऱु वियाक्याऩम् सॆय्यप्पट्टिरुप्पदाल्।
ज्ञानानन्द-भारती - द्राविडी
इन्द अदिगरणत्तिऱ्कु पूर्वबक्षमागवुम् अदु आगादु। अङ्गे कर्त्तात्तऩ्मै पोक्तात्तऩ्मै मुदलिय संसार तर्मत्तिऩुडऩ् कूडिय सारीरऩाऩ क्षेत्तिरक्ञऩ् इङ्गु सॊल्ल उत्तेसिक्कप्पडविल्लै।
कथं तर्हि ? सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः; ‘अनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञः’ इति वचनात् , ‘तत्त्वमसि’ ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३। २) इत्यादिश्रुतिस्मृतिभ्यश्च। तावता च विद्योपसंहारदर्शनमेवमेवावकल्पते, ‘तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसते’ इत्यादि। कथं पुनरस्मिन्पक्षे ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’ इत्यचेतने सत्त्वे भोक्तृत्ववचनमिति, उच्यते — नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता; किं तर्हि ? चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां च वक्ष्यामीति। तदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति ।
ज्ञानानन्द-भारती - द्राविडी
अप्पडियाऩाल् ऎप्पडि? ऎल्ला संसार तर्मङ्गळुक्कुम् मेल् पोऩदाय्, पिरह्म स्वरूबमाय्, सैदऩ्य मात्तिरत्तै स्वरूबमायुडैयदाय् (सॊल्ल उत्तेसम्), ‘साप्पिडामल् मऱ्ऱवर् पिरगासित्तुक् कॊण्डिरुक्किऱार् ऎऩ्बदु साप्पिडामल् मऱ्ऱवर् ञराग (अऱिवु स्वरूबराग) पार्त्तुक्कॊण्डिरुक्किऱार्’ ऎऩ्ऱ वसऩत्तिऩाल्। ‘अदु नी’ ‘क्षेषत्तिरक्ञऩैयुम् नाऩाग अऱि’ (कीदै १३-२) ऎऩ्बदु मुदलिय सुरुदि स्मिरुदि कळिलिरुन्दुम् ‘अवै इन्द सत्वमुम् क्षेत्तिरक्ञऩुम्। इव्विदम् अऱिगिऱवऩिडत्तिल् ऎन्द अऴुक्कुम् ऒट्टुव तिल्लै’ ऎऩ्बदु मुदलिय इत्तुडऩ् वित्यैयै मुडित्तु विडुवदुम् इव्विदमिरुन्दाल्दाऩ् न्यायमागुम्।
ज्ञानानन्द-भारती - द्राविडी
इन्द पक्षत्तिल् ‘अवर्गळुक्कुळ् ऒरुवऩ् कर्मबलऩै नऩ्गु साप्पिडुगिऱाऩ् ऎऩ्बदु सत्वम्’ ऎऩ्ऱु असेदऩमाऩ सत्वत्तिल् साप्पिडुगिऱवऩ् ऎऩ्ऱ तऩ्मैयै सॊऩ्ऩदु ऎप्पडि? सॊल्लुगिऱोम्। इन्द सुरुदि असेदऩमाऩ सत्वत्तिऱ्कु साप्पिडुगिऱवऩ् ऎऩ्ऱ तऩ्मैयैच् चॊल्लुगिऱेऩ् ऎऩ्ऱु पिरविरुत् तिक्कविल्लै। अप्पडियाऩाल् ऎप्पडि? सेदऩऩायुळ्ळ क्षेत्तिरक्ञऩुक्कु पोक्तावॆऩ्ऱ तऩ्मैयिल्लै ऎऩ्बदैयुम् पिरह्म स्वबावमागवे इरुक्कुम् तऩ्मै यैयुम् सॊल्लुगिऱेऩ् ऎऩ्ऱु (पिरविरुत्तित्तिरुक् किऱदु)। अदऱ्काग सुगम् मुदलाऩ विगारङ्गळैयुडैय सत्वत्तिऩिडत्तिल् पोक्ता ऎऩ्ऱ तऩ्मैयै आरोबणम् सॆय्गिऱदु (एऱ्ऱि वैक्किऱदु)।
इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते। परमार्थतस्तु नान्यतरस्यापि सम्भवति, अचेतनत्वात्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य। अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां न सम्भवति। तथा च श्रुतिः — ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. उ. ४। ५। १५) इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४। ५। १५) इत्यादिना च विवेकिनः कर्तृत्वादिव्यवहाराभवं दर्शयति ॥ १२ ॥
ज्ञानानन्द-भारती - द्राविडी
इन्द कर्त्ता ऎऩ्ऱ तऩ्मैयुम् पोक्ता ऎऩ्ऱ तऩ्मैयुम् सत्वत्तिऩुडैयवुम् क्षेत्तिरक्ञऩु टैयवुम् ऒऩ्ऱुक्कॊऩ्ऱु स्वबावत्तैप् पिरित्तऱिया तदिऩाल् एऱ्पट्टु कल्बिक्कप्पडुगिऱदु। वास्तवत्तिलो इव्विरण्डिल् ऎदऱ्कुम् सम्बविक्कादु; असेदऩ माऩदिऩाल् सत्वत्तिऱ्कु, विगारमऱ्ऱदिऩाल् क्षेत्तिरक्ञऩुक्कु (सम्बविक्कादु) अवित्यैयिऩाल् एऱ्पडुत्तप्पट्ट स्वबावमुळ्ळदाल् सत्वत्तिऱ्कु कॊञ्जमेऩुम् सम्बविक्कादु। अप्पडिये सुरुदियुम् ‘ऎङ्गे वेऱुबोलिरुक्कुमो अङ्गे ऒरुवऩ् मऱ्ऱदै पार्क्कलाम्’ ऎऩ्बदु मुदलाऩदिऩाल्, स्वप्ऩत्तिल् काणप्पट्ट याऩै मुदलाऩ व्यवहारङ्गळैप् पोल, अवित्यै विषयत्तिल् ताऩ् सॆय्गिऱवऩ् ऎऩ्ऱ तऩ्मै मुदलिय व्यवहारम् ऎऩ्ऱु काट्टुगिऱदु। ‘ऎङ्गे इवऩुक्कु ऎल्लाम् आत्मावागवे इरुक्कुमो अङ्गे ऎदिऩाल् ऎदै पार्प्पाऩ्’ (पिरुहत् ४-५-१५) ऎऩ्बदु मुदलाऩदिऩाल् पगुत्तऱिवु उळ्ळवऩुक्कु सॆय्गिऱवऩ् ऎऩ्ऱ तऩ्मै मुदलिय व्यवहारम् किडैयादॆऩ् पदैयुम् काट्टुगिऱदु।