सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
ज्ञानानन्द-भारती - द्राविडी
सर्वत्र प्रसित्तोबदेसात् ॥ १ ॥
मनोमयोऽयं शारीर ईशो वा प्राणमानसे ॥
हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगाः ॥ १ ॥
शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते ॥
प्राणादियोगश्चिन्तार्थश्चिन्त्यं ब्रह्म प्रसिद्धितः ॥ २ ॥
–वैयासिकन्यायमाला
ज्ञानानन्द-भारती - द्राविडी
इन्द मऩोमयऩ् सारीरऩा (सरीरत्तिलुळ्ळ जीवऩा)? अल्लदु ईसुवररा? पिराणऩ्, मऩस्, ह्रुदयत्तिलिरुक्कुम् तऩ्मै, वॆगु सिऱियदायिरुक्कुम् तऩ्मै, इवै जीवऩि टत्तिल् ताऩ् इरुक्कुम्।आगैयाल् जीवऩैये सेर्न्दवै।
ज्ञानानन्द-भारती - द्राविडी
समत्तै विदिक्कुम् (मुऩ्ऩुळ्ळ) वाक्कियत्तिल् कण्ड पिरह्मत्तै इन्द ‘तत्तिदम्’ मुदलाऩ कूट्टु वार्त्तैगळ् अबेक्षिक्किऩ्ऱऩ। पिराणऩ् मुदलियदुडऩ् सेर्त्तुच् चॊऩ्ऩदु, सिन्दऩै सॆय्य वेण्डियदऱ्काग पिरह्मम् ताऩ् सिन्दिक्क वेण्डियदु ऎऩ्ऱ पिरसित्तियिरुप्पदाल्।
प्रथमे पादे ‘जन्माद्यस्य यतः’ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम्। तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति। अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानि। पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि सन्दिह्यन्ते — किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किञ्चिदिति। तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते
ज्ञानानन्द-भारती - द्राविडी
मुदल् पादत्तिल् “इदऩ् उत्पत्ति मुदलाऩदु ऎदिलिरुन्दो” ऎऩ्ऱु आगासम् मुदलिय ऎल्ला जगत्तिऱ्कुम् उत्पत्ति मुदलाऩत्तिऱ्कुक् कारणम् पिरह्मम् ऎऩ्ऱु सॊल्लप्पट्टदु। ऎल्ला जगत्तिऱ्कुम् कारणमायुळ्ळ पिरह्मत्तिऱ्कु वियाबगमायिरुक्कुम् तऩ्मै, नित्यमायिरुक्कुम् तऩ्मै, सर्वक्ञमा यिरुक्कुम् तऩ्मै, सर्वसक्तियैयुमुडैयदायिरुक्कुम् तऩ्मै, ऎल्ला स्वरूबमागवुमिरुक्कुम् तऩ्मै ऎऩ्ऱु इदुबोलुळ्ळ धर्मङ्गळ् सॊल्लप्पट्टदागवे आगिऱदु। वेऱु अर्त्तत्तिल् पिरसित्तमायिरुक्कुम् सिल सप्तङ्गळुक्कुम् पिरह्म विषयमायिरुप्पदऱ्कुळ्ळ कारणङ्गळै ऎडुत्तुक्काट्टुवदु मूलमाग, सन्देहप् पडक्कूडियदायुम् तॆळिवाग पिरह्मत्तैक् कुऱिक्कक् कूडिय लिङ्गङ्गळैयुडैयदायुमुळ्ळ सिल वाक्कियङ्गळ् पिरह्मत्तिलेये तात्पर्यमुळ्ळवै ऎऩ्ऱु निर्णयिक् कप्पट्टऩ।
ज्ञानानन्द-भारती - द्राविडी
मऱुबडियुम् वेऱु वाक्कियङ्गळ् तॆळिवाग पिरह्मत्तैक् कुऱिक्कक्कूडिय लिङ्गङ्गळऱ्ऱवैगळ्, परबिरह्मत्तै पिरदिबादिक्किऩ्ऱऩवा, अल्लदु वेऱु एदेऩुम् पॊरुळैया ऎऩ्ऱु, सन्देहिक् कप्पडुगिऱऩ्ऱऩ। अदै निर्णयम् सॆय्वदऱ्काग इरण्डाम् पादमुम् मूऩ्ऱाम् पादमुम् आरम्बिक् कप्पडुगिऩ्ऱऩ।
इदमाम्नायते — ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्ँलोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत’ (छा. उ. ३। १४। १) , ‘मनोमयः प्राणशरीरः’ (छा. उ. ३। १४। २) इत्यादि। तत्र संशयः — किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेति ।
ज्ञानानन्द-भारती - द्राविडी
(मुदल् पादत्तिल् प्रह्मत्तैक् कुऱिप्पदागत् तॆळिवागत् तॆरियुम् लिङ्गङ्गळुळ्ळ (स्पष्टप्रह् मलिङ्ग) वेदान्द वाक्कियङ्गळिल् विसारणै सॆय्दु प्रह्मबरम्दाऩ् ऎऩ्ऱु तीर्माऩिक्कप्पट्टदु। इरण्डावदु मूऩ्ऱावदु पादङ्गळिल् प्रह्मत्तैक् कुऱिप्पदागत् तॆळिवागत् तॆरियाद लिङ्गङ्गळुळ्ळ (अस्पष्ट प्रह्मलिङ्ग) वाक्कियङ्गळिल् विसारणै सॆय्दु प्रह्मबरम्दाऩ् ऎऩ्ऱु तीर्माऩिक्कप्पडुगिऱदु। २वदु पादत्तिल् उबासऩाबरवाक्किय विसारम्, ३वदु पादत्तिल् ञेय प्रह्मविसारम् ऎऩ्बदु इरण्डुक्कुम् उळ्ळ वेऱ्ऱुमै। मुऩ्बादत्तिल् प्रह्मम् सर्वजगत् कारणम् सर्वक्ञम्, सर्वात्मगम् ऎङ्गुम् निऱैन्ददु नित्यम् इदु मुदलाऩ प्रह्म धर्मङ्गळ् कुऱिप्पिडप्पट्टऩ। इवैगळै सित्तमाग वैत्तुक् कॊण्डे वेऱु पल वाक्कियङ्गळिल् विसारिक्कप् पडुगिऱदु। सान्दोक्य उबनिषत्तिल् ३वदु अत्यायत्तिल् ऎऩ्ऱ वाक्कियम् इन्दअदिगरणत्तिऱ्कु विषयम्। इङ्गु मऩोमयऩागवुम् पिराणऩै सरीरमाग उडैयवऩागवुम् कुऱिप्पिडप्पडुम् पुरुषऩ् जीवऩा? अल्लदु ईसुवरऩा? ऎऩ्ऱु सन्देहम्। मऩस्, पिराणऩ् इवैगळिऩ् सम्बन्दम्, हिरुदयत्तिल् इरुप्पु, मिग सिऱियवराग इरुत्तल् इवैयॆल्लाम् पिरह्मत्तिऱ्कुप् पॊरुन्दाददाल् जीवऩुक्के पॊरुन्दुमाऩदाल् इन्द वाक्यम् जीवऩैये कुऱिक्किऱदु ऎऩ्ऱु पूर्वबक्षम्।
ज्ञानानन्द-भारती - द्राविडी
समत्तैक् कुऱिक्किऱ मुऩ् वाक्यत्तिल् ऎल्लाम् प्रह्मम् ऎऩ्ऱु कूऱि अदैये अडुत्त वाक्कियत्तिल् मऩोमयम् पिराणसरीरम् ऎऩ्ऱु कूऱुवदाल् इन्द वाक्कियम् पिरह्मत्तैये पिरदिबादऩम् सॆय्गिऱदु। निरुबादिग प्रह्मत्तिऱ्कु मऩस् प्राण सम्बन्दम् मुदलियवै सम्बविक्काविट्टालुम् उबासऩत्तिऱ्काग सोबादिग प्रह्मत्तिऱ्कु सम्बविक्कलाम् मेलुम् वेदान्दङ्गळिल् ऒरु इडत्तिलुम् जीवऩ् उबास्यमाग कूऱप्पडविल्लै। प्रह्मम् ताऩ् उबास्यमागक् कूऱप्पडुगिऱदु। आदलाल् ऎल्ला वेदान्द वाक्कियङ्गळिलुम् उबास्यमाग पिरसित्तमाऩ प्रह्मत्तैत्ताऩ् इन्द वाक्कियमुम् कूऱुगिऱदु ऎऩ्ऱु सित्तान्दम्)।
ज्ञानानन्द-भारती - द्राविडी
“इदु ऎल्लाम् पिरह्मम् अल्लवा? अदिलिरुन्दु उण्डाऩदु, अदिलेये लयम् अडैवदु, अदऩालेये जीवित्तिरुप्पदु ऎऩ्ऱु सान्दऩाय् उबासिक्कवुम् पुरुषऩ् ऎण्णप्पडि आगिऱवऩल्लवा? पुरुषऩ् इन्द उलगत्तिल् ऎन्द ऎण्णत्तुडऩ् इरुक्किऱाऩो अप्पडिये इङ्गिरुन्दु पोऩ पिऱगु आगिऱाऩ्। (आगैयाल् अवऩ् ऎण्णत्तै सॆय्य वेण्डुम् (नल्ल सङ्गल्बत्तुडऩ् इरुक्कवेण्डुम्),” ‘मऩोमयऩ्, पिराणऩै सरीरमायुडैयवऩ्, पिरगासस्वरूबमायिरुप्पवऩ्’ (सान् ३-१४- १,२) ऎऩ्बदु मुदलिय इदु सॊल्लप्पडुगिऱदु। अङ्गे, इन्द इडत्तिल् मऩेमयमायिरुत्तल् मुदलाऩ तर्मङ्गळुडऩ् कूडिऩ, सरीरत्तिलुळ्ळ, आत्मा, (जीवऩ्) उबासिक् कवेण्डियदाग उबदेसिक्कप्पडुगिऱदा अल्लदु परबिरह्ममा ऎऩ्ऱु सन्देहम्।
किं तावत्प्राप्तम् ? शारीर इति। कुतः ? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः, न परस्य ब्रह्मणः; ‘अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २। १। २) इत्यादिश्रुतिभ्यः। ननु ‘सर्वं खल्विदं ब्रह्म’ इति स्वशब्देनैव ब्रह्मोपात्तम्; कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते ? नैष दोषः। नेदं वाक्यं ब्रह्मोपासनाविधिपरम्। किं तर्हि ? शमविधिपरम्; यत्कारणम् ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इत्याह। एतदुक्तं भवति — यस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वात् तदनत्वाच्च — न च सर्वस्यैकात्मत्वे रागादयः सम्भवन्ति — तस्मात् शान्त उपासीतेति ।
ज्ञानानन्द-भारती - द्राविडी
पूर्वबक्षम्: ऎदु न्यायम्? सारीरऩ् (सरीरत्तिलुळ्ळ जीवऩ्) ऎऩ्ऱु। एऩ्? सरीरम् इन्दिरियम् इवैगळुक्कु अदिबदियायिरुक्कुम् अवऩुक्कल्लवा मऩस् मुदलिय वैगळुडऩ् सम्बन्दम् पिरसित्तमा यिरुक्किऱदु? परबिरह्मत्तिऱ्कु इल्लै, ‘पिराण ऩिल्लाददु। मऩस् इल्लाददु, सुत्तम्’ (मुण्डग २-१-२) ऎऩ्बदु मुदलाऩ सुरुदिगळाल्, “इदु ऎल्लाम् पिरह्मम् अल्लवा?” ऎऩ्ऱु तऩ् सप्तत्तिऩालेये पिरह्मम् सॊल्लप् पट्टिरुक् किऱदे? (अप्पडि इरुक्क) इङ्गु सरीरत्तिलुळ्ळ आत्मा उबासिक्कत्तगुन्दवऩ् ऎऩ्ऱु ऎप्पडि सन्देहप् पडलाम्? ऎऩ्ऱाल्, इदु तोषम् इल्लै। इन्द वाक्कियम् पिरह्मत्तिऩ् उबासऩैयै विदिप्पदिल् तात्पर्यमुळ्ळदल्ल, आऩाल् सान्दियै विदिप्पदिल् तात्पर्यमुळ्ळदु ऎऩ्ऩ कारणमॆऩ्ऱाल्, “इदु ऎल्लाम् पिरह्मम् अल्लवा? अदिलिरुन्दु उण्डाऩदु। अदिल् लयत्तै अडैगिऱदु, अदऩाल् जीवित्तिरुक्किऱदु ऎऩ्ऱु सान्दऩाय् उबासिक्कवुम्” ऎऩ्ऱु सॊल्गिऱदु। इदु सॊऩ्ऩदाग आगिऱदु ऎन्द कारणत्तिऩाल्, अदिलिरुन्दु उण्डाऩदिऩाल्, अदिल् लयमडैवदाल्, अदऩाल् जीवित्तिरुप्पदिऩाल्, विगारङ्गळिऩ् कूट्टमागिय इदु ऎल्लाम् पिरह्ममेदाऩो; ऎल्लाम् ऒरे स्वरूबमायि रुक्कुमेयाऩाल् रागम् मुदलियवैगळ् एऱ्पडादु; अदऩाल् सान्दऩाय् इरुन्दु कॊण्डु उबासिक्कवुम् ऎऩ्ऱु।
न च शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते। उपासनं तु ‘स क्रतुं कुर्वीत’ इत्यनेन विधीयते। क्रतुः सङ्कल्पो ध्यानमित्यर्थः। तस्य च विषयत्वेन श्रूयते — ‘मनोमयः प्राणशरीरः’ इति जीवलिङ्गम्। अतो ब्रूमः — जीवविषयमेतदुपासनमिति। ‘सर्वकर्मा सर्वकामः’ इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते। ‘एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा’ इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरिच्छिन्नस्य ब्रह्मणः ।
ज्ञानानन्द-भारती - द्राविडी
सान्दियै विदिप्पदिल् तात्पर्यमुळ्ळदाय् इरुक्कुम् पोदु इन्द वाक्कियत्तिऩाल् पिरह्मत्तिऩ् उबासऩै (सॊल्लप्पडुगिऱदु) ऎऩ्ऱु कट्टुप्पडुत्त मुडियादु। उबासऩैयो ‘अवऩ् क्रदुवै सॆय्य वेण्डुम्’ ऎऩ्बदिऩाल् विदिक्कप्पडुगिऱदु। क्रदु ऎऩ्ऱाल् सङ्गल्बम्, तियाऩम् ऎऩ्ऱु अर्त्तम्। अदऱ्कु विषयमाग ‘मऩोमयऩ्, पिराणऩै सरीरमायुडैयवऩ्’ ऎऩ्ऱु जीवऩैक् कुऱिक्कुम् लिङ्गम् सॊल्लप्पडुगिऱदु। आगैयाल् इन्द उबासऩै जीवऩै विषयमायुळ्ळदु ऎऩ्ऱु सॊल्गिऱोम्।
ज्ञानानन्द-भारती - द्राविडी
‘ऎल्ला कर्ममुमुळ्ळवऩ्, ऎल्ला काममुमुळ्ळवऩ्’ ऎऩ्बदु मुदलागच् चॊल्लप्पट्टिरुप्पदुम् ‘वरिसैयाग जीव विषयमागवे पॊरुत्तमायिरुक्किऱदु।
ज्ञानानन्द-भारती - द्राविडी
‘इन्द ऎऩ्ऩुडैय आत्मा ह्रुदयत्तिल् उळ्ळे, नॆल्लैयुम् विड, यवत्तैयुम् विड मिगवुम् अणु’ ऎऩ्ऱु ह्रुदयत्तै इरुप्पिडमायुळ्ळ तऩ्मै, मिगवुम् अणुवायिरुक्कुम् तऩ्मै इवै ऊसि मुऩैयिऩ् अळवुळ्ळ जीवऩुक्कुप् पॊरुन्दुम्, अळविऱ्कु उळ्बडाद पिरह्मत्तिऱ्कु पॊरुन्दादु।
ननु ‘ज्यायान्पृथिव्याः’ इत्याद्यपि न परिच्छिन्नेऽवकल्पत इति। अत्र ब्रूमः — न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् , विरोधात्। अन्यतराश्रयणे च, प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम्। ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति। निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसङ्कीर्तनम् — ‘एतद्ब्रह्म’ (छा. उ. ३। १४। ४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव। तस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूमः —
ज्ञानानन्द-भारती - द्राविडी
‘पूमियैविडप्पॆरिदु’ ऎऩ्बदु मुदलाऩदुम् अळविऱ्कुळ्बट्टदऱ्कुप् पॊरुन्दादेयॆऩ्ऱाल्, इङ्गु सॊल्गिऱोम् मिगच्चिऱियदायिरुप्पदु, मिगप्पॆरिदा यिरुप्पदु, इरण्डुम् ऒरे वस्तुवै आसिरयिप्पदु मुडियादु, (ऒऩ्ऱुक्कॊऩ्ऱु) विरोदमायिरुप्पदाल्, इरण्डिऱ्कुळ् ऒऩ्ऱै ऎडुत्तुक्कॊळ्ळवेण्डुमाऩाल्, मुदलिल् सॊल्लप्पट्टिरुप्पदाल् मिगच्चिऱियदु ऎऩ्बदै ऎडुत्तुक्कॊळ्वदु ताऩ् न्यायम्; मिग पॆरिदु ऎऩ्बदो पिरह्ममाग आवदै अबेक्षित्तु एऱ्पडलाम्, ऎऩ्ऱु। जीव विषयम् ताऩ् ऎऩ्ऱु निच्चयिक्कुम्बोदु, कडैसियिल् ‘इदु पिरह्मम्’ (सान्। ३ १४-४) ऎऩ्ऱु पिरह्मत्तै सॊल्वदु ऎदुवो, अदुवुम्गूड पिरगिरुदत्तै यॊट्टि येयिरुप्पदाल् जीव विषयम्दाऩ्।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् मऩोमयत्तऩ्मै मुदलाऩ तर्मङ्गळुडऩ् जीवऩ् उबासिक्कत्तगुन्दवऩ्, ऎऩ्ऱु
परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम्। कुतः ? सर्वत्र प्रसिद्धोपदेशात्। यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् , इह च ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रमे श्रुतम् , तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्। एवं च सति प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः ।
ज्ञानानन्द-भारती - द्राविडी
सित्तान्दम्: इव्विदम् एऱ्पडुम् पोदु सॊल् किऱोम्; मऩोमयत्तऩ्मै मुदलाऩ तर्मङ्गळुडऩ् उबासिक्कप्पड वेण्डियदु परबिरह्मम् ताऩ्। एऩ्?
ज्ञानानन्द-भारती - द्राविडी
‘ऎङ्गुम् पिरसित्तमायुळ्ळदै उबदेसिप्पदाल्’ ऎदु ऎल्ला उबनिषत्तुक्कळिलुम् पिरसित्तमाय् पिरह्मम् ऎऩ्ऱ सप्तत्तिऱ्कु पिडिप्पाय् जगत्तिऩ् कारणमाय्, उळ्ळदो, इङ्गेयुम् ‘इदु ऎल्लाम् पिरह्मम् अल्लवा’ ऎऩ्ऱु वाक्कियत्तिऩ् आरम्बत्तिल् सॊल्लप् पट्टिरुक्किऱदो, अदुदाऩ् मऩोमयत्तऩ्मै मुदलाऩ कुणङ्गळुडऩ् कूडिऩदाग उबदेसिक्कप्पडुगिऱदु ऎऩ्बदु न्यायम्। इप्पडियाऩाल् ताऩ् पिरगिरुदत्तै विडुवदु पिरगिरुदमिल्लाददै ऎडुत्तुक्कॊळ्वदु ऎऩ्ऱु तोषङ्गळ् एऱ्पडामलिरुक्कुम्।
ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम्; अत्रोच्यते — यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् , तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु न सन्निहितः, न च स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥
ज्ञानानन्द-भारती - द्राविडी
वाक्कियत्तिऩ् आरम्बत्तिल् सान्दि सम्बन्दमाऩ विदियैच् चॊल्लुम् उत्तेसत्तुडऩ् पिरह्मम् कुऱिप्पिडप् पट्टदे तविर तऩ्ऩै (पिरह्मत्तै) सॊल्लुम् उत्तेसत्तुडऩिल्लै ऎऩ्ऱु सॊल्लप्पट्टदे यॆऩ्ऱाल्, अङ्गु सॊल्गिऱोम्। सान्दि विदियैच्चॊल्लुम् उत्तेसत् तुडऩ् पिरह्मम् कुऱिप्पिडप्पट्ट पोदिलुम्, अप्पडियुम् मऩोम यत्तऩ्मै मुदलियवै उबदेसिक् कप्पडुम् पोदु अन्द पिरह्ममे समीबत्तिल् इरुक्किऱदु। जीवऩो समीबत्तिलुम् इल्लै। तऩ् (जीवऩ् ऎऩ्ऱ) सप्तत्तिऩाल् सॊल्लप्पडवुमिल्लै ऎऩ्बदु वित्तियासम्।
विवक्षितगुणोपपत्तेश्च ॥ २ ॥
ज्ञानानन्द-भारती - द्राविडी
विवक्षिदगुणोबबत्तेच्च ॥ २ ॥
वक्तुमिष्टा विवक्षिताः। यद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः सम्भवति, तथाप्युपादानेन फलेनोपचर्यते। यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमिति। तद्वद्वेदेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम्। उपादानानुपादाने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते ।
ज्ञानानन्द-भारती - द्राविडी
‘सॊल्लविरुम्बुम्’ ऎऩ्बदु सॊल्ल वेण्डुमॆऩ्ऱु विरुम्बप्पडुबवै। अबौरुषेयमाऩ (ऎन्द पुरुषऩालुम् उण्डुबण्णप्पडाद) वेद विषयत्तिल् सॊल्गिऱवऩ् किडैयाददिऩाल् विरुम्बुवदु ऎऩ्ऱ अर्त्तम् सम्बविक्कादु। ऎऩ्ऱिरुन्द पोदिलुम्, अप्पडियुम् “ऎडुत्तुक्कॊळ्वदु” ऎऩ्ऱ पलऩिऩाल् (पिरयोजऩत् तिऩाल्) उबसारमाग सॊल्लप्पडुगिऱदु। ‘उलगत्तिल् ऎदु सप्तत्तिऩाल् सॊल्लप्पट्टु ऎडुत्तुक्कॊळ्ळ वेण्डि यदाग इरुक्किऱदो; अदु सॊल्ल विरुम्बप्पट्ट तॆऩ्ऱुम् ऎदु ऎडुत्तुक्कॊळ्ळ वेण्डिय तिल्लैयो, अदु सॊल्ल विरुम्बप्पडाददॆऩ्ऱुम्, सॊल्लप्पडुव तिल्लैया? अदैप्पोल वेदत्तिलुम् कूड ऎदु ऎडुत्तुक्कॊळ्ळ वेण्डियदाग सॊल्लप्पट्टि रुक्किऱदो, अदु सॊल्ल विरुम्बप्पट्टदाग आगिऱदु, मऱ्ऱदु सॊल्ल विरुम्बप्पडाददाग (आगिऱदु) ऎडुत्तुक् कॊळ्वदु ऎडुत्तुक्कॊळ्ळामलिरुप्पदु इवैगळो वेदवाक्कियत्तिऩ् तात्पर्यमायिरुप्पदु तात्पर्यमिल्ला मलिरुप्पदु ऎऩ्बवैगळिलिरुन्दु अऱियप् पडुगिऱदु।
तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसङ्कल्पप्रभृतयः, ते परस्मिन्ब्रह्मण्युपपद्यन्ते। सत्यसङ्कल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते। परमात्मगुणत्वेन च ‘य आत्मापहतपाप्मा’ (छा. उ. ८। ७। १) इत्यत्र ‘सत्यकामः सत्यसङ्कल्पः’ इति श्रुतम् , ‘आकाशात्मा’ इति च आकाशवदात्मा अस्येत्यर्थः। सर्वगतत्वादिभिर्धर्मैः सम्भवत्याकाशेन साम्यं ब्रह्मणः। ‘ज्यायान्पृथिव्याः’ इत्यादिना चैतदेव दर्शयति। यदापि आकाश आत्मा यस्येति व्याख्यायते, तदापि सम्भवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम्। अत एव ‘सर्वकर्मा’ इत्यादि। एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते ।
ज्ञानानन्द-भारती - द्राविडी
अव्विदम् इङ्गे ऎन्द सत्य सङ्गल्बम् मुदलाऩ कुणङ्गळ् सॊल्वदऱ्कु विरुप्पप्पट्टु उबासऩैयिल् ऎडुत्तुक्कॊळ्ळ वेण्डियदाग उबदेसिक्कप्पट्टिरुक्किऩ्ऱऩवो, अवै परबिरह् मत्तिल् पॊरुन्दुगिऩ्ऱऩ। सत्य सङ्गल् पत्तऩ्मै (वीण्बोगाद उत्तेसत्तुडऩ् इरुत्तल्) ऎऩ्बदु स्रुष्टि स्तिदि सम्हारम् इवैगळिल् तडैबडाद सक्तियुळ्ळ तऩ्मैयिरुप्पदाल् परमात्माविऱ्कुत्ताऩ् पॊरुन्दुम्। ‘ऎन्द आत्मा पाबमऱ्ऱवरो’ (सान्। ८-७-१) ऎऩ्ऱविडत्तिल् परमात्माविऩ् कुणमाग सत्यगामर्, सत्यसङ्गल्बर् ऎऩ्ऱु सॊल्लप्पट्टिरुक्किऱदु।
ज्ञानानन्द-भारती - द्राविडी
आगासात्मा" ऎऩ्बदु मुदलियवैयाल् आगासम् पोल् इवरुडैय आत्मा ऎऩ्ऱ अर्त्तम् (किडैक्किऱदु) ऎल्लावऱ्ऱिलुमिरुप्पदु मुदलाऩ तर्मङ्गळिऩाल् पिरह्मत्तिऱ्कु आगासत्तुडऩ् साम्यम् सम्बविक्किऱदु “पूमियैविडप्पॆरिदु” ऎऩ्बदु मुदलाऩदिऩालुम् इदैये काट्टुगिऱदु। आगासम् ऎवरुक्कु आत्मावो, ऎऩ्ऱु वियाक्याऩम् सॆय्दालुम्, अप्पॊऴुदुम् ऎल्ला जगत्तिऱ्कुम् कारणमाय् ऎल्ला स्वरूबमायुळ्ळ पिरह्मत्तिऱ्कु आगासात्मत्तऩ्मै सम्बविक्कुम्। इदिऩालेये “सर्व कर्मा” ऎऩ्बदु मुदलियदुम् (सम्बविक्कुम्)। इव्विदमाग इङ्गे उबासिक्क वेण्डियदाग सॊल्ल विरुम्बप्पडुम् कुणङ्गळ् पिरह्मत्तिल् पॊरुन्दुगिऩ्ऱऩ।
यत्तूक्तम् — ‘मनोमयः प्राणशरीरः’ इति जीवलिङ्गम् , न तद्ब्रह्मण्युपपद्यत इति; तदपि ब्रह्मण्युपपद्यत इति ब्रूमः। सर्वात्मत्वाद्धि ब्रह्मणो जीवसम्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनि भवन्ति। तथा च ब्रह्मविषये श्रुतिस्मृती भवतः — ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी। त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’ (श्वे. उ. ४। ३) इति; ‘सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति’ (भ. गी. १३। १३) इति च। ‘अप्राणो ह्यमनाः शुभ्रः’ इति श्रुतिः शुद्धब्रह्मविषया, इयं तु श्रुतिः ‘मनोमयः प्राणशरीरः’ इति सगुणब्रह्मविषयेति विशेषः। अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते ॥ २ ॥
ज्ञानानन्द-भारती - द्राविडी
मऩोमयम् पिराण सरीरम् ऎऩ्बदु जीवलिङ्गम्, अदु पिरह्मत्तिल् पॊरुन्दादु ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो, अदुवुम् पिरह्मत्तिल् पॊरुन्दुम् ऎऩ्ऱु सॊल्गिऱोम्।
ज्ञानानन्द-भारती - द्राविडी
पिरह्मत्तिऱ्कु ऎल्लावऱ्ऱिऱ्कुम् आत्मावा यिरुक्कुम् तऩ्मै इरुप्पदिऩाल् (ऎल्ला स्वरूबमायुम् जीवस्वरूबमायुम् इरुक्कुम् तऩ्मै इरुप्पदिऩाल्) जीवऩुडैय सम्बन्दमुळ्ळ मऩोमयत्तऩ्मै
ज्ञानानन्द-भारती - द्राविडी
मुदलियवैगळुम् पिरह्मत्तिऩ् सम्बन्दमुळ्ळ वैगळागवे इरुक्किऩ्ऱऩ। अप्पडिये पिरह्म विषयमाग सुरुदियुम् स्मिरुदियुम् इरुक्किऩ्ऱऩ। “नी स्तिरी, नी पुरुषऩाय् इरुक्किऱाय्, नी कुमारऩ् अल्लदु कुमारि। नी जरैयडैन्दु कम्बुडऩ् पोगिऱाय्। नी पिऱन्दवऩाय् इरुक्किऱाय्। ऎल्लाबक्कत्तिलुम् मुग मुळ्ळवर्" (सुवेदा। ४-३) ऎऩ्ऱुम्, “अदु ऎङ्गुम् कै, काल् उळ्ळदु, ऎङ्गुम् कण्, तलै, वाय् उळ्ळदु, ऎङ्गुम् कादु उळ्ळदु। उलगत्तिल् ऎल्लावऱ्ऱैयुम् मूडिक्कॊण्डु इरुक्किऱदु” (कीदै १३-१३) ऎऩ्ऱुम्, “पिराणऩ् इल्लाददु; मऩस् इल्लाददु, सुत्तमाऩदु” ऎऩ्ऱ सुरुदि सुत्त पिरह्मत्तै विषयमायुळ्ळदु। “मऩोमयम् पिराण सरीरम्” ऎऩ्गिऱ इदुवो सगुण पिरह्मत्तै विषयमायुळ्ळदु ऎऩ्ऱु वित्तियासम्।
ज्ञानानन्द-भारती - द्राविडी
आगैयाल् सॊल्ल विरुप्पप्पडुम् कुणङ्गळ् पॊरुन्दुमाऩदिऩाल्, परबिरह्मम्दाऩ् इङ्गे उबासिक्कत्तक्कदाग उबदेसम् सॆय्यप्पट्टिरुक्किऱदु ऎऩ्ऱु अऱियप्पडुगिऱदु।
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
ज्ञानानन्द-भारती - द्राविडी
अनुबबत्तेस्तु न सारीर: ॥ ३ ॥
पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता। अनेन शारीरे तेषामनुपपत्तिरुच्यते। तुशब्दोऽवधारणार्थः। ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम्; न तु शारीरो जीवो मनोमयत्वादिगुणः; यत्कारणम् — ‘सत्यसङ्कल्पः’ ‘आकाशात्मा’ ‘अवाकी’ ‘अनादरः’ ‘ज्यायान्पृथिव्याः’ इति चैवंजातीयका गुणा न शारीरे आञ्जस्येनोपपद्यन्ते। शारीर इति शरीरे भव इत्यर्थः। नन्वीश्वरोऽपि शरीरे भवति। सत्यम् , शरीरे भवति; न तु शरीर एव भवति; ‘ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्’ ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १०। ६। ३। २) इति च व्यापित्वश्रवणात्। जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ॥ ३ ॥
ज्ञानानन्द-भारती - द्राविडी
मुन्दिऩ सूत्रत्तिऩाल् सॊल्ल विरुम्बप्पडुम् कुणङ्गळुक्कु पिरह्मत्तिऩिडत्तिल् पॊरुत्तम् सॊल्लप्पट्टदु। इन्द सूत्रत्तिऩाल् अवैगळुक्कु सारीरऩिडत्तिल् (जीवऩिडत्तिल्) पॊरुत्तमिल्लैयॆऩ्ऱु सॊल्लप्पडुगिऱदु। ‘तु’ ऎऩ्ऱ सप्तम् उऱुदिप्पडुत्तुवदिल् तात्पर्यमुळ्ळदु। ऎडुत्तुक्काट्टिय नियायत्तिऩाल् पिरह्मम्दाऩ् मऩोमयत्तऩ्मै मुदलिय कुणङ्गळैयुडैयदु। सारीरऩाऩ जीवऩ् मऩेमयत् तऩ्मै मुदलिय कुणङ्गळैयुडैयवऩाग इल्लै। एऩॆऩ्ऱाल् ‘सत्य सङ्गल्बर्, आगासात्मा, वाक्किल्लादवर्, विरुप्पमिल्लादवर्, पूमियै विड पॆरियवर्’ ऎऩ्ऩुम् इदुबोलुळ्ळ कुणङ्गळ् सारीरऩिडत्तिल् नेराग पॊरुन्दादु। सारीरऩ् ऎऩ्बदु सरीरत्तिल् इरुप्पवऩ् ऎऩ्ऱु अर्त्तम्। ईसुवरऩुम्दाऩ् सरीरत्तिल् इरुक्किऱारेयॆऩ्ऱाल्, वास्तवम् सरीरत्तिल् इरुक्किऱार्। आऩाल् सरीरत्तिल् मात्तिरम् इरुक्किऱार् ऎऩ्ऱिल्लै, ‘पूमियैविड पॆरियवर्, अन्दरि क्षत्तैविडप् पॆरियवर्’, ‘आगासत्तैप्पोल ऎङ्गुम् उळ्ळवर्, ऎप्पॊऴुदुम् इरुप्पवर्’ ऎऩ्ऱु वियाबियाय् इरुक्कुम् तऩ्मै सॊल्लप्पडुवदाल्, जीवऩो सरीरत्तिल् मात्तिरम्दाऩ् इरुक्किऱाऩ्। पोगत्तिऱ्कु इरुप्पिडमाऩ सरीरत्तैत् तविर वेऱु इडत्तिल् अवऩुक्कु इरुप्पु इल्लाददिऩाल्।
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
ज्ञानानन्द-भारती - द्राविडी
कर्मगर्त्रुव्यबदेसाच्च ॥ ४ ॥
इतश्च न शारीरो मनोमयत्वादिगुणः; यस्मात्कर्मकर्तृव्यपदेशो भवति — ‘एतमितः प्रेत्याभिसम्भवितास्मि’ (छा. उ. ३। १४। ४) इति। एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति; अभिसम्भवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन। अभिसम्भवितास्मीति प्राप्तास्मीत्यर्थः। न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः। तथोपास्योपासकभावोऽपि भेदाधिष्ठान एव। तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः ॥ ४ ॥
ज्ञानानन्द-भारती - द्राविडी
इदऩालुम् मऩोयमत्तऩ्मै मुदलिय कुणमुळ्ळदु सारीरऩ् अल्ल, ‘इङ्गिरुन्दु पोय् इवरै अडैगिऱवऩाग इरुक्किऱेऩ्’ (सान्। ३-१४-४) ऎऩ्ऱु कर्मावागवुम्, कर्त्तावागवुम् कुऱिप्पिडप्पट्टिरुक्किऱ तॆऩ्बदाल्। मऩोमयत्तऩ्मै मुदलिय कुणत्तोडु कूडिऩवराय् उबासिक्कप्पडुगिऱवराय् पिरगिरुदमायुळ्ळ आत्मावै ‘इवरै’ ऎऩ्ऱु कर्मावाग (इरण्डावदु वेऱ्ऱुमैयिल्) अडैयप्पडुबवराग कुऱिप्पिडुगिऱदु। उबासिक्किऱवऩाऩ सारीर्गऩै ‘अडैगिऱवऩाग इरुक्किऱेऩ्’ ऎऩ्ऱु कर्त्तावाग (मुदल् वेऱ्ऱुमैयिल्) अडैगिऱवऩाग (कुऱिप्पिडुगिऱदु ‘अबिसम्बविदा अस्मि’ ऎऩ्बदु ‘अडैगिऱवऩाग इरुक्किऱेऩ्’ ऎऩ्ऱु अर्त्तम्। नेराग अर्त्तम् सॊल्लुम्बडियाऩ अवगासम् इरुक्कु मेयाऩाल् ऒरुवऩैये कर्मावागवुम्, कर्त्तावागवुम् कुऱिप्पिडुवदु न्यायमागादु। अप्पडिये, उबासिक्कप्पडु पवर् उबासिक्किऱवर् ऎऩ्ऱ तऩ्मैयुम्गूड पेदत्तै अडिप्पडैयायुळ्ळदु। आगैयिऩालुम् मऩोमयत् तऩ्मै मुदलियदुडऩ् कूडिऩदु सारीरऩ् अल्ल।
शब्दविशेषात् ॥ ५ ॥
ज्ञानानन्द-भारती - द्राविडी
सप्तविसे षात् ॥ ५ ॥
इतश्च शारीरादन्यो मनोमयत्वादिगुणः; यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरे — ‘यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः’ (श. ब्रा. १०। ६। ३। २) इति। शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तः — अन्तरात्मन्निति; तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः। तस्मात्तयोर्भेदोऽधिगम्यते ॥ ५ ॥
ज्ञानानन्द-भारती - द्राविडी
इदिऩालुम् मऩोमयत्तऩ्मै मुदलिय कुणमुळ्ळदु सारीरऩैविड वेऱु, इदैप्पोलुळ्ळ पिरगरणत्तिल् वेऱु सुरुदियिल् सप्तत्तिल् वित्यासम् इरुक्किऱदु ऎऩ्बदिऩाल्! ‘आत्माविल् उळ्ळेयिरुक्कुम् इन्द स्वर्णमयमाऩ पुरुषऩ् नॆल् अल्लदु यवम् अल्लदु सियामागम् अल्लदु सियामाग अरिसि ऎप्पडियो अप्पडि’ (सदबद पिराह्मणम् १० ६-३-२) ऎऩ्ऱु सारीरऩाऩ आत्मावैच् चॊल्लुम् सप्तम् ऎदुवो अदु ‘आत्माविल् उळ्ळे’ ऎऩ्ऱु एऴाम् वेऱ्ऱुमैयिल् मुडिवुळ्ळदायिरुक्किऱदु। अदिलिरुन्दु वित्यासप्पट्ट तायुळ्ळ वेऱाऩ, मुदल् वेऱ्ऱुमैयिल् मुडिवुळ्ळदाऩ ‘पुरुषऩ्’ ऎऩ्ऱ सप्तम् मऩोमयत्तऩ्मै मुदलियदुडऩ् कूडिऩ आत्मावै सॊल्वदाग इरुक्किऱदु। आगैयाल् अव्विरुवरुक्कुम् पेदम् अऱियप्पडुगिऱदु।
स्मृतेश्च ॥ ६ ॥
ज्ञानानन्द-भारती - द्राविडी
स्म्रुदेच्च ॥ ६ ॥
स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति — ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८। ६१) इत्याद्या ।
ज्ञानानन्द-भारती - द्राविडी
सारीरऩुक्कुम्, परमात्माविऱ्कुम् उळ्ळ पेदत्तै हे अर्जुऩा ऎल्ला पिराणिगळुडैय ह्रुदयत्तिल् ऎल्ला पिराणिगळैयुम् यन्दिरत्तिल् एऱ्ऱिऩवैगळैप् पोल, मायैयिऩाल् सुऴऱ्ऱिक्कॊण्डु ईसुवरऩ् इरुक्किऱार्’ (कीदै १८-६१) ऎऩ्बदु मुदलाऩ स्मिरुदिगळुम् काट्टुगिऩ्ऱऩ।
अत्राह — कः पुनरयं शारीरो नाम परमात्मनोऽन्यः, यः प्रतिषिध्यते — ‘अनुपपत्तेस्तु न शारीरः’ इत्यादिना ? श्रुतिस्तु ‘नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता’ (बृ. उ. ३। ७। २३) इत्येवंजातीयका परमात्मनोऽन्यमात्मानं वारयति। तथा स्मृतिरपि ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३। २) इत्येवंजातीयकेति ।
ज्ञानानन्द-भारती - द्राविडी
इङ्गु सॊल्गिऱाऩ्: ‘पॊरुन्दाददिऩाल् सारीरऩ् इल्लै’ ऎऩ्बदु मुदलियदिऩाल् ऎदु मऱुक्कप् पडुगिऱदो इन्द परमात्मावुक्कु वेऱायुळ्ळ, सारीरऩ् ऎऩ्बवऩ् यार्? सुरुदियो ‘इवरै विड पार्क्किऱवऩ् वेऱु इल्लै, इवरै विड केट्किऱवऩ् वेऱु इल्लै’ (पिरुह ३-७-२३) ऎऩ्बदु पोऩ्ऱवै परमात्माविऱ्कु वेऱाऩ आत्मावै मऱुक्किऩ्ऱदु। अप्पडिये स्मिरुदियुम् ‘ऎल्ला सेषत्तिरङ्गळिलुम्, क्षेत्तिरक् ञऩैयुम् कूड नाऩ् ऎऩ्ऱु अऱिन्दुगॊळ्। हे अर्जुऩा’ (कीदै १३-२) ऎऩ्बदु पोलुळ्ळदु ऎऩ्ऱु।
अत्रोच्यते — सत्यमेवैतत् , पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते। यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते, तद्वत्। तदपेक्षया च कर्मत्वकर्तृत्वादिभेदव्यवहारो न विरुध्यते प्राक् ‘तत्त्वमसि’ इत्यात्मैकत्वोपदेशग्रहणात्। गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात् ॥ ६ ॥
ज्ञानानन्द-भारती - द्राविडी
इङ्गु सॊल्गिऱोम्: इदु सत्यम्दाऩ्, परमात्मादाऩ् तेहम्, इन्दिरियम्, मऩस्, पुत्ति ऎऩ्गिऱ उबादिगळाल् वरैयऱुक्कप्पट्टु पालर्गळाल् (विवेग मिल्लादवर्गळाल्) सारीरऩ् ऎऩ्ऱु उबसारमाय् सॊल्लप् पडुगिऱार्। कुडम्, करगम् मुदलाऩ उबादिगळिऩ् कारणमाग (ऎव्विदत्तिलुम्) वरैयऱुक्कप्पडाद आगासम्गूड वरैयऱुक्कप्पट्टदु पोल् तोऩ्ऱुगिऱदु। ऎप्पडियो, अदैप्पोल। अदै अबेक्षित्तु, ‘अदु नी’ ऎऩ्ऱु आत्माविऩ् ऒऩ्ऱायिरुक्कुम् तऩ्मै विषयमाऩ उबदेसत्तै किरगिप्पदऱ्कु मुऩ्ऩाल्, कर्मा, कर्त्ता इवैगळिऩ् तऩ्मै मुदलाऩ पेद विषयमाऩ व्यवहारम् विरोदप्पडादु। आत्माविऩ् ऒऩ्ऱा यिरुक्कुम् तऩ्मै किरहिक्कप्पट्टु विट्टालो पन्दम् मोक्षम् मुदलाऩ ऎल्ला व्यवहारङ्गळुक्कुम् मुडिवे एऱ्पडुम्।
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
அர்பகெளகஸத்வாத்தத்வ்யபதெசாச்ச நேதி சேந்ந; நிசாய்யத்வாதேவம் வ்யோமவச்ச ॥ 7 ॥
अर्भकमल्पम् ओको नीडम् , ‘एष म आत्मान्तर्हृदये’ इति परिच्छिन्नायतनत्वात् , स्वशब्देन च ‘अणीयान्व्रीहेर्वा यवाद्वा’ इत्यणीयस्त्वव्यपदेशात् , शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, न सर्वगतः परमात्मा — इति यदुक्तं तत्परिहर्तव्यम्। अत्रोच्यते — नायं दोषः। न तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते। सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया सम्भवति। यथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यते। कया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इति। निचाय्यत्वादेवमिति ब्रूमः ।
ज्ञानानन्द-भारती - द्राविडी
‘अर्बगम्’ सिऱिदु, ‘ऒगस्’ कूडु। ‘इन्द ऎऩ् आत्मा ह्रुदयत्तिल् उळ्ळे’ ऎऩ्ऱु सुरुङ्गिऩ इडमुळ्ळ तिऩालुम्, तऩ् सप्तत्तिऩालेये ‘नॆल्लैविड, यवत्तैविड सिऱिदु’ ऎऩ्ऱु सिऱियदायिरुक्कुम् तऩ्मै कुऱिप्पिडप्पट्टिरुप्पदालुम्, ऊसि मुऩैयळवु मात्तिर मुळ्ळ सारीरऩागिऱ जीवऩ्दाऩ् इङ्गे उबदेसिक्कप् पडुगिऱदु। ऎङ्गुम् वियाबित्तिरुक्कुम् परमात्मावल्ल, ऎऩ्ऱु ऎदु सॊल्लप्पट्टदो अदु परिहरिक्कप्पड वेण्डियदु।
ज्ञानानन्द-भारती - द्राविडी
अदिल् सॊल्लप्पडुगिऱदु, इदु तोषम् इल्लै यॆऩ्ऱु। सिऱिय इडमुळ्ळदऱ्कु ऎङ्गुमुळ्ळ तऩ्मैयै पदेसिप्पदु ऎव्विदत्तिलुम् पॊरुन्दादु; ऎङ्गुमुळ्ळ तऱ्को, ऎल्ला इडङ्गळिलुम् इरुप्पदाल्, सिऱिय इडत्तै कुऱिप्पिडुवदुम्, ऎदैयेऩुम् अबेक्षित्तु सम्बविक्कक् कूडियदे। पूमि मुऴुवदऱ्कुम् अदिबदियायि रुप्पवरुम्गूड अयोत्यैक्कु अदिबदि ऎऩ्ऱु कुऱिप्पि टप्पडुवदु पोल। ऎन्द अबेक्षैयिऩाल् ऎङ्गुमुळ्ळ ईसुवरऩ् सिऱिय इडमुळ्ळवर्, मिगवुम् सिऱियवर् ऎऩ्ऱु सॊल्लप्पडुगिऱार्, ऎऩ्ऱाल् ‘तियाऩम् सॆय्यप्पड वेण्डिय तऩ्मैयाल् इव्विदम्’ ऎऩ्गिऱोम्।
एवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते; यथा सालग्रामे हरिः। तत्रास्य बुद्धिविज्ञानं ग्राहकम्। सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदति। व्योमवच्चैतद्द्रष्टव्यम्। यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्च व्यपदिश्यते, एवं ब्रह्मापि। तदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं च, न पारमार्थिकम्। तत्र यदाशङ्क्यते — हृदयायतनत्वाद्ब्रह्मणो हृदयानां च प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां च शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ ७ ॥
ज्ञानानन्द-भारती - द्राविडी
इव्विदम्, मिगवुम् सिऱियवरायिरुक्कुम् तऩ्मै मुदलिय कुण समुदायत्तुडऩ् कूडिऩवराग ईसुवरऩ् अङ्गे ह्रुदयगमलत्तिल् निसाय्यराग-तियाऩिक्कप्पड वेण्डियवराग - उबदेसम् सॆय्यप्पडुगिऱार्, सालक्रा मत्तिल् विष्णु ऎप्पडियो अप्पडि अङ्गे, (ह्रुद यत्तिल्) इवरै किरहिप्पदु पुत्तियिऩाल् अऱिवदु।
ज्ञानानन्द-भारती - द्राविडी
ईसुवरऩ् ऎङ्गुमिरुप्पवराऩालुम् अङ्गे उबासिक्कप्पट्टवराय् पिरसादत्तै अडैगिऱार् ‘आगासत्तैप्पोलवुम्’ इदै अऱिय वेण्डुम्। ऎङ्गु मुळ्ळदायिरुक्कुम् आगासमुम् ऊसि, कयिऱु मुदलियदै अबेक्षित्तु सिऱिय इडमुळ्ळदागवुम् मिगच् चिऱियदागवुम् ऎप्पडि कुऱिप्पिडप्पडुगिऱदो, अप्पडिये पिरह्ममुम् इव्विदम् उबासिक्कप्पडवेण्डिय तऩ्मैयै अबेक्षित्तु सिऱिय इडमुळ्ळदऩ्मैयुम् मिगच्चिऱियदा यिरुक्कुम् तऩ्मैयुम् पिरह्मत्तिऱ्कु उण्डु। इदु पारमार्त्तिगम् (वास्तवमायुळ्ळदु) इल्लै।
ज्ञानानन्द-भारती - द्राविडी
पिरह्मत्तिऱ्कु ह्रुदयत्तै इरुप्पिडमायुडैय तऩ्मैयिरुप्पदिऩालुम्, ह्रुदय रूबमाऩ इरुप्पिडङ् गळुम् ऒव्वॊरु सरीरत्तिलुम् वेऱुबट्टिरुप्पदालुम्, वेऱुबट्ट इरुप्पिडङ्गळैयुडैय किळि मुदलियवैग ळुक्कु पलवायिरुक्कुम् तऩ्मै, अवयवङ्गळोडु कूडिय तायिरुक्कुम् तऩ्मै, अनित्यमायिरुक्कुम् तऩ्मै मुदलाऩ तोषङ्गळ् काणुवदाल्, पिरह्मत्तिऱ्कुम् अदैप्पोल एऱ्पडुमे ऎऩ्ऱु अङ्गु ऎदु आक्षेबिक्कप्पट्टदो, अदुवुम् परिहरिक्कप्पट्टदाग आगिऱदु।
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
ज्ञानानन्द-भारती - द्राविडी
सम्बोगप्राप्तिरिदि सेन्न वैसेष्यात् ॥ ८ ॥
व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसम्बन्धात् , चिद्रूपतया च शारीरादविशिष्टत्वात् , सुखदुःखादिसम्भोगोऽप्यविशिष्टः प्रसज्येत। एकत्वाच्च; न हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते, ‘नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३। ७। २३) इत्यादिश्रुतिभ्यः। तस्मात्परस्यैव ब्रह्मणः सम्भोगप्राप्तिरिति चेत् , न; वैशेष्यात्। न तावत्सर्वप्राणिहृदयसम्बन्धात् शारीरवद्ब्रह्मणः सम्भोगप्रसङ्गः, वैशेष्यात्। विशेषो हि भवति शारीरपरमेश्वरयोः। एकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्च। एकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणः। एतस्मादनयोर्विशेषादेकस्य भोगः, नेतरस्य ।
ज्ञानानन्द-भारती - द्राविडी
आगासम् पोल ऎङ्गुमुळ्ळ पिरह्मत्तिऱ्कु ऎल्ला पिराणिगळुडैय ह्रुदयङ्गळुडऩ् सम्बन्द मिरुप्पदाल्, सैदऩ्य स्वरूबमायिरुप्पदाल् सारीरऩै विट्टु वेऱिल्लाददाल्, सुगम्, तुक्कम् मुदलिय वऱ्ऱिऩ् पोगमुम् वित्यासमऩ्ऩियिल् एऱ्पडुम्। ऒऩ्ऱायिरुप् पदालुम्, परमात्मावुक्कु वेऱाग संसारि ऎऩ्ऱु ऒरु आत्मावुम् किडैयादे ‘इवरैत्तविर वेऱु अऱिगिऱवऩ् किडैयादु’ (पिरुहत् ३-७-२३) ऎऩ्बदु मुदलिय सुरुदिगळाल्। आगैयाल् परमात्माविऱ्कुत्ताऩ् संसार सम्बन्दमाऩ पोगङ्गळिऩ् अडैवु, ऎऩ्ऱाल्।
ज्ञानानन्द-भारती - द्राविडी
अप्पडियल्ल ‘वित्तियासमिरुप्पदाल्’ ऎल्ला पिराणिगळुडैय ह्रुदयङ्गळुडऩ् सम्बन्दमिरुप् पदाल् सारीरऩैप्पोल सम्बोगम् एऱ्पडुमॆऩ्बदु इल्लै, वित्तियासमिरुप्पदाल्, सारीरऩुक्कुम्, परमेसुवरऩुक्कुम् वित्तियासम् इरुप्पदु पिरसित्तम्। ऒरुवऩ् कर्त्ता, पोक्ता, तर्मादर्मङ्गळै सादऩमाग उडैयवऩ्, सूगम्, तुक्कम् मुदलियदुडऩ् कूडियवऩुम्; मऱ्ऱवर् अदऱ्कु नेर् विबरीदमाय् पाबमऱ्ऱ तऩ्मै मुदलाऩ कुणङ्गळुडैयवर्। इव्विरुवर्गळुक्कुळ् इन्द वित्तियासम् इरुप्पदाल् ऒरुवऩुक्कु पोगम्, मऱ्ऱवरुक्कु इल्लै।
यदि च सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसम्बन्धोऽभ्युपगम्येत, आकाशादीनामपि दाहादिप्रसङ्गः। सर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौ। यदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति, अत्र वदामः — इदं तावद्देवानांप्रियः प्रष्टव्यः; कथमयं त्वयात्मान्तराभावोऽध्यवसित इति। ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ ‘नान्योऽतोऽस्ति विज्ञाता’ इत्यादिशास्त्रेभ्य इति चेत् , यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः, न तत्रार्धजरतीयं लभ्यम्। शास्त्रं च ‘तत्त्वमसि’ इत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयति। कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः ।
ज्ञानानन्द-भारती - द्राविडी
वस्तुविऩ् सक्तियै कवऩिक्कामल्, पक्कत्ति लिरुप्पदिऩाल् मात्तिरम् कार्यत्तुडऩ् सम्बन्दम् उण्डॆऩ्ऱु ऒप्पुक्कॊळ्ळुम्बक्षत्तिल्, आगासम् मुदलियवैगळुक्कुक्कूड ऎरिवदु मुदलाऩदु एऱ्पड वेण्डुम्।
ज्ञानानन्द-भारती - द्राविडी
ऎङ्गुमुळ्ळदाग अनेग आत्माक्कळ् उण्डॆऩ्ऱु सॊल्गिऱवर्गळुक्कुम् इन्द केळ्वियुम्, परिहारमुम् सममे।
ज्ञानानन्द-भारती - द्राविडी
पिरह्मम् ऒऩ्ऱायिरुप्पदाल्, वेऱु आत्मा किडैयाददिऩाल्, सारीरऩुडैय पोगत्तिऩाल् पिरह्मत्तिऱ्कुम् पोगम् एऱ्पडुमे ऎऩ्बदु ऎदुवो अव्विषयत्तिल् सॊल्गिऱोम्; इदु उऩ्ऩै केट्क वेण्डियिरुक्किऱदु - वेऱु आत्मा किडैयादॆऩ्ऱ इन्द विषयम् उऩ्ऩाल् ऎप्पडि तीर्माऩिक्कप्पट्टदु? ‘नी अदाग इरुक्किऱाय्’ ‘नाऩ् पिरह्ममायिरुक्किऱेऩ्,’ ‘इवरैत् तविर वेऱु अऱिगिऱवर् इल्लै’ इदु मुदलाऩ सास्तिरप्पडियॆऩ्ऱाल्, सास्तिरत्तिल् काण्गिऱबडि अदऩ् अर्त्तम् ऒप्पुक्कॊळ्ळप्पडवेण्डुम्; अदिल् ‘पादि किऴवि’ ऎऩ्ऱ न्यायम् एऱ्पडक्कूडादु। सास्तिरमो, पाबमऱ्ऱ तऩ्मै मुदलाऩ विसेषणङ्गळै उडैय पिरह्मत्तै सारीरऩुडैय आत्मावाग ‘तत्तुवम् असि (नी अदु)’ ऎऩ्ऱु उबदेसित्तुक्कॊण्डु, सारीरऩुक्के पोक्तावायिरुक्कुम् तऩ्मैयै मऱुक्किऱदु। अदऩुडैय पोगत्तिऩाल् पिरह्मत्तिऱ्कु पोगम् एऱ्पडुवदु ऎप्पडि?
अथागृहीतं शारीरस्य ब्रह्मणैकत्वम् , तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः। न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः। न हि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलिनतादिविशिष्टमेव परमार्थतो व्योम भवति। तदाह — न वैशेष्यादिति नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात्। विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोः। मिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम्। न च मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यते। तस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ ८ ॥
ज्ञानानन्द-भारती - द्राविडी
सारीरऩुक्कु पिरह्मत्तुडऩ् ऒऩ्ऱायिरुक्कुम् तऩ्मै अऱियप्पडविल्लैयॆऩ्ऱालो, अप्पॊऴुदु मित्यैयाऩ अक्ञाऩत्तै कारणमायुळ्ळ पोगम् सारीरऩुक्कु उण्डु। अत्तुडऩ् वास्तव स्वरूबमाऩ पिरह्मत्तिऱ्कु सम्बन्दमे किडैयादु। पालर्गळाल् तळमायिरुक्कुम् तऩ्मै अऴुक्कायिरुक्कुम् तऩ्मै मुदलियवैगळुडऩ् कूडियदाग आगासम् कल्बिक्कप् पडुम्बोदु, वास्तवमागवे आगासम् तळमायिरुक्कुम् तऩ्मै अऴुक्कायिरुक्कुम् तऩ्मै मुदलियवैगळुडऩ् कूडिऩदाग आगिविडुगिऱदिल्लैयल्लवा? अदैच् चॊल्गिऱार् ‘इल्लै वित्तियासम् इरुप्पदाल्’ ऎऩ्ऱु। ऒऩ्ऱायिरुक्कुम् तऩ्मैयिरुन्दालुम्गूड सारीरऩुडैय पोगत्तिऩाल् पिरह्मत्तिऱ्कु पोगम् एऱ्पडुम् ऎऩ्बदु किडैयादु, ‘वित्तियासम् इरुप्पदाल्’ पॊय्याऩ अक्ञाऩम् सरियाऩ ञाऩम् ऎऩ्बदिऩाल् वित्तियासम् इरुक्किऱदल्लवा? पॊय्याऩ अक्ञाऩत्तिऩाल् कल्बिक्कप्पट्टदु पोगम्, सरियाऩ ञाऩत्तिऩाल् अऱियप्पट्टदु ऒऩ्ऱायिरुक्कुम् तऩ्मै पॊय्याऩ अक्ञाऩत्तिऩाल् कल्बिक्कप्पट्ट पोगत्तिऩाल् सरियाऩ ञाऩत्तिऩाल् अऱियप्पट्ट वस्तुवै तॊडमुडियादु (पादिक्कप्पडमुडियादु)। आगैयाल् ईसुवरऩुक्कु पोगत्तिऩ् कन्दम्गूड कल्बिक्कमुडियादु।